०३६

पुलस्त्य उवाच

विश्वास-प्रस्तुतिः

ततो देवाः प्रयातास्ते विमानैर्बहुभिस्तदा
रामोप्यनुजगामाशु कुम्भयोनेस्तपोवनम्॥ १ ॥

मूलम्

ततो देवाः प्रयातास्ते विमानैर्बहुभिस्तदा
रामोप्यनुजगामाशु कुम्भयोनेस्तपोवनम्॥ १ ॥

विश्वास-प्रस्तुतिः

उक्तं भगवता तेन भूयोप्यागमनं क्रियाः
पूर्वमेव सभायां च यो मां द्रष्टुं समागतः॥ २ ॥

मूलम्

उक्तं भगवता तेन भूयोप्यागमनं क्रियाः
पूर्वमेव सभायां च यो मां द्रष्टुं समागतः॥ २ ॥

विश्वास-प्रस्तुतिः

तदहं देवतादेशात्तत्कार्यार्थे महामुनिं
पश्यामि तं मुनिं गत्वा देवदानवपूजितम्॥ ३ ॥

मूलम्

तदहं देवतादेशात्तत्कार्यार्थे महामुनिं
पश्यामि तं मुनिं गत्वा देवदानवपूजितम्॥ ३ ॥

विश्वास-प्रस्तुतिः

उपदेशं च मे तुष्टः स्वयं दास्यति सत्तमः
दुःखी येन पुनर्मर्त्ये न भवामि कदाचन॥ ४ ॥

मूलम्

उपदेशं च मे तुष्टः स्वयं दास्यति सत्तमः
दुःखी येन पुनर्मर्त्ये न भवामि कदाचन॥ ४ ॥

विश्वास-प्रस्तुतिः

पिता दशरथो मह्यं कौसल्या जननी तथा
सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः॥ ५ ॥

मूलम्

पिता दशरथो मह्यं कौसल्या जननी तथा
सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः॥ ५ ॥

विश्वास-प्रस्तुतिः

राज्यकाले वने वासो भार्यया चानुजेन च
हरणं चापि भार्याया रावणेन कृतं मम॥ ६ ॥

मूलम्

राज्यकाले वने वासो भार्यया चानुजेन च
हरणं चापि भार्याया रावणेन कृतं मम॥ ६ ॥

विश्वास-प्रस्तुतिः

असहायेन तु मया तीर्त्वा सागरमुत्तमम्
रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयम्॥ ७ ॥

मूलम्

असहायेन तु मया तीर्त्वा सागरमुत्तमम्
रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयम्॥ ७ ॥

विश्वास-प्रस्तुतिः

दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा
शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम्॥ ८ ॥

मूलम्

दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा
शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम्॥ ८ ॥

विश्वास-प्रस्तुतिः

समानीता प्रीतिमता लोकवाक्याद्विसर्जिता
वने वसति सा देवी पुरे चाहं वसामि वै॥ ९ ॥

मूलम्

समानीता प्रीतिमता लोकवाक्याद्विसर्जिता
वने वसति सा देवी पुरे चाहं वसामि वै॥ ९ ॥

विश्वास-प्रस्तुतिः

जातोहमुत्तमे वंशे उत्तमोहं धनुष्मताम्
उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते॥ १० ॥

मूलम्

जातोहमुत्तमे वंशे उत्तमोहं धनुष्मताम्
उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते॥ १० ॥

विश्वास-प्रस्तुतिः

वज्रसारस्य सारेण धात्राहं निर्मितो ध्रुवम्
इदानीं ब्राह्मणादेशाद्भ्रमामि धरणीतले॥ ११ ॥

मूलम्

वज्रसारस्य सारेण धात्राहं निर्मितो ध्रुवम्
इदानीं ब्राह्मणादेशाद्भ्रमामि धरणीतले॥ ११ ॥

विश्वास-प्रस्तुतिः

तपः स्थितस्तु शूद्रोसौ मया पापो निपातितः
देववाक्यात्तु मे भूयः प्राणो मे हृदि संस्थितः॥ १२ ॥

मूलम्

तपः स्थितस्तु शूद्रोसौ मया पापो निपातितः
देववाक्यात्तु मे भूयः प्राणो मे हृदि संस्थितः॥ १२ ॥

विश्वास-प्रस्तुतिः

पश्यामि तं मुनिं वन्द्यं जगतोस्य हिते रतम्
दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम्॥ १३ ॥

मूलम्

पश्यामि तं मुनिं वन्द्यं जगतोस्य हिते रतम्
दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम्॥ १३ ॥

विश्वास-प्रस्तुतिः

उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते
तद्वन्मे दुःखसम्प्राप्तिः सर्वथा नाशमेष्यति॥ १४ ॥

मूलम्

उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते
तद्वन्मे दुःखसम्प्राप्तिः सर्वथा नाशमेष्यति॥ १४ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा च देवान्सम्प्राप्तानगस्त्यो भगवानृषिः
अर्घ्यमादाय सुप्रीतः सर्वांस्तानभ्यपूजयत्॥ १५ ॥

मूलम्

दृष्ट्वा च देवान्सम्प्राप्तानगस्त्यो भगवानृषिः
अर्घ्यमादाय सुप्रीतः सर्वांस्तानभ्यपूजयत्॥ १५ ॥

