पुलस्त्य उवाच
विश्वास-प्रस्तुतिः
अथ योगवतां श्रेष्ठमसृजद्भूरिवर्चसम्
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम्१.४०.॥ १ ॥
मूलम्
अथ योगवतां श्रेष्ठमसृजद्भूरिवर्चसम्
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम्१.४०.॥ १ ॥
विश्वास-प्रस्तुतिः
तस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृते
सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्वृते१.४०.॥ २ ॥
मूलम्
तस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृते
सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्वृते१.४०.॥ २ ॥
विश्वास-प्रस्तुतिः
तच्च पद्मं पुराभूतं पृथिवीरूपमुत्तमम्
नारायणसमुद्भूतं प्रवदन्ति महर्षयः१.४०.॥ ३ ॥
मूलम्
तच्च पद्मं पुराभूतं पृथिवीरूपमुत्तमम्
नारायणसमुद्भूतं प्रवदन्ति महर्षयः१.४०.॥ ३ ॥
विश्वास-प्रस्तुतिः
यत्पद्मं सा रसादेवी पृथिवी परिकथ्यते
ये पद्मकेसरा मुख्यास्तान्दिव्यान्पर्वतान्विदुः॥१.४०.॥ ४ ॥
मूलम्
यत्पद्मं सा रसादेवी पृथिवी परिकथ्यते
ये पद्मकेसरा मुख्यास्तान्दिव्यान्पर्वतान्विदुः॥१.४०.॥ ४ ॥
विश्वास-प्रस्तुतिः
हिमवन्तं च नीलं च मेरुं निषधमेव च
कैलासं शृङ्गवन्तं च तथाद्रिं गन्धमादनम्॥१.४०.॥ ५ ॥
मूलम्
हिमवन्तं च नीलं च मेरुं निषधमेव च
कैलासं शृङ्गवन्तं च तथाद्रिं गन्धमादनम्॥१.४०.॥ ५ ॥
विश्वास-प्रस्तुतिः
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च
उदारं पिञ्जरं चैव विन्ध्यमस्तं च पर्वतम्॥१.४०.॥ ६ ॥
मूलम्
पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च
उदारं पिञ्जरं चैव विन्ध्यमस्तं च पर्वतम्॥१.४०.॥ ६ ॥
विश्वास-प्रस्तुतिः
एत एव गणानां च सिद्धानां च महात्मनाम्
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः॥१.४०.॥ ७ ॥
मूलम्
एत एव गणानां च सिद्धानां च महात्मनाम्
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः॥१.४०.॥ ७ ॥
विश्वास-प्रस्तुतिः
एतेषामन्तरे द्वीपो जम्बूद्वीप इति स्मृतः
जम्बुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः॥१.४०.॥ ८ ॥
मूलम्
एतेषामन्तरे द्वीपो जम्बूद्वीप इति स्मृतः
जम्बुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः॥१.४०.॥ ८ ॥
विश्वास-प्रस्तुतिः
तेभ्यो यद्द्रवते तोयं दिव्यामृतरसोपमम्
दिव्यतीर्थशताधाराः सरस्यः सर्वतः स्मृताः॥१.४०.॥ ९ ॥
मूलम्
तेभ्यो यद्द्रवते तोयं दिव्यामृतरसोपमम्
दिव्यतीर्थशताधाराः सरस्यः सर्वतः स्मृताः॥१.४०.॥ ९ ॥
विश्वास-प्रस्तुतिः
यान्येतानीहपद्मस्य केसराणि समन्ततः
असङ्ख्येयाः पृथिव्यां ते विविधाश्चैव पर्वताः॥१.४०.॥ १० ॥
मूलम्
यान्येतानीहपद्मस्य केसराणि समन्ततः
असङ्ख्येयाः पृथिव्यां ते विविधाश्चैव पर्वताः॥१.४०.॥ १० ॥
विश्वास-प्रस्तुतिः
यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव
ते दुर्गमाः शैलचिता म्लेच्छदेशाः प्रकीर्तिताः॥१.४०.॥ ११ ॥
मूलम्
यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव
ते दुर्गमाः शैलचिता म्लेच्छदेशाः प्रकीर्तिताः॥१.४०.॥ ११ ॥
विश्वास-प्रस्तुतिः
यान्यधोभागपत्राणि ता निवासास्तु भागशः
दैत्यानामसुराणां च पन्नगानां च पार्थिव॥१.४०.॥ १२ ॥
मूलम्
यान्यधोभागपत्राणि ता निवासास्तु भागशः
दैत्यानामसुराणां च पन्नगानां च पार्थिव॥१.४०.॥ १२ ॥
विश्वास-प्रस्तुतिः
तेषां मध्येन्तरं यत्तु तद्रसातलसञ्ज्ञितम्
महापातककर्माणो मज्जन्ते यत्र मानवाः॥१.४०.॥ १३ ॥
मूलम्
तेषां मध्येन्तरं यत्तु तद्रसातलसञ्ज्ञितम्
महापातककर्माणो मज्जन्ते यत्र मानवाः॥१.४०.॥ १३ ॥
विश्वास-प्रस्तुतिः
चतुर्दिशासु सङ्ख्याताश्चत्वारः सलिलाकराः
एवं नारायणस्यार्थे मही पुष्कर सम्भवा॥१.४०.॥ १४ ॥
मूलम्
चतुर्दिशासु सङ्ख्याताश्चत्वारः सलिलाकराः
एवं नारायणस्यार्थे मही पुष्कर सम्भवा॥१.४०.॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रादुर्भावोप्ययं तस्मान्नाम्ना पुष्करसञ्ज्ञितः
एतस्मात्कारणाद्यज्ञे पुराणैः परमर्षिभिः॥१.४०.॥ १५ ॥
मूलम्
प्रादुर्भावोप्ययं तस्मान्नाम्ना पुष्करसञ्ज्ञितः
एतस्मात्कारणाद्यज्ञे पुराणैः परमर्षिभिः॥१.४०.॥ १५ ॥
विश्वास-प्रस्तुतिः
यज्ञियैर्वेददृष्टान्तैर्यज्ञैर्यूपचितिः कृता
एवं भगवता तेन विश्वव्याप्यधराचिता॥१.४०.॥ १६ ॥
मूलम्
यज्ञियैर्वेददृष्टान्तैर्यज्ञैर्यूपचितिः कृता
एवं भगवता तेन विश्वव्याप्यधराचिता॥१.४०.॥ १६ ॥
विश्वास-प्रस्तुतिः
पर्वतानां नदीनां च रचना चैव निर्मिता
विश्वस्य यश्चाप्रतिमप्रभावः प्रभाकरा भो वरुणोमितद्युतिः॥१.४०.॥ १७ ॥
मूलम्
पर्वतानां नदीनां च रचना चैव निर्मिता
विश्वस्य यश्चाप्रतिमप्रभावः प्रभाकरा भो वरुणोमितद्युतिः॥१.४०.॥ १७ ॥
विश्वास-प्रस्तुतिः
शनैः स्वयम्भूर्व्यसृजत्सुषुप्तं जगन्मयः पद्मनिधिं महार्णवे
विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः॥१.४०.॥ १८ ॥
मूलम्
शनैः स्वयम्भूर्व्यसृजत्सुषुप्तं जगन्मयः पद्मनिधिं महार्णवे
विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः॥१.४०.॥ १८ ॥
विश्वास-प्रस्तुतिः
तेनैव च सहोद्भूतो ह्यसुरो नाम कैटभः
तौ रजस्तमसोर्भूतौ सम्भूतौ तामसौ गणौ ॥१.४०.॥ १९ ॥
मूलम्
तेनैव च सहोद्भूतो ह्यसुरो नाम कैटभः
तौ रजस्तमसोर्भूतौ सम्भूतौ तामसौ गणौ ॥१.४०.॥ १९ ॥
विश्वास-प्रस्तुतिः
एकार्णवं जगत्सर्वं क्षोभयेतां महाबलौ
दिव्यरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ॥१.४०.॥ २० ॥
मूलम्
एकार्णवं जगत्सर्वं क्षोभयेतां महाबलौ
दिव्यरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ॥१.४०.॥ २० ॥
विश्वास-प्रस्तुतिः
किरीटमकुटोदग्रौ केयूरवलयोज्ज्वलौ
महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ॥१.४०.॥ २१ ॥
मूलम्
किरीटमकुटोदग्रौ केयूरवलयोज्ज्वलौ
महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ॥१.४०.॥ २१ ॥
विश्वास-प्रस्तुतिः
महागिरेः संहननौ जङ्गमाविव पर्वतौ
नवमेघप्रतीकाशावादित्यप्रतिमाननौ॥१.४०.॥ २२ ॥
मूलम्
महागिरेः संहननौ जङ्गमाविव पर्वतौ
नवमेघप्रतीकाशावादित्यप्रतिमाननौ॥१.४०.॥ २२ ॥
विश्वास-प्रस्तुतिः
विपुलाभोगकेयूर कराभ्यामतिभीषणौ
पादसञ्चारविन्यासैर्विक्षिपन्ताविवार्णवम्॥१.४०.॥ २३ ॥
मूलम्
विपुलाभोगकेयूर कराभ्यामतिभीषणौ
पादसञ्चारविन्यासैर्विक्षिपन्ताविवार्णवम्॥१.४०.॥ २३ ॥
विश्वास-प्रस्तुतिः
कम्पयन्तौ हरिमिव शयानं मधुसूदनम्
तौ तत्र विचरन्तौ तु पुष्करे विश्वतोमुखौ॥१.४०.॥ २४ ॥
मूलम्
कम्पयन्तौ हरिमिव शयानं मधुसूदनम्
तौ तत्र विचरन्तौ तु पुष्करे विश्वतोमुखौ॥१.४०.॥ २४ ॥
विश्वास-प्रस्तुतिः
योगिनां श्रेष्ठमत्यन्तं दीप्तं ददृशतुस्तदा
नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः॥१.४०.॥ २५ ॥
मूलम्
योगिनां श्रेष्ठमत्यन्तं दीप्तं ददृशतुस्तदा
नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः॥१.४०.॥ २५ ॥
विश्वास-प्रस्तुतिः
दैवतानि च विश्वानि मानसांश्च सुतानृषीन्
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ॥१.४०.॥ २६ ॥
मूलम्
दैवतानि च विश्वानि मानसांश्च सुतानृषीन्
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ॥१.४०.॥ २६ ॥
विश्वास-प्रस्तुतिः
दुष्टौ युयुत्सू सङ्क्रुद्धौ क्रोधव्याकुलितेक्षणौ
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः॥१.४०.॥ २७ ॥
मूलम्
दुष्टौ युयुत्सू सङ्क्रुद्धौ क्रोधव्याकुलितेक्षणौ
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः॥१.४०.॥ २७ ॥
विश्वास-प्रस्तुतिः
आवामगणयन्मोहादास्से त्वं विगतस्पृहः
एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव॥१.४०.॥ २८ ॥
मूलम्
आवामगणयन्मोहादास्से त्वं विगतस्पृहः
एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव॥१.४०.॥ २८ ॥
विश्वास-प्रस्तुतिः
आवाभ्यां परमेशाभ्यामशक्तः स्थातुमर्णवे
तत्र कश्च भवेत्तुभ्यं येन चात्र नियोजितः॥१.४०.॥ २९ ॥
मूलम्
आवाभ्यां परमेशाभ्यामशक्तः स्थातुमर्णवे
तत्र कश्च भवेत्तुभ्यं येन चात्र नियोजितः॥१.४०.॥ २९ ॥
विश्वास-प्रस्तुतिः
कः स्रष्टा कश्च ते गोप्ता केन नाम्नाभिधीयते
ब्रह्मोवाच
ईश्वरः प्रोच्यते लोके विष्णुश्चानन्तशक्तिधृत्॥१.४०.॥ ३० ॥
मूलम्
कः स्रष्टा कश्च ते गोप्ता केन नाम्नाभिधीयते
ब्रह्मोवाच
ईश्वरः प्रोच्यते लोके विष्णुश्चानन्तशक्तिधृत्॥१.४०.॥ ३० ॥
विश्वास-प्रस्तुतिः
तत्सकाशात्तु जातं मां स्रष्टारमवगच्छतम्
मधुकैटभा ऊचतुः
नावयोः परमं लोके किञ्चिदस्ति महामुने॥१.४०.॥ ३१ ॥
मूलम्
तत्सकाशात्तु जातं मां स्रष्टारमवगच्छतम्
मधुकैटभा ऊचतुः
नावयोः परमं लोके किञ्चिदस्ति महामुने॥१.४०.॥ ३१ ॥
विश्वास-प्रस्तुतिः
आवाभ्यां च्छाद्यते विश्वं तमसा रजसा च वै
रजस्तमोमयावावामृषीणामतिलङ्घिनौ॥१.४०.॥ ३२ ॥
मूलम्
आवाभ्यां च्छाद्यते विश्वं तमसा रजसा च वै
रजस्तमोमयावावामृषीणामतिलङ्घिनौ॥१.४०.॥ ३२ ॥
विश्वास-प्रस्तुतिः
धर्म शीलं च्छादयन्तौ नाशकौ सर्वदेहिनाम्
आवाभ्यां युज्यते लोको दुस्तराभ्यां युगे युगे॥१.४०.॥ ३३ ॥
मूलम्
धर्म शीलं च्छादयन्तौ नाशकौ सर्वदेहिनाम्
आवाभ्यां युज्यते लोको दुस्तराभ्यां युगे युगे॥१.४०.॥ ३३ ॥
विश्वास-प्रस्तुतिः
आवामर्थश्च कामश्च यज्ञस्सर्वपरिग्रहः
सुखं यत्र मदो यत्र यत्र श्रीः कीर्तिरेव च॥१.४०.॥ ३४ ॥
मूलम्
आवामर्थश्च कामश्च यज्ञस्सर्वपरिग्रहः
सुखं यत्र मदो यत्र यत्र श्रीः कीर्तिरेव च॥१.४०.॥ ३४ ॥
विश्वास-प्रस्तुतिः
येषां यत्काङ्क्षितं किञ्चित्तत्तदावां विचिन्तय
ब्रह्मोवाच
आवाभ्यां संहतौ दृष्ट्वा युवां पूर्वं पराजितौ॥१.४०.॥ ३५ ॥
मूलम्
येषां यत्काङ्क्षितं किञ्चित्तत्तदावां विचिन्तय
