भीष्म उवाच
विश्वास-प्रस्तुतिः
कस्मिन्काले भगवता ब्रह्मणा लोककारिणा
यज्ञियैर्यष्टुमारब्धं तद्भवान्वक्तुमर्हति॥ १ ॥
मूलम्
कस्मिन्काले भगवता ब्रह्मणा लोककारिणा
यज्ञियैर्यष्टुमारब्धं तद्भवान्वक्तुमर्हति॥ १ ॥
विश्वास-प्रस्तुतिः
किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः
का च वै दक्षिणा तेषां दत्ता तेन महात्मना॥ २ ॥
मूलम्
किं नामान ऋत्विजस्ते ब्रह्मणा ये प्रकल्पिताः
का च वै दक्षिणा तेषां दत्ता तेन महात्मना॥ २ ॥
विश्वास-प्रस्तुतिः
यथाभूतं यथावृत्तं तथा त्वं मे प्रकीर्तय
सुमहत्कौतुकं जातं यज्ञं पैतामहं प्रति॥ ३ ॥
मूलम्
यथाभूतं यथावृत्तं तथा त्वं मे प्रकीर्तय
सुमहत्कौतुकं जातं यज्ञं पैतामहं प्रति॥ ३ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
पूर्वमेव मया ख्यातं यदा स्वायम्भुवो मनुः
सृष्ट्वा प्रजापतीन्सर्वानुक्तः सृष्टिं कुरुष्व वै॥ ४ ॥
मूलम्
पुलस्त्य उवाच
पूर्वमेव मया ख्यातं यदा स्वायम्भुवो मनुः
सृष्ट्वा प्रजापतीन्सर्वानुक्तः सृष्टिं कुरुष्व वै॥ ४ ॥
विश्वास-प्रस्तुतिः
स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरम्
ससम्भारान्समानाय्य वह्न्यगारे स्थितोभवत्॥ ५ ॥
मूलम्
स्वयं तु पुष्करं गत्वा यज्ञस्याहृत्य विस्तरम्
ससम्भारान्समानाय्य वह्न्यगारे स्थितोभवत्॥ ५ ॥
विश्वास-प्रस्तुतिः
गायन्ति नित्यं गन्धर्वा नृत्यन्त्यप्सरसां गणाः
ब्रह्मोद्गाता होताध्वर्युश्चत्वारो यज्ञवाहकाः॥ ६ ॥
मूलम्
गायन्ति नित्यं गन्धर्वा नृत्यन्त्यप्सरसां गणाः
ब्रह्मोद्गाता होताध्वर्युश्चत्वारो यज्ञवाहकाः॥ ६ ॥
विश्वास-प्रस्तुतिः
एकैकस्य त्रयश्चान्ये परिवाराः स्वयङ्कृताः
ब्रह्मा च ब्रह्मणाच्छंसी पोता चाग्नीध्र एव च॥ ७ ॥
मूलम्
एकैकस्य त्रयश्चान्ये परिवाराः स्वयङ्कृताः
ब्रह्मा च ब्रह्मणाच्छंसी पोता चाग्नीध्र एव च॥ ७ ॥
विश्वास-प्रस्तुतिः
आन्वीक्षिकी सर्वविद्या ब्राह्मी ह्येषा चतुष्टयी
उद्गाता च प्रत्युद्गाता प्रतिहर्ता सुब्रह्मण्यः॥ ८ ॥
मूलम्
आन्वीक्षिकी सर्वविद्या ब्राह्मी ह्येषा चतुष्टयी
उद्गाता च प्रत्युद्गाता प्रतिहर्ता सुब्रह्मण्यः॥ ८ ॥
विश्वास-प्रस्तुतिः
चतुष्टयी द्वितीयैषा तूद्गातुश्च प्रकीर्तिता
होता च मैत्रावरुणस्तथाऽच्छावाक एव च॥ ९ ॥
मूलम्
चतुष्टयी द्वितीयैषा तूद्गातुश्च प्रकीर्तिता
होता च मैत्रावरुणस्तथाऽच्छावाक एव च॥ ९ ॥
विश्वास-प्रस्तुतिः
ग्रावस्तुच्च चतुर्थोत्र तृतीया च चतुष्टयी
अध्वर्युश्च प्रतिष्ठाता नेष्टोन्नेता तथैव च॥ १० ॥
मूलम्
ग्रावस्तुच्च चतुर्थोत्र तृतीया च चतुष्टयी
अध्वर्युश्च प्रतिष्ठाता नेष्टोन्नेता तथैव च॥ १० ॥
विश्वास-प्रस्तुतिः
चतुष्टयी चतुर्थ्येषा प्रोक्ता शन्तनुनन्दन
एते वै षोडश प्रोक्ता ऋत्विजो वेदचिन्तकैः॥ ११ ॥
मूलम्
चतुष्टयी चतुर्थ्येषा प्रोक्ता शन्तनुनन्दन
एते वै षोडश प्रोक्ता ऋत्विजो वेदचिन्तकैः॥ ११ ॥
विश्वास-प्रस्तुतिः
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयम्भुवा
एतांश्चैतेषु सर्वेषु प्रवदन्ति सदा द्विजान्॥ १२ ॥
मूलम्
शतानि त्रीणि षष्टिश्च यज्ञाः सृष्टाः स्वयम्भुवा
एतांश्चैतेषु सर्वेषु प्रवदन्ति सदा द्विजान्॥ १२ ॥
विश्वास-प्रस्तुतिः
सदस्यं केचिदिच्छन्ति त्रिसामाध्वर्युमेव च
ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम्॥ १३ ॥
मूलम्
सदस्यं केचिदिच्छन्ति त्रिसामाध्वर्युमेव च
ब्रह्माणं नारदं चक्रे ब्राह्मणाच्छंसि गौतमम्॥ १३ ॥
विश्वास-प्रस्तुतिः
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्
उद्गाताङ्गिरसः प्रत्युद्गाता च पुलहस्तथा॥ १४ ॥
मूलम्
देवगर्भं च पोतारमाग्नीध्रं चैव देवलम्
उद्गाताङ्गिरसः प्रत्युद्गाता च पुलहस्तथा॥ १४ ॥
विश्वास-प्रस्तुतिः
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते
तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च॥ १५ ॥
मूलम्
नारायणः प्रतिहर्ता सुब्रह्मण्योत्रिरुच्यते
तस्मिन्यज्ञे भृगुर्होता वसिष्ठो मैत्र एव च॥ १५ ॥
विश्वास-प्रस्तुतिः
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा
पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः॥ १६ ॥
मूलम्
अच्छावाकः क्रतुः प्रोक्तो ग्रावस्तुच्च्यवनस्तथा
पुलस्त्योद्ध्वर्युरेवासीत्प्रतिष्ठाता च वै शिबिः॥ १६ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः
धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान्॥ १७ ॥
मूलम्
बृहस्पतिस्तत्र नेष्टा उन्नेता शांशपायनः
धर्मः सदस्यस्तत्रासीत्पुत्रपौत्रसहायवान्॥ १७ ॥
विश्वास-प्रस्तुतिः
भरद्वाजः शमीकश्च पुरुकुत्सो युगन्धरः
एनकस्तीर्णकश्चैव केशः कुतप एव च॥ १८ ॥
मूलम्
भरद्वाजः शमीकश्च पुरुकुत्सो युगन्धरः
एनकस्तीर्णकश्चैव केशः कुतप एव च॥ १८ ॥
विश्वास-प्रस्तुतिः
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः
कण्वादयस्तथा चान्ये मार्कण्डो गण्डिरेव च॥ १९ ॥
मूलम्
गर्गो वेदशिराश्चैव त्रिसामाद्ध्वर्यवः कृताः
कण्वादयस्तथा चान्ये मार्कण्डो गण्डिरेव च॥ १९ ॥
विश्वास-प्रस्तुतिः
पुत्रपौत्रसमेताश्च सशिष्याः सहबान्धवाः
कर्माणि तत्र कुर्वाणा दिवानिशमतन्द्रिताः॥ २० ॥
मूलम्
पुत्रपौत्रसमेताश्च सशिष्याः सहबान्धवाः
कर्माणि तत्र कुर्वाणा दिवानिशमतन्द्रिताः॥ २० ॥
विश्वास-प्रस्तुतिः
मन्वन्तरे व्यतीते तु यज्ञस्यावभृथोभवत्
दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा॥ २१ ॥
मूलम्
मन्वन्तरे व्यतीते तु यज्ञस्यावभृथोभवत्
दक्षिणा ब्रह्मणे दत्ता प्राची होतुस्तु दक्षिणा॥ २१ ॥
विश्वास-प्रस्तुतिः
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा
त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्॥ २२ ॥
मूलम्
अद्ध्वर्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा
त्रैलोक्यं सकलं ब्रह्मा ददौ तेषां तु दक्षिणाम्॥ २२ ॥
विश्वास-प्रस्तुतिः
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये
अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा॥ २३ ॥
मूलम्
धेनूनां च शतं प्राज्ञैर्दातव्यं यज्ञसिद्धये
अष्टौ तु यज्ञवाहानां चत्वारिंशाधिकास्तथा॥ २३ ॥
विश्वास-प्रस्तुतिः
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः
षोडशैव तृतीयानां देया वै धेनवः शुभाः॥ २४ ॥
मूलम्
द्वितीयस्थानिनां चैव चतुर्विंशत्प्रकीर्तिताः
षोडशैव तृतीयानां देया वै धेनवः शुभाः॥ २४ ॥
विश्वास-प्रस्तुतिः
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्
अनया सङ्ख्यया चैव ग्रामान्दासीरजाविकं॥ २५ ॥
मूलम्
द्वादशैव तथा चान्या आग्नीध्रादिषु दापयेत्
अनया सङ्ख्यया चैव ग्रामान्दासीरजाविकं॥ २५ ॥
विश्वास-प्रस्तुतिः
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ
यजमानेन सर्वस्वं देयं स्वायम्भुवोब्रवीत्॥ २६ ॥
मूलम्
सहस्रभोज्यं दातव्यं स्नात्वा चावभृथे क्रतौ
यजमानेन सर्वस्वं देयं स्वायम्भुवोब्रवीत्॥ २६ ॥
विश्वास-प्रस्तुतिः
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते
विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः॥ २७ ॥
मूलम्
अद्ध्वर्यूणां सदस्यानां स्वेच्छया दानमिष्यते
विष्णुं चाहूय वै ब्रह्मा वाक्यमाह मुदान्वितः॥ २७ ॥
विश्वास-प्रस्तुतिः
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत
त्वयि दृष्टे न सा कोपं करिष्यति शुभानना॥ २८ ॥
मूलम्
अभिप्रसाद्य सावित्रीं त्वमिहानय सुव्रत
त्वयि दृष्टे न सा कोपं करिष्यति शुभानना॥ २८ ॥
विश्वास-प्रस्तुतिः
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः
त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्॥ २९ ॥