विश्वास-प्रस्तुतिः

ते तु गृह्य ततः पूजां सम्भाष्य च महामुनिं
जग्मुस्तेन तदा हृष्टा नाकपृष्ठं सहानुगाः॥ १६ ॥

मूलम्

ते तु गृह्य ततः पूजां सम्भाष्य च महामुनिं
जग्मुस्तेन तदा हृष्टा नाकपृष्ठं सहानुगाः॥ १६ ॥

विश्वास-प्रस्तुतिः

गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च
अभिवादयितुं प्राप्तः सोगस्त्यमृषिमुत्तमम्॥ १७ ॥

मूलम्

गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च
अभिवादयितुं प्राप्तः सोगस्त्यमृषिमुत्तमम्॥ १७ ॥

विश्वास-प्रस्तुतिः

राजोवाच
सुतो दशरथस्याहं भवन्तमभिवादितुम्
आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्व चक्षुषा॥ १८ ॥

मूलम्

राजोवाच
सुतो दशरथस्याहं भवन्तमभिवादितुम्
आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्व चक्षुषा॥ १८ ॥

विश्वास-प्रस्तुतिः

निर्धूतपापस्त्वां दृष्ट्वा भवामीह न संशयः
एतावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः॥ १९ ॥

मूलम्

निर्धूतपापस्त्वां दृष्ट्वा भवामीह न संशयः
एतावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः॥ १९ ॥

विश्वास-प्रस्तुतिः

कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च
भगवद्दर्शनाकाङ्क्षी शूद्रं हत्वा त्विहागतः॥ २० ॥

मूलम्

कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च
भगवद्दर्शनाकाङ्क्षी शूद्रं हत्वा त्विहागतः॥ २० ॥

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
स्वागतं ते रघुश्रेष्ठ जगद्वन्द्य सनातन
दर्शनात्तव काकुत्स्थ पूतोहं मुनिभिः सह॥ २१ ॥

मूलम्

अगस्त्य उवाच
स्वागतं ते रघुश्रेष्ठ जगद्वन्द्य सनातन
दर्शनात्तव काकुत्स्थ पूतोहं मुनिभिः सह॥ २१ ॥

विश्वास-प्रस्तुतिः

त्वत्कृते रघुशार्दूल गृहाणार्घं महाद्युते
स्वागतं नरशार्दूल दिष्ट्या प्राप्तोसि शत्रुहन्॥ २२ ॥

मूलम्

त्वत्कृते रघुशार्दूल गृहाणार्घं महाद्युते
स्वागतं नरशार्दूल दिष्ट्या प्राप्तोसि शत्रुहन्॥ २२ ॥

विश्वास-प्रस्तुतिः

त्वं हि नित्यं बहुमतो गुणैर्बहुभिरुत्तमैः
अतस्त्वं पूजनीयो वै मम नित्यं हृदिस्थितः॥ २३ ॥

मूलम्

त्वं हि नित्यं बहुमतो गुणैर्बहुभिरुत्तमैः
अतस्त्वं पूजनीयो वै मम नित्यं हृदिस्थितः॥ २३ ॥

विश्वास-प्रस्तुतिः

सुरा हि कथयन्ति त्वां शूद्रघातिनमागतं
ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः॥ २४ ॥

मूलम्

सुरा हि कथयन्ति त्वां शूद्रघातिनमागतं
ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः॥ २४ ॥

विश्वास-प्रस्तुतिः

उष्यतां चेह भगवः सकाशे मम राघव
प्रभाते पुष्पकेणासि गन्तायोध्यां महामते॥ २५ ॥

मूलम्

उष्यतां चेह भगवः सकाशे मम राघव
प्रभाते पुष्पकेणासि गन्तायोध्यां महामते॥ २५ ॥

विश्वास-प्रस्तुतिः

इदं चाभरणं सौम्य सुकृतं विश्वकर्मणा
दिव्यं दिव्येनवपुषा दीप्यमानं स्वतेजसा॥ २६ ॥

मूलम्

इदं चाभरणं सौम्य सुकृतं विश्वकर्मणा
दिव्यं दिव्येनवपुषा दीप्यमानं स्वतेजसा॥ २६ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्णीष्व राजेन्द्र मत्प्रियं कुरु राघव
लब्धस्य हि पुनर्द्दाने सुमहत्फलमुच्यते॥ २७ ॥

मूलम्

प्रतिगृह्णीष्व राजेन्द्र मत्प्रियं कुरु राघव
लब्धस्य हि पुनर्द्दाने सुमहत्फलमुच्यते॥ २७ ॥

विश्वास-प्रस्तुतिः

त्वं हि शक्तः परित्रातुं सेन्द्रानपि सुरोत्तमान्
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नरर्षभ॥ २८ ॥

मूलम्

त्वं हि शक्तः परित्रातुं सेन्द्रानपि सुरोत्तमान्
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नरर्षभ॥ २८ ॥

विश्वास-प्रस्तुतिः

अथोवाच महाबाहुरिक्ष्वाकूणां महारथः
कृताञ्जलिर्मुनिश्रेष्ठं स्वं च धर्ममनुस्मरन्॥ २९ ॥