ब्रह्मोवाच
आवाभ्यां संहतौ दृष्ट्वा युवां पूर्वं पराजितौ॥१.४०.॥ ३५ ॥
विश्वास-प्रस्तुतिः
तं समाधाय गुणिनं सत्वं चास्मि समाश्रितः
यः परो योगयुक्तात्मा योक्षरः सत्वमेव च॥१.४०.॥ ३६ ॥
मूलम्
तं समाधाय गुणिनं सत्वं चास्मि समाश्रितः
यः परो योगयुक्तात्मा योक्षरः सत्वमेव च॥१.४०.॥ ३६ ॥
विश्वास-प्रस्तुतिः
रजसस्तमसश्चैव यः स्रष्टा विश्वसम्भवः
ततो भूतानि जायन्ते सात्विकानीतराणि च॥१.४०.॥ ३७ ॥
मूलम्
रजसस्तमसश्चैव यः स्रष्टा विश्वसम्भवः
ततो भूतानि जायन्ते सात्विकानीतराणि च॥१.४०.॥ ३७ ॥
विश्वास-प्रस्तुतिः
स एव युवयोर्नाशं वासुदेवः करिष्यति
स्वपन्नेव ततो देवो बहुयोजनविस्तृतौ॥१.४०.॥ ३८ ॥
मूलम्
स एव युवयोर्नाशं वासुदेवः करिष्यति
स्वपन्नेव ततो देवो बहुयोजनविस्तृतौ॥१.४०.॥ ३८ ॥
विश्वास-प्रस्तुतिः
बाहू नारायणो ब्रह्म कृतवानात्ममायया
कृष्यमाणौ ततस्तस्य बाहुभ्यां बाहुशालिनौ॥१.४०.॥ ३९ ॥
मूलम्
बाहू नारायणो ब्रह्म कृतवानात्ममायया
कृष्यमाणौ ततस्तस्य बाहुभ्यां बाहुशालिनौ॥१.४०.॥ ३९ ॥
विश्वास-प्रस्तुतिः
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ
ततस्तावाहतुर्गत्वा वासुदेवं सनातनम्॥१.४०.॥ ४० ॥
मूलम्
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ
ततस्तावाहतुर्गत्वा वासुदेवं सनातनम्॥१.४०.॥ ४० ॥
विश्वास-प्रस्तुतिः
पद्मनाभं हृषीकेशं प्रणिपत्य नतावुभौ
जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्॥१.४०.॥ ४१ ॥
मूलम्
पद्मनाभं हृषीकेशं प्रणिपत्य नतावुभौ
जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्॥१.४०.॥ ४१ ॥
विश्वास-प्रस्तुतिः
आवयोश्चैव हेतुं त्वां जानन्तौ बुद्धिकारणम्
अमोघदर्शनं सत्यं यतस्त्वां विद्व(?)शाश्वतम्॥१.४०.॥ ४२ ॥
मूलम्
आवयोश्चैव हेतुं त्वां जानन्तौ बुद्धिकारणम्
अमोघदर्शनं सत्यं यतस्त्वां विद्व(?)शाश्वतम्॥१.४०.॥ ४२ ॥
विश्वास-प्रस्तुतिः
ततस्त्वामभितो देव काङ्क्षावः प्रसमीक्षितुम्
अमोघदर्शनोसि त्वं नमस्ते समितिञ्जय॥१.४०.॥ ४३ ॥
मूलम्
ततस्त्वामभितो देव काङ्क्षावः प्रसमीक्षितुम्
अमोघदर्शनोसि त्वं नमस्ते समितिञ्जय॥१.४०.॥ ४३ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
किमर्थं मामनुब्रूथ युवामसुरसत्तमौ
गतायुष्कौ युवां भूयस्त्वहो जीवितुमिच्छथः॥१.४०.॥ ४४ ॥
मूलम्
श्रीभगवानुवाच
किमर्थं मामनुब्रूथ युवामसुरसत्तमौ
गतायुष्कौ युवां भूयस्त्वहो जीवितुमिच्छथः॥१.४०.॥ ४४ ॥
विश्वास-प्रस्तुतिः
मधुकैटभा ऊचतुः
यस्मिन्न कश्चिन्मृतवान्देव तस्मिन्वधं प्रभो
इच्छावः पुत्रतां चैव भवतः सुमहातपः॥१.४०.॥ ४५ ॥
मूलम्
मधुकैटभा ऊचतुः
यस्मिन्न कश्चिन्मृतवान्देव तस्मिन्वधं प्रभो
इच्छावः पुत्रतां चैव भवतः सुमहातपः॥१.४०.॥ ४५ ॥
विश्वास-प्रस्तुतिः
श्रीभगवानुवाच
युवयोर्बाढमेतत्स्याद्भविष्ये कलिसम्भवे
भविष्यथो न सन्देहः सत्यमेतद्ब्रवीमि वाम्॥१.४०.॥ ४६ ॥
मूलम्
श्रीभगवानुवाच
युवयोर्बाढमेतत्स्याद्भविष्ये कलिसम्भवे
भविष्यथो न सन्देहः सत्यमेतद्ब्रवीमि वाम्॥१.४०.॥ ४६ ॥
विश्वास-प्रस्तुतिः
वरं प्रदायाथ महासुराभ्यां सनातनो विश्वधरः सुरोत्तमः
रजस्तमोजौ तु तदाञ्जनोपमौ ममर्द तावूरुतलेऽमरप्रभुः॥१.४०.॥ ४७ ॥
मूलम्
वरं प्रदायाथ महासुराभ्यां सनातनो विश्वधरः सुरोत्तमः
रजस्तमोजौ तु तदाञ्जनोपमौ ममर्द तावूरुतलेऽमरप्रभुः॥१.४०.॥ ४७ ॥
विश्वास-प्रस्तुतिः
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदांवरः
ऊर्ध्वबाहुर्महातेजास्तपोघोरं समाश्रितः॥१.४०.॥ ४८ ॥
मूलम्
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदांवरः
ऊर्ध्वबाहुर्महातेजास्तपोघोरं समाश्रितः॥१.४०.॥ ४८ ॥
विश्वास-प्रस्तुतिः
प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः
बभाषे स तु धर्मात्मा सहस्रांशुरिवांशुभिः॥१.४०.॥ ४९ ॥
मूलम्
प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः
बभाषे स तु धर्मात्मा सहस्रांशुरिवांशुभिः॥१.४०.॥ ४९ ॥
विश्वास-प्रस्तुतिः
अथान्यद्रूपमास्थाय प्रभुर्नरायणोव्ययः
आजगाम महातेजा योगाचार्यो महायशाः॥१.४०.॥ ५० ॥
मूलम्
अथान्यद्रूपमास्थाय प्रभुर्नरायणोव्ययः
आजगाम महातेजा योगाचार्यो महायशाः॥१.४०.॥ ५० ॥
विश्वास-प्रस्तुतिः
साङ्ख्याचार्यश्च मतिमान्कपिलो ब्रह्मणां वरः
उभावपि महात्मानौ पूजितौ तत्र तत्परौ॥१.४०.॥ ५१ ॥
मूलम्
साङ्ख्याचार्यश्च मतिमान्कपिलो ब्रह्मणां वरः
उभावपि महात्मानौ पूजितौ तत्र तत्परौ॥१.४०.॥ ५१ ॥
विश्वास-प्रस्तुतिः
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्
परावरविशेषज्ञौ पूजितौ च महर्षिभिः॥१.४०.॥ ५२ ॥
मूलम्
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्
परावरविशेषज्ञौ पूजितौ च महर्षिभिः॥१.४०.॥ ५२ ॥
विश्वास-प्रस्तुतिः
ब्रह्म सम्परिवेद्यं ते विशाल जगदास्थितौ
ग्रामणीस्सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः॥१.४०.॥ ५३ ॥
मूलम्
ब्रह्म सम्परिवेद्यं ते विशाल जगदास्थितौ
ग्रामणीस्सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः॥१.४०.॥ ५३ ॥
विश्वास-प्रस्तुतिः
तयोस्तद्वचनं श्रुत्वा विबोध्यगतयोः परम्
त्रीनिमान्कृतवान्लोकान्यथेयं ब्रह्मणः श्रुतिः॥१.४०.॥ ५४ ॥
मूलम्
तयोस्तद्वचनं श्रुत्वा विबोध्यगतयोः परम्
त्रीनिमान्कृतवान्लोकान्यथेयं ब्रह्मणः श्रुतिः॥१.४०.॥ ५४ ॥
विश्वास-प्रस्तुतिः
पुत्रं स्वसम्भवं चैकं समुत्पादितवान्भुवम्
तदाग्रे चागतस्तस्य ब्रह्ममानससम्भवः॥१.४०.॥ ५५ ॥
मूलम्
पुत्रं स्वसम्भवं चैकं समुत्पादितवान्भुवम्
तदाग्रे चागतस्तस्य ब्रह्ममानससम्भवः॥१.४०.॥ ५५ ॥
विश्वास-प्रस्तुतिः
उत्पन्नमात्रो ब्रह्माणमुक्तवान्मानसः सुतः
किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानिति॥१.४०.॥ ५६ ॥
मूलम्
उत्पन्नमात्रो ब्रह्माणमुक्तवान्मानसः सुतः
किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानिति॥१.४०.॥ ५६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
यदेष कपिलो नाम ब्रह्मनारायणस्तथा
वदतो भवतस्त्वं तु तत्कुरुष्व महामते॥१.४०.॥ ५७ ॥
मूलम्
ब्रह्मोवाच
यदेष कपिलो नाम ब्रह्मनारायणस्तथा
वदतो भवतस्त्वं तु तत्कुरुष्व महामते॥१.४०.॥ ५७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणा स तथोक्तस्तौ प्राह भूप समुत्थितः
शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलि॥१.४०.॥ ५८ ॥
मूलम्
ब्रह्मणा स तथोक्तस्तौ प्राह भूप समुत्थितः
शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलि॥१.४०.॥ ५८ ॥
विश्वास-प्रस्तुतिः
श्रीभवगवानुवाच
यत्सत्यमक्षरं ब्रह्म अष्टादशविधं च तत्
यत्सत्यममृतं तत्तु परं पदमनुस्मर॥१.४०.॥ ५९ ॥
मूलम्
श्रीभवगवानुवाच
यत्सत्यमक्षरं ब्रह्म अष्टादशविधं च तत्
यत्सत्यममृतं तत्तु परं पदमनुस्मर॥१.४०.॥ ५९ ॥
विश्वास-प्रस्तुतिः
एतद्वचो निशम्यैवं स ययौ दिशमुत्तरां
गत्वा च तत्र स ब्रह्म अगमज्ज्ञानचक्षुषा॥१.४०.॥ ६० ॥
मूलम्
एतद्वचो निशम्यैवं स ययौ दिशमुत्तरां
गत्वा च तत्र स ब्रह्म अगमज्ज्ञानचक्षुषा॥१.४०.॥ ६० ॥
विश्वास-प्रस्तुतिः
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत्प्रभुः
सङ्कल्पयित्वा मनसा तमेव च महामनाः॥१.४०.॥ ६१ ॥
मूलम्
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत्प्रभुः
सङ्कल्पयित्वा मनसा तमेव च महामनाः॥१.४०.॥ ६१ ॥
विश्वास-प्रस्तुतिः
ततः सोप्यब्रवीद्वाक्यं किं करोमि पितामह
पितामहसमा ज्ञातो ब्रह्माणं समुपस्थितः॥१.४०.॥ ६२ ॥
मूलम्
ततः सोप्यब्रवीद्वाक्यं किं करोमि पितामह
पितामहसमा ज्ञातो ब्रह्माणं समुपस्थितः॥१.४०.॥ ६२ ॥
विश्वास-प्रस्तुतिः
ब्राह्मणस्यामृतरसोनुभूतस्तेन वै ततः
प्राप्तः सपरमंस्थानं स तयोः पार्श्वमागतः॥१.४०.॥ ६३ ॥
मूलम्
ब्राह्मणस्यामृतरसोनुभूतस्तेन वै ततः
प्राप्तः सपरमंस्थानं स तयोः पार्श्वमागतः॥१.४०.॥ ६३ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नपि गते सोथ तृतीयमसृजत्प्रभुः
मोक्षप्रवृत्तिकुशलं सुवर्नामयुतः प्रभुः॥१.४०.॥ ६४ ॥
मूलम्
तस्मिन्नपि गते सोथ तृतीयमसृजत्प्रभुः
मोक्षप्रवृत्तिकुशलं सुवर्नामयुतः प्रभुः॥१.४०.॥ ६४ ॥
विश्वास-प्रस्तुतिः
सोपि तन्धर्ममास्थाय तयोरेवागमद्गतिं
एवं पुत्रास्त्रयोप्येते गताः शम्भोर्महात्मनः॥१.४०.॥ ६५ ॥
मूलम्
सोपि तन्धर्ममास्थाय तयोरेवागमद्गतिं
एवं पुत्रास्त्रयोप्येते गताः शम्भोर्महात्मनः॥१.४०.॥ ६५ ॥
विश्वास-प्रस्तुतिः
तान्गृहीत्वा सुतांस्तस्य तौ गतावूर्जितां गतिं
नारायणश्च भगवान्कपिलश्च यतीश्वरः॥१.४०.॥ ६६ ॥
मूलम्
तान्गृहीत्वा सुतांस्तस्य तौ गतावूर्जितां गतिं
नारायणश्च भगवान्कपिलश्च यतीश्वरः॥१.४०.॥ ६६ ॥
विश्वास-प्रस्तुतिः
यं कालं ते गता ब्रह्म ब्रह्मा तं कालमेव च
तपोघोरतरं भूयः संश्रितः परमं पदं॥१.४०.॥ ६७ ॥
मूलम्
यं कालं ते गता ब्रह्म ब्रह्मा तं कालमेव च
तपोघोरतरं भूयः संश्रितः परमं पदं॥१.४०.॥ ६७ ॥
विश्वास-प्रस्तुतिः
न च शक्तस्ततो ब्रह्मा प्रभुरेकस्तपश्चरन्
शरीरार्धात्ततो भार्यामुत्पादयति तच्छुभाम्॥१.४०.॥ ६८ ॥
मूलम्
न च शक्तस्ततो ब्रह्मा प्रभुरेकस्तपश्चरन्
शरीरार्धात्ततो भार्यामुत्पादयति तच्छुभाम्॥१.४०.॥ ६८ ॥
विश्वास-प्रस्तुतिः
आत्मनः सदृशान्पुत्रानसृजद्वै पितामहः
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः॥१.४०.॥ ६९ ॥
मूलम्
आत्मनः सदृशान्पुत्रानसृजद्वै पितामहः
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः॥१.४०.॥ ६९ ॥
विश्वास-प्रस्तुतिः
विश्वेशं प्रथमं तावन्महात्मा तपसात्मजम्
सर्वत्रसंहतं पुण्यं नाम्ना धर्मं स सृष्टवान्॥१.४०.॥ ७० ॥
मूलम्
विश्वेशं प्रथमं तावन्महात्मा तपसात्मजम्
सर्वत्रसंहतं पुण्यं नाम्ना धर्मं स सृष्टवान्॥१.४०.॥ ७० ॥
विश्वास-प्रस्तुतिः
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं कतुम्
वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मुनिं॥१.४०.॥ ७१ ॥
मूलम्
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं कतुम्
वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मुनिं॥१.४०.॥ ७१ ॥
विश्वास-प्रस्तुतिः
अत्यद्भुतास्स्वकृत्येन ज्ञेयास्ते तु महर्षयः
त्रयोदशगुणारम्भा ये वंशास्तु महर्षिणां॥१.४०.॥ ७२ ॥
मूलम्
अत्यद्भुतास्स्वकृत्येन ज्ञेयास्ते तु महर्षयः
त्रयोदशगुणारम्भा ये वंशास्तु महर्षिणां॥१.४०.॥ ७२ ॥
विश्वास-प्रस्तुतिः
अदितिर्दितिर्दनुः काला अनायुः सिंहिका खसा
प्राची क्रोधा च सुरसा विनता कद्रुरेव च॥१.४०.॥ ७३ ॥
मूलम्
अदितिर्दितिर्दनुः काला अनायुः सिंहिका खसा
प्राची क्रोधा च सुरसा विनता कद्रुरेव च॥१.४०.॥ ७३ ॥
विश्वास-प्रस्तुतिः
दक्षस्यापत्यमेतद्वै कन्या द्वादश पार्थिव
नक्षत्राणि च चन्द्रस्य विंशतिस्सप्त चोर्जिताः॥१.४०.॥ ७४ ॥
मूलम्
दक्षस्यापत्यमेतद्वै कन्या द्वादश पार्थिव
नक्षत्राणि च चन्द्रस्य विंशतिस्सप्त चोर्जिताः॥१.४०.॥ ७४ ॥
विश्वास-प्रस्तुतिः
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल
तस्मै द्वादशकन्याश्च दक्षस्ताश्चान्वमन्यत॥१.४०.॥ ७५ ॥
मूलम्
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल
तस्मै द्वादशकन्याश्च दक्षस्ताश्चान्वमन्यत॥१.४०.॥ ७५ ॥
विश्वास-प्रस्तुतिः
नक्षत्राणि च सोमाय तथैवं दत्तवानृषिः
रोहिण्यादीनि सर्वाणि पुण्यानि कुरुनन्दन॥१.४०.॥ ७६ ॥
मूलम्
नक्षत्राणि च सोमाय तथैवं दत्तवानृषिः
रोहिण्यादीनि सर्वाणि पुण्यानि कुरुनन्दन॥१.४०.॥ ७६ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीस्सरस्वती सन्ध्या विश्वेशा च महायशाः
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा॥१.४०.॥ ७७ ॥
मूलम्
लक्ष्मीस्सरस्वती सन्ध्या विश्वेशा च महायशाः
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा॥१.४०.॥ ७७ ॥
विश्वास-प्रस्तुतिः
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टकर्मणा॥१.४०.॥ ७८ ॥
मूलम्
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टकर्मणा॥१.४०.॥ ७८ ॥
विश्वास-प्रस्तुतिः
या रूपार्धवती पत्नी ब्रह्मणः कामरूपिणी
सुरभिः सहसा भूत्वा ब्रह्माणं समुपस्थिता॥१.४०.॥ ७९ ॥
मूलम्
या रूपार्धवती पत्नी ब्रह्मणः कामरूपिणी
सुरभिः सहसा भूत्वा ब्रह्माणं समुपस्थिता॥१.४०.॥ ७९ ॥
विश्वास-प्रस्तुतिः
ततस्तामगमद्ब्रह्मा मैथुने लोकपूजितः
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तम॥१.४०.॥ ८० ॥
मूलम्
ततस्तामगमद्ब्रह्मा मैथुने लोकपूजितः
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तम॥१.४०.॥ ८० ॥
विश्वास-प्रस्तुतिः
जज्ञे चैकादशसुतान्विपुलान्धर्मसञ्ज्ञितान्
रक्तसन्ध्याभ्रसङ्काशान्महतस्तिग्मतेजसः॥१.४०.॥ ८१ ॥
मूलम्
जज्ञे चैकादशसुतान्विपुलान्धर्मसञ्ज्ञितान्
रक्तसन्ध्याभ्रसङ्काशान्महतस्तिग्मतेजसः॥१.४०.॥ ८१ ॥
विश्वास-प्रस्तुतिः
ते रुदन्तो द्रवन्तश्च गतवन्तः पितामहम्
रोदनाद्द्रवणाच्चैव रुद्रा एवेति ते स्मृताः॥१.४०.॥ ८२ ॥
मूलम्
ते रुदन्तो द्रवन्तश्च गतवन्तः पितामहम्
रोदनाद्द्रवणाच्चैव रुद्रा एवेति ते स्मृताः॥१.४०.॥ ८२ ॥
विश्वास-प्रस्तुतिः
निर्हृतिश्चैव सन्ध्यश्च तृतीयश्चाप्ययोनिजः
मृगव्याधः कपर्दी च महाविश्वेश्वरश्च यः॥१.४०.॥ ८३ ॥
मूलम्
निर्हृतिश्चैव सन्ध्यश्च तृतीयश्चाप्ययोनिजः
मृगव्याधः कपर्दी च महाविश्वेश्वरश्च यः॥१.४०.॥ ८३ ॥
विश्वास-प्रस्तुतिः
अहिर्बुध्न्यश्च भगवान्कपाली चैव पिङ्गलः
सेनानीश्च महातेजा रुद्राश्चैकादश स्मृताः॥१.४०.॥ ८४ ॥
मूलम्
अहिर्बुध्न्यश्च भगवान्कपाली चैव पिङ्गलः
सेनानीश्च महातेजा रुद्राश्चैकादश स्मृताः॥१.४०.॥ ८४ ॥
विश्वास-प्रस्तुतिः
तस्यामेव सुरभ्यां च गावो जाताः सुराश्च ये
अजश्चैव तु हंसश्च तथैव नृपसत्तम॥१.४०.॥ ८५ ॥
मूलम्
तस्यामेव सुरभ्यां च गावो जाताः सुराश्च ये
अजश्चैव तु हंसश्च तथैव नृपसत्तम॥१.४०.॥ ८५ ॥
विश्वास-प्रस्तुतिः
ओषध्यः प्रवरायाश्च सुरभ्यास्तास्समुत्थिताः
धर्माल्लक्ष्मीस्तथाकामं साध्यान्साध्या व्यजायत॥१.४०.॥ ८६ ॥
मूलम्
ओषध्यः प्रवरायाश्च सुरभ्यास्तास्समुत्थिताः
धर्माल्लक्ष्मीस्तथाकामं साध्यान्साध्या व्यजायत॥१.४०.॥ ८६ ॥
विश्वास-प्रस्तुतिः
भवं च प्रभवं चैव कृशाश्वं सुवहं तथा
अरुणं वरुणं चैव विश्वामित्र चल ध्रुवौ॥१.४०.॥ ८७ ॥
मूलम्
भवं च प्रभवं चैव कृशाश्वं सुवहं तथा
अरुणं वरुणं चैव विश्वामित्र चल ध्रुवौ॥१.४०.॥ ८७ ॥
विश्वास-प्रस्तुतिः
हविष्मन्तं तनूजं च विधानाभिमतावपि
वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्॥१.४०.॥ ८८ ॥
मूलम्
हविष्मन्तं तनूजं च विधानाभिमतावपि
वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्॥१.४०.॥ ८८ ॥
विश्वास-प्रस्तुतिः
सुपर्वाणं बृहत्कान्तिं साध्या लोकनमस्कृतम्
वासवानुगता देवी जनयामास वै सुरान्॥१.४०.॥ ८९ ॥
मूलम्
सुपर्वाणं बृहत्कान्तिं साध्या लोकनमस्कृतम्
वासवानुगता देवी जनयामास वै सुरान्॥१.४०.॥ ८९ ॥
विश्वास-प्रस्तुतिः
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरं॥१.४०.॥ ९० ॥
मूलम्
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरं॥१.४०.॥ ९० ॥
विश्वास-प्रस्तुतिः
ततोनुरूपमायं च यमं तस्मादनन्तरम्
सप्तमं च तथा वायुमष्टमं निर्हृतिं तथा॥१.४०.॥ ९१ ॥
मूलम्
ततोनुरूपमायं च यमं तस्मादनन्तरम्
सप्तमं च तथा वायुमष्टमं निर्हृतिं तथा॥१.४०.॥ ९१ ॥
विश्वास-प्रस्तुतिः
धर्मस्यापत्यमेतद्वै सुरभ्यां तदजायत
विश्वेदेवाश्च विश्वायां धर्माज्जाता इति स्मृताः॥१.४०.॥ ९२ ॥
मूलम्
धर्मस्यापत्यमेतद्वै सुरभ्यां तदजायत
विश्वेदेवाश्च विश्वायां धर्माज्जाता इति स्मृताः॥१.४०.॥ ९२ ॥
विश्वास-प्रस्तुतिः
दक्षश्चैव महाबाहुः पुष्करस्तम एव च
चाक्षुषश्च ततोत्रिश्च तथा भद्रमहोरगौ॥१.४०.॥ ९३ ॥
मूलम्
दक्षश्चैव महाबाहुः पुष्करस्तम एव च
चाक्षुषश्च ततोत्रिश्च तथा भद्रमहोरगौ॥१.४०.॥ ९३ ॥
विश्वास-प्रस्तुतिः
विश्वान्तक वसुर्बालो निकुम्भश्च महायशाः
रुरुदश्चातिसिद्धौजा भास्कर प्रमितद्युतिः॥१.४०.॥ ९४ ॥
मूलम्
विश्वान्तक वसुर्बालो निकुम्भश्च महायशाः
रुरुदश्चातिसिद्धौजा भास्कर प्रमितद्युतिः॥१.४०.॥ ९४ ॥
विश्वास-प्रस्तुतिः
विश्वान्देवान्देवमाता विश्वेषां जनयत्सुतान्
मरुत्वती मरुत्वतो देवानजनयत्सुतान्॥१.४०.॥ ९५ ॥
मूलम्
विश्वान्देवान्देवमाता विश्वेषां जनयत्सुतान्
मरुत्वती मरुत्वतो देवानजनयत्सुतान्॥१.४०.॥ ९५ ॥
विश्वास-प्रस्तुतिः
अग्निश्चक्षू रविर्ज्योतिः सावित्री मित्रमेव च
अमरं शरवृष्टिं च सुकर्षं च महत्तरम्॥१.४०.॥ ९६ ॥
मूलम्
अग्निश्चक्षू रविर्ज्योतिः सावित्री मित्रमेव च
अमरं शरवृष्टिं च सुकर्षं च महत्तरम्॥१.४०.॥ ९६ ॥
विश्वास-प्रस्तुतिः
विराजं चैव राजं च विश्वायुं सुमतिं तथा
अश्वगं चित्ररश्मिं च तथा च निषधं नृपं॥१.४०.॥ ९७ ॥
मूलम्
विराजं चैव राजं च विश्वायुं सुमतिं तथा
अश्वगं चित्ररश्मिं च तथा च निषधं नृपं॥१.४०.॥ ९७ ॥
विश्वास-प्रस्तुतिः
भूय एवं चात्मविधिं चारित्रं पादमात्रगं
बृहन्तं वै बृहद्रूपं तथा चैव सनाभिगं॥१.४०.॥ ९८ ॥
मूलम्
भूय एवं चात्मविधिं चारित्रं पादमात्रगं
बृहन्तं वै बृहद्रूपं तथा चैव सनाभिगं॥१.४०.॥ ९८ ॥
विश्वास-प्रस्तुतिः
मरुत्वती प्रजा जज्ञे ज्येष्ठां तं मरुताङ्गणं
अदितिः कश्यपाज्जज्ञे आदित्यान्द्वादशैव हि॥१.४०.॥ ९९ ॥
मूलम्
मरुत्वती प्रजा जज्ञे ज्येष्ठां तं मरुताङ्गणं
अदितिः कश्यपाज्जज्ञे आदित्यान्द्वादशैव हि॥१.४०.॥ ९९ ॥
इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंशोर्यमारविः
पूषा मित्रश्च वरदो धाता पर्जन्य एव हि॥१.४०.१००
इत्येते द्वादशादित्या वरिष्टास्त्रिदिवौकसां
आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ॥१.४०.१०१
तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यातिसम्मतौ
दनुस्तु दानवान्जज्ञे दितिर्दैत्यान्व्यजायत॥१.४०.१०२
काला तु कालकेयांस्तानसुरान्राक्षसांस्तथा
अनायुषायास्तनया व्याधयश्च महाबलाः॥१.४०.१०३
सिंहिका ग्रहमाता च गन्धर्वजननी मुनिः
प्राची त्वप्सरसां माता पुण्यानां भारतेतरा॥१.४०.१०४
क्रोधा साः सर्वभूतानि पिशाचा सा च पार्थिव
जज्ञे यक्षगणांश्चैव राक्षसांश्च विशाम्पते॥१.४०.१०५
चतुष्पदानि सत्वानि एता गाश्चैव सौरभी
पुराणपुरुषश्चैव मायां विष्णुर्हरिः प्रभुः॥१.४०.१०६
कथितस्तेनुपूर्वेण संस्तुतश्च महर्षिभिः
यश्चेदमग्र्यं शृणुयात्पुराणं सदा नरः पर्वसु चेत्पठेत॥१.४०.१०७
अवाप्यलोकं स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्॥१.४०.१०८
प्रसादयति यः कृष्णं तस्य कृष्णः प्रसीदति
राज्यं च लभते राजा निर्धनश्चोत्तमं धनम्॥१.४०.१०९
क्षीणायुर्लभते चायुः पुत्रकामोथ सन्ततिम्
यज्ञार्थिनस्तथा कामांस्तपांसि विविधानि च॥१.४०.११०
यं यं कामयते कामं तं तं लोकेश्वराल्लभेत्
सर्वं विहाय य इमं पठेद्वै पौष्करं हरेः॥१.४०.१११
प्रादुर्भावं नरश्रेष्ठ न तस्य ह्यशुभं भवेत्
एष पौष्करकोनाम प्रादुर्भावो महात्मनः॥१.४०.११२
कीर्तितस्तु महाराज व्यासश्रुतिनिदर्शनात्
विष्णुत्वं शृणु मे विष्णोर्हरित्वं च कृतेयुगे॥१.४०.११३
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च
ईश्वरस्य हितस्यैषा कर्मणां गहना गतिः॥१.४०.११४
साम्प्रतं भूतभव्यं च शृणु राजन्यथातथं
अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः॥१.४०.११५
नारायणो ह्यनन्तात्मा प्रभवाप्यय एव च
एष नारायणो भूत्वा हरिरासीत्सनातनः॥१.४०.११६
ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः
अदितेरपि पुत्रत्वमेत्यजः कुरुनन्दन॥१.४०.११७
एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः
प्रसादनं तस्यविभोरदित्याः पुत्रकारणम्॥१.४०.११८
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्
ससर्जाथ सुरान्कल्पे ब्रह्माणं च प्रजापतीन्॥१.४०.११९
असृजन्मानसांस्तत्र ब्रह्मवंशाननुत्तमान्
तेभ्योभवन्महात्मभ्यः परम्ब्रह्म सनातनम्॥१.४०.१२०
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तितं
कीर्त्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे॥१.४०.१२१
वृत्ते वृत्रवधे भीष्म वर्तमाने कृतेयुगे
आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः॥१.४०.१२२
यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः
घ्नन्ति देवासुरान्सर्वान्सयक्षोरगराक्षसान्॥१.४०.१२३
ते वध्यमाना विमुखाश्छिन्नप्रहरणा रणे
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम्॥१.४०.१२४
एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः
सार्कचन्द्रग्रहगणं च्छादयन्तो नभस्तलम्॥१.४०.१२५
चण्डविद्युद्गणोपेता घोरनिर्ह्रादकारिणः
अन्योन्यवेगाभिहताः प्रववुः सप्तमारुताः॥१.४०.१२६
दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः
रवैस्सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम्॥१.४०.१२७
पेतुरुल्कासहस्राणि निपेतुः खचराण्यपि
दैवानि च विमानानि प्रपतन्त्युत्पतन्ति च॥१.४०.१२८
चतुर्युगान्तसमये लोकानां यद्भयं भवेत्
अरूपवति रूपाणि तस्मिन्नुत्पातलक्षणे॥१.४०.१२९
तस्माद्दुष्प्रथितं सर्वं न प्राज्ञायत किञ्चन
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश॥१.४०.१३०
विवेश रूपिणी काली कालमेघावगुण्ठिता
द्यौर्नभात्यभिभूतार्का घोरेण तमसा वृता॥१.४०.१३१
तां घनौघां सतिमिरां दोर्भ्यामाछिद्य स प्रभुः
वपुः स्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः॥१.४०.१३२
बलाहकाञ्जननिभं बलाहकतनूरुहम्
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्॥१.४०.१३३
दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम्
धूम्रान्धकारवपुषं युगान्ताग्निमिवोत्थितम्॥१.४०.१३४
वृत्तद्विगुणपीनां सङ्किरीटाच्छन्नमूर्धजम्
बभौ चामीकरप्रख्यैरायुधैरुपशोभितम्॥१.४०.१३५
चन्द्रार्ककिरणोद्योतं गिरिकूटमिवोच्छ्रितम्
नन्दकानन्दितकरं कौस्तुभोद्भासितोरसम्॥१.४०.१३६
शक्तिचित्रफलोदग्रं शङ्खचक्रगदाधरम्
विष्णुशैलं क्षमाशीलं श्रीवत्सं शार्ङ्गपाणिनम्॥१.४०.१३७
त्रिदशोदारफलदं स्वर्गस्त्रीचारुवल्लभम्
सर्वलोकमनःकान्तं सर्वसत्वमनोहरम्॥१.४०.१३८
मायाविशालविटपं तोयदौघसमप्रभम्
विद्याहङ्कारमानाढ्य महाभूतप्ररोहणम्॥१.४०.१३९
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम्
दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम्॥१.४०.१४०
सागराकारनिर्ह्रादं रसातलगलाश्रयम्
नागेन्द्रपाशैर्विततं पक्षिजन्तुसमन्वितम्॥१.४०.१४१
शीलानाहार्यगन्धाढ्यं सर्वलोकमहाद्रुमम्
अव्यक्तानन्दसलिलं व्यक्ताहङ्कारफेनिलम्॥१.४०.१४२
महाभूतकरौघौघं ग्रहनक्षत्रबुद्बुदम्
विमानवाहनैर्व्याप्तं तोयदाडम्बराकुलम्॥१.४०.१४३
जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतम्
त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलम्॥१.४०.१४४
वीरवृक्षलतागुल्मं भुजगोत्सृष्टशैवलम्
द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम्॥१.४०.१४५
वस्वष्टपर्वतोपेतं त्रैलोक्याम्भो महोदधिम्
सन्ध्यासन्ध्योर्मिसलिलमापूर्णानिलशोभितम्॥१.४०.१४६
दैत्ययक्षगणग्रामं रक्षोगणझषाकुलम्
पितामहमहावीर्यं स्वर्गस्त्रीरत्नसङ्कुलम्॥१.४०.१४७
श्री कीर्ति कान्तिलक्ष्मीभिर्नदीभिश्च समाकुलम्
कालयोगमहावर्षप्रलयोत्पत्तिवेगितम्॥१.४०.१४८
सत्संयोगमहापारं नारायणमहार्णवम्
देवातिदेवं वरदं भक्तानां भक्तवत्सलम्॥१.४०.१४९
अनुग्रहकरं देवं प्रशान्तिकरणं शुभम्
हर्यश्वरथसंयुक्त सुपर्णध्वजशोभिते॥१.४०.१५०
चन्द्रार्कचक्ररचित उदाराक्षवृतान्तरे
अनन्तरश्मिसंयुक्ते दुर्दर्शे मेरुकूबरे॥१.४०.१५१
तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे
भयेष्वभयदे व्योम्नि देवदैत्यापराजिते॥१.४०.१५२
हर्यश्वरथसंयुक्तमुक्ताशोभासमन्वितम्
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे॥१.४०.१५३
ते कृताञ्जलयः सर्वे देवा इन्द्रपुरोगमाः
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः॥१.४०.१५४
एतेषां च गिरः श्रुत्वा स विष्णुर्देवदैवतः
मनश्चक्रे विनाशाय दानवानां महामृधे॥१.४०.१५५
आकाशे तु स्थितो विष्णुरुत्तमं वपुराश्रितः
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः॥१.४०.१५६
शान्तिं व्रजत भद्रं वो मा भैष्ट मरुताङ्गणाः
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्॥१.४०.१५७
ततोस्य सत्यसन्धस्य विष्णोर्वाक्येन तोषिताः
देवाः प्रीतिं पराजग्मुः प्राश्यामृतमिवोत्तमम्॥१.४०.१५८
ततस्तमश्च संहृत्य विनेशुश्च बलाहकाः
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश॥१.४०.१५९
शुद्धप्रायाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणम्
न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिन्धवः॥१.४०.१६०
विरजा अभवन्मार्गा लोकाः स्वर्गादयस्त्रयः
यथार्थमूहुस्सरितश्चुक्षुभे न तथार्णवः॥१.४०.१६१
आसन्छुभानीन्द्रियाणि नराणामन्तरात्मसु
महर्षयो वीतशोका वेदानुच्चैरधीयत॥१.४०.१६२
यज्ञेषु च हविः पाकं शिवमाप च पावकः
प्रवृत्तधर्मसंवृत्ता लोका मुदितमानसाः॥१.४०.१६३
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः
ततो भयं विष्णुमुखाच्छ्रुत्वा दैतेयदानवाः॥१.४०.१६४
उद्योगं विपुलं चक्रुर्युद्धाय विजयाय च
मयस्तु काञ्चनमयं त्रिनल्वान्तरमव्ययम्॥१.४०.१६५
चतुश्चक्रं सुविपुलं सुकल्पितमहायुधम्
किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्॥१.४०.१६६
रुचिरं रश्मिजालैश्च हैमजालैश्च शोभितम्
ईहामृगगणाकीर्णं पक्षिसङ्घविराजितम्॥१.४०.१६७
दिव्यास्त्रशस्त्ररुचिरं पयोधरनिनादितम्
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्॥१.४०.१६८
गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम्
हेमकेयूरवलयं चन्द्रमण्डलकूबरम्॥१.४०.१६९
सपताकध्वजोपेतं सादित्यमिव मन्दरम्
गजेन्द्राभोगवपुषं क्वचित्केसरवर्चसम्॥१.४०.१७०
युक्तमृक्षसहस्रेण सुधाराम्बुदनादितम्
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्॥१.४०.१७१
अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्तमिवांशुमान्
तारस्तु क्रोशविस्तारमायामे च तथाविधम्॥१.४०.१७२
शैलकूबरसङ्काशं नीलाञ्जनचयोपमम्
काललोहस्य रत्नानां समूहाबद्धकूबरम्॥१.४०.१७३
तिमिरोद्गारकिरणं गर्जन्तमिव तोयदम्
लोहजालेन महता सगवाक्षेण दंशितम्॥१.४०.१७४
आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः
प्रासैः पाशैश्च विततैरसंयुक्तैश्च कण्टकैः॥१.४०.१७५
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः
उद्यतं द्विषतां हेतोर्द्वितीयमिव मन्दरम्॥१.४०.१७६
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम्
विरोचनस्तु सङ्क्रुद्धो गदापाणिरवस्थितः॥१.४०.१७७
प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः॥१.४०.१७८
व्यूहितं दानवव्यूहं परिचक्राम वीर्यवान्
विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः॥१.४०.१७९
स्यन्दनं वाहयामास परानीकस्य मर्दनः
व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत्॥१.४०.१८०
स चाहवमुखे तस्थौ सप्ररोह इवाचलः
खरस्तु विष्किरिन्क्रोधान्नेत्राभ्यां रोपजं जलम्॥१.४०.१८१
स्फुरद्दन्तौष्ठनयनः सङ्ग्रामं सोभ्यकाङ्क्षत
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः॥१.४०.१८२
दिव्यव्यूहप्रतीकाशा युद्धायाभिमुखः स्थितः
अरिष्टो बलिपुत्रश्च वरिष्ठो दुर्धरायुधः॥१.४०.१८३
युद्धायाभिमुखस्तस्थौ धराधरविकम्पनः
किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः॥१.४०.१८४
अभवद्दैत्यमध्ये स ग्रहमध्ये यथा रविः
लम्बस्तु नवमेघाभः प्रलम्बाम्बरभूषणः॥१.४०.१८५
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्
वसुन्धराभस्तदनु दशनौष्ठेक्षणायुधः॥१.४०.१८६
हसंस्तिष्ठति दैत्यानाम्मध्ये क्रूर महाग्रहः
अन्ये हयगतास्तत्र मत्तेभेन्द्रगताः परे॥१.४०.१८७
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे
केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः॥१.४०.१८८
पत्तयश्चापरे दैत्या भीषणा विकृताननाः
एकपादास्त्वपादाश्च ननृतुर्युद्धकाङ्क्षिणः॥१.४०.१८९
आस्फोटयन्तो बहवः स्वनन्तश्च तथापरे
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः॥१.४०.१९०
ते गदापरिघैर्घोरैः शिलामुद्गरपाणयः
बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः॥१.४०.१९१
प्रासैः खड्गैश्च पाशैश्च तोमराङ्कुशपट्टिशैः
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः॥१.४०.१९२
खड्गशैलैश्च शैलैश्च परिघैश्चोद्यतायुधैः
युक्तं बलाहकगणैः सर्वतः संवृतं नभः॥१.४०.१९३
एवं तद्दानवं सैन्यं सर्वसत्वमदोत्कटम्
देवताभिमुखं तस्थौ मेघानीकमिवोदितम्॥१.४०.१९४
रेजे च तद्दैत्यसहस्रगाढं वाय्वग्निशैलाम्बुदतोयकल्पम्
बलं बलौघाकुलमभ्युदीर्णं युयुत्सयोन्मत्तमिवा बभासे॥१.४०.१९५
श्रुतस्ते दैत्यसैन्यस्य विस्तारः कुरुनन्दन
सुराणामपि सैन्यस्य विस्तरं वैष्णवं शृणु॥१.४०.१९६