मूलम्
स्निग्धैः सानुनयैर्वाक्यैर्हेतुयुक्तैर्विशेषतः
त्वं सदा मधुराभाषी जिह्वा ते स्रवतेमृतम्॥ २९ ॥
विश्वास-प्रस्तुतिः
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते
गन्धर्वैः सहितो गत्वा प्रियां मम समानय॥ ३० ॥
मूलम्
यः करोति न ते वाक्यं त्रैलोक्ये न स दृश्यते
गन्धर्वैः सहितो गत्वा प्रियां मम समानय॥ ३० ॥
विश्वास-प्रस्तुतिः
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्
विलम्बो न त्वया कार्यो व्रज माधव माचिरम्॥ ३१ ॥
मूलम्
त्वया प्रसादिता साद्ध्वी तुष्टा सा त्वेष्यति ध्रुवम्
विलम्बो न त्वया कार्यो व्रज माधव माचिरम्॥ ३१ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा
तस्यास्त्वं पदवीं गच्छ सान्त्वयस्व प्रियां मम॥ ३२ ॥
मूलम्
लक्ष्मीस्ते पुरतो यातु सावित्र्याः सदनं शुभा
तस्यास्त्वं पदवीं गच्छ सान्त्वयस्व प्रियां मम॥ ३२ ॥
विश्वास-प्रस्तुतिः
न च ते विप्रियं देवि विविक्तं कर्तुमीहते
मुखं प्रेक्ष्य सदा कालं वर्तते तव सुन्दरि॥ ३३ ॥
मूलम्
न च ते विप्रियं देवि विविक्तं कर्तुमीहते
मुखं प्रेक्ष्य सदा कालं वर्तते तव सुन्दरि॥ ३३ ॥
विश्वास-प्रस्तुतिः
एवंविधानि वाक्यानि मधुराणि बहूनि च
देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत्॥ ३४ ॥
मूलम्
एवंविधानि वाक्यानि मधुराणि बहूनि च
देवी श्रावयितव्या सा यथातुष्टाऽचिराद्भवेत्॥ ३४ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा
जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति॥ ३५ ॥
मूलम्
एवमुक्तस्तदा विष्णुर्ब्रह्मणा लोककारिणा
जगाम त्वरितो भूत्वा सावित्री यत्र तिष्ठति॥ ३५ ॥
विश्वास-प्रस्तुतिः
दूरादेवागच्छमानं पत्न्या सह च केशवम्
उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवन्दिता॥ ३६ ॥
मूलम्
दूरादेवागच्छमानं पत्न्या सह च केशवम्
उत्तस्थौ सत्वरा भूत्वा विष्णुना चाभिवन्दिता॥ ३६ ॥
विश्वास-प्रस्तुतिः
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते
त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते॥ ३७ ॥
मूलम्
नमस्ते देवदेवेशि ब्रह्मपत्नि नमोस्तु ते
त्वां नमस्कृत्य सर्वो हि जनः पापात्प्रमुच्यते॥ ३७ ॥
विश्वास-प्रस्तुतिः
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता
अहर्निशं चिन्तयंस्त्वां प्रसादं तेभिकाङ्क्षति॥ ३८ ॥
मूलम्
पतिव्रता महाभागा ब्रह्मणस्त्वं हृदि स्थिता
अहर्निशं चिन्तयंस्त्वां प्रसादं तेभिकाङ्क्षति॥ ३८ ॥
विश्वास-प्रस्तुतिः
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्
यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने॥ ३९ ॥
मूलम्
सखीं चैनां प्रियां पृच्छ लक्ष्मीं भृगुसुतां सतीम्
यदि च श्रद्दधा नासि वाक्यादस्मात्सुलोचने॥ ३९ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्
उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते॥ ४० ॥
मूलम्
एवमुक्त्वा ततः शौरिः सावित्र्याश्चरणद्वयम्
उभाभ्यां चैव हस्ताभ्यां क्षम देवि नमोस्तु ते॥ ४० ॥
विश्वास-प्रस्तुतिः
जगद्वन्द्ये जगन्मातरिति स्पृष्ट्वाऽभ्यवन्दत
सङ्कोच्य पादौ सा देवी स्वकरेण करौ हरेः॥ ४१ ॥
मूलम्
जगद्वन्द्ये जगन्मातरिति स्पृष्ट्वाऽभ्यवन्दत
सङ्कोच्य पादौ सा देवी स्वकरेण करौ हरेः॥ ४१ ॥
विश्वास-प्रस्तुतिः
गृहीत्वोवाच तं विष्णुं सर्वं क्षान्तं मयाच्युत
इयं लक्ष्मीः सदा वत्स हृदये ते निवत्स्यति॥ ४२ ॥
मूलम्
गृहीत्वोवाच तं विष्णुं सर्वं क्षान्तं मयाच्युत
इयं लक्ष्मीः सदा वत्स हृदये ते निवत्स्यति॥ ४२ ॥
विश्वास-प्रस्तुतिः
विना त्वया न चान्यत्र रतिं यास्यति कर्हिचित्
भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता॥ ४३ ॥
मूलम्
विना त्वया न चान्यत्र रतिं यास्यति कर्हिचित्
भृगोः पत्न्यां समुत्पन्ना पत्न्येषा तव सुव्रता॥ ४३ ॥
विश्वास-प्रस्तुतिः
देवदानवयत्नेन सम्भूता चोदधौ पुनः
भगवान्यत्र तत्रैषा अवतारं च कुर्वती॥ ४४ ॥
मूलम्
देवदानवयत्नेन सम्भूता चोदधौ पुनः
भगवान्यत्र तत्रैषा अवतारं च कुर्वती॥ ४४ ॥
विश्वास-प्रस्तुतिः
देवत्वे देवदेहा वै मानुषत्वे च मानुषी
त्वत्सहाया न सन्देहो दाम्पत्यव्रतिनी चिरम्॥ ४५ ॥
मूलम्
देवत्वे देवदेहा वै मानुषत्वे च मानुषी
त्वत्सहाया न सन्देहो दाम्पत्यव्रतिनी चिरम्॥ ४५ ॥
विश्वास-प्रस्तुतिः
यन्मया चात्र कर्त्तव्यं प्रभोतन्मां वदस्व वै
विष्णुरुवाच
यज्ञावसानं सञ्जातं प्रेषितोहं तवान्तिकं॥ ४६ ॥
मूलम्
यन्मया चात्र कर्त्तव्यं प्रभोतन्मां वदस्व वै
विष्णुरुवाच
यज्ञावसानं सञ्जातं प्रेषितोहं तवान्तिकं॥ ४६ ॥
विश्वास-प्रस्तुतिः
सावित्रीमानय क्षिप्रं मया स्नानं समाचरेत्
आगच्छ त्वरिता देवि याहि तत्र मुदान्विता॥ ४७ ॥
मूलम्
सावित्रीमानय क्षिप्रं मया स्नानं समाचरेत्
आगच्छ त्वरिता देवि याहि तत्र मुदान्विता॥ ४७ ॥
विश्वास-प्रस्तुतिः
पश्यस्व स्वपतिं गत्वा देवैः सर्वैस्समन्वितम्
लक्ष्मीरुवाच
आर्ये उत्तिष्ठ शीघ्रं त्वं याहि यत्र पितामहः॥ ४८ ॥
मूलम्
पश्यस्व स्वपतिं गत्वा देवैः सर्वैस्समन्वितम्
लक्ष्मीरुवाच
आर्ये उत्तिष्ठ शीघ्रं त्वं याहि यत्र पितामहः॥ ४८ ॥
विश्वास-प्रस्तुतिः
विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव
उत्थाप्य साग्रहीद्धस्तं दक्षिणा दक्षिणे करे॥ ४९ ॥
मूलम्
विना त्वया न यास्यामि स्पृष्टौ पादौ मया तव
उत्थाप्य साग्रहीद्धस्तं दक्षिणा दक्षिणे करे॥ ४९ ॥
विश्वास-प्रस्तुतिः
चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः
समीपस्थं महादेवमिदमाह तदा वचः1.34.॥ ५० ॥
मूलम्
चिरायमाणां सावित्रीं ज्ञात्वा देवः पितामहः
समीपस्थं महादेवमिदमाह तदा वचः1.34.॥ ५० ॥
विश्वास-प्रस्तुतिः
गच्छ त्वमनया सार्द्धं पार्वत्याऽसुरदूषण
गौरी त्वदग्रतो यातु पश्चात्त्वं गच्छ शङ्कर॥ ५१ ॥
मूलम्
गच्छ त्वमनया सार्द्धं पार्वत्याऽसुरदूषण
गौरी त्वदग्रतो यातु पश्चात्त्वं गच्छ शङ्कर॥ ५१ ॥
विश्वास-प्रस्तुतिः
प्रतिबोध्यानय यथा शीघ्रमायाति तत्कुरु
एवमुक्तौ तदा तौ तु पार्वतीपरमेश्वरौ॥ ५२ ॥
मूलम्
प्रतिबोध्यानय यथा शीघ्रमायाति तत्कुरु
एवमुक्तौ तदा तौ तु पार्वतीपरमेश्वरौ॥ ५२ ॥
विश्वास-प्रस्तुतिः
गत्वादिष्टौ दम्पती तां प्रोचतुर्ब्रह्मणः प्रियाम्
बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते॥ ५३ ॥
मूलम्
गत्वादिष्टौ दम्पती तां प्रोचतुर्ब्रह्मणः प्रियाम्
बृहत्कृत्यं त्वया तत्र करणीयं पतिव्रते॥ ५३ ॥
विश्वास-प्रस्तुतिः
पृच्छस्वेमां वरारोहां गौरीं पर्वतनन्दिनीम्
लक्ष्मीं चैतां विशालाक्षीमिन्द्राणीं वा शुभानने॥ ५४ ॥
मूलम्
पृच्छस्वेमां वरारोहां गौरीं पर्वतनन्दिनीम्
लक्ष्मीं चैतां विशालाक्षीमिन्द्राणीं वा शुभानने॥ ५४ ॥
विश्वास-प्रस्तुतिः
यासां वा श्रद्धधासि त्वं पृच्छ देवि नमोस्तु ते
आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः॥ ५५ ॥
मूलम्
यासां वा श्रद्धधासि त्वं पृच्छ देवि नमोस्तु ते
आशीर्वादस्तया दत्तो देवदेवस्य शूलिनः॥ ५५ ॥
विश्वास-प्रस्तुतिः
शरीरार्धे च ते गौरी सदा स्थास्यति शङ्कर
अनया शोभसे देव त्वया त्रैलोक्यसुन्दर॥ ५६ ॥
मूलम्
शरीरार्धे च ते गौरी सदा स्थास्यति शङ्कर
अनया शोभसे देव त्वया त्रैलोक्यसुन्दर॥ ५६ ॥
विश्वास-प्रस्तुतिः
सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन्
एवं ब्रुवन्ती सावित्री गृहीता ब्रह्मणः प्रिया॥ ५७ ॥
मूलम्
सुखभागि जगत्सर्वं त्वया नाथेन शत्रुहन्
एवं ब्रुवन्ती सावित्री गृहीता ब्रह्मणः प्रिया॥ ५७ ॥
विश्वास-प्रस्तुतिः
गौर्य्या च वामहस्ते तु लक्ष्म्या वै दक्षिणे करे
अभिवन्द्य तु तां देवीं शङ्करो वाक्यमब्रवीत्॥ ५८ ॥