मूलम्

अथोवाच महाबाहुरिक्ष्वाकूणां महारथः
कृताञ्जलिर्मुनिश्रेष्ठं स्वं च धर्ममनुस्मरन्॥ २९ ॥

विश्वास-प्रस्तुतिः

प्रतिग्रहो वै भगवंस्तव मेऽत्र विगर्हितः
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता॥ ३० ॥

मूलम्

प्रतिग्रहो वै भगवंस्तव मेऽत्र विगर्हितः
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता॥ ३० ॥

विश्वास-प्रस्तुतिः

ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि
सपुत्रो गृहवानस्मि समर्थोस्मि महामुने॥ ३१ ॥

मूलम्

ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि
सपुत्रो गृहवानस्मि समर्थोस्मि महामुने॥ ३१ ॥

विश्वास-प्रस्तुतिः

आपदा चन चाक्रान्तः कथं ग्राह्यः प्रतिग्रहः
भार्या मे सुचिरं नष्टा न चान्या मम विद्यते॥ ३२ ॥

मूलम्

आपदा चन चाक्रान्तः कथं ग्राह्यः प्रतिग्रहः
भार्या मे सुचिरं नष्टा न चान्या मम विद्यते॥ ३२ ॥

विश्वास-प्रस्तुतिः

केवलं दोषभागी च भवामीह न संशयः
कष्टां चैव दशां प्राप्य क्षत्रियोपि प्रतिग्रही॥ ३३ ॥

मूलम्

केवलं दोषभागी च भवामीह न संशयः
कष्टां चैव दशां प्राप्य क्षत्रियोपि प्रतिग्रही॥ ३३ ॥

विश्वास-प्रस्तुतिः

कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणम्
वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः॥ ३४ ॥

मूलम्

कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणम्
वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः॥ ३४ ॥

विश्वास-प्रस्तुतिः

अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्
नाहं प्रतीच्छे विप्रर्षे त्वया दत्तं प्रतिग्रहं॥ ३५ ॥

मूलम्

अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्
नाहं प्रतीच्छे विप्रर्षे त्वया दत्तं प्रतिग्रहं॥ ३५ ॥

विश्वास-प्रस्तुतिः

न च मे भवता कोपः कार्यो वै सुरपूजित॥ ३६ ॥

मूलम्

न च मे भवता कोपः कार्यो वै सुरपूजित॥ ३६ ॥

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप
भवान्वै तारणे शक्तस्त्रैलोक्यस्यापि राघव॥ ३७ ॥

मूलम्

अगस्त्य उवाच
न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप
भवान्वै तारणे शक्तस्त्रैलोक्यस्यापि राघव॥ ३७ ॥

विश्वास-प्रस्तुतिः

तारय ब्राह्मणं राम विशेषेण तपस्विनं
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नराघिप॥ ३८ ॥

मूलम्

तारय ब्राह्मणं राम विशेषेण तपस्विनं
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नराघिप॥ ३८ ॥

विश्वास-प्रस्तुतिः

राम उवाच
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि॥ ३९ ॥

मूलम्

राम उवाच
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि॥ ३९ ॥

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
आसीत्कृतयुगे राम ब्रह्मपूते पुरातने
अपार्थिवाः प्रजाः सर्वाः सुराणां च शतक्रतुः॥ ४० ॥

मूलम्

अगस्त्य उवाच
आसीत्कृतयुगे राम ब्रह्मपूते पुरातने
अपार्थिवाः प्रजाः सर्वाः सुराणां च शतक्रतुः॥ ४० ॥

विश्वास-प्रस्तुतिः

ताः प्रजा देवदेवेशं राजार्थं समुपागमन्
सुराणां विद्यते राजा देवदेवः शतक्रतुः॥ ४१ ॥

मूलम्

ताः प्रजा देवदेवेशं राजार्थं समुपागमन्
सुराणां विद्यते राजा देवदेवः शतक्रतुः॥ ४१ ॥

विश्वास-प्रस्तुतिः

श्रेयसेस्मासु लोकेश पार्थिवं कुरु साम्प्रतं
यस्मिन्पूजां प्रयुञ्जानाः पुरुषा भुञ्जते महीम्॥ ४२ ॥

मूलम्

श्रेयसेस्मासु लोकेश पार्थिवं कुरु साम्प्रतं
यस्मिन्पूजां प्रयुञ्जानाः पुरुषा भुञ्जते महीम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्
समाहूयाब्रवीत्सर्वांस्तेजोभागोऽत्र युज्यताम्॥ ४३ ॥

मूलम्

ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्
समाहूयाब्रवीत्सर्वांस्तेजोभागोऽत्र युज्यताम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

ततो ददुर्लोकपालाश्चतुर्भागं स्वतेजसा
अक्षयश्च ततो ब्रह्मा यतो जातोऽक्षयो नृपः॥ ४४ ॥

मूलम्

ततो ददुर्लोकपालाश्चतुर्भागं स्वतेजसा
अक्षयश्च ततो ब्रह्मा यतो जातोऽक्षयो नृपः॥ ४४ ॥

विश्वास-प्रस्तुतिः

तं ब्रह्मा लोकपालानामंशं पुंसामयोजयत्
ततो नृपस्तदा तासां प्रजानां क्षेमपण्डितः॥ ४५ ॥

मूलम्

तं ब्रह्मा लोकपालानामंशं पुंसामयोजयत्
ततो नृपस्तदा तासां प्रजानां क्षेमपण्डितः॥ ४५ ॥

विश्वास-प्रस्तुतिः

तत्रैन्द्रेण तु भागेन सर्वानाज्ञापयेन्नृपः
वारुणेन च भागेन सर्वान्पुष्णाति देहिनः॥ ४६ ॥

मूलम्

तत्रैन्द्रेण तु भागेन सर्वानाज्ञापयेन्नृपः
वारुणेन च भागेन सर्वान्पुष्णाति देहिनः॥ ४६ ॥

विश्वास-प्रस्तुतिः

कौबेरेण तथांशेन त्वर्थान्दिशति पार्थिवः
यश्च याम्यो नृपे भागस्तेन शास्ति च वै प्रजाः॥ ४७ ॥

मूलम्

कौबेरेण तथांशेन त्वर्थान्दिशति पार्थिवः
यश्च याम्यो नृपे भागस्तेन शास्ति च वै प्रजाः॥ ४७ ॥

विश्वास-प्रस्तुतिः

तत्र चैन्द्रेण भागेन नरेन्द्रोसि रघूत्तम
प्रतिगृह्णीष्वाभरणं तारणार्थे मम प्रभो॥ ४८ ॥

मूलम्

तत्र चैन्द्रेण भागेन नरेन्द्रोसि रघूत्तम
प्रतिगृह्णीष्वाभरणं तारणार्थे मम प्रभो॥ ४८ ॥

विश्वास-प्रस्तुतिः

ततो रामः प्रजग्राह मुनेर्हस्तान्महात्मनः
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करं॥ ४९ ॥

मूलम्

ततो रामः प्रजग्राह मुनेर्हस्तान्महात्मनः
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करं॥ ४९ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य ततोगस्त्याद्राघवः परवीरहा
निरीक्ष्य सुचिरं कालं विचार्य च पुनः पुनः1.36.॥ ५० ॥

मूलम्

प्रतिगृह्य ततोगस्त्याद्राघवः परवीरहा
निरीक्ष्य सुचिरं कालं विचार्य च पुनः पुनः1.36.॥ ५० ॥

विश्वास-प्रस्तुतिः

मौक्तिकानि विचित्राणि धात्रीफलसमानि च
जाम्बूनदनिबद्धानि वज्रविद्रुमनीलकैः॥ ५१ ॥

मूलम्

मौक्तिकानि विचित्राणि धात्रीफलसमानि च
जाम्बूनदनिबद्धानि वज्रविद्रुमनीलकैः॥ ५१ ॥

विश्वास-प्रस्तुतिः

पद्मरागैः सगोमेधैर्वैडूर्यैः पुष्परागकैः
सुनिबद्धं सुविभक्तं सुकृतं विश्वकर्मणा॥ ५२ ॥

मूलम्

पद्मरागैः सगोमेधैर्वैडूर्यैः पुष्परागकैः
सुनिबद्धं सुविभक्तं सुकृतं विश्वकर्मणा॥ ५२ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिन्तयत्
नेदृशानि च रत्नानि मया दृष्टानि कानिचित्॥ ५३ ॥

मूलम्

दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिन्तयत्
नेदृशानि च रत्नानि मया दृष्टानि कानिचित्॥ ५३ ॥

विश्वास-प्रस्तुतिः

उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च
विभीषणस्य लङ्कायां न दृष्टानि मया पुरा॥ ५४ ॥

मूलम्

उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च
विभीषणस्य लङ्कायां न दृष्टानि मया पुरा॥ ५४ ॥

विश्वास-प्रस्तुतिः

इति सञ्चित्य मनसा राघवस्तमृषिं पुनः
आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे॥ ५५ ॥

मूलम्

इति सञ्चित्य मनसा राघवस्तमृषिं पुनः
आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे॥ ५५ ॥

विश्वास-प्रस्तुतिः

अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षिताम्
कथं भगवता प्राप्तं कुतो वा केन निर्मितम्॥ ५६ ॥

मूलम्

अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षिताम्
कथं भगवता प्राप्तं कुतो वा केन निर्मितम्॥ ५६ ॥

विश्वास-प्रस्तुतिः

कुतूहलवशाच्चैव पृच्छामि त्वां महामते
करतलेस्थिते रत्ने करमध्यं प्रकाशते॥ ५७ ॥

मूलम्

कुतूहलवशाच्चैव पृच्छामि त्वां महामते
करतलेस्थिते रत्ने करमध्यं प्रकाशते॥ ५७ ॥

विश्वास-प्रस्तुतिः

अधमं तद्विजानीयात्सर्वशास्त्रेषु गर्हितम्
दिशः प्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम॥ ५८ ॥

मूलम्

अधमं तद्विजानीयात्सर्वशास्त्रेषु गर्हितम्
दिशः प्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम॥ ५८ ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतम्
एतान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु॥ ५९ ॥

मूलम्

ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतम्
एतान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु॥ ५९ ॥

