०३९

भीष्म उवाच

विश्वास-प्रस्तुतिः

कथितं वामनस्यैव माहात्म्यं विस्तरेण वै
पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद॥ १ ॥

मूलम्

कथितं वामनस्यैव माहात्म्यं विस्तरेण वै
पुनस्तस्यैव माहात्म्यमन्यद्विष्णोरतो वद॥ १ ॥

विश्वास-प्रस्तुतिः

पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्
कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा॥ २ ॥

मूलम्

पद्मं कथमभूद्देव नाभौ येनाभवज्जगत्
कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा॥ २ ॥

विश्वास-प्रस्तुतिः

कथं पाद्मे महाकल्पेऽभवत्पद्ममयं जगत्
जलार्णवगतस्येह नाभौ जातं जलानुगं॥ ३ ॥

मूलम्

कथं पाद्मे महाकल्पेऽभवत्पद्ममयं जगत्
जलार्णवगतस्येह नाभौ जातं जलानुगं॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि
पुष्करे तु कथं जाता देवा ॠषिगणाः पुरा॥ ४ ॥

मूलम्

प्रभावं पद्मनाभस्य स्वपतः सागराम्भसि
पुष्करे तु कथं जाता देवा ॠषिगणाः पुरा॥ ४ ॥

विश्वास-प्रस्तुतिः

एतदाख्याहि निखिलं योगं योगविदां पते
कथं निर्मितवांस्तत्र चैतं लोकं सनातनम्॥ ५ ॥

मूलम्

एतदाख्याहि निखिलं योगं योगविदां पते
कथं निर्मितवांस्तत्र चैतं लोकं सनातनम्॥ ५ ॥

विश्वास-प्रस्तुतिः

कथमेकार्णवे शून्ये नष्टे स्थावरजङ्गमे
भूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे॥ ६ ॥

मूलम्

कथमेकार्णवे शून्ये नष्टे स्थावरजङ्गमे
भूगोलके प्रदग्धे तु प्रणष्टोरगराक्षसे॥ ६ ॥

विश्वास-प्रस्तुतिः

नष्टानलानिलाकाशे नष्टधर्मे महीतले
केवले गह्वरीभूते महाभूतविपर्यये॥ ७ ॥

मूलम्

नष्टानलानिलाकाशे नष्टधर्मे महीतले
केवले गह्वरीभूते महाभूतविपर्यये॥ ७ ॥

विश्वास-प्रस्तुतिः

किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिः
आस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित्॥ ८ ॥

मूलम्

किं नु विश्वपतिः साक्षान्महातेजा महाद्युतिः
आस्ते यथाध्याननिष्ठो विधिमास्थाय योगवित्॥ ८ ॥

विश्वास-प्रस्तुतिः

शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतः
वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम्॥ ९ ॥

मूलम्

शृण्वतः परया भक्त्या ब्रह्मन्नेतदशेषतः
वक्तुमर्हसि धर्मज्ञ यशो नारायणात्मकम्॥ ९ ॥

विश्वास-प्रस्तुतिः

श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसि
पुलस्त्य उवाच
नारायणस्य यशसः श्रवणे या तव स्पृहा॥ १० ॥

मूलम्

श्रद्धिनः सूपविष्टस्य भगवन्वक्तुमर्हसि
पुलस्त्य उवाच
नारायणस्य यशसः श्रवणे या तव स्पृहा॥ १० ॥

विश्वास-प्रस्तुतिः

सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वह
शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति॥ ११ ॥

मूलम्

सद्वंशान्वयपूतस्य न्याय्यं कुरुकुलोद्वह
शृणुष्वादिपुराणेषु देवेभ्यश्च यथा श्रुति॥ ११ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्
यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः॥ १२ ॥

मूलम्

ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम्
यथा च तपसा दृष्ट्वा बृहस्पति समद्युतिः॥ १२ ॥

विश्वास-प्रस्तुतिः

पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्
तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति॥ १३ ॥

मूलम्

पराशरसुतः श्रीमान्गुरुर्द्वैपायनोऽब्रवीत्
तत्तेऽहं कथयिष्यामि यथाभक्ति यथाश्रुति॥ १३ ॥

विश्वास-प्रस्तुतिः

यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तम
कः समुत्सहते ज्ञातुं परं नारायणात्मकम्॥ १४ ॥

मूलम्

यद्विज्ञातं मया सम्यगृषिमार्गेण सत्तम
कः समुत्सहते ज्ञातुं परं नारायणात्मकम्॥ १४ ॥

विश्वास-प्रस्तुतिः

विश्वावितारं ब्रह्मायं न वेदयति तत्वतः
तत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु॥ १५ ॥

मूलम्

विश्वावितारं ब्रह्मायं न वेदयति तत्वतः
तत्कर्मविश्वदेवा न तद्रहस्यं महर्षिषु॥ १५ ॥

विश्वास-प्रस्तुतिः

स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्
अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम्॥ १६ ॥

मूलम्

स इज्यस्सर्वयज्ञानां स तत्त्वं तत्त्वदर्शिनाम्
अध्यात्ममध्यात्मविदां नरकं च विकर्मिणाम्॥ १६ ॥

विश्वास-प्रस्तुतिः

अधिदैवं च तद्दैवमधिदैवतसञ्ज्ञितम्
अधिभूतं च तद्भूतं परं च परमार्थिनाम्॥ १७ ॥

मूलम्

अधिदैवं च तद्दैवमधिदैवतसञ्ज्ञितम्
अधिभूतं च तद्भूतं परं च परमार्थिनाम्॥ १७ ॥

विश्वास-प्रस्तुतिः

स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः
यः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च॥ १८ ॥