मूलम्
गौर्य्या च वामहस्ते तु लक्ष्म्या वै दक्षिणे करे
अभिवन्द्य तु तां देवीं शङ्करो वाक्यमब्रवीत्॥ ५८ ॥
विश्वास-प्रस्तुतिः
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः
तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागतिः॥ ५९ ॥
मूलम्
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः
तत्र गच्छ वरारोहे स्त्रीणां भर्ता परागतिः॥ ५९ ॥
विश्वास-प्रस्तुतिः
बृहदाग्रहणे देवि प्रणयाद्गन्तुमर्हसि
लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रतः॥ ६० ॥
मूलम्
बृहदाग्रहणे देवि प्रणयाद्गन्तुमर्हसि
लक्ष्मीश्चैषा पार्वती च स्थिता देवि तवाग्रतः॥ ६० ॥
विश्वास-प्रस्तुतिः
एतयोर्वचसा देवि आवयोश्च शुभानने
मानभङ्गो न ते कर्तुं यज्यते ब्रह्मणः प्रिये॥ ६१ ॥
मूलम्
एतयोर्वचसा देवि आवयोश्च शुभानने
मानभङ्गो न ते कर्तुं यज्यते ब्रह्मणः प्रिये॥ ६१ ॥
विश्वास-प्रस्तुतिः
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता
गौर्युवाच
अहं च ते प्रिया देवि सर्वदा वदसि स्वयम्॥ ६२ ॥
मूलम्
अस्मदभ्यर्थिता देवि तत्र याहि मुदान्विता
गौर्युवाच
अहं च ते प्रिया देवि सर्वदा वदसि स्वयम्॥ ६२ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः॥ ६३ ॥
मूलम्
लक्ष्मीश्च ते करे लग्ना दक्षिणे च मया धृता
एह्यागच्छ महाभागे यत्र तिष्ठति ते पतिः॥ ६३ ॥
विश्वास-प्रस्तुतिः
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता
पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः॥ ६४ ॥
मूलम्
नीता सा तु तदा ताभ्यां देवी सा मध्यतः कृता
पुरस्सरौ विष्णुरुद्रौ शक्राद्याश्च तथा सुराः॥ ६४ ॥
विश्वास-प्रस्तुतिः
गन्धर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्
तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया॥ ६५ ॥
मूलम्
गन्धर्वाप्सरसश्चैव त्रैलोक्यं सचराचम्
तत्रायाता च सा देवी सावित्री ब्रह्मणः प्रिया॥ ६५ ॥
विश्वास-प्रस्तुतिः
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः
गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत्॥ ६६ ॥
मूलम्
सावित्रीं सुमुखीं दृष्ट्वा सर्वलोकपितामहः
गायत्र्या सहितो ब्रह्मा इदं वचनमब्रवीत्॥ ६६ ॥
विश्वास-प्रस्तुतिः
एषा देवी कर्मकरी अहं ते वशगस्थितः
समादिश वरारोहे यत्ते कार्यं मया त्विह॥ ६७ ॥
मूलम्
एषा देवी कर्मकरी अहं ते वशगस्थितः
समादिश वरारोहे यत्ते कार्यं मया त्विह॥ ६७ ॥
विश्वास-प्रस्तुतिः
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा
त्रपयाधोमुखी देवी न च किञ्चिदवोचत॥ ६८ ॥
मूलम्
एवमुक्ता च सा देवी स्वयं देवेन ब्रह्मणा
त्रपयाधोमुखी देवी न च किञ्चिदवोचत॥ ६८ ॥
विश्वास-प्रस्तुतिः
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता
कृतवत्यपराधं ते क्षम देवि नमोस्तु ते॥ ६९ ॥
मूलम्
पादयोः पतिता देवी गायत्री ब्रह्मचोदिता
कृतवत्यपराधं ते क्षम देवि नमोस्तु ते॥ ६९ ॥
विश्वास-प्रस्तुतिः
आलिङ्ग्य सादरं कण्ठे सा परिष्वज्य पीडितां
गायत्रीं सान्त्वयामास मान्यश्चैष पतिर्मम॥ ७० ॥
मूलम्
आलिङ्ग्य सादरं कण्ठे सा परिष्वज्य पीडितां
गायत्रीं सान्त्वयामास मान्यश्चैष पतिर्मम॥ ७० ॥
विश्वास-प्रस्तुतिः
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः
उक्तं भगवता पूर्वं सृष्टिकाले विरिञ्चिना॥ ७१ ॥
मूलम्
कर्त्तव्यं वचनं तस्य स्त्रीणां प्राणेश्वरः पतिः
उक्तं भगवता पूर्वं सृष्टिकाले विरिञ्चिना॥ ७१ ॥
विश्वास-प्रस्तुतिः
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्
भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया॥ ७२ ॥
मूलम्
न च स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम्
भर्ता यद्वदते वाक्यं तत्तु कुर्यादकुत्सया॥ ७२ ॥
विश्वास-प्रस्तुतिः
भर्तृनिन्दां या कुरुते स्वसृनिन्दां तथैव च
परिवादं प्रलापं वा नरकं सा तु गच्छति॥ ७३ ॥
मूलम्
भर्तृनिन्दां या कुरुते स्वसृनिन्दां तथैव च
परिवादं प्रलापं वा नरकं सा तु गच्छति॥ ७३ ॥
विश्वास-प्रस्तुतिः
पत्यौ जीवति या नारी उपवासव्रतं चरेत्
आयुष्यं हरते भर्तुर्मृता नरकमिच्छति॥ ७४ ॥
मूलम्
पत्यौ जीवति या नारी उपवासव्रतं चरेत्
आयुष्यं हरते भर्तुर्मृता नरकमिच्छति॥ ७४ ॥
विश्वास-प्रस्तुतिः
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति
न चास्य दक्षिणं त्वङ्गं त्वया सेव्यं कथञ्चन॥ ७५ ॥
मूलम्
एवं ज्ञात्वा त्वया भर्तुर्न कार्यं विप्रियं सति
न चास्य दक्षिणं त्वङ्गं त्वया सेव्यं कथञ्चन॥ ७५ ॥
विश्वास-प्रस्तुतिः
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता
सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ॥ ७६ ॥
मूलम्
सर्वकार्ये त्वहं चास्य दक्षिणं पक्षमाश्रिता
सव्यं त्वमायेस्साध्वि पार्श्वे नारदपुष्करौ॥ ७६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च
लभे वै शोभमानेह यावत्सृष्टिः प्रजायते॥ ७७ ॥
मूलम्
ब्रह्मस्थानानि चान्यानि स्थितान्यायतनानि च
लभे वै शोभमानेह यावत्सृष्टिः प्रजायते॥ ७७ ॥
विश्वास-प्रस्तुतिः
भवत्या च मया चैव स्थातव्यं च न संशयः
पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय॥ ७८ ॥
मूलम्
भवत्या च मया चैव स्थातव्यं च न संशयः
पुष्करे ब्रह्मणः पार्श्वे वामं च त्वं समाश्रय॥ ७८ ॥
विश्वास-प्रस्तुतिः
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता
गायत्र्युवाच
एवमेतत्करिष्यामि तव निर्देशकारिका॥ ७९ ॥
मूलम्
अनेन चोपदेशेन सुखं तिष्ठ मयान्विता
गायत्र्युवाच
एवमेतत्करिष्यामि तव निर्देशकारिका॥ ७९ ॥
विश्वास-प्रस्तुतिः
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी
अहं ते त्वनुजा देवि सदा मां पातुमर्हसि॥ ८० ॥
मूलम्
तवैवाज्ञा मया कार्या त्वं मे प्राणसमा सखी
अहं ते त्वनुजा देवि सदा मां पातुमर्हसि॥ ८० ॥
विश्वास-प्रस्तुतिः
देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह
स्नानावसाने देवानां सर्वेषां प्रददौ वरान्॥ ८१ ॥
मूलम्
देवदेवस्तदा ब्रह्मा पुष्करे विष्णुना सह
स्नानावसाने देवानां सर्वेषां प्रददौ वरान्॥ ८१ ॥
विश्वास-प्रस्तुतिः
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं
नक्षत्राणां तथा सोमं रसानां वरुणं तथा॥ ८२ ॥
मूलम्
देवानां च पतिं शक्रं ज्योतिषां च दिवाकरं
नक्षत्राणां तथा सोमं रसानां वरुणं तथा॥ ८२ ॥
विश्वास-प्रस्तुतिः
प्रजापतीनां दक्षं च नदीनां चैव सागरं
कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां॥ ८३ ॥
मूलम्
प्रजापतीनां दक्षं च नदीनां चैव सागरं
कुबेरं च धनाध्यक्षं तथा चक्रे च रक्षसां॥ ८३ ॥
विश्वास-प्रस्तुतिः
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्
मानवानां मनुं चैव पक्षिणां गरुडं तथा॥ ८४ ॥
मूलम्
भूतानां चैव सर्वेषां गणानां च पिनाकिनम्
मानवानां मनुं चैव पक्षिणां गरुडं तथा॥ ८४ ॥
विश्वास-प्रस्तुतिः
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं
एवमादीनि वै दत्वा देवदेवः पितामहः॥ ८५ ॥
मूलम्
ऋषीणां च वसिष्ठं च ग्रहाणां च प्रभाकरं
एवमादीनि वै दत्वा देवदेवः पितामहः॥ ८५ ॥
विश्वास-प्रस्तुतिः
विष्णुं च शङ्करं चैव ब्रह्मा प्रोवाच सादरम्
पृथिव्याः सर्वतीर्थेषु भवन्तौ पूज्यसत्तमौ॥ ८६ ॥
मूलम्
विष्णुं च शङ्करं चैव ब्रह्मा प्रोवाच सादरम्
पृथिव्याः सर्वतीर्थेषु भवन्तौ पूज्यसत्तमौ॥ ८६ ॥
विश्वास-प्रस्तुतिः
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्
लिङ्गं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित्॥ ८७ ॥
मूलम्
भवद्भ्यां न विना तीर्थं पुण्यतामेति कर्हिचित्