विश्वास-प्रस्तुतिः

आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः
एवं वदति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्॥ ६० ॥

मूलम्

आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः
एवं वदति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्॥ ६० ॥

विश्वास-प्रस्तुतिः

अगस्त्य उवाच
शृणु राम पुरावृत्तं पुरा त्रेतायुगे महत्
द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम्॥ ६१ ॥

मूलम्

अगस्त्य उवाच
शृणु राम पुरावृत्तं पुरा त्रेतायुगे महत्
द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम्॥ ६१ ॥

विश्वास-प्रस्तुतिः

आश्चर्यं सुमहाबाहो निबोध रघुनन्दन
पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्॥ ६२ ॥

मूलम्

आश्चर्यं सुमहाबाहो निबोध रघुनन्दन
पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्॥ ६२ ॥

विश्वास-प्रस्तुतिः

समन्ताद्योजनशतं मृगव्याघ्रविवर्जितम्
तस्मिन्निष्पुरुषेऽरण्ये चिकीर्षुस्तप उत्तमम्॥ ६३ ॥

मूलम्

समन्ताद्योजनशतं मृगव्याघ्रविवर्जितम्
तस्मिन्निष्पुरुषेऽरण्ये चिकीर्षुस्तप उत्तमम्॥ ६३ ॥

विश्वास-प्रस्तुतिः

अहमाक्रमितुं सौम्य तदरण्यमुपागतः
तस्यारण्यस्य मध्यं तु युक्तं मूलफलैः सदा॥ ६४ ॥

मूलम्

अहमाक्रमितुं सौम्य तदरण्यमुपागतः
तस्यारण्यस्य मध्यं तु युक्तं मूलफलैः सदा॥ ६४ ॥

विश्वास-प्रस्तुतिः

शाकैर्बहुविधाकारैर्नानारूपैः सुकाननैः
तस्यारण्यस्य मध्ये तु पञ्चयोजनमायतम्॥ ६५ ॥

मूलम्

शाकैर्बहुविधाकारैर्नानारूपैः सुकाननैः
तस्यारण्यस्य मध्ये तु पञ्चयोजनमायतम्॥ ६५ ॥

विश्वास-प्रस्तुतिः

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
तत्राश्चर्यं मया दृष्टं सरः परमशोभितम्॥ ६६ ॥

मूलम्

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्
तत्राश्चर्यं मया दृष्टं सरः परमशोभितम्॥ ६६ ॥

विश्वास-प्रस्तुतिः

विसारिकच्छपाकीर्णं बकपङ्क्तिगणैर्युतम्
समीपे तस्य सरसस्तपस्तप्तुं गतः पुरा॥ ६७ ॥

मूलम्

विसारिकच्छपाकीर्णं बकपङ्क्तिगणैर्युतम्
समीपे तस्य सरसस्तपस्तप्तुं गतः पुरा॥ ६७ ॥

विश्वास-प्रस्तुतिः

देशं पुण्यमुपेत्यैवं सर्वहिंसाविवर्जितम्
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ॥ ६८ ॥

मूलम्

देशं पुण्यमुपेत्यैवं सर्वहिंसाविवर्जितम्
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ॥ ६८ ॥

विश्वास-प्रस्तुतिः

प्रभाते पुरुत्थाय सरस्तदुपचक्रमे
अथापश्यं शवमहमस्पृष्टजरसं क्वचित्॥ ६९ ॥

मूलम्

प्रभाते पुरुत्थाय सरस्तदुपचक्रमे
अथापश्यं शवमहमस्पृष्टजरसं क्वचित्॥ ६९ ॥

विश्वास-प्रस्तुतिः

तिष्ठन्तं परया लक्ष्म्या सरसो नातिदूरतः
तदर्थं चिन्तयानोहं मुहूर्तमिव राघव॥ ७० ॥

मूलम्

तिष्ठन्तं परया लक्ष्म्या सरसो नातिदूरतः
तदर्थं चिन्तयानोहं मुहूर्तमिव राघव॥ ७० ॥

विश्वास-प्रस्तुतिः

अस्य तीरे न वै प्राणी को वाप्येष सुरर्षभः
मुनिर्वा पार्थिवो वापि क्व मुनिः पार्थिवोपि वा॥ ७१ ॥

मूलम्

अस्य तीरे न वै प्राणी को वाप्येष सुरर्षभः
मुनिर्वा पार्थिवो वापि क्व मुनिः पार्थिवोपि वा॥ ७१ ॥

विश्वास-प्रस्तुतिः

अथवा पार्थिवसुतस्तस्यैवं सम्भवः कृतः
अतीतेहनि रात्रौ वा प्रातर्वापि मृतो यदि॥ ७२ ॥

मूलम्

अथवा पार्थिवसुतस्तस्यैवं सम्भवः कृतः
अतीतेहनि रात्रौ वा प्रातर्वापि मृतो यदि॥ ७२ ॥

विश्वास-प्रस्तुतिः

अवश्यं तु मया ज्ञेया सरसोस्य विनिष्क्रिया
यावदेवं स्थितश्चाहं चिन्तयानो रघूत्तम॥ ७३ ॥

मूलम्

अवश्यं तु मया ज्ञेया सरसोस्य विनिष्क्रिया
यावदेवं स्थितश्चाहं चिन्तयानो रघूत्तम॥ ७३ ॥

विश्वास-प्रस्तुतिः

अथापश्यं मूहूर्तात्तु दिव्यमद्भुतदर्शनम्
विमानं परमोदारं हंसयुक्तं मनोजवम्॥ ७४ ॥

मूलम्

अथापश्यं मूहूर्तात्तु दिव्यमद्भुतदर्शनम्
विमानं परमोदारं हंसयुक्तं मनोजवम्॥ ७४ ॥

विश्वास-प्रस्तुतिः

पुरस्तत्र सहस्रं तु विमानेप्सरसां नृप
गन्धर्वाश्चैव तत्सङ्ख्या रमयन्ति वरं नरम्॥ ७५ ॥

मूलम्

पुरस्तत्र सहस्रं तु विमानेप्सरसां नृप
गन्धर्वाश्चैव तत्सङ्ख्या रमयन्ति वरं नरम्॥ ७५ ॥

विश्वास-प्रस्तुतिः

गायन्ति दिव्यगेयानि वादयन्ति तथा परे
अथापश्यं नरं तस्माद्विमानादवरोहितम्॥ ७६ ॥

मूलम्

गायन्ति दिव्यगेयानि वादयन्ति तथा परे
अथापश्यं नरं तस्माद्विमानादवरोहितम्॥ ७६ ॥

विश्वास-प्रस्तुतिः

शवमांसं भक्षयन्तं च स्नात्वा रघुकुलोद्वह
ततो भुक्त्वा यथाकामं स मांसं बहुपीवरम्॥ ७७ ॥

मूलम्

शवमांसं भक्षयन्तं च स्नात्वा रघुकुलोद्वह
ततो भुक्त्वा यथाकामं स मांसं बहुपीवरम्॥ ७७ ॥

विश्वास-प्रस्तुतिः

अवतीर्य सरः शीघ्रमारुरोह दिवं पुनः
तमहं देवसङ्काशं श्रिया परमयान्वितम्॥ ७८ ॥

मूलम्

अवतीर्य सरः शीघ्रमारुरोह दिवं पुनः
तमहं देवसङ्काशं श्रिया परमयान्वितम्॥ ७८ ॥

विश्वास-प्रस्तुतिः

भो भो स्वर्गिन्महाभाग पृच्छामि त्वां कथं त्विदम्
जुगुप्सितस्तवाहारो गतिश्चेयं तवोत्तमा॥ ७९ ॥

मूलम्

भो भो स्वर्गिन्महाभाग पृच्छामि त्वां कथं त्विदम्
जुगुप्सितस्तवाहारो गतिश्चेयं तवोत्तमा॥ ७९ ॥

विश्वास-प्रस्तुतिः

यदि गुह्यं न चैतत्ते कथय त्वद्य मे भवान्
कामतः श्रोतुमिच्छामि किमेतत्परमं वचः॥ ८० ॥

मूलम्

यदि गुह्यं न चैतत्ते कथय त्वद्य मे भवान्
कामतः श्रोतुमिच्छामि किमेतत्परमं वचः॥ ८० ॥

विश्वास-प्रस्तुतिः

को भवान्वद सन्देहमाहारश्च विगर्हितः
त्वयेदं भुज्यते सौम्य किमर्थं क्व च वर्तसे॥ ८१ ॥

मूलम्

को भवान्वद सन्देहमाहारश्च विगर्हितः
त्वयेदं भुज्यते सौम्य किमर्थं क्व च वर्तसे॥ ८१ ॥

विश्वास-प्रस्तुतिः

कस्यायमैश्वरोभावः शवत्वेन विनिर्मितः
आहारं च कथं निन्द्यं श्रोतुमिच्छामि तत्त्वतः॥ ८२ ॥

मूलम्

कस्यायमैश्वरोभावः शवत्वेन विनिर्मितः
आहारं च कथं निन्द्यं श्रोतुमिच्छामि तत्त्वतः॥ ८२ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा च भाषितं तत्र मम राम सतां वर
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन॥ ८३ ॥

मूलम्

श्रुत्वा च भाषितं तत्र मम राम सतां वर
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन॥ ८३ ॥

विश्वास-प्रस्तुतिः

शृणुष्वाद्य यथावृत्तं ममेदं सुखदुःखजम्
कामो हि दुरितक्रम्यः शृणु यत्पृच्छसे द्विज॥ ८४ ॥

मूलम्

शृणुष्वाद्य यथावृत्तं ममेदं सुखदुःखजम्
कामो हि दुरितक्रम्यः शृणु यत्पृच्छसे द्विज॥ ८४ ॥

विश्वास-प्रस्तुतिः

पुरा वैदर्भको राजा पिता मे हि महायशाः
वासुदेव इति ख्यातस्त्रिषु लोकेषु धार्मिकः॥ ८५ ॥

मूलम्

पुरा वैदर्भको राजा पिता मे हि महायशाः
वासुदेव इति ख्यातस्त्रिषु लोकेषु धार्मिकः॥ ८५ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्॥ ८६ ॥