मूलम्

स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः
यः कर्त्ता कारको बुद्धिर्यतः क्षेत्रज्ञ एव च॥ १८ ॥

विश्वास-प्रस्तुतिः

प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते
प्राणः पञ्चविधश्चैव ध्रुवमक्षरमेव च॥ १९ ॥

मूलम्

प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते
प्राणः पञ्चविधश्चैव ध्रुवमक्षरमेव च॥ १९ ॥

विश्वास-प्रस्तुतिः

कालः पाकश्च यज्ञश्च यष्टा चाधीतमेव च
उच्यते विविधैर्भावैः स एवायं तु तत्परम्॥ २० ॥

मूलम्

कालः पाकश्च यज्ञश्च यष्टा चाधीतमेव च
उच्यते विविधैर्भावैः स एवायं तु तत्परम्॥ २० ॥

विश्वास-प्रस्तुतिः

स एव भगवान्सर्वं करोति न करोति च
सोस्मिन्कारयते सर्वं स्थानिनां च कृतिः कृता॥ २१ ॥

मूलम्

स एव भगवान्सर्वं करोति न करोति च
सोस्मिन्कारयते सर्वं स्थानिनां च कृतिः कृता॥ २१ ॥

विश्वास-प्रस्तुतिः

यजामहे तमेवाद्यं स एवोत्थाननिर्वृतः
यो वक्ता यच्च वक्तव्यं यश्चाहं तद्ब्रवीमि ते॥ २२ ॥

मूलम्

यजामहे तमेवाद्यं स एवोत्थाननिर्वृतः
यो वक्ता यच्च वक्तव्यं यश्चाहं तद्ब्रवीमि ते॥ २२ ॥

विश्वास-प्रस्तुतिः

श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्पितम्
या कथायाश्च श्रुतयो यो धर्मी धर्मतत्परः॥ २३ ॥

मूलम्

श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्पितम्
या कथायाश्च श्रुतयो यो धर्मी धर्मतत्परः॥ २३ ॥

विश्वास-प्रस्तुतिः

विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः
यत्सत्यं यदनृतमादिमध्यभूतं यच्चान्त्यं निरवधिकं च यद्भविष्यम्॥ २४ ॥

मूलम्

विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः
यत्सत्यं यदनृतमादिमध्यभूतं यच्चान्त्यं निरवधिकं च यद्भविष्यम्॥ २४ ॥

विश्वास-प्रस्तुतिः

यत्किञ्चिच्चरमचरं यदस्ति चान्यत्सर्वं तत्पुरुषवरः प्रधानभूतः
चत्वार्य्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्॥ २५ ॥

मूलम्

यत्किञ्चिच्चरमचरं यदस्ति चान्यत्सर्वं तत्पुरुषवरः प्रधानभूतः
चत्वार्य्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्॥ २५ ॥

विश्वास-प्रस्तुतिः

तस्य तावच्छती सन्ध्या द्विगुणा कुरुनन्दन
यत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः॥ २६ ॥

मूलम्

तस्य तावच्छती सन्ध्या द्विगुणा कुरुनन्दन
यत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः॥ २६ ॥

विश्वास-प्रस्तुतिः

स्वधर्मनिरताः शान्ता जायन्ते यत्र मानवाः
विप्रा स्थिता धर्मपरा राजवृत्तिस्थिता नृपाः॥ २७ ॥

मूलम्

स्वधर्मनिरताः शान्ता जायन्ते यत्र मानवाः
विप्रा स्थिता धर्मपरा राजवृत्तिस्थिता नृपाः॥ २७ ॥

विश्वास-प्रस्तुतिः

कृष्यामभिरता वैश्याः शूद्रा शुःश्रूषवस्तथा
तदा सत्यं च सत्वं च धर्मश्चैव विवर्धते॥ २८ ॥

मूलम्

कृष्यामभिरता वैश्याः शूद्रा शुःश्रूषवस्तथा
तदा सत्यं च सत्वं च धर्मश्चैव विवर्धते॥ २८ ॥

विश्वास-प्रस्तुतिः

सद्भिराचरितो धर्मो येन लोकः प्रवर्त्तते
एतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव॥ २९ ॥

मूलम्

सद्भिराचरितो धर्मो येन लोकः प्रवर्त्तते
एतत्कृतयुगे वृत्तं सर्वेषामेव पार्थिव॥ २९ ॥

विश्वास-प्रस्तुतिः

प्राणिनां धर्मसञ्ज्ञानां नराणां नीचजन्मनाम्
त्रीणिवर्षसहस्राणि त्रेतायुगमिहोच्यते॥ ३० ॥

मूलम्

प्राणिनां धर्मसञ्ज्ञानां नराणां नीचजन्मनाम्
त्रीणिवर्षसहस्राणि त्रेतायुगमिहोच्यते॥ ३० ॥

विश्वास-प्रस्तुतिः

तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः॥ ३१ ॥

मूलम्

तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता
द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः॥ ३१ ॥

विश्वास-प्रस्तुतिः

यत्र सत्यं च सत्वं च क्रिया धर्मो विधीयते
त्रेतायां विकृतिं यान्ति वर्णा लोभेन संयुताः॥ ३२ ॥

मूलम्

यत्र सत्यं च सत्वं च क्रिया धर्मो विधीयते
त्रेतायां विकृतिं यान्ति वर्णा लोभेन संयुताः॥ ३२ ॥

विश्वास-प्रस्तुतिः

चातुर्वर्ण्यस्य वै कृत्यं क्षान्तिर्दौर्बल्यमेव च
एषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता॥ ३३ ॥