लिङ्गं वा प्रतिमा वापि दृश्यते यत्रकुत्रचित्॥ ८७ ॥
विश्वास-प्रस्तुतिः
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं
मानवा ह्युपहारैश्च ये करिष्यन्ति पूजनं॥ ८८ ॥
मूलम्
तत्तीर्थं पुण्यतां याति सर्वमेव फलप्रदं
मानवा ह्युपहारैश्च ये करिष्यन्ति पूजनं॥ ८८ ॥
विश्वास-प्रस्तुतिः
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः
येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः॥ ८९ ॥
मूलम्
युष्माकं मां पुरस्कृत्य तेषां रोगभयं कुतः
येषु राष्ट्रेषु युष्माकमुत्सवाः पूजनादिकाः॥ ८९ ॥
विश्वास-प्रस्तुतिः
प्रवर्त्स्यन्ति क्रियाः सर्वा यत्फलं तेषु तच्छृणु
नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं॥ ९० ॥
मूलम्
प्रवर्त्स्यन्ति क्रियाः सर्वा यत्फलं तेषु तच्छृणु
नाधयो व्याधयश्चैव नोपसर्गा न क्षुद्भयं॥ ९० ॥
विश्वास-प्रस्तुतिः
विप्रयोगो न चापीष्टैरनिष्टैर्नापि सङ्गतिः
नाक्षिरोगः शिरार्तिर्वा पित्तशूल भगन्दराः॥ ९१ ॥
मूलम्
विप्रयोगो न चापीष्टैरनिष्टैर्नापि सङ्गतिः
नाक्षिरोगः शिरार्तिर्वा पित्तशूल भगन्दराः॥ ९१ ॥
विश्वास-प्रस्तुतिः
नाभिचारं भयं तत्रापस्मारो न विषूचिका
वृद्धिर्निकामतस्तस्मिन्सम्यग्बुद्धिरनुत्तमा॥ ९२ ॥
मूलम्
नाभिचारं भयं तत्रापस्मारो न विषूचिका
वृद्धिर्निकामतस्तस्मिन्सम्यग्बुद्धिरनुत्तमा॥ ९२ ॥
विश्वास-प्रस्तुतिः
आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं
नाकाले भविता मृत्युर्गावो नाल्पपयोमुचः॥ ९३ ॥
मूलम्
आरोग्यं सर्वतश्चैव दीर्घायुश्च प्रजाधनं
नाकाले भविता मृत्युर्गावो नाल्पपयोमुचः॥ ९३ ॥
विश्वास-प्रस्तुतिः
नाकालफलिता वृक्षा नोत्पातभयमण्वपि
एतच्छ्रुत्वा ततो विष्णुर्ब्रह्माणं स्तोतुमुद्यतः॥ ९४ ॥
मूलम्
नाकालफलिता वृक्षा नोत्पातभयमण्वपि
एतच्छ्रुत्वा ततो विष्णुर्ब्रह्माणं स्तोतुमुद्यतः॥ ९४ ॥
विश्वास-प्रस्तुतिः
विष्णुरुवाच
नमोस्त्वनन्ताय विशुद्धचेतसे स्वरूपरूपाय सहस्रबाहवे
सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे॥ ९५ ॥
मूलम्
विष्णुरुवाच
नमोस्त्वनन्ताय विशुद्धचेतसे स्वरूपरूपाय सहस्रबाहवे
सहस्ररश्मिप्रभवाय वेधसे विशालदेहाय विशुद्धकर्मणे॥ ९५ ॥
विश्वास-प्रस्तुतिः
समस्तविश्वार्तिहराय शम्भवे समस्तसूर्यानलतिग्मतेजसे
नमोस्तु विद्यावितताय चक्रिणे समस्तधीस्थानकृते सदा नमः॥ ९६ ॥
मूलम्
समस्तविश्वार्तिहराय शम्भवे समस्तसूर्यानलतिग्मतेजसे
नमोस्तु विद्यावितताय चक्रिणे समस्तधीस्थानकृते सदा नमः॥ ९६ ॥
विश्वास-प्रस्तुतिः
अनादिदेवाच्युत शेखरप्रभो भाव्युद्भवद्भूतपते महेश्वर
महत्पते सर्वपते जगत्पते भुवस्पते भुवनपते सदा नमः॥ ९७ ॥
मूलम्
अनादिदेवाच्युत शेखरप्रभो भाव्युद्भवद्भूतपते महेश्वर
महत्पते सर्वपते जगत्पते भुवस्पते भुवनपते सदा नमः॥ ९७ ॥
विश्वास-प्रस्तुतिः
यज्ञेश नारायण जिष्णु शङ्कर क्षितीश विश्वेश्वर विश्वलोचन
शशाङ्कसूर्याच्युतवीरविश्वप्रवृत्तमूर्तेमृतमूर्त अव्यय॥ ९८ ॥
मूलम्
यज्ञेश नारायण जिष्णु शङ्कर क्षितीश विश्वेश्वर विश्वलोचन
शशाङ्कसूर्याच्युतवीरविश्वप्रवृत्तमूर्तेमृतमूर्त अव्यय॥ ९८ ॥
विश्वास-प्रस्तुतिः
ज्वलद्धुताशार्चि निरुद्धमण्डल प्रदेशनारायण विश्वतोमुख
समस्तदेवार्तिहरामृताव्यय प्रपाहि मां शरणगतं तथा विभो॥ ९९ ॥
मूलम्
ज्वलद्धुताशार्चि निरुद्धमण्डल प्रदेशनारायण विश्वतोमुख
समस्तदेवार्तिहरामृताव्यय प्रपाहि मां शरणगतं तथा विभो॥ ९९ ॥
वक्त्राण्यनेकानि विभो तवाहं पश्यामि यज्ञस्य गतिं पुराणम्
ब्रह्माणमीशं जगतां प्रसूतिं नमोस्तु तुभ्यं प्रपितामहाय1.34.१००
संसारचक्रक्रमणैरनेकैः क्वचिद्भवान्देववराधिदेवः
तत्सर्वविज्ञानविशुद्धसत्वैरुपास्यसे किं प्रणमाम्यहं त्वाम्१०१
एवं भवन्तं प्रकृतेः पुरस्ताद्यो वेत्त्यसौ सर्वविदां वरिष्ठः
गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः१०२
वाक्पाणिपादैर्विगतेन्द्रियोपि कथं भवान्वै सुगतिस्सुकर्मा
संसारबन्धे निहितेन्द्रियोपि पुनः कथं देववरोसि वेद्यः१०३
मूर्त्तादमूर्त्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः
संसारविच्छित्तिकरैर्यजद्भिरतोवसीयेत चतुर्मुख त्वम्१०४
परं न जानन्ति यतो वपुस्ते देवादयोप्यद्भुतरूपधारिन्
विभोवतारेग्रतरं पुराणमाराधयेद्यत्कमलासनस्थम्१०५
न ते तत्त्वं विश्वसृजोपि योनिमेकान्ततो वेत्ति विशुद्धभावः
परं त्वहं वेद्मि कथं पुराणं भवन्तमाद्यं तपसा विशुद्धम्१०६
पद्मासनो वै जनकः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात्
सञ्चिन्त्य ते नाथ विभुं भवन्तं जानाति नैवं तपसाविहीनः१०७
अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खाः स्वमतिं विभज्य
प्रबोद्धुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः१०८
जन्मान्तरैर्वेद विवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः
तल्लाभलुब्धस्य न मानुषत्वं न देवगन्धर्वपतिः शिवः स्यात्१०९
न विष्णुरूपो भगवान्सुसूक्ष्मः स्थूलोसि देवः कृतकृत्यतायाः
स्थूलोपि सूक्ष्मः सुलभोसि देव त्वद्बाह्यकृत्या नरकेपतन्ति११०
विमुच्यते वा भवति स्थितेस्मिन्दस्रेन्दुवह्न्यर्कमरुन्महीभिः
तत्वैः स्वरूपैः समरूपधारिभिरात्मस्वरूपे वितत स्वभावः१११
इति स्तुतिं मे भगवन्ह्यनन्त जुषस्व भक्तस्य विशेषतश्च
समाधियुक्तस्य विशुद्धचेतसस्त्वद्भावभावैकमनोनुगस्य११२
सदा हृदिस्थो भगवन्नमस्ते नमामि नित्यं भगवन्पुराण
इति प्रकाशं तव मे तदीशस्तवं मया सर्वगतिप्रबुद्ध११३
संसारचक्रे भ्रमणादियुक्ता भीतिं पुनर्नः प्रतिपालयस्व११४
ब्रह्मोवाच
सर्वज्ञस्त्वं न सन्देहो प्रज्ञाराशिश्च केशव
देवानां प्रथमः पूज्यः सर्वदा त्वं भविष्यसि११५
नारायणादनन्तरं रुद्रो भक्त्या विरिञ्चनम्
तुष्टाव प्रणतो भूत्वा ब्रह्माणं कमलोद्भवम्११६
नमः कमलपत्राक्ष नमस्ते पद्मजन्मने
नमः सुरासुरगुरो कारिणे परमात्मने११७
नमस्ते सर्वदेवेश नमो वै मोहनाशन
विष्णोर्नाभिस्थितवते कमलासन जन्मने११८
नमो विद्रुमरक्ताङ्ग पाणिपल्लवशोभिने
शरणं त्वां प्रपन्नोस्मि त्राहि मां भवसंसृतेः११९
पूर्वं नीलाम्बुदाकारं कुड्मलं ते पितामह
दृष्ट्वा रक्तमुखं भूयः पत्रकेसरसंयुतम्१२०
पद्मं चानेकपत्रान्तमसङ्ख्यातं निरञ्जनम्
तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता१२१
त्वां मुक्त्वा नान्यतस्त्राणं जगद्वन्द्य नमोस्तु ते
सावित्रीशापदग्धोहं लिङ्गं मे पतितं क्षितौ१२२
इदानीं कुरु मे शान्तिं त्राहि मां सह भार्यया
ब्रह्मा वै पातु मे पादौ जङ्घे वै कमलासनः१२३
विरिञ्चो मे कटिं पातु सृष्टिकृद्गुह्यमेव च
नाभिं पद्मनिभः पातु जठरं चतुराननः१२४
उरस्तु विश्वसृक्पातु हृदयं पातु पद्मजः
सावित्रीपतिर्मे कण्ठं हृषीकेशो मुखं मम१२५
पद्मवर्णश्च नयने परमात्मा शिरो मम
एवं न्यस्य गुरोर्नाम शङ्करो नामशङ्करः१२६
नमस्ते भगवन्ब्रह्मन्नित्युक्त्वा विरराम ह
ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह१२७
कं ते कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि
रुद्र उवाच
यदि प्रसन्नो मे नाथ वरदो यदि वा मम१२८
तदेकं मे वद विभो यस्मिन्स्थाने भवान्स्थितः
केषुकेषु च स्थानेषु त्वां पश्यन्ति सदा द्विजाः१२९
नाम्ना च केन ते स्थानं शोभते धरणीतले
तन्मे वदस्व सर्वेश तव भक्तिरतस्य च१३०
ब्रह्मोवाच
पुष्करेहं सुरश्रेष्ठो गयायां च चतुर्मुखः
कान्यकुब्जे देवगर्भो भृगुकक्षे पितामहः१३१
कावेर्य्यां सृष्टिकर्ता च नन्दिपुर्य्यां बृहस्पतिः
प्रभासे पद्मजन्मा च वानर्यां च सुरप्रियः१३२
द्वारवत्यां तु ऋग्वेदी वैदिशे भुवनाधिपः
पौण्ड्रके पुण्डरीकाक्षः पिङ्गाक्षो हस्तिनापुरे१३३
जयन्त्यां विजयश्चास्मि जयन्तः पुष्करावते