मूलम्

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्॥ ८६ ॥

विश्वास-प्रस्तुतिः

पितर्युपरते तस्मिन्पौरा मामभ्यषेचयन्
तत्राहङ्कारयन्राज्यं धर्मे चासं समाहितः॥ ८७ ॥

मूलम्

पितर्युपरते तस्मिन्पौरा मामभ्यषेचयन्
तत्राहङ्कारयन्राज्यं धर्मे चासं समाहितः॥ ८७ ॥

विश्वास-प्रस्तुतिः

एवं वर्षसहस्राणि बहूनि समुपाव्रजन्
मम राज्यं कारयतः परिपालयतः प्रजाः॥ ८८ ॥

मूलम्

एवं वर्षसहस्राणि बहूनि समुपाव्रजन्
मम राज्यं कारयतः परिपालयतः प्रजाः॥ ८८ ॥

विश्वास-प्रस्तुतिः

सोहं निमित्ते कस्मिंश्चिद्वैराग्येण द्विजोत्तम
मरणं हृदये कृत्वा तपोवनमुपागमम्॥ ८९ ॥

मूलम्

सोहं निमित्ते कस्मिंश्चिद्वैराग्येण द्विजोत्तम
मरणं हृदये कृत्वा तपोवनमुपागमम्॥ ८९ ॥

विश्वास-प्रस्तुतिः

सोहं वनमिदं रम्यं भृशं पक्षिविवर्जितम्
प्रविष्टस्तप आस्थातुमस्यैव सरसोन्तिके॥ ९० ॥

मूलम्

सोहं वनमिदं रम्यं भृशं पक्षिविवर्जितम्
प्रविष्टस्तप आस्थातुमस्यैव सरसोन्तिके॥ ९० ॥

विश्वास-प्रस्तुतिः

राज्येऽभिषिच्य सुरथं भ्रातरं तं नराधिपम्
इदं सरः समासाद्य तपस्तप्तं सुदारुणम्॥ ९१ ॥

मूलम्

राज्येऽभिषिच्य सुरथं भ्रातरं तं नराधिपम्
इदं सरः समासाद्य तपस्तप्तं सुदारुणम्॥ ९१ ॥

विश्वास-प्रस्तुतिः

दशवर्षसहस्राणि तपस्तप्त्वा महावने
शुभं तु भवनं प्राप्तो ब्रह्मलोकमनामयम्॥ ९२ ॥

मूलम्

दशवर्षसहस्राणि तपस्तप्त्वा महावने
शुभं तु भवनं प्राप्तो ब्रह्मलोकमनामयम्॥ ९२ ॥

विश्वास-प्रस्तुतिः

स्वर्गस्थमपि मां ब्रह्मन्क्षुत्पिपासे द्विजोत्तम
अबाधेतां भृशं चाहमभवं व्यथितेन्द्रियः॥ ९३ ॥

मूलम्

स्वर्गस्थमपि मां ब्रह्मन्क्षुत्पिपासे द्विजोत्तम
अबाधेतां भृशं चाहमभवं व्यथितेन्द्रियः॥ ९३ ॥

विश्वास-प्रस्तुतिः

ततस्त्रिभुवनश्रेष्ठमवोचं वै पितामहम्
भगवन्स्वर्गलोकोऽयं क्षुत्पिपासा विवर्जितः॥ ९४ ॥

मूलम्

ततस्त्रिभुवनश्रेष्ठमवोचं वै पितामहम्
भगवन्स्वर्गलोकोऽयं क्षुत्पिपासा विवर्जितः॥ ९४ ॥

विश्वास-प्रस्तुतिः

कस्येयं कर्मणः पक्तिः क्षुत्पिपासे यतो हि मे
आहारः कश्च मे देव ब्रूहि त्वं श्रीपितामह॥ ९५ ॥

मूलम्

कस्येयं कर्मणः पक्तिः क्षुत्पिपासे यतो हि मे
आहारः कश्च मे देव ब्रूहि त्वं श्रीपितामह॥ ९५ ॥

विश्वास-प्रस्तुतिः

ततः पितामहः सम्यक्चिरं ध्यात्वा महामुने
मामुवाच ततो वाक्यं नास्ति भोज्यं स्वदेहजम्॥ ९६ ॥

मूलम्

ततः पितामहः सम्यक्चिरं ध्यात्वा महामुने
मामुवाच ततो वाक्यं नास्ति भोज्यं स्वदेहजम्॥ ९६ ॥

विश्वास-प्रस्तुतिः

ॠते ते स्वानि मांसानि भक्षय त्वं तु हि नित्यशः
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्॥ ९७ ॥

मूलम्

ॠते ते स्वानि मांसानि भक्षय त्वं तु हि नित्यशः
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्॥ ९७ ॥

विश्वास-प्रस्तुतिः

नादत्तं जायते तात श्वेत पश्य महीतले
आग्रहाद्भिक्षमाणाय भिक्षापि प्राणिने पुरा॥ ९८ ॥

मूलम्

नादत्तं जायते तात श्वेत पश्य महीतले
आग्रहाद्भिक्षमाणाय भिक्षापि प्राणिने पुरा॥ ९८ ॥

विश्वास-प्रस्तुतिः

न हि दत्ता गृहे भ्रान्त्या मोहादतिथये तदा
तेन स्वर्गगतस्यापि क्षुत्पिपासे तवाधुना॥ ९९ ॥

मूलम्

न हि दत्ता गृहे भ्रान्त्या मोहादतिथये तदा
तेन स्वर्गगतस्यापि क्षुत्पिपासे तवाधुना॥ ९९ ॥

स त्वं प्रपुष्टमाहारैः स्वशरीरमनुत्तमम्
भक्षयस्व च राजेन्द्र सा ते तृप्तिर्भविष्यति1.36.१००
एवमुक्तस्ततो देवं ब्रह्माणमहमुक्तवान्
भक्षिते च स्वके देहे पुनरन्यन्न मे विभो१०१
क्षुधानिवारणं नैव देहस्यास्य विनौदनं
खादामि ह्यक्षयं देव प्रियं मे न हि जायते१०२
ततोब्रवीत्पुनर्ब्रह्मा तव देहोऽक्षयः कृतः
दिनेदिने ते पुष्टात्मा शवः श्वेत भविष्यति१०३
यावद्वर्षशतं पूर्णं स्वमांसं खाद भो नृप
यदागच्छति चागस्त्यः श्वेतारण्यं महातपाः१०४
भगवानतिदुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे
स हि तारयितुं शक्तः सेन्द्रानपि सुरासुरान्१०५
आहारं कुत्सितं चेमं राजर्षे किं पुनस्तव
सुरकार्यं महत्तेन सुकृतं तु महात्मना१०६
उदधिं निर्जलं कृत्वा दानवाश्च निपातिताः
विन्ध्यश्चादित्यविद्वेषाद्वर्धमानो निवारितः१०७
लम्बमाना मही चैषा गुरुत्वेनाधिवासिता
दक्षिणा दिग्दिवं याता त्रैलाक्यं विषमस्थितम्१०८
मया गत्वा सुरैः सार्द्धं प्रेषितो दक्षिणां दिशम्
समां कुरु महाभाग गुरुत्वेन जगत्समम्१०९
एवं च तेन मुनिना स्थित्वा सर्वा धरा समा
कृता राजेन्द्र मुनिना एवमद्यापि दृश्यते११०
सोहं भगवत श्रुत्वा देवदेवस्य भाषितम्
भुञ्जे च कुत्सिताहारं स्वशरीरमनुत्तमम्१११
पूर्णं वर्षशतं चाद्य भोजनं कुत्सितं च मे
क्षयं नाभ्येति तद्विप्र तृप्तिश्चापि ममोत्तमा११२
तं मुनिं कृच्छ्रसन्तप्तश्चिन्तयामि दिवानिशम्
कदा वै दर्शनं मह्यं स मुनिर्दास्यते वने११३
एवं मे चिन्तयानस्य गतं वर्षशतन्त्विह
सोगस्त्यो हि गतिर्ब्रह्मन्मुनिर्मे भविता ध्रुवं११४
न गतिर्भविता मह्यं कुम्भयोनिमृते द्विजम्
श्रुत्वेत्थं भाषितं राम दृष्ट्वाहारं च कुत्सितम्११५
कृपया परया युक्तस्तं नृपं स्वर्गगामिनम्
करोम्यहं सुधाभोज्यं नाशयामि च कुत्सितम्११६
चिन्तयन्नित्यवोचं तमगस्त्यः किं करिष्यति
अहमेतत्कुत्सितं ते नाशयामि महामते११७
ईप्सितं प्रार्थयस्वास्मान्मनः प्रीतिकरं परम्
स स्वर्गी मां ततः प्राह कथं ब्रह्मवचोन्यथा११८
कर्तुं मुने मया शक्यं न चान्यस्तारयिष्यति
ॠते वै कुम्भयोनिं तं मैत्रावरुणसम्भवम्११९
अपृष्टोपि मया ब्रह्मन्नेवमूचे पितामहः
एवं ब्रुवाणं तं श्वेतमुक्तवानहमस्मि सः१२०
आगतस्तव भाग्येन दृष्टोहं नात्र संशयः
ततः स्वर्गी स मां ज्ञात्वा दण्डवत्पतितो भुवि१२१
तमुत्थाप्य ततो रामाब्रवं किं ते करोम्यहम्
राजोवाच
आहारात्कुत्सिताद्ब्रह्मंस्तारयस्वाद्य दुष्कृतात्१२२
येन लोकोऽक्षयः स्वर्गो भविता त्वत्कृतेन मे
ततः प्रतिग्रहो दत्तो जगद्वन्द्य नृपेण हि१२३
भवान्मामनुगृह्णातु प्रतीच्छस्व प्रतिग्रहम्१२७
कृता मतिस्तारणाय न लोभाद्रघुनन्दन
गृहीते भूषणे राम मम हस्तगते तदा१२८
मानुषः पौर्विको देहस्तदा नष्टोस्य भूपते
प्रणष्टे तु शरीरे च राजर्षिः परया मुदा१२९
मयोक्तोसौ विमानेन जगाम त्रिदिवं पुनः
तेन मे शक्रतुल्येन दत्तमाभरणं शुभं१३०
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतकर्मणा
श्वेतो वैदर्भको राजा तदाभूद्गतकल्मषः१३१