भीष्म उवाच
विश्वास-प्रस्तुतिः
मार्कण्डेयेन वै रामः कथमत्र प्रबोधितः
कथं समागमो भूतः कस्मिन्काले कदा मुने॥ १ ॥
मूलम्
मार्कण्डेयेन वै रामः कथमत्र प्रबोधितः
कथं समागमो भूतः कस्मिन्काले कदा मुने॥ १ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेयः कस्य सुतः कथं जातो महातपाः
नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने॥ २ ॥
मूलम्
मार्कण्डेयः कस्य सुतः कथं जातो महातपाः
नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने॥ २ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
अथ ते सम्प्रवक्ष्यामि मार्कण्डेयोद्भवं पुनः
पुराकल्पे मुनिः पूर्वं मृकण्डुर्नाम विश्रुतः॥ ३ ॥
मूलम्
पुलस्त्य उवाच
अथ ते सम्प्रवक्ष्यामि मार्कण्डेयोद्भवं पुनः
पुराकल्पे मुनिः पूर्वं मृकण्डुर्नाम विश्रुतः॥ ३ ॥
विश्वास-प्रस्तुतिः
भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः
तस्य पुत्रस्तदा जातो वसतस्तु वनान्तरे॥ ४ ॥
मूलम्
भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः
तस्य पुत्रस्तदा जातो वसतस्तु वनान्तरे॥ ४ ॥
विश्वास-प्रस्तुतिः
सपञ्चवार्षिको भूतो बाल एव गुणाधिकः
ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदाङ्गणे॥ ५ ॥
मूलम्
सपञ्चवार्षिको भूतो बाल एव गुणाधिकः
ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदाङ्गणे॥ ५ ॥
विश्वास-प्रस्तुतिः
स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत
तस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे॥ ६ ॥
मूलम्
स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत
तस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे॥ ६ ॥
विश्वास-प्रस्तुतिः
सङ्ख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वा
मृकण्डुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत्॥ ७ ॥
मूलम्
सङ्ख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वा
मृकण्डुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत्॥ ७ ॥
विश्वास-प्रस्तुतिः
षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वर
नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्॥ ८ ॥
मूलम्
षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वर
नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्॥ ८ ॥
विश्वास-प्रस्तुतिः
स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम्
अथोपनयनं चक्रे बालकस्य पिता तदा॥ ९ ॥
मूलम्
स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम्
अथोपनयनं चक्रे बालकस्य पिता तदा॥ ९ ॥
विश्वास-प्रस्तुतिः
आह चैनं पितापुत्रमृषींस्त्वमभिवादय
एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने॥ १० ॥
मूलम्
आह चैनं पितापुत्रमृषींस्त्वमभिवादय
एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने॥ १० ॥
विश्वास-प्रस्तुतिः
न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनः
पञ्चमासास्त्वतिक्रान्ता दिवसाः पञ्चविंशतिः॥ ११ ॥
मूलम्
न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनः
पञ्चमासास्त्वतिक्रान्ता दिवसाः पञ्चविंशतिः॥ ११ ॥
विश्वास-प्रस्तुतिः
मार्गेणाथ समायाता ऋषयस्तत्र सप्त वै
बालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः॥ १२ ॥
मूलम्
मार्गेणाथ समायाता ऋषयस्तत्र सप्त वै
बालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः॥ १२ ॥
विश्वास-प्रस्तुतिः
आयुष्मान्भव तैरुक्तः स बालो दण्डमेखली
उक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम्॥ १३ ॥
मूलम्
आयुष्मान्भव तैरुक्तः स बालो दण्डमेखली
उक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम्॥ १३ ॥
विश्वास-प्रस्तुतिः
दिनानि पञ्च तस्यायुर्ज्ञात्वा भीताश्च ते नृप
तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोन्तिकम्॥ १४ ॥
मूलम्
दिनानि पञ्च तस्यायुर्ज्ञात्वा भीताश्च ते नृप
तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोन्तिकम्॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम्
अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः॥ १५ ॥
मूलम्
प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम्
अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः॥ १५ ॥
विश्वास-प्रस्तुतिः
चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात्॥ १६ ॥
मूलम्
चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात्॥ १६ ॥
विश्वास-प्रस्तुतिः
पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितः
कार्येण येन चायातः कोयं बालो निवेद्यताम्॥ १७ ॥
मूलम्
पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितः
कार्येण येन चायातः कोयं बालो निवेद्यताम्॥ १७ ॥
विश्वास-प्रस्तुतिः
ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन्
पुत्रो मृकण्डोः क्षीणायुः सायुषं कुरु बालकम्॥ १८ ॥
मूलम्
ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन्
पुत्रो मृकण्डोः क्षीणायुः सायुषं कुरु बालकम्॥ १८ ॥
विश्वास-प्रस्तुतिः
अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम्
यज्ञोपवीतं दण्डं च दत्वा चैनमबोधयत्॥ १९ ॥
मूलम्
अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम्
यज्ञोपवीतं दण्डं च दत्वा चैनमबोधयत्॥ १९ ॥
विश्वास-प्रस्तुतिः
यं कञ्चित्पश्यसे बाल भ्रमन्तं भूतले जनम्
तस्याभिवादः कर्तव्य एवमाह पिता वचः॥ २० ॥
मूलम्
यं कञ्चित्पश्यसे बाल भ्रमन्तं भूतले जनम्
तस्याभिवादः कर्तव्य एवमाह पिता वचः॥ २० ॥
विश्वास-प्रस्तुतिः
अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन्
तीर्थयात्राप्रसङ्गेन दैवयोगात्पितामह॥ २१ ॥
मूलम्
अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन्