उग्रेषु पद्महस्तोहं तमोनद्यां तमोनुदः१३४
अहिच्छन्ने जया नन्दी काञ्चीपुर्यां जनप्रियः
ब्रह्माहं पाटलीपुत्रे ऋषिकुण्डे मुनिस्तथा१३५
महितारे मुकुन्दश्च श्रीकण्ठः श्रीनिवासिते
कामरूपे शुभाकारो वाराणस्यां शिवप्रियः१३६
मल्लिकाक्षे तथा विष्णुर्महेन्द्रे भार्गवस्तथा
गोनर्दे स्थविराकार उज्जयिन्यां पितामहः१३७
कौशाम्ब्यां तु महाबोधिरयोध्यायां च राघवः
मुन्नीन्द्रश्चित्रकूटे तु वाराहो विन्ध्यपर्वते१३८
गङ्गाद्वारे परमेष्ठी हिमवत्यपि शङ्करः
देविकायां स्रुचाहस्तः स्रुवहस्तश्चतुर्वटे१३९
वृन्दावने पद्मपाणिः कुशहस्तश्च नैमिषे
गोप्लक्षे चैव गोपीन्द्रः सचन्द्रो यमुनातटे१४०
भागीरथ्यां पद्मतनुर्जलानन्दो जलन्धरे
कौङ्कणे चैव मद्राक्षः काम्पिल्ये कनकप्रियः१४१
वेङ्कटे चान्नदाता च शम्भुश्चैव क्रतुस्थले
लङ्कायां च पुलस्त्योहं काश्मीरे हंसवाहनः१४२
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावते
मेलके श्रुतिदाताहं प्रपाते यादसाम्पतिः१४३
सामवेदस्तथा यज्ञे मधुरे मधुरप्रियः
अङ्कोटे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः१४४
नारायणश्च गोमन्ते मायापुर्यां द्विजप्रियः
ऋषिवेदे दुराधर्षो देवायां सुरमर्दनः१४५
विजयायां महारूपः स्वरूपो राष्ट्रवर्द्धने
पृथूदरस्तु मालव्यां शाकम्भर्यां रसप्रियः१४६
पिण्डारके तु गोपालः शङ्खोद्धारेङ्गवर्द्धनः
कादम्बके प्रजाध्यक्षो देवाध्यक्षः समस्थले१४७
गङ्गाधरो भद्रपीठे जलशाप्यहमर्बुदे
त्र्यम्बके त्रिपुराधीशः श्रीपर्वते त्रिलोचनः१४८
महादेवः पद्मपुरे कापाले वैधसस्तथा
शृङ्गिबेरपुरे शौरिर्नैमिषे चक्रपाणिकः१४९
दण्डपुर्यां विरूपाक्षो गौतमो धूतपापके
हंसनाथो माल्यवति द्विजेन्द्रो वलिके तथा1.34.१५०
इन्द्रपुर्यां देवनाथो द्यूतपायां पुरन्दरः
हंसवाहस्तु लम्बायां चण्डायां गरुडप्रियः१५१
महोदये महायज्ञः सुयज्ञो यज्ञकेतने
सिद्धिस्मरे पद्मवर्णः विभायां पद्मबोधनः१५२
देवदारुवने लिङ्गं महापत्तौ विनायकः
त्र्यम्बको मातृकास्थाने अलकायां कुलाधिपः१५३
त्रिकूटे चैव गोनर्दः पाताले वासुकिस्तथा
पद्माध्यक्षश्च केदारे कूष्माण्डे सुरतप्रियः१५४
कुण्डवाप्यां शुभाङ्गस्तु सारण्यां तक्षकस्तथा
अक्षोटे पापहा चैव अम्बिकायां सुदर्शनः१५५
वरदायां महावीरः कान्तारे दुर्गनाशनः
अनन्तश्चैव पर्णाटे प्रकाशायां दिवाकरः१५६
विराजायां पद्मनाभः स्वरुद्रश्च वृकस्थले
मार्कण्डो वटके चैव वाहिन्यां मृगकेतनः१५७
पद्मावत्यां पद्मगृहो गगने पद्मकेतनः
अष्टोत्तरं स्थानशतं मया ते परिकीर्तितम्१५८
यत्र वै मम सान्निध्यं त्रिसन्ध्यं त्रिपुरान्तक
एतेषामपि यस्त्वेकं पश्यते भक्तिमान्नरः१५९
स्थानं सुविरजं लब्ध्वा मोदते शाश्वतीः समाः
मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम्१६०
तत्सर्वं नाशमायाति नात्र कार्या विचारणा
यस्त्वेतानि च सर्वाणि गत्वा मां पश्यते नरः१६१
भवते मोक्षभागी च यत्राहं तत्र वै स्थितः
पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः१६२
ध्यानेन च स्थिरेणाशु प्राप्यते परमेश्वरः
तस्य पुण्यफलं चाग्र्यमन्ते मोक्षफलं तथा१६३
स ब्रह्मलोकमासाद्य तत्कालं तत्र तिष्ठति
पुनः सृष्टौ भवेद्देवो वैराजानां महातपाः१६४
ब्रह्महत्यादि पापानि इहलोके कृतान्यपि
अकामतः कामतो वा तानि नश्यन्ति तत्क्षणात्१६५
इहलोके दरिद्रो यो भ्रष्टराज्योथवा पुनः
स्थानेष्वेतेषु वै गत्वा मां पश्यति समाधिना१६६
कृत्वा पूजोपहारं च स्नानं च पितृतर्पणम्
कृत्वा पिण्डप्रदानं च सोचिराद्दुःखवर्जितः१६७
एकच्छत्रो भवेद्राजा सत्यमेतन्न संशयः
इह राज्यानि सौभाग्यं धनं धान्यं वरस्त्रियः१६८
भवन्ति विविधास्तस्य यैर्यात्रा पुष्करे कृता
इदं यात्राविधानं यः कुरुते कारयेत वा१६९
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते
अगम्यागमनं येन कृतं जानाति मानवः१७०
ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च
यात्रां चेमां सकृत्कृत्वा वेदसंस्कारमाप्नुयात्१७१
किमत्र बहुनोक्तेन इदमस्तीह शङ्कर
अप्राप्यं प्राप्यते तेन पापं चापि विनश्यति१७२
सर्वयज्ञफलैस्तुल्यं सर्वतीर्थफलप्रदम्
सर्वेषां चैव वेदानां समाप्तिस्तेन वै कृता१७३
यैः कृत्वा पुष्करे सन्ध्यां सावित्री समुपासिता
स्वपत्नीहस्तदत्तेन पौष्करेण जलेन तु१७४
भृङ्गारेण वरेणैव मृण्मयेनापि शङ्कर
आनीय तज्जलं पुण्यं सन्ध्योपास्तिर्दिनक्षये१७५
समाधिना समाधेया सप्राणायामपूर्विका
तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हराद्य मे१७६
तेन द्वादशवर्षाणि भवेत्सन्ध्या सुवन्दिता
अश्वमेधफलं स्नाने दाने दशगुणं तथा१७७
उपवासेप्यनन्तं च स्वयं प्रोक्तं मयानघ
सावित्र्याः पुरतो यस्तु दम्पत्योर्भोजनं ददेत्१७८
तेनाहं भोजितस्तत्र भवामीह न संशयः
द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः१७९
लक्ष्मीसहायो वरदो वरांस्तस्य प्रयच्छति
उमासहायस्तार्तीये भोजितोसि न संशयः१८०
अथवा या कुमारीणां भक्त्या दद्याच्च भोजनम्
तस्याः कुले भवेद्वन्ध्या न कदाचिच्च दुर्भगा१८१
न कन्या जननी क्वापि न भर्तुर्या न वल्लभा
तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे तु भोजनम्१८२
पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा
दातव्यं सर्वदा भीष्म कटुतैलविवर्जितम्१८३
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन
भक्ष्यं पञ्चप्रकारं च रसैः सर्वैस्सुसंस्कृतम्१८४
घृतपूर्यः सुपक्वाश्च बहुक्षीरसमन्विताः
शिखरिणी तथा पेया दधिक्षीरसमन्विता१८५
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा
धनधान्यां जनोपेतं नारीणां च शताकुलम्१८६
पूपकं शष्कुलं तस्यां जायते नात्र संशयः
न ज्वरो न च सन्तापो न दुःखं न वियोगिता१८७
असौ तारयते स्वानां कुलानामेकविंशतिं
बन्धुभिश्च सुतैश्चैव दासीदासैरनन्तकैः१८८
पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति
एधते च चिरं कालं पुत्रपौत्रसमन्वितम्१८९
कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति
पुत्रिण्यो वै दुहितरो बन्धुभिः सहितं कुलम्१९०
शिखरिणीप्रदात्रीणां युवतीनां न संशयः
मोदते तु कुलं तस्याः सर्वसिद्धिप्रपूरितम्१९१
मोदकानां प्रदानेन एवमाह प्रजापतिः
एतदेव तु गौरीणां भोजनं हर शस्यते१९२
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता
सहस्रभोजिनी शम्भो जन्मजन्म भविष्यति१९३
पूपानि चैव पुण्यानि कृतानि मधुराणि च
द्राक्षारसप्रधानं च गुडखण्डसमन्वितम्१९४
शारदेन तु धान्येन कृत्वा खण्डं विमिश्रितत्
स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम्१९५
इह चाविकवासांसि वर्षायोग्यानि सर्वशः
यानियानि च पेयानि तानि योग्यानि दापयेत्१९६
प्रतिपूज्य विधानेन वसुदानैः सकञ्चुकैः
कुङ्कुमेनानुलिप्ताङ्ग्यः स्रग्दामभिरलङ्कृताः१९७
दत्वा तूपानहावङ्घ्र्योर्नारिकेलं करे तथा
अक्ष्णोश्चैवाञ्जनं दत्वा सिन्दूरं चैव मस्तके१९८
गुडं फलानि हृद्यानि वाञ्छितानि मृदूनि च
हस्ते दत्वा सपात्राणि प्रणिपत्य विसर्जयेत्१९९
स्वयं भुञ्जीत वै पश्चात्सबन्धुर्बालकैः सह
अथवा नैव सम्पत्तिस्तीर्थे दानं च भाजनम्1.34.२००
गृहे गतः प्रदास्यामि हृष्टो देव प्रसीद मे
एवमेव पितॄणां च आगत्य स्वीय मन्दिरे२०१
पिण्डप्रदानपूर्वं तु श्राद्धं कुर्याद्विधानतः
पितरस्तस्य वै तृप्ता भवन्ति ब्रह्मणो दिनम्२०२
तीर्थादष्टगुणं पुण्यं स्वगृहे ददतां शिव
न च पश्यन्ति वै नीचाः श्राद्धं द्विजातिभिः कृतं२०३
एकान्ते तु गृहे गुप्ते पितॄणां श्राद्धमिष्यते
नीचदृष्ट्या हतं तच्च पितॄन्नैवोपतिष्ठति२०४
तस्मात्सर्वप्रयत्नेन श्राद्धं गुप्तं च कारयेत्
पितॄणां तृप्तिदं प्रोक्तं स्वयमेव स्वयम्भुवा२०५
गौरीभक्त्याधिका या तु शस्ता ज्ञातक्रिया तु सा
राजसी मनसा ज्ञाता जनानां कीर्तिदायिनी२०६
गुप्तं दानं सदा देयमात्मनो हितमिच्छता
पक्वान्नं दृश्यतामेति दीयमानं जनैर्भुवि२०७
दृश्यमानं तु तत्तुष्ट्यै दृश्यते नेह कर्हिचित्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता२०८
भवने नात्र सन्देहः सत्यं पौराणिकं वचः
तीर्थे तु ब्राह्मणं नैव परीक्षेत कथञ्चन२०९
अन्नार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत्
सक्तुभिः पिण्डदानं च संयावैः पायसेन वा२१०
कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेनैङ्गुदेन वा
तिलपिण्याककैर्देयं भक्तिमद्भिर्नरैः सदा२११
श्राद्धं तत्र तु कर्तव्यमर्घ्यावाहनवर्जितम्
स्वधां तु गृध्राः काका वा नैव दृष्ट्या हरन्ति ते२१२
श्राद्धं तत्तैर्थिकं प्रोक्तं पितॄणां तृप्तिदं परम्
कर्तव्यं तत्प्रयत्नेन भक्तिरेवात्र कारणम्२१३
भक्त्या तुष्यन्ति पितरस्तुष्टाः कामान्दिशन्ति ते
पुत्रं पौत्रं धनं धान्यं कामान्यान्मनसेच्छति२१४
भक्त्या चाराधितो दद्यान्नृणां प्रीतः पितामहः
अकालेप्यथ काले वा तीर्थे श्राद्धं सदा नरैः२१५
प्राप्तैरेव सदा स्नानं कर्तव्यं पितृतर्पणम्
पिण्डदानं च कर्तव्यं पितॄणां चातिवल्लभम्२१६
पितरो हि निरीक्षन्ते गोत्रजं समुपागतम्
आशया परया युक्ताः काङ्क्षन्तस्सलिलं च ते२१७
विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत्
अच्छिन्ना सन्ततिस्तेषां सदा कालं भविष्यति२१८
पितरः पुत्रदातारं वृद्धिश्राद्धाभिकाङ्क्षिणः
तेन ते सन्ततिच्छेदं न कुर्वन्ति हि कर्हिचित्२१९
अतः श्राद्धं पुरा प्रोक्तं स्वयमेव स्वयम्भुवा
गुणोत्तरन्तुयत्कार्यन्द्विजैःपितृपरायणैः२२०
तीर्थे क्षेत्रे गृहे वापि सङ्क्रान्तौ ग्रहणेपि वा
विषुवे अयने चापि जन्मर्क्षे च प्रपीडिते२२१
एतान्वै श्राद्धकालांस्तु पुरा स्वायम्भुवोब्रवीत्
कृते श्राद्धे न वै पुंसां पीडा भवति देहजा२२२
तदा पुत्रकृतं वापि सर्वं त्यजति दुष्कृतम्
यथा न भविता पीडा ग्रहचोरनृपादिकात्२२३
दुष्कृतं नश्यते सर्वं परत्र च गतिं शुभाम्
लभते नात्र सन्देहः प्रजापतिवचो यथा२२४
कृते युगे पुष्कराणि त्रेतायां नैमिषं स्मृतम्
द्वापरे च कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत्२२५
दुष्करः पुष्करे वासो दुष्करं पुष्करे तपः
यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम्२२६
न तीर्थकृतमन्यत्र क्वचित्पापं व्यपोहति
सायम्प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि२२७
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत
सायम्प्रातरुपस्पृश्य पुष्करे नियतेन्द्रियः२२८
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति
द्वादशाब्दं द्वादशाहं मासं मासार्धमेव च२२९
यो वसेत्पुष्करे नित्यं स गच्छेत्परमाङ्गतिम्
सर्वेषामेवलोकानाम्ब्रह्मलोकोपरिस्थितः२३०
यइच्छेत्पुष्करङ्गन्तुंसोनुसेवेतपुष्करम्
यथा लोमविलोमाभ्यां तथा व्यस्तसमस्तयोः२३१
स्नातस्तु पुष्करे सम्यक्कोट्याश्च फलमुश्नुते
विधिवत्क्रियमाणेषु सर्वतीर्थेषु यत्फलम्२३२
पुष्करालोकनादेव नरः प्राप्नोति तत्फलम्
दशकोटिसहस्राणि तीर्थानां वै महीतले२३३
सान्निध्यं पुष्करे तेषां त्रिसन्ध्यं कुरुनन्दन
यावत्तिष्ठन्ति गिरयो यावत्तिष्ठन्तिसागराः२३४
तावत्पुष्कर मृत्यूनां ब्रह्मलोको न संशयः
जन्मान्तरसहस्रैश्च आजन्ममरणान्न्तिकम्२३५
निर्दहेद्दुष्कृतं सर्वं सकृत्स्नात्वा तु पुष्करे
पुष्करं दुष्करं क्षेत्रं सर्वपापप्रणाशनम्२३६
इदानीं शृणु मे राजन्पञ्चपातकनाशनम्
यजनं देवदेवस्य ब्रह्मपुत्र वसुप्रदम्२३७
इह जन्मनि दारिद्र्य व्याधिकुष्ठादिपीडितः
अलक्ष्मीवानपुत्रस्तु यो भवेत्पुरुषो भुवि२३८
तस्य सद्यो भवेल्लक्ष्मीरायुः पूर्णं सुतास्सुखम्
कृत्वा तु मण्डलगतं लोकपालसमन्वितम्२३९
ब्रह्माणं तु परं देवं यः पश्यति विधानतः
पूजितं नवनाभेन मन्त्रमूर्तिमयो निजम्२४०
कार्तिके मासि शुक्लायां पौर्णमास्यां विशेषतः
सर्वासु वा यजेदेवं पूर्णिमासु विधानतः२४१
सङ्क्रान्तौ च महाबाहो चन्द्रसूर्यग्रहेपि वा
यः पश्यति विभुं देवं पूजितं गुरुणा नृप२४२
तस्य सद्यो भवेत्तुष्टिः पापध्वंसश्च जायते
स मान्यो देवतानां च भवतीह नराधिप२४३
ब्राह्मणक्षत्रियविशां भक्तानां तु परीक्षणम्
संवत्सरं गुरुः कुर्याज्जातिशौचक्रियादिभिः२४४
उपपन्नमिति ज्ञात्वा हृदये नावधारयेत्
तेपि भक्तियुता ध्यात्वा त्वाचार्यं परमेश्वरम्२४५
संवत्सरं गुरौ भक्तिं कुर्युर्विष्णौ यथा तथा
प्रसादयेयुश्च ततः पूर्णे संवत्सरे गुरुम्२४६
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्
परब्रह्मोपासनेन विरिञ्च्याराधनेन च२४७
सहस्रशीर्षजप्येन मण्डलब्राह्मणेन च
ध्यानेन स्यात्तथास्माकमुपदेशः प्रदीयताम्२४८
इच्छामो वैदिकीं लक्ष्मीं विशेषेण प्रसीदताम्
अभ्यर्थितो गुरुस्त्वेवं मेधावी तैस्तदा ततः२४९
यथाविधि समभ्यर्चेद्ब्रह्माणं विष्णुमग्रतः
ते बद्धनेत्राः स्वाप्यास्तु कार्तिकस्य चतुर्दशीम्1.34.२५०
ब्राह्मे मुहूर्ते चोत्त्थाय बद्धपद्मासनास्तु ते
ध्यात्वा गुरुं सहस्रारे श्वेतवस्त्रोपवीतकम्२५१
श्वेतमाल्याम्बरधरं श्वेतगन्धानुलेपनम्
निर्गम्य च बहिर्नद्यां कुर्युर्नित्यमतन्द्रिताः२५२
क्षीरवृक्षोत्थमाचार्यो दापयेद्दन्तधावनम्
ते च तं भक्षयेयुर्हि नदीं गत्वा समुद्रगाम्२५३
इतरद्वा तटाकं वा गृहे वापि विधानतः
तद्भक्षयेयुर्मन्त्रेण मन्त्रितं परमेष्ठिनः२५४
आपोहिष्ठेति मन्त्रेण सप्तकृत्वोभिमन्त्रितं
देवस्य त्वेति वै जप्त्वा युञ्जानेति करे न्यसेत्२५५
इरावत्येति प्रक्षाल्य ब्रह्मोदनेति वै मुखे
भक्षयित्वा क्षिपेद्दूरं पतितं च निरीक्षयेत्२५६
सम्मुखं प्राङ्मुखं वापि विदिशं चापि वा गतम्
सम्मुखे देवतालब्धिर्मन्त्रसिद्धिश्च जायते२५७
पराङ्मुखे दन्तकाष्ठे सर्वे देवाः पराङ्मुखाः
उत्तरेण गते तस्मिन्सिद्धिर्भवति वा न वा२५८
दक्षिणेन भवेन्मृत्युर्गुरोस्तस्य न संशयः
प्रेक्ष्याशुभं स्वपेद्भूमौ देवदेवस्य सन्निधौ२५९
स्वप्नान्दृष्ट्वा गुरोरग्रे श्रावयेयुर्विचक्षणाः
ततः शुभाशुभं तत्र लक्षयेत्परमो गुरुः२६०
पौर्णमास्यामथ स्नात्वा ततो देवालयं व्रजेत्
गुरुश्च मण्डलं भूमौ कल्पितायां तु वर्तयेत्२६१
लक्षणैर्विविधैर्भूमिं लक्षयित्वा विधानतः
षोडशारं लिखेत्पद्मं नवधारमथापि वा२६२
अष्टपत्रमथो वापि लिखित्त्वा दर्शयेद्बुधः
नेत्रबन्धं तु कुर्वीत सितवस्त्रेण यत्नतः२६३
वर्णानुक्रमतः शिष्यान्पुष्पहस्तान्प्रवेशयेत्
नवनाभं यदा कुर्यान्मण्डलं वर्णकैर्बुधः२६४
इन्द्राणीपूर्वकं देवमिन्द्रमैन्द्र्यां तु पूजयेत्
लोकपालैः समं तद्वदग्निं सम्पूजयेन्नृप२६५
दिशि वह्नेर्यमं याम्यां नैऋत्यां चैव निर्ऋतिम्
वरुणं वारुणाशायां वायुं वायव्यगोचरे२६६
धनदं चोत्तरे न्यस्य रुद्रमीशानगोचरे
कमण्डलुं पूर्वतो हि स्रुचं वै दक्षिणे तथा२६७
हंसं वै पश्चिमायां तु उत्तरायां स्रुवं तथा
आग्नेय्यां च ब्रसीं दद्यान्नैर्ऋत्यां पादुके तथा२६८
वायव्यां योगपट्टं च ऐशान्यां च गलन्तिकाम्
विष्णुस्तु पूर्वतः पूज्यो दक्षिणे चापि शङ्करः२६९
पश्चिमे तु रविर्देव ऋषयश्चोत्तरे तथा
मध्ये स्वयं पद्मजन्मा सावित्री दक्षिणे तथा२७०
उत्तरे चैव गायत्री देवी पद्मदलेक्षणा
ऋग्वेदं पूर्वतो न्यस्य यजुर्वेदं च दक्षिणे२७१
पश्चिमे सामवेदं च अथर्वं चोत्तरे तथा
इतिहासपुराणानिच्छन्दोज्यौतिषमेवच२७२
धर्मशास्त्राणि चान्यानि इन्द्रादि दिक्षु विन्यसेत्
पूर्वपत्रे बलं पूज्य प्रद्युम्नं दक्षिणे दले२७३
पश्चिमे चानिरुद्धं च वासुदेवमथोत्तरे
पूर्वतो वामदेवं च सद्योजातं तु दक्षिणे२७४
ईशानं पश्चिमे स्थाप्य तत्पुरुषं चोत्तरे तथा
अघोरस्सर्वतः पूज्य एषा पूजा तु मण्डले२७५
पूर्वतो भास्करं पूज्य दक्षिणेन दिवाकरं
प्रभाकरं पश्चिमे तु ग्रहराजमथोत्तरे२७६
एवं पूज्य विधानेन ब्रह्माणं परमेश्वरम्
दिङ्मण्डले तु विन्यस्य अष्टौ कुम्भान्विधानतः२७७
ब्राह्मं तु कलशं मध्ये नवमं तत्र कल्पयेत्
स्नापयेन्मुक्तिकामं तु ब्रह्मणो वै घटेन तु२७८
श्रीकामं वैष्णवेनेह कलशेन तु पार्थिव
राज्यार्थिनं स्नापयेच्च ऐन्द्रेण कलशेन तु२७९
द्रव्यप्रतापकामं तु आग्नेय घटवारिणा
मृत्युञ्जयविधानाय याम्येन स्नापयेन्नरम्२८०
दुष्टप्रध्वंसनायालं नैर्ऋतेन विधीयते
स्नापयेद्वारुणेनाशु पापनाशाय मानवं२८१
शरीरारोग्यकामं तु वायव्येनाभिषेचयेत्
द्रव्यसम्पत्तिकामस्य कौबेरेण विधीयते२८२
रौद्रेण ज्ञानकामस्य लोकपालघटास्त्विमे
एकैकेन नरः स्नात्वा सर्वदोषविवर्जितः२८३
जायते ब्रह्मसदृशो राजासद्योऽथ वा नरः
अथवा दिक्षु सर्वासु यथासङ्ख्येन लोकपान्२८४
पूजयेत्तु स्वनाम्ना तु कुम्भैरेव विधानतः
एवं सम्पूज्य देवांस्तु लोकपालान्प्रसन्नधीः२८५
पश्चात्परीक्षितान्शिष्यान्बद्धनेत्रान्प्रवेशयेत्
दग्ध्वाग्नेय्या धारणया वायुना विधुनेत्ततः२८६
सोमेनाप्यायितान्कृत्वा श्रावयेत्समयांस्ततः
न निन्द्याद्ब्राह्मणान्देवान्विष्णुं ब्रह्माणमेव च२८७
इन्द्रमादित्यमग्निं च लोकपालान्ग्रहांस्तथा
गुरुं च ब्राह्मणं वापि मुनीन्द्रं पूर्वदीक्षितम्२८८
एवं तु समयान्श्राव्य पश्चाद्धोमं तु कारयेत्
ऊँ नमो भगवते ब्रह्मणे सर्वरूपिणे हुम्फट्स्वाहा२८९
षोडशाक्षरमन्त्रेण होमयेज्ज्वलितेनले
गर्भाधानादिकाः सर्वा आहुतीस्सम्प्रदापयेत्२९०
तिसृभिस्तु व्याहृतिभिर्देवदेवस्य सन्निधौ
होमान्ते दीक्षितः पश्चाद्दापयेद्गुरुदक्षिणाम्२९१
हस्त्यश्वयानशकटहेमधान्यादिकं नृप
दापयेद्गुरवे प्राज्ञो मध्यमे मध्यमं तथा२९२
दापयेदपरे युग्मं सहिरण्यं तु तद्गुरोः
एवं कृते तु यत्पुण्यं महत्सञ्जायते तथा२९३
तन्न शक्यं निगदितुमपि वर्षशतैरपि
दीक्षितोथ पुरा भूत्वा पाद्मं वै शृणुयाद्यदि२९४
तेन वेदाः पुराणानि सर्वमन्त्रास्ससङ्ग्रहाः
जप्तास्स्युः पुष्करे तीर्थे प्रयागे सिन्धुसागरे२९५
देवह्रदे कुरुक्षेत्रे वाराणस्यां विशेषतः
ग्रहणे विषुवे चैव यत्फलं जपतां भवेत्२९६
फलं शतगुणं तच्च पुष्करस्थं पितामहम्
दृष्ट्वा प्राप्नोति विविधान्कामान्कामयते यदि२९७
पूजां वैधानिकीं कृत्वा दीक्षितो यः शृणोति च
देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च२९८
कदा मे भारते वर्षे जन्म स्यादिति पार्थिव
दीक्षिताश्च भविष्यामः पाद्मं श्रोष्यामहे कदा२९९
पाद्मं तु षोडशात्मानं न्यस्य देहे कदा वयम्
यास्यामस्तु परं स्थानं यद्गत्वा न पुनर्भवेत्1.34.३००
एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च
ब्रह्मयज्ञं च कार्तिक्यां कदा द्रक्ष्यामहे नृप३०१
एवं ते विधिरुद्दिष्टो मयायं कुरुसत्तम
देवगन्धर्वयक्षाणां सर्वदा दुर्लभो ह्यसौ३०२
एवं यो वेत्ति तत्त्वेन यश्च पश्यति मण्डलम्
यश्चेमं शृणुयाच्चैव सर्वे मुक्ता इति श्रुतिः३०३
अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमम्
येन लक्ष्मीर्धृतिस्तुष्टिः पुष्टिश्चापि भवेन्नृणाम्३०४
सर्वे ग्रहास्सदा सौम्या जायन्ते येन पार्थिव
आदित्यवारं हस्तेन पूर्वमादाय भक्तितः३०५
भक्तैकेन क्षिपेत्तावद्यावत्सप्त च सङ्ख्यया
ततस्तु सप्तमे पूर्णे कुर्याद्ब्राह्मणभोजनम्३०६
आदित्यं चैव सौवर्णं कृत्वा यत्नेन मानवः
रक्तवस्त्रयुगच्छन्नं छत्रिकां पादुके तथा३०७
उपानहौ च दातव्ये स्थापयेत्ताम्रभाजने
घृतेन स्नपनं कृत्वा सम्पूर्णाङ्ग द्विजातये३०८
दापयेत्कृत्यविदुषे ब्राह्मणाय विशेषतः
एवं कृतौ फलं तस्य भवेदारोग्यमुत्तमम्३०९
द्रव्यसम्पत्समग्राप्तिरिति पौराणिकी क्रिया
अविसंवादिनी चेयं शान्ति पुष्टिप्रदा नृणाम्३१०
तद्वच्चित्रासु सङ्गृह्य सोमवारं विचक्षणः
रात्रिभक्षः क्षिपेदष्टौ सोमवारान्प्रयत्नतः३११
प्रत्येकं ब्राह्मणा भोज्या यथाशक्ति विचक्षणाः
नवमे तु ततः पूर्णे कुर्याद्ब्राह्मणभोजनम्३१२
वस्त्रयुग्मं च दातव्यं ततः सोमं प्रदापयेत्
कांस्यभाजनसंस्थं तु क्षीरसम्पूरितं ततः३१३
तद्वच्छत्रं पादुके च तथोपानत्समन्वितम्
सम्पूर्णाङ्गाय दातव्यं ब्राह्मणाय विशेषतः३१४
स्वात्यामङ्गारकं पूज्य क्षपयेन्नक्तभोजनैः
अष्टावेवं च यावच्च कुर्याद्ब्राह्मणभोजनम्३१५
अङ्गारकं च सौवर्णं स्थापितं ताम्रभाजने
दापयेद्ब्राह्मणायाथ सम्पूर्णाङ्गाय चैव हि३१६
नक्षत्रानुक्रमेणैव क्षिपेन्नक्तानि सप्त वै
अष्टमे तु क्रमात्खेटान्सौवर्णान्दापयेद्बुधः३१७
अग्निकार्यं च कुर्वीत यथादृष्टं विधानतः
एवं कृते भवेद्यद्वै तन्निबोध नराधिप३१८
असौम्याश्च ग्रहास्सर्वे सौम्यरूपा भवन्ति च
सर्वे रोगा विनश्यन्ति तुष्टिमायान्ति देवताः३१९
न विरुन्धन्ति तं नागाः पितरस्तर्पितास्तथा
दुस्स्वप्ननाशो भवति शृण्वतां पठतां तथा३२०
यदि भौमो रविसुतो भास्करो राहुणा सह
केतुश्च मूर्ध्नि तिष्ठन्ति रौद्राः पीडाकरा ग्रहाः३२१
अनेन कृतमात्रेण ससौभाग्या भवन्ति हि
य एवं कुरुते राजन्सदाभक्तिसमन्वितः३२२
तस्य सानुग्रहाः सर्वे शान्तिं यच्छन्ति नान्यथा
शनैश्चरं राहुकेतू लोहपात्रेषु विन्यसेत्३२३
लोहेन कारयेच्चैनान्ब्राह्मणेभ्यश्च दापयेत्
कृष्णं वस्त्रयुगं देयमेतेषां प्रीणनाय वै३२४
सौवर्णां गाश्च दातव्याः शान्तिश्रीविजयेप्सुभिः
व्रतान्ते सर्व एते हि ग्रहास्सौवर्णका नृप३२५
दातव्याः शान्तिमिच्छद्भिर्व्रतान्ते द्विजभोजनम्
यथाशक्ति दक्षिणा च ग्रहाणां प्रीतये तथा३२६
अल्पायासेन राजेन्द्र सर्वान्कामानवाप्नुयात्
शङ्कराज्ज्ञानमन्विच्छेदारोग्यं भास्करात्तथा३२७ (ज्ञान)
हुताशनाद्धनमिच्छेद्गतिमिच्छेज्जनार्दनात् (गति)
ब्राह्म्यं पितामहाच्चैव सर्वजन्तुप्रशान्तिदम्३२८
भीष्म उवाच
यस्त्वया कथितो यज्ञो यज्वनां तु फलं महत्
तथायुषस्स्वल्पतया अन्यैः प्राप्तुं न शक्यते३२९
स्वल्यायासेन यत्पुण्यं संवत्सरमुपोषजम्
भवेत्तन्मे मुनिश्रेष्ठ कथयस्व महाफलम्३३०
पुलस्त्य उवाच
इदमर्थं महाराज श्वेतो राजा महायशाः
वसिष्ठं पृष्टवान्प्रश्नं क्षुधया पीडितो भृशम्३३१
आसीदिलावृते वर्षे श्वेतो राजा महाबलः
स महीं सकलां जिग्ये सप्तद्वीपां सपत्तनाम्३३२
ब्रह्मपुत्रो वसिष्ठश्च आसीत्तस्य पुरोहितः
स कदाचिन्नृपश्रेष्ठो जित्वा परमधार्मिकः३३३
पुरोहितमुवाचेदं वसिष्ठं जपतां वरम्
श्वेत उवाच
भगवन्नश्वमेधानां सहस्रं कर्तुमुत्सहे३३४
सुवर्णरूप्यरत्नानां दानं कर्तुं द्विजातिषु
पृथिव्यामन्नदानं तु दातुन्नेच्छामि वै गुरो३३५
नान्नेन किञ्चिद्दत्तेन दत्ते होम्नि द्विजे प्रभो
न किञ्चिद्वस्त्विति ज्ञात्वा न दत्तं तत्कदाचन३३६
रक्तवस्त्रमलङ्कारं ग्रामांश्च नगराणि च
अददाद्ब्राह्मणेभ्योऽसौ श्वेतो राजा महायशाः३३७
नान्नं जलं तेन राज्ञा दत्तमासीत्कदाचन
ततोऽश्वमेधैर्बहुभिर्यज्वासौ नृपसत्तम३३८
स्वर्गं गतः पुण्यजितं तपस्तप्त्वार्बुदत्रयम्
ब्राह्मीं सलोकतां प्राप्तः सर्वालङ्कारभूषितः३३९
नृत्यन्त्यप्सरसस्तत्र गायन्ते सिद्धयोषितः
तुम्बुरुर्नारदस्तत्र द्वावप्यनुगतौ सदा३४०
अगायेतां महाप्राज्ञौ मुनयश्च तपोन्विताः
वेदोक्तमन्त्रैः स्तुवन्ति अनेकक्रतुयाजिनम्३४१
एवं विभवयुक्तस्य राज्ञस्तस्य महात्मनः
क्षुधाया पीड्यते देहं तृष्णया च विशेषतः३४२
स तया पीड्यमानस्तु क्षुधया राजसत्तमः
विमानेनाप्यसौ स्वर्गं त्यक्त्वागादृक्षपर्वतम्३४३
यत्रात्ममूर्तिस्तत्रागात्पुरा दग्धा महावने
तत्रास्थीनि स्वयं गृह्य लिहन्नास्ते स पार्थिवः३४४
पुनर्विमानमारुह्य ययौ नाकं नराधिपः
अथ कालेन महता स राजा संशितव्रतः३४५
स्वान्यस्थीनि लिहन्दृष्टो वसिष्ठेन पुरोधसा
उक्तश्च किन्नु राजेन्द्र स्वास्थिभक्षो नराधिप३४६
एवमुक्तस्ततो राजा वसिष्ठेन महर्षिणा