मूलम्

चातुर्वर्ण्यस्य वै कृत्यं क्षान्तिर्दौर्बल्यमेव च
एषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता॥ ३३ ॥

विश्वास-प्रस्तुतिः

द्वापरं द्विसहस्रं तु वर्षाणां कुरुनन्दन
तस्य तावच्छती सन्ध्या द्विगुणं युगमुच्यते॥ ३४ ॥

मूलम्

द्वापरं द्विसहस्रं तु वर्षाणां कुरुनन्दन
तस्य तावच्छती सन्ध्या द्विगुणं युगमुच्यते॥ ३४ ॥

विश्वास-प्रस्तुतिः

तत्राप्यतीवार्थपराः प्राणिनो रजसा हताः
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुनन्दन॥ ३५ ॥

मूलम्

तत्राप्यतीवार्थपराः प्राणिनो रजसा हताः
शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुनन्दन॥ ३५ ॥

विश्वास-प्रस्तुतिः

द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः
विपर्ययशतैर्धर्मः क्षयमेति कलौ युगे॥ ३६ ॥

मूलम्

द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः
विपर्ययशतैर्धर्मः क्षयमेति कलौ युगे॥ ३६ ॥

विश्वास-प्रस्तुतिः

ब्रह्मण्यभावश्च्यवते तथास्तिक्यं विवर्ज्यते
व्रतोपवासास्त्यज्यन्ते कलौ वै युगपर्यये॥ ३७ ॥

मूलम्

ब्रह्मण्यभावश्च्यवते तथास्तिक्यं विवर्ज्यते
व्रतोपवासास्त्यज्यन्ते कलौ वै युगपर्यये॥ ३७ ॥

विश्वास-प्रस्तुतिः

तदा वर्षसहस्रं तु वर्षाणां द्वे शते तथा
यत्राधर्मश्चतुष्पादो धर्मः पादपरिग्रहः॥ ३८ ॥

मूलम्

तदा वर्षसहस्रं तु वर्षाणां द्वे शते तथा
यत्राधर्मश्चतुष्पादो धर्मः पादपरिग्रहः॥ ३८ ॥

विश्वास-प्रस्तुतिः

कामिनस्तापसाः क्षुद्रा जायन्ते यत्र मानवाः
न चावसायिकः कश्चिन्न साधुर्न च सत्यवाक्॥ ३९ ॥

मूलम्

कामिनस्तापसाः क्षुद्रा जायन्ते यत्र मानवाः
न चावसायिकः कश्चिन्न साधुर्न च सत्यवाक्॥ ३९ ॥

विश्वास-प्रस्तुतिः

नास्तिका ब्राह्मणा भक्ता ज्ञायन्ते तत्र मानवाः
अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः॥ ४० ॥

मूलम्

नास्तिका ब्राह्मणा भक्ता ज्ञायन्ते तत्र मानवाः
अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः॥ ४० ॥

विश्वास-प्रस्तुतिः

विप्राः शूद्रसमाचारास्सन्ति सर्वे कलौ युगे
आश्रमाणां विपर्यासः कलौ सम्प्रति वर्तते॥ ४१ ॥

मूलम्

विप्राः शूद्रसमाचारास्सन्ति सर्वे कलौ युगे
आश्रमाणां विपर्यासः कलौ सम्प्रति वर्तते॥ ४१ ॥

विश्वास-प्रस्तुतिः

वर्णानां चैव सन्देहो युगान्ते कुरुनन्दन
एषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता॥ ४२ ॥

मूलम्

वर्णानां चैव सन्देहो युगान्ते कुरुनन्दन
एषा द्वादशसाहस्री युगाख्या पूर्वनिर्मिता॥ ४२ ॥

विश्वास-प्रस्तुतिः

सहस्रयुगपर्यन्तं तदहर्ब्राह्ममुच्यते
ततो ह निगते तस्मिन्सर्वेषामेव जीविनाम्॥ ४३ ॥

मूलम्

सहस्रयुगपर्यन्तं तदहर्ब्राह्ममुच्यते
ततो ह निगते तस्मिन्सर्वेषामेव जीविनाम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्
देवतानां च सर्वेषां ब्राह्मणानां महीपते॥ ४४ ॥

मूलम्

शरीरनिर्वृतिं दृष्ट्वा कालः संहारबुद्धिमान्
देवतानां च सर्वेषां ब्राह्मणानां महीपते॥ ४४ ॥

विश्वास-प्रस्तुतिः

दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्
गन्धर्वाणामप्सरसां भुजङ्गानां च पार्थिव॥ ४५ ॥

मूलम्

दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम्
गन्धर्वाणामप्सरसां भुजङ्गानां च पार्थिव॥ ४५ ॥

विश्वास-प्रस्तुतिः

पर्वतानां नदीनां च पशूनां चैव सत्तम
तिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा॥ ४६ ॥

मूलम्

पर्वतानां नदीनां च पशूनां चैव सत्तम
तिर्यग्योनिगतानां च क्रिमीणां दंशिनां तथा॥ ४६ ॥

विश्वास-प्रस्तुतिः

सर्वभूतपतिः पञ्च भूत्वा भूतानि भूतकृत्
जगत्संहरणार्थाय कुरुते वैशसं महत्॥ ४७ ॥

मूलम्

सर्वभूतपतिः पञ्च भूत्वा भूतानि भूतकृत्
जगत्संहरणार्थाय कुरुते वैशसं महत्॥ ४७ ॥

विश्वास-प्रस्तुतिः

भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्
भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत्॥ ४८ ॥

मूलम्

भूत्वा सूर्यश्चक्षुषी आददानो भूत्वा वायुः प्राणिनां प्राणिजातम्
भूत्वा वह्निर्निर्दहन्सर्वलोकान्भूत्वा मेघो भूय उग्रोऽभ्यवर्षत्॥ ४८ ॥

विश्वास-प्रस्तुतिः

भूत्वा नारायणो योगी सर्वमूर्ति विभावसुः
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्॥ ४९ ॥

मूलम्

भूत्वा नारायणो योगी सर्वमूर्ति विभावसुः
गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान्॥ ४९ ॥

विश्वास-प्रस्तुतिः

ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतः
पर्वतानां च सलिलं सर्वमादाय योगवित्1.39.॥ ५० ॥

मूलम्

ततः पीत्वार्णवान्सर्वान्नदीकूपांश्च सर्वतः
पर्वतानां च सलिलं सर्वमादाय योगवित्1.39.॥ ५० ॥

विश्वास-प्रस्तुतिः

भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातले
रमते जलमादाय पिबन्रसमनुत्तमं॥ ५१ ॥

मूलम्

भूत्वा चैव स हस्तार्चिर्महीं भित्वा रसातले
रमते जलमादाय पिबन्रसमनुत्तमं॥ ५१ ॥

विश्वास-प्रस्तुतिः

मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं
तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः॥ ५२ ॥

मूलम्

मूर्त्तामूर्त्ते तदन्यच्च यदस्ति प्राणिषु ध्रुवं
तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः॥ ५२ ॥

विश्वास-प्रस्तुतिः

वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्
प्राणापानं समासाद्य वायुना क्रमते हरिः॥ ५३ ॥

मूलम्

वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत्
प्राणापानं समासाद्य वायुना क्रमते हरिः॥ ५३ ॥

विश्वास-प्रस्तुतिः

ततो देवगणानां च सर्वेषां चैव देहिनाम्
पञ्चेन्द्रियगुणास्सर्वे भूतान्येव च यानि च॥ ५४ ॥

मूलम्

ततो देवगणानां च सर्वेषां चैव देहिनाम्
पञ्चेन्द्रियगुणास्सर्वे भूतान्येव च यानि च॥ ५४ ॥

विश्वास-प्रस्तुतिः

घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाः
लोकयात्रा भगवता मुहूर्तेन विनाशिता॥ ५५ ॥

मूलम्

घ्रेयं घ्राणं शरीरं च पृथिवीसंश्रिता गुणाः
लोकयात्रा भगवता मुहूर्तेन विनाशिता॥ ५५ ॥

विश्वास-प्रस्तुतिः

जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाः
रूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः॥ ५६ ॥

मूलम्

जिह्वारसश्च स्नेहश्च संश्रिताः सलिले गुणाः
रूपं चक्षुर्विभागश्च नेत्र ज्योतिः श्रिता गुणाः॥ ५६ ॥

विश्वास-प्रस्तुतिः

स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः
शब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः॥ ५७ ॥

मूलम्

स्पर्शः प्राणश्च चेष्टा च पवनं संश्रिता गुणाः
शब्दः श्रोत्रे च श्रवणं गगनं संश्रिता गुणाः॥ ५७ ॥

विश्वास-प्रस्तुतिः

मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताः
परेण परमेष्ठी च हृषीकेशमुपाश्रिताः॥ ५८ ॥

मूलम्

मनो बुद्धिश्च चित्तं च क्षेत्रज्ञं चेति संश्रिताः
परेण परमेष्ठी च हृषीकेशमुपाश्रिताः॥ ५८ ॥

विश्वास-प्रस्तुतिः

ततो भगवतस्तस्य रश्मिभिः परिवारिताः
वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः॥ ५९ ॥

मूलम्

ततो भगवतस्तस्य रश्मिभिः परिवारिताः
वायुना परिनुन्नाश्च भूमिशाखामुपाश्रिताः॥ ५९ ॥

विश्वास-प्रस्तुतिः

तेषां संहरणोद्भूतः पावकः शतधा ज्वलन्
प्रदहन्नखिलं विश्वं वृत्तः संवर्त्तकोऽनलः॥ ६० ॥

मूलम्

तेषां संहरणोद्भूतः पावकः शतधा ज्वलन्
प्रदहन्नखिलं विश्वं वृत्तः संवर्त्तकोऽनलः॥ ६० ॥

विश्वास-प्रस्तुतिः

सपर्वतद्रुमान्गुल्मान्लतावल्लीस्तृणानि च
विमानानि च दिव्यानि पुराणि विविधानि च॥ ६१ ॥

मूलम्

सपर्वतद्रुमान्गुल्मान्लतावल्लीस्तृणानि च
विमानानि च दिव्यानि पुराणि विविधानि च॥ ६१ ॥

विश्वास-प्रस्तुतिः

यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशम्
भस्मीकृत्य तु तान्सर्वांल्लोकान्ल्लोकगुरोर्गुरुः॥ ६२ ॥

मूलम्

यानि चाश्रयणीयानि सर्वाण्यप्यदहद्भृशम्
भस्मीकृत्य तु तान्सर्वांल्लोकान्ल्लोकगुरोर्गुरुः॥ ६२ ॥

विश्वास-प्रस्तुतिः

स भूतिं धारयामास युगान्ते लोकसम्भवाम्
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाघनः॥ ६३ ॥

मूलम्

स भूतिं धारयामास युगान्ते लोकसम्भवाम्
सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाघनः॥ ६३ ॥

विश्वास-प्रस्तुतिः

दिव्यतोयेन हविषा तर्पयामास मेदिनीं
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा॥ ६४ ॥

मूलम्

दिव्यतोयेन हविषा तर्पयामास मेदिनीं
ततः क्षीरनिकाशेन स्वादुना परमाम्भसा॥ ६४ ॥

विश्वास-प्रस्तुतिः

शिशिरेण च पुण्येन महीनिर्वाणमागमत्
तेन तोयेन सम्पृक्ता पयस्साधर्म्यतो धरा॥ ६५ ॥

मूलम्

शिशिरेण च पुण्येन महीनिर्वाणमागमत्
तेन तोयेन सम्पृक्ता पयस्साधर्म्यतो धरा॥ ६५ ॥

विश्वास-प्रस्तुतिः

एकार्णावजलीभूता सर्वसत्वविवर्जिता
महासत्वान्यपि विभुं प्रविष्टान्यमितौजसं॥ ६६ ॥

मूलम्

एकार्णावजलीभूता सर्वसत्वविवर्जिता
महासत्वान्यपि विभुं प्रविष्टान्यमितौजसं॥ ६६ ॥

विश्वास-प्रस्तुतिः

नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते
संशोषमात्मना कृत्वा समुद्राणां च देहिनः॥ ६७ ॥

मूलम्

नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते
संशोषमात्मना कृत्वा समुद्राणां च देहिनः॥ ६७ ॥

विश्वास-प्रस्तुतिः

दग्ध्वा सङ्कोच्य च तथा स्वपित्येकः सनातनः
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः॥ ६८ ॥

मूलम्

दग्ध्वा सङ्कोच्य च तथा स्वपित्येकः सनातनः
पौराणं रूपमास्थाय स्वपित्यमितविक्रमः॥ ६८ ॥

विश्वास-प्रस्तुतिः

एकार्णवजलेयायी योगी योगमुपासितः
अनेकानि सहस्राणि युगान्येकार्णवाम्भसि॥ ६९ ॥

मूलम्

एकार्णवजलेयायी योगी योगमुपासितः
अनेकानि सहस्राणि युगान्येकार्णवाम्भसि॥ ६९ ॥

विश्वास-प्रस्तुतिः

न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हति
कश्चैष पुरुषो नाम किं योगः कश्च योगवान्॥ ७० ॥

मूलम्

न चैव कश्चिदव्यक्तं व्यक्तो वेदितुमर्हति
कश्चैष पुरुषो नाम किं योगः कश्च योगवान्॥ ७० ॥

विश्वास-प्रस्तुतिः

न पृष्ठे नैवमभितो नैव पार्श्वे न चाग्रतः
कश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः॥ ७१ ॥

मूलम्

न पृष्ठे नैवमभितो नैव पार्श्वे न चाग्रतः
कश्चिद्विज्ञायते तस्य दृश्यते देवसत्तमः॥ ७१ ॥

विश्वास-प्रस्तुतिः

नभः क्षितिं पवनमपः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरम्
पितामहं श्रुतिनिलयं मुनिं प्रभुं समापयञ्छयनमरोचयत्प्रभुः॥ ७२ ॥

मूलम्

नभः क्षितिं पवनमपः प्रकाशनं प्रजापतिं भुवनधरं सुरेश्वरम्
पितामहं श्रुतिनिलयं मुनिं प्रभुं समापयञ्छयनमरोचयत्प्रभुः॥ ७२ ॥

विश्वास-प्रस्तुतिः

एवमेकार्णवीभूते शेते लोके महाद्युतिः
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणाय ते॥ ७३ ॥

मूलम्

एवमेकार्णवीभूते शेते लोके महाद्युतिः
प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणाय ते॥ ७३ ॥

विश्वास-प्रस्तुतिः

महतो रजसो मध्ये महार्णवसमस्य वै
वारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः॥ ७४ ॥

मूलम्

महतो रजसो मध्ये महार्णवसमस्य वै
वारिजाक्षो महाबाहुरक्षयं ब्रह्म यद्विदुः॥ ७४ ॥

विश्वास-प्रस्तुतिः

आत्मरूपसरूपेण तमसा संवृतः प्रभुः
मनः सात्विकमादाय यत्र तत्सत्वमाहितं॥ ७५ ॥

मूलम्

आत्मरूपसरूपेण तमसा संवृतः प्रभुः
मनः सात्विकमादाय यत्र तत्सत्वमाहितं॥ ७५ ॥

विश्वास-प्रस्तुतिः

यथातथ्यं परं ज्ञानं भूताय ब्रह्मणे ततः
रहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम्॥ ७६ ॥

मूलम्

यथातथ्यं परं ज्ञानं भूताय ब्रह्मणे ततः
रहस्यं च तथोद्दिष्टं यथोपनिषदां स्मृतम्॥ ७६ ॥

विश्वास-प्रस्तुतिः

पुरुषो यज्ञ इत्येतत्परमं परिकीर्तितम्
यश्चान्यः पुरुषाख्यः स्यात्स एव पुरुषोत्तमः॥ ७७ ॥

मूलम्

पुरुषो यज्ञ इत्येतत्परमं परिकीर्तितम्
यश्चान्यः पुरुषाख्यः स्यात्स एव पुरुषोत्तमः॥ ७७ ॥

विश्वास-प्रस्तुतिः

ये च यज्ञकरा विप्रा ये ॠत्विज इति स्मृताः
अस्मादेव पुरा भूता वक्त्रेभ्यः श्रूयते तथा॥ ७८ ॥

मूलम्

ये च यज्ञकरा विप्रा ये ॠत्विज इति स्मृताः
अस्मादेव पुरा भूता वक्त्रेभ्यः श्रूयते तथा॥ ७८ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगं
होतारं च तथाद्ध्वर्युं बाहुभ्यामसृजत्प्रभुः॥ ७९ ॥

मूलम्

ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगं
होतारं च तथाद्ध्वर्युं बाहुभ्यामसृजत्प्रभुः॥ ७९ ॥

विश्वास-प्रस्तुतिः

ब्रह्माणं ब्राह्माणाच्छंसि स्तोतारौ चैव सर्वशः
मेढ्राच्च मैत्रावरुणं प्रतिष्ठातारमेव च॥ ८० ॥

मूलम्

ब्रह्माणं ब्राह्माणाच्छंसि स्तोतारौ चैव सर्वशः
मेढ्राच्च मैत्रावरुणं प्रतिष्ठातारमेव च॥ ८० ॥

विश्वास-प्रस्तुतिः

उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव
पाणिभ्यामथ चाग्नीध्रमुन्नेतारं च याजुषम्॥ ८१ ॥

मूलम्

उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव
पाणिभ्यामथ चाग्नीध्रमुन्नेतारं च याजुषम्॥ ८१ ॥

विश्वास-प्रस्तुतिः

अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च सामगम्
एवमेवं स भगवान्षोडशैतान्जगत्पतिः॥ ८२ ॥

मूलम्

अच्छावाकमथोरुभ्यां सुब्रह्मण्यं च सामगम्
एवमेवं स भगवान्षोडशैतान्जगत्पतिः॥ ८२ ॥

विश्वास-प्रस्तुतिः

स्वयम्भूः सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्
तदा चैष महायोगी पुरुषो यज्ञसञ्ज्ञितः॥ ८३ ॥

मूलम्

स्वयम्भूः सर्वयज्ञानामृत्विजोऽसृजदुत्तमान्
तदा चैष महायोगी पुरुषो यज्ञसञ्ज्ञितः॥ ८३ ॥

विश्वास-प्रस्तुतिः

वेदाश्चैव तथा सर्वे सहाङ्गोपनिषत्क्रियाः
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा॥ ८४ ॥

मूलम्

वेदाश्चैव तथा सर्वे सहाङ्गोपनिषत्क्रियाः
स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा॥ ८४ ॥

विश्वास-प्रस्तुतिः

श्रूयतां तु तदा विप्रो मार्कण्डेयः कुतूहलात्
गीर्णो भगवता तेन कुक्षावासीन्महामुनिः॥ ८५ ॥

मूलम्

श्रूयतां तु तदा विप्रो मार्कण्डेयः कुतूहलात्
गीर्णो भगवता तेन कुक्षावासीन्महामुनिः॥ ८५ ॥

विश्वास-प्रस्तुतिः

बहुवर्षसहस्रायुस्तस्यैव वरतेजसः
अटंस्तीर्थप्रसङ्गेन पृथिवीतीर्थगोचरः॥ ८६ ॥

मूलम्

बहुवर्षसहस्रायुस्तस्यैव वरतेजसः
अटंस्तीर्थप्रसङ्गेन पृथिवीतीर्थगोचरः॥ ८६ ॥

विश्वास-प्रस्तुतिः

आश्रमाणि च पुण्यानि देवतायतनानि च
देशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च॥ ८७ ॥

मूलम्

आश्रमाणि च पुण्यानि देवतायतनानि च
देशाद्राष्ट्राणि चित्राणि पुराणि विविधानि च॥ ८७ ॥

विश्वास-प्रस्तुतिः

जपहोमपराः शान्तास्तपोभिरमलाः स्मृताः
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः॥ ८८ ॥

मूलम्

जपहोमपराः शान्तास्तपोभिरमलाः स्मृताः
मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिर्गतः॥ ८८ ॥

विश्वास-प्रस्तुतिः

निष्क्रामन्तं न चात्मानं जानीते देवमायया
निष्क्रम्य तस्य उदरादेकार्णवमथो जगत्॥ ८९ ॥

मूलम्

निष्क्रामन्तं न चात्मानं जानीते देवमायया
निष्क्रम्य तस्य उदरादेकार्णवमथो जगत्॥ ८९ ॥

विश्वास-प्रस्तुतिः

सर्वतस्तमसाछन्नं मार्कण्डेयोन्ववैक्षत
तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम्॥ ९० ॥

मूलम्

सर्वतस्तमसाछन्नं मार्कण्डेयोन्ववैक्षत
तस्योत्पन्नं भयं तीव्रं व्यत्ययं चात्मजीवितम्॥ ९० ॥

विश्वास-प्रस्तुतिः

देवदर्शनसंहृष्टो विस्मयं परमं गतः
सोऽचिन्तयदमोघात्मा मार्कण्डेयोथ शङ्कितः॥ ९१ ॥

मूलम्

देवदर्शनसंहृष्टो विस्मयं परमं गतः
सोऽचिन्तयदमोघात्मा मार्कण्डेयोथ शङ्कितः॥ ९१ ॥

विश्वास-प्रस्तुतिः

किं नु स्याच्चित्तसम्मोहः किं नु स्वप्नोनुभूयते
व्यक्तमन्यतरो भाव एतयोर्भविता मम॥ ९२ ॥

मूलम्

किं नु स्याच्चित्तसम्मोहः किं नु स्वप्नोनुभूयते
व्यक्तमन्यतरो भाव एतयोर्भविता मम॥ ९२ ॥

विश्वास-प्रस्तुतिः

न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हति
नष्टचन्द्रार्कपवनो नष्टपर्वतभूतलः॥ ९३ ॥

मूलम्

न हि स्वप्नो ह्ययं सत्ययुक्तं यत्सत्यमर्हति
नष्टचन्द्रार्कपवनो नष्टपर्वतभूतलः॥ ९३ ॥

विश्वास-प्रस्तुतिः

कतमः स्यादयं लोक इति शोकमुपागतः
ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम्॥ ९४ ॥

मूलम्

कतमः स्यादयं लोक इति शोकमुपागतः
ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम्॥ ९४ ॥

विश्वास-प्रस्तुतिः

सलिलेऽधमथो मग्नं जीमूतमिव सागरे
तपन्तमिव तेजोभिरामुक्तशशिभास्करम्॥ ९५ ॥

मूलम्

सलिलेऽधमथो मग्नं जीमूतमिव सागरे
तपन्तमिव तेजोभिरामुक्तशशिभास्करम्॥ ९५ ॥

विश्वास-प्रस्तुतिः

गाम्भीर्यात्सागरमिव भासमानम्मवौजसा
देवं द्रष्टुमिहायातः को भवानिति विस्मयात्॥ ९६ ॥

मूलम्

गाम्भीर्यात्सागरमिव भासमानम्मवौजसा
देवं द्रष्टुमिहायातः को भवानिति विस्मयात्॥ ९६ ॥

विश्वास-प्रस्तुतिः

तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितः
सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयः सविस्मयम्॥ ९७ ॥

मूलम्

तथैव च मुनिः कुक्षिं पुनरेव प्रवेशितः
सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयः सविस्मयम्॥ ९७ ॥

विश्वास-प्रस्तुतिः

तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्
स तथैव यथापूर्वं पृथिवीमटते वनम्॥ ९८ ॥

मूलम्

तथैव च पुनर्भूयो विजानन्स्वप्नदर्शनम्
स तथैव यथापूर्वं पृथिवीमटते वनम्॥ ९८ ॥

विश्वास-प्रस्तुतिः

पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च
क्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः॥ ९९ ॥

मूलम्

पुण्यतीर्थजलोपेतं विविधान्याश्रमाणि च
क्रतुभिर्यजमानांश्च समाप्तगुरुदक्षिणैः॥ ९९ ॥

अपश्यद्देवकुक्षिस्थान्यज्ञस्थान्शतशो द्विजान्
सद्वृत्तमाश्रिताः सर्वे वर्णा ब्राह्मणपूर्वकाः1.39.१००
चत्वार आश्रमाः सम्यग्यथापूर्वं विलोकिता
एवं वर्षशतं साग्रं मार्कण्डेयेन धीमता१०१
चरता पृथिवी सर्वा तत्कुक्षौ हि समीक्ष्यते
ततः कदाचिदथ वै पुनः कुक्षेर्विनिर्गतः१०२
सुप्तन्न्यग्रोधशाखायाम्बालमेकन्निरीक्ष्यच
तथैवैकार्णवजले नीहारेणावृतान्तरे१०३
अव्यक्तक्रीडिते लोके सर्वभूतविवर्जिते
स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः१०४
बालमादित्यसङ्काशं न शक्नोत्यभिवीक्षितुम्
सोप्यचिन्तयदेकान्ते स्थित्वा सलिलसन्निधौ१०५
पूर्वदृष्टमिदं मेने शङ्कितो देवमायया
अगाधे सलिले शेते मार्कण्डेयः सविस्मयः१०६
पूर्ववत्तमथो द्रष्टुमव्रजत्त्रस्तलोचनः
स तस्मै भगवानाह स्वागतो बाल भो इति१०७
बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः
मार्कण्डेय न भेतव्यमागच्छस्व ममान्तिकम्१०८
मार्कण्डेय उवाच
को नाम्ना कीर्तयति मां कुर्वन्परिभवं मम
दिव्यवर्षसहस्राख्यं धर्षयंश्चैव मे वयः१०९
न ह्येष च सदाचारो देवेष्वपि ममोचितः
मां ब्रह्मापि हि सस्नेहो दीर्घायुरिति भाषते११०
कस्तपोघोरमासाद्य ममाद्य त्यक्तजीवितः
मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हसि१११
एवं प्रक्षुभितः क्रोधान्मार्कण्डेयो महामुनिः
तदैनं भगवान्भूयो बभाषे मधुसूदनः११२
श्रीभगवानुवाच
अहं ते जनको वत्स हृषीकेशः पिता गुरुः
आयुः प्रदाता पौराणः किं मां त्वं नोपसर्पसि११३
मां पुत्रकामः प्रथमं त्वत्पिताङ्गिरसो मुनिः
पूर्वमाराधयामास तपस्तीव्रं समाश्रितः११४
तं दृष्ट्वा घोरतपसं त्रिदशोत्तमतेजसम्
दत्तवांस्त्वामहं पुत्रं महर्षिममितौजसम्११५
कस्समुत्सहते चान्यो योगिभूतात्मगात्मकम्
द्रष्टुमेकार्णवगतं क्रीडन्तं योगमायया११६
ततः प्रहृष्टहृदयो विस्मयोत्फुल्ललोचनः
मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो माहातपाः११७
नामगोत्रे तु सम्प्रोच्य दीर्घायुर्लोकपूजितः
तस्मै भगवते भक्त्या नमस्कारमथाकरोत्११८
मार्कण्डेय उवाच
इच्छामि तत्त्वतो ज्ञातुमिमां मायां तवानघ
यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान्११९
किं सञ्ज्ञश्चैव भगवान्लोके विज्ञायसे प्रभो
तर्कयेहं महात्मानं को ह्यन्यः स्थातुमर्हसि१२०
श्रीभगवानुवाच
अहं नारायणो ब्रह्मन्सर्वभूतविनाशनः
अहं सहस्रशीर्षास्यः सहस्रपदसंयुतः१२१
आदित्यवर्णः पुरुषो मुखे ब्रह्ममयो ह्यहम्
अहमग्निर्हव्यवहः सप्तसप्तिभिरन्वितः१२२
अहमिन्द्रपदः शक्र ॠतूनां परिवत्सरः
अहं योगिषु साङ्ख्याख्यो युगान्तावर्त एव च१२३
अहं सर्वाणि सत्वानि दैवतान्यखिलानि च
भुजगानामहं शेषस्तार्क्ष्योऽहं सर्वपक्षिणाम्१२४
कृतान्तः सर्वभूतानां विज्ञेयः कालसञ्ज्ञितः
अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम्१२५
अहं दया परोधर्मः क्षीरोदोहं महार्णवः
यत्सत्यं तत्परं त्वेक अहमेव प्रजापतिः१२६
अहं साङ्ख्यमहं योगो ह्यहं तत्परमं पदम्
अहमिज्या क्रिया चाहमहं विद्याधिपः स्मृतः१२७
अहं ज्योतिरहं वायुरहं भूमिरहं जलम्
आकाशोहं समुद्राश्च नक्षत्राणि दिशो दश१२८
अहं वर्षमहं सोमः पर्जन्योहमहं रविः
अहं पुराणं परमं तथैवाहं परायणम्१२९
भविष्ये चापि सर्वत्र भविष्यत्सर्वसङ्ग्रहः
यत्किञ्चित्पश्यसे विप्र यच्छृणोषि च किञ्चन१३०
यच्चानुभवसे लोके तत्सर्वं मामनुस्मर
विश्वं सृष्टं मया पूर्वं सृजेद्यापि च पश्य माम्१३१
युगे युगे च रक्षामि मार्कण्डेयाखिलं जगत्
तदेतत्कथितं सर्वं मार्कण्डेयावधारय१३२
शुश्रूषुरपि धर्मेषु कुक्षौ चरसुखं मम
मम ब्रह्मा शरीरस्थो देवाश्च ॠषिभिः सह१३३
व्यक्तमव्यक्तयोगं मामवगच्छ मुरद्विषम्
अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्च पितामहः१३४
परस्त्रिवर्गओङ्कारः परमात्मप्रदर्शनः
एवमादिपुराणं च वदतेमां महामते१३५
वक्त्रं यातो भगवतो मार्कण्डेयो महामुनिः
ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः१३६
तस्यासम्मुखमेकान्ते शुश्रूषुर्हंसमव्ययम्
यदक्षयं विविधमुपाश्रितं तु तन्महार्णवे व्यपगतचन्द्रभास्करे१३७
शनैश्चरन्प्रभुरथ हंससञ्ज्ञितः सृजन्जगद्विहरति कालपर्यये
अथ चैवं शुचिर्भूत्वा वरयामास वै तपः१३८
छादयित्वात्मनो देहं पयसाम्बुजसम्भवः
ततो महात्मातिबलो मर्त्यलोकविसर्जने१३९
महतां चैव भूतानां विश्वो विश्वमचिन्तयत्
तस्य चिन्तयमानस्य नियते संस्थितेर्णवे१४०
निराकाशे तोयमये सूक्ष्मे जगति सङ्क्षये
ईशः सङ्क्षोभयामास सोर्णवं सलिलं गतः१४१
अथान्तरादपां सूक्ष्ममथ च्छिद्रमभूत्पुरा
शब्दं प्रति ततो भूतो मारुतश्छिद्रसम्भवः१४२
संलब्ध्वान्तरसङ्क्षोभं व्यवर्धत समीरणः
नभस्वता बलवता वेगाद्विक्षोभितोर्णवः१४३
तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मथ्यतः
कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान्१४४
ततः संशोषयामास पावकः सलिलं बहु
समस्तजलधिश्छिद्रमभवद्विसृतं नभः१४५
आत्मतेजोभवाः पुण्या आपोमृतरसोपमाः
आकाशं छिद्रसम्भूतं वायुराकाशसम्भवः१४६
अथ सङ्घर्षसम्भूतं पावकं चास्य सम्भवम्
दृष्ट्वा पितामहो देवो महाभूतविभावनः१४७
दृष्ट्वा भूतानि भगवान्लोकसृष्ट्यर्थमुत्तमम्
ब्रह्मणो जन्मसहितं बहुरूपो ह्यचिन्तयत्१४८
चतुर्युगानां सङ्ख्यातं सहस्रं युगपर्यये
यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम्१४९
बहुजन्मविशुद्धात्मा ब्रह्मणो हरिरुच्यते
ज्ञानं दृष्ट्वा तु विश्वात्मा योगिनां याति योग्यताम्1.39.१५०
तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम्
पदे ब्रह्मणि विश्वस्य न्ययोजयत योगवित्१५१
ततस्तस्मिन्महातोये महेशो हरिरच्युतः
जलक्रीडां च विधिवत्स चक्रे सर्वलोककृत्१५२
पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्ततः
सहस्त्रवर्णं विरजं भास्कराभं हिरण्मयम्१५३
हुताशनज्वलितशिखोज्जवलप्रभं समुत्थितं शरदमलार्कतेजसम्
विराजते कमलमुदारवर्चसं महात्मनस्तनुरुह चारुशैवलम्१५४