तीर्थयात्राप्रसङ्गेन दैवयोगात्पितामह॥ २१ ॥
विश्वास-प्रस्तुतिः
चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकः
कथं वचो भवेत्सत्यमस्माकं भवता सह॥ २२ ॥
मूलम्
चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकः
कथं वचो भवेत्सत्यमस्माकं भवता सह॥ २२ ॥
विश्वास-प्रस्तुतिः
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः
ऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया॥ २३ ॥
मूलम्
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः
ऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया॥ २३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
मत्समश्चायुषा बालो मार्कण्डेयो भविष्यति
कल्पस्यादौ तथाचान्ते मतो मे मुनिसत्तमः॥ २४ ॥
मूलम्
ब्रह्मोवाच
मत्समश्चायुषा बालो मार्कण्डेयो भविष्यति
कल्पस्यादौ तथाचान्ते मतो मे मुनिसत्तमः॥ २४ ॥
विश्वास-प्रस्तुतिः
एवं ते मुनयो बालं ब्रह्मलोके पितामहात्
संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम्॥ २५ ॥
मूलम्
एवं ते मुनयो बालं ब्रह्मलोके पितामहात्
संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम्॥ २५ ॥
विश्वास-प्रस्तुतिः
तीर्थयात्रां गता विप्रा मार्कण्डेयो निजं गृहम्
जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्॥ २६ ॥
मूलम्
तीर्थयात्रां गता विप्रा मार्कण्डेयो निजं गृहम्
जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्॥ २६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः
दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः॥ २७ ॥
मूलम्
ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः
दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः॥ २७ ॥
विश्वास-प्रस्तुतिः
एतदन्यच्च मे दत्तं गतं चिन्ताकरं तव
कल्पस्यादौ तथा चान्ते भविष्ये समनन्तरे॥ २८ ॥
मूलम्
एतदन्यच्च मे दत्तं गतं चिन्ताकरं तव
कल्पस्यादौ तथा चान्ते भविष्ये समनन्तरे॥ २८ ॥
विश्वास-प्रस्तुतिः
लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः
पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः॥ २९ ॥
मूलम्
लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः
पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः॥ २९ ॥
विश्वास-प्रस्तुतिः
तत्राहं देवदेवेशमुपासिष्ये पितामहम्
सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्॥ ३० ॥
मूलम्
तत्राहं देवदेवेशमुपासिष्ये पितामहम्
सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्॥ ३० ॥
विश्वास-प्रस्तुतिः
सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्
ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्॥ ३१ ॥
मूलम्
सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्
ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्॥ ३१ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेयवचः श्रुत्वा मृकण्डुर्मुनिसत्तमः
जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्॥ ३२ ॥
मूलम्
मार्कण्डेयवचः श्रुत्वा मृकण्डुर्मुनिसत्तमः
जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्॥ ३२ ॥
विश्वास-प्रस्तुतिः
धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्
अद्य मे सफलं जन्म जीवितं च सुजीवितम्॥ ३३ ॥
मूलम्
धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्
अद्य मे सफलं जन्म जीवितं च सुजीवितम्॥ ३३ ॥
विश्वास-प्रस्तुतिः
सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः
त्वया दायादवानस्मि पुत्रेण वंशधारिणा॥ ३४ ॥
मूलम्
सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः
त्वया दायादवानस्मि पुत्रेण वंशधारिणा॥ ३४ ॥
विश्वास-प्रस्तुतिः
त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्
दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च॥ ३५ ॥
मूलम्
त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्
दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च॥ ३५ ॥
विश्वास-प्रस्तुतिः
नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्
त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च॥ ३६ ॥
मूलम्
नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्
त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च॥ ३६ ॥
विश्वास-प्रस्तुतिः
पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्॥ ३७ ॥
मूलम्
पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्॥ ३७ ॥
विश्वास-प्रस्तुतिः
शृङ्गशब्दाभिधानानि शुभप्रस्रवणानि च
ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः॥ ३८ ॥
मूलम्
शृङ्गशब्दाभिधानानि शुभप्रस्रवणानि च
ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः॥ ३८ ॥
विश्वास-प्रस्तुतिः
पुष्करेषु महाराजा नातः पुण्यतमं भुवि
विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्॥ ३९ ॥
मूलम्
पुष्करेषु महाराजा नातः पुण्यतमं भुवि
विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्॥ ३९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मलोकस्य पन्थानं धन्याः पश्यन्ति पुष्करं
यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते॥ ४० ॥
मूलम्
ब्रह्मलोकस्य पन्थानं धन्याः पश्यन्ति पुष्करं
यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते॥ ४० ॥
विश्वास-प्रस्तुतिः
कार्तिकीं वा वसेदेकां पुष्करे सममेव च
कर्तुम्मया न शकितं कर्मणा नैव साधितम्॥ ४१ ॥
मूलम्
कार्तिकीं वा वसेदेकां पुष्करे सममेव च
कर्तुम्मया न शकितं कर्मणा नैव साधितम्॥ ४१ ॥
विश्वास-प्रस्तुतिः
तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः