०३५

भीष्म उवाच

विश्वास-प्रस्तुतिः

उक्तं भगवता सर्वं पुराणाश्रयसंयुतं
तथा श्वेतेन ब्रह्माण्डं गुरवे प्रतिपादितं॥ १ ॥

मूलम्

श्रुत्वैतत्कौतुकं जातं यथा तेनास्थिलेहनं
कृतं क्षुधापनोदार्थे अन्नदानाद्विना द्विज॥ २ ॥

तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाः
अन्नदानाद्दिवं प्राप्ताः क्रतवश्चान्नमूलकाः॥ ३ ॥

कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनः
न दत्तं तेनान्नदानमृषिभिर्वा न दर्शितम्॥ ४ ॥

अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलम्
परत्र भुज्यते पुम्भिः स्वर्गश्चाक्षयतां व्रजेत्॥ ५ ॥

अन्नदानं परं विप्राः कीर्तयन्ति सदोत्थिताः
अन्नदानात्सुरेद्रेण त्रैलोक्यमिह भुज्यते॥ ६ ॥

शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैः
तेनावस्थां तत्सदृशीं प्राप्तवांस्त्रिदशेश्वरः॥ ७ ॥

दानदेवगतः स्वर्गं त्वत्तः सर्वं श्रुतं मया
अपरं च पुरावृत्तं निवृत्तं यदि कर्हिचित्॥ ८ ॥

भूयोपि श्रोतुमिच्छामि तन्मे वद महामते
पुलस्त्य उवाच
एतदाख्यानकं पूर्वमगस्त्येन महात्मना॥ ९ ॥

रामाय कथितं राजंस्तत्ते वक्ष्यामि साम्प्रतम्
भीष्म उवाच
कस्मिन्वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः॥ १० ॥

यस्यागस्त्येन कथितश्चेतिहासः पुरातनः
पुलस्त्य उवाच
रघुवंशे समुत्पन्नो रामो नाम महाबलः॥ ११ ॥

देवकार्यं कृतं तेन लङ्कायां रावणो हतः
पृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागता गृहे॥ १२ ॥

प्राप्तास्ते तु महात्मानो राघवस्य निवेशनम्
प्रतीहारस्ततो राममगस्त्यवचनाद्द्रुतम्॥ १३ ॥

आवेदयामास ऋषीन्प्राप्तास्तांश्च त्वरान्वितः
दृष्ट्वा रामं द्वारपालः पूर्णचन्द्रमिवोदितम्॥ १४ ॥

कौसल्यासुत भद्रं ते सुप्रभाताद्य शर्वरी
द्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनन्दन॥ १५ ॥

अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृप
श्रुत्वा प्राप्तान्मुनीन्रामस्तान्भास्करसमद्युतीन्॥ १६ ॥

प्राह वाक्यं तदा द्वास्थं प्रवेशय त्वरान्वितः
किमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः॥ १७ ॥

रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथासुखम्
दृष्ट्वा तु तान्मुनीन्न्प्राप्तान्प्रत्युवाच कृताञ्जलि॥ १८ ॥

रामोऽभिवाद्य प्रणत आसनेषु न्यवेशयत्
ते तु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च॥ १९ ॥

कुशोत्तरेषु चासीनाः समन्तान्मुनिपुङ्गवाः
पाद्यमाचमनीयं च ददौ चार्घ्यं पुरोहितः॥ २० ॥

रामेण कुशलं पृष्टा ऋषयः सर्व एव ते
महर्षयो वेदविद इदं वचनमब्रुवन्॥ २१ ॥

मूलम्

रामेण कुशलं पृष्टा ऋषयः सर्व एव ते
महर्षयो वेदविद इदं वचनमब्रुवन्॥ २१ ॥

विश्वास-प्रस्तुतिः

कुशलं ते महाबाहो सर्वत्र रघुनन्दन
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम्॥ २२ ॥

हृता सीतातिपापेन रावणेन दुरात्मना
पत्नी ते रघुशार्दूल तस्या एवौजसा हतः॥ २३ ॥

असहायेन चैकेन त्वया राम रणे हतः
यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते॥ २४ ॥

इह सम्भाषितुं प्राप्ता दृष्ट्वा पूताः स्म साम्प्रतम्
दर्शनात्तव राजेन्द्र सर्वे जातास्तपस्विनः॥ २५ ॥

रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम्
दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम्॥ २६ ॥

दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रम
दृष्टस्सम्भाषितश्चासि यास्यामश्चाश्रमान्स्वकान्॥ २७ ॥

अरण्यं ते प्रविष्टस्य मया चेन्द्रशरासनम्
अर्पितं चाक्षयौ तूणौ कवचं च परन्तप॥ २८ ॥

भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वह
एवमुक्त्वा तु ते सर्वे मुनयोन्तर्हिताऽभवन्॥ २९ ॥

गतेषु मुनिमुख्येषु रामो धर्मभृतां वरः
चिन्तयामास तत्कार्यं किं स्यान्मे मुनिनोदितम्॥ ३० ॥

भूयोप्यागमनं कार्यमाश्रमे रघुनन्दन
अवश्यमेव गन्तव्यं मयाऽगस्त्यस्य सन्निधौ॥ ३१ ॥

श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत्
एवं चिन्तयतस्तस्य रामस्यामिततेजसः॥ ३२ ॥

करिष्ये नियतं धर्मं धर्मो हि परमा गतिः
सुतवर्षसहस्राणि दश राज्यमकारयत्॥ ३३ ॥

मूलम्

करिष्ये नियतं धर्मं धर्मो हि परमा गतिः
सुतवर्षसहस्राणि दश राज्यमकारयत्॥ ३३ ॥

विश्वास-प्रस्तुतिः

ददतो जुह्वतश्चैव जग्मुस्तान्येकवर्षवत्
प्रजाः पालयतस्तस्य राघवस्य महात्मनः॥ ३४ ॥

एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजः
मृतं पुत्रमुपादाय रामद्वारमुपागतः॥ ३५ ॥

मूलम्

एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजः
मृतं पुत्रमुपादाय रामद्वारमुपागतः॥ ३५ ॥

विश्वास-प्रस्तुतिः

उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितम्
दुष्कृतं किन्तु मे पुत्र पूर्वदेहान्तरे कृतम्॥ ३६ ॥

त्वामेकपुत्रं यदहं पश्यामि निधनं गतम्
अप्राप्तयौवनं बालं पञ्चवर्षं गतायुषम्॥ ३७ ॥

अकाले कालमापन्नं दुःखाय मम पुत्रक
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्॥ ३८ ॥

रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतः
बालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवम्॥ ३९ ॥

प्रवेक्ष्यति न सन्देहः सभार्ये तु मृते मयि
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्॥ ४० ॥

निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीत्
किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते॥ ४१ ॥

प्राणानहं जुहोम्यग्नौ पर्वताद्वा पतेह्यहम्
कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितम्॥ ४२ ॥

वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदः
प्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा॥ ४३ ॥

शृणु राम यथाकालं प्राप्तो वै बालसङ्क्षयः
पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम्॥ ४४ ॥

अब्राह्मणो न वै कश्चित्तपस्तपति राघव
अमृत्यवस्तदा सर्वे जायन्ते चिरजीविनः॥ ४५ ॥

त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम्
अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत्॥ ४६ ॥

एवं निरन्तरं जुष्टमुद्भूतमनृतं पुनः
अधर्मस्य त्रयः पादा एको धर्मस्य चागतः॥ ४७ ॥

ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाः
भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत॥ ४८ ॥

तस्मिन्द्वापरसञ्ज्ञे तु तपो वैश्यं समाविशत्
युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति॥ ४९ ॥

कलिसञ्ज्ञे ततः प्राप्ते वर्तमाने युगेन्तिमे
अधर्मश्चानृतं चैव ववृधाते नरर्षभ1.35.॥ ५० ॥

भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगे
स ते विषयपर्यन्ते राजन्नुग्रतरं तपः॥ ५१ ॥

शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतः
यस्याधर्ममकार्यं वा विषये पार्थिवस्य हि॥ ५२ ॥

पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरः
क्षिप्रं स नरकं याति यावदाभूतसम्प्लवम्॥ ५३ ॥

चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवः
सत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम्॥ ५४ ॥

दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर
एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा॥ ५५ ॥

भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम्
नारदेनैवमुक्तस्तु साश्चर्यो रघुनन्दनः॥ ५६ ॥