उवाच वचनं चेदं श्वेतो राजाथ तं मुनिम्३४७
भगवंस्तृट्क्षुधार्तोहमन्नदानं पुरा मया
न दत्तं मुनिशार्दूल तेन मां क्षुत्प्रबाधते३४८
एवमुक्तस्तदा राजा वसिष्ठो मुनिपुङ्गवः
उवाच तं नृपं भूयो वाक्यमेतन्महामुनिः३४९
किं ते करोमि राजेन्द्र क्षुधितस्य विशेषतः
वस्तु कस्यापि किञ्चिद्धि नाऽदत्तमुपतिष्ठति1.34.३५०
रत्नहेमप्रदानेन भोगवान्जायते नरः
अन्नदानप्रदानेन सर्वकामैः प्रदीपितः३५१
तन्न दत्तं त्वया राजन्स्तोकं मत्वा नराधिपः
श्वेत उवाच
अदत्तस्य च सम्भूतिर्यथा भवति मे गुरो३५२
वसिष्ठ त्वत्प्रसादेन तन्ममाचक्ष्व पृच्छतः
वसिष्ठ उवाच
अस्त्येकं कारणं येन जायते नात्र संशयः३५३
तच्छृणुष्व नरव्याघ्र कथ्यमानं मया तव
आसीद्राजा पुरा कल्पे विनीताश्वेति कीर्तितः३५४
स चाश्वमेधमारेभे यज्ञं कर्तुं वरं नृपः
यजनान्ते द्विजेन्द्रेभ्यो दत्तं गोऽश्वादि याचितम्३५५
नान्नं दत्तं तेन किञ्चित्स्वल्पं मत्वा यथा त्वया
ततः कालेन महता मृतोऽसौ जाह्नवी तटे३५६
मायापुर्यां विनीताश्वः सार्वभौमोऽभवन्नृपः
स्वर्गं च गतवान्सोऽपि यथा राजा भवान्प्रभो३५७
असावपि क्षुधाविष्ट एवमेवागतोऽभवत्
मर्त्यलोके नदीतीरे गङ्गायां नीलपर्वते३५८
विमानेनार्कवर्णेन भास्वता देववन्नृप
ददर्श तत्स्वकं देहं तथा स्वं च पुरोहितम्३५९
होतारं ब्राह्मणं नाम यजन्तं जाह्नवी तटे
तं दृष्ट्वाऽसावपि पुनः पर्यपृच्छदिद्वजोत्तमम्३६०
क्षुधायाः कारणं राजन्स होता तमुवाच ह
तिलधेनुं च वै राजन्घृतधेनुं च सत्तम३६१
जलधेनुं च धेनुं च रसधेनुं च पार्थिव
देहि शीघ्रं येन भवांस्तृट्क्षुधावर्जितो दिवि३६२
रमे तयावदादित्यस्तपते दिवि चन्द्रमाः
एवमुक्तस्ततो राजा तं पुनः पृष्टवानिदम्३६३
तिलधेनुस्थितिं ब्रूहि तथा कृत्वा ददाम्यहम्
पुरोहित उवाच
विधानं तिलधेनोस्तु तच्छृणुष्व नराधिप३६४
धेनुस्स्यात्षोडशाढक्य चतुर्भिर्वत्सको भवेत्
इक्षुदण्डमयाः पादा दन्ताः पुष्पमयाः शुभाः३६५
नासा गन्धमयी तस्या जिह्वा गुडमयी तथा
पुच्छे स्रक्कल्पनीयास्याद्घण्टाभरणभूषिता३६६
ईदृशीं कल्पयित्वा तु स्वर्णशृङ्गीं तु कल्पयेत्
रौप्यखुरां कांस्यदोहां पूर्वधेनुविधानतः३६७
कृत्वा तां ब्राह्मणायाशु दापयेन्मन्त्रतो नृप
स्थितां कृष्णाजिने धेनुं वासोभिर्गोपितां शुभाम्३६८
सूत्रेणासूत्रितां कृत्वा पञ्चरत्नसमन्विताम्
सर्वौषधिसमायुक्तां मन्त्रपूतां तु दापयेत्३६९
अन्नम्मे जायतां सद्यः पानं सर्वरसास्तथा
कामान्सम्पादयास्माकं तिलधेनो द्विजेर्पिता३७०
गृह्णामि देवि त्वां भक्त्या कुटुम्बार्थे विशेषतः
देहि कामान्वितान्सर्वांस्तिलधेनो नमोस्तु ते३७१
एवं विधानतो दत्ता तिलधेनुर्नृपोत्तम
सर्वकामसमावाप्तिं कुरुते नात्र संशयः३७२
जलधेनुस्तथैवेह कुम्भैरेव प्रकल्पिता
दत्ता तु विधिना कामान्सद्यः सर्वान्प्रयच्छति३७३
धेनुशतं तथा दत्तं पूर्णिमा नियमेन हि
सावित्री इव वै स्वर्गे सर्वकामप्रदा भवेत्३७४
घृतधेनुस्तथा दत्ता विधानेन विचक्षणैः
सर्वकामसमावाप्तिं कुरुते कान्तिदा भवेत्३७५
रसधेनुस्तथा दत्ता कार्तिके मासि पार्थिव
सर्वान्कामान्प्रयच्छेत्तु नित्यं सा गतिदा भवेत्३७६
एतत्ते सर्वमाख्यातं समासाद्बहुविस्तरम्
अपारं फलमुद्दिष्टं ब्रह्मणा सर्वकर्मणा३७७
तृष्णया क्षुधया यद्वा पीडितो राजसत्तम
तद्दानं कार्तिके देयं पूर्वं देहि नराधिप३७८
ब्रह्माण्डं सर्वसम्पन्नं भूतरत्नौषधीयुतम्
देवदानवयक्षैश्च युक्तमेतत्सदा विभो३७९
एतत्तु सकलं कृत्वा सर्वतो रजतान्वितम्
सुरत्नसूर्यचन्द्राढ्यं कार्तिके द्वादशी दिने३८०
अथवा पञ्चदश्यां तु कार्तिकस्यैव नान्यतः
पुरोहिताय गुरवे दापयेद्भक्तिमान्नरः३८१
ब्रह्माण्डोदरवर्तीनि यानि भूतानि पार्थिव
तानि दत्तानि वै तेन समासात्कथितं तव३८२
यद्यज्ञैर्यजतो राजन्समाप्तवरदक्षिणैः
सर्वं फलं तत्खण्डस्य ब्रह्माण्डस्य विशेषतः३८३
यः पुनः सकलं चेदं ब्रह्माण्डं प्रदिशेन्नरः
तेन जप्तं हुतं दत्तं पठितं कीर्तितं भवेत्३८४
राजोवाच
विधिं ब्रह्माण्डदानस्य कृत्वा तत्मोक्षभाग्भवेत्
कालं देशं विप्रतीर्थं सर्वं त्वं वद मेनघ३८५
कृतेन येन सर्वस्य फलभागी भवाम्यहम्
कुत्सितस्यास्य भावस्य मोक्षस्स्यादचिराच्च मे३८६
वसिष्ठ उवाच
एवं श्रुत्वा ततो राजन्पुरोधास्तस्य स द्विजः
ब्रह्माण्डं कारयामास सौवर्णं सर्वधातुभिः३८७
युतं निष्कसहस्रेण पद्मं तत्र ह्यकल्पयत्
तत्र ब्रह्मा तस्य मध्येपद्मरागैरलङ्कृतः३८८
सावित्र्या चैव गायत्र्या ऋषिभिर्मुनिभिः सह
नारदाद्याः सुताः सर्व इन्द्राद्याश्च दिवौकसः३८९
सौवर्णविग्रहाः सर्वे ब्रह्मणस्तु पुरःसराः
वराहरूपी भगवान्लक्ष्म्या सह सनातनः३९०
नीलं मरकतं चैव भूषायां तस्य कारयेत्
गोमेदैस्तस्य वै शोभां कारयेत च बुद्धिमान्३९१
मोक्तिकैश्चापि सोमस्य शोभां वज्रैर्दिवाकरे
ग्रहाणां चैव सर्वेषां सुवर्णानि च दापयेत्३९२
स्वर्णात्सप्तगुणं रौप्यं रौप्यात्ताम्रं तथाविधम्
ततः सप्तगुणं कार्यं कांस्यं सप्तगुणं तथा३९३
कांस्यात्सप्तगुणं कार्यं त्रपु चैव नराधिप
त्रपुसप्तगुणं सीसं सीसाल्लोहं च कारयेत्३९४
सप्तद्वीपास्समुद्राश्च सप्त वै कुलपर्वताः
अनया सङ्ख्यया कृत्वा निपुणैः शिल्पिभिस्ततः३९५
पादपादीनि भूतानि राजतान्येव कारयेत्
आरण्यानि च सत्त्वानि सौवर्णानि च कारयेत्३९६
वृक्षान्वनस्पतीन्गुल्मतृणपर्णानि वीरुधः
सर्वं प्रकल्प्य विधिवत्तीर्थे देयं विचक्षणैः३९७
कुरुक्षेत्रे गयायां च प्रयागेऽमरकण्टके
द्वारवत्यां प्रभासे च गङ्गाद्वारे च पुष्करे३९८
तीर्थेष्वेतेषु वै देयं ग्रहणे शशिसूर्ययोः
दिनच्छिद्रेषु सर्वेषु अयने दक्षिणोत्तरे३९९
व्यतीपाते बहुगुणं विषुवे च विशेषतः
दातव्यमेतद्राजेन्द्र विचारं नैव कारयेत्1.34.४००
शालाग्निहोत्रिणं कृत्वा सुरूपं च गुणान्वितम्
सपत्नीकं च सम्पूज्य भूषयित्वा च भूषणैः४०१
पुरोहितं मुख्यतमं कृत्वाऽन्ये च तथा द्विजाः
चतुर्विंशद्गुणोपेताः सपत्नीका निमन्त्रिताः४०२
अङ्गुलीयानि च तथा कर्णवेष्टं च दापयेत्
एवंविधांस्तु तान्पूज्य तेषामग्रे सुसंस्थितः४०३
अष्टाङ्गप्रणिपातेन प्रणम्य च पुनःपुनः
पुरोहिताय पुरतः कृत्वा वै करसम्पुटम्४०४
यूयं वै ब्राह्मणाः प्रीता मैत्रत्वेनानुगृह्णत
सौमुख्येन द्विजश्रेष्ठा भूयः पूततरस्त्वहः४०५
भवतां प्रीतियोगेन स्वयं प्रीतः पितामहः
ब्रह्माण्डेन तु दत्तेन तोषं यातु जनार्दनः४०६
पिनाकपाणिर्भगवान्शक्रश्च त्रिदशेश्वरः
एते तोषं समायान्तु अनुध्यानाद्द्विजोत्तमाः४०७
एवं स्तुत्वा ततो राजा ब्राह्मणान्वेदपारगान्
ब्रह्माण्डं तु गुरोः प्रादात्सविधानं पुनः क्षणात्४०८
सर्वकामैस्ततस्तृप्तो ययौ स्वर्गं नराधिपः
तेनैव गुरुणा तच्च विभक्तं ब्राह्मणैः सह४०९
दत्तं तेनापि चान्येभ्यो ब्रह्माण्डं च नराधिप
ब्रह्माण्डे भूमिदाने च ग्राही चैको न वै भवेत्४१०
गृह्णन्दोषमवाप्नोति ब्रह्महत्यां न संशयः
सर्वेषां चैव प्रत्यक्षं दातव्यं परिकीर्त्य वै४११
दीयमानं च पश्यन्ति तेपि पूता भवन्ति हि
दर्शनादेव ते मुक्ता भवन्न्त्येव न संशयः४१२
या भीमद्वादशी प्रोक्ता स्वर्णं तोयं मृगाजिनं
एतानि कृत्वा पश्यन्तु दृष्टैरेतैः क्रियाफलं४१३
अयत्नादेव लभ्येत कर्तुश्चैव सलोकता
सदा गावः प्रणम्याश्च मन्त्रेणानेन पार्थिव४१४
नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च
नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः४१५
मन्त्रस्य चास्य स्मरणाद्गोदानफलमाप्नुयात्
तस्मात्त्वमपि राजेन्द्र पुष्करे तीर्थ उत्तमे४१६
कार्तिक्यां तु विशेषेण गोदानफलमाप्स्यसि
यत्किञ्चिद्विद्यते पापं स्त्रियो वा पुरुषस्य वा४१७
पुष्करे स्नानमात्रेण तदशेषं प्रणश्यति
पृथिव्यां यानि तीर्थानि आसमुद्रात्तु भारत४१८
पुष्करे तान्युपायान्ति कार्तिक्यां तु विशेषतः४१९