प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण॥ ५७ ॥

बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय
गन्धैश्च परमोदारैस्तैलैश्चैव सुगन्धिभिः॥ ५८ ॥

यथा न शीर्यते बालस्तथा सौम्य विधीयताम्
यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः॥ ५९ ॥

विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु
तथा सन्दिश्य सौमित्रं लक्ष्मणं शुभलक्षणम्॥ ६० ॥

मनसा पुष्पकं दध्यावागच्छेति महायशाः
इङ्गितं तत्तु विज्ञाय कामगं हेमभूषितम्॥ ६१ ॥

आजगाम मुहूर्तात्तु समीपं राघवस्य हि
सोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप॥ ६२ ॥

अग्रे तव महाबाहो किङ्करः समुपस्थितः
भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप॥ ६३ ॥

अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत
धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्॥ ६४ ॥

निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ
प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः॥ ६५ ॥

उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्
पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः॥ ६६ ॥

सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्
ततो दिशं समाक्रामद्दक्षिणां रघुनन्दनः॥ ६७ ॥

शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः॥ ६८ ॥

ददर्श राघवो भीमं लम्बमानमधोमुखं
तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्॥ ६९ ॥

उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ
कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय॥ ७० ॥

अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्
कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः॥ ७१ ॥

किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस
ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः॥ ७२ ॥

वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम्
तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे॥ ७३ ॥

सात्विकं राजसं चैव तच्च सत्यात्मकं तपः
जगदुपकारहेतुर्हि सृष्टं तद्वै विरिञ्चिना॥ ७४ ॥

रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते
परस्योत्सादनार्थाय तच्चासुरमुदाहृतम्॥ ७५ ॥

अङ्गानि निह्नुते यो वा असृग्दिग्धानि भागशः
पञ्चाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा॥ ७६ ॥

आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतः
सत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम्॥ ७७ ॥

तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः
अवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह॥ ७८ ॥

स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघव
पुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ॥ ७९ ॥

अथवा नैतदेवं हि सर्वेषां नृपतिः पिता
सत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः॥ ८० ॥

चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयम्भुवा
न धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव॥ ८१ ॥

यस्य ते विषये ह्येवं सिद्धिमिच्छन्ति तापसाः
तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव॥ ८२ ॥

यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः
शूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः॥ ८३ ॥

देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत
न मिथ्याहं वदे भूप देवलोकजिगीषया॥ ८४ ॥

मूलम्

देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत
न मिथ्याहं वदे भूप देवलोकजिगीषया॥ ८४ ॥

विश्वास-प्रस्तुतिः

शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः
भाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं॥ ८५ ॥

निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः
तस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः॥ ८६ ॥

साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः
पुष्पवृष्टिश्च महती देवानां सुसुगन्धिनी॥ ८७ ॥

आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत्
सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम्॥ ८८ ॥

सुरकार्यमिदं सौम्य कृतं ते रघुनन्दन
गृहाण च वरं राम यमिच्छसि महाव्रत॥ ८९ ॥

मूलम्

सुरकार्यमिदं सौम्य कृतं ते रघुनन्दन
गृहाण च वरं राम यमिच्छसि महाव्रत॥ ८९ ॥

विश्वास-प्रस्तुतिः

त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवं
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः॥ ९० ॥

उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम्
यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम्॥ ९१ ॥

कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु
वरमेतद्धि भवतां काङ्क्षितं परमं हि मे॥ ९२ ॥

ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकः
अप्राप्तकालः कालेन नीतो वैवस्वत क्षयम्॥ ९३ ॥

तं जीवयत भद्रं वो नानृती स्यामहं गुरोः
द्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम्॥ ९४ ॥

मदीयेनायुषा बालं पादेनार्द्धेन वा सुराः
जीवेदयं वरो मह्यं वरकोट्यधिको वृतः॥ ९५ ॥

राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः
प्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः॥ ९६ ॥

निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकः
जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः॥ ९७ ॥

यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः
तस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत॥ ९८ ॥

स्वस्ति प्राप्नुहि भद्रं ते साधयामः परन्तपः
अगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम्॥ ९९ ॥

स तथेति प्रतिज्ञाय देवानां रघुनन्दनः
आरुरोह विमानं तं पुष्पकं हेमभूषितम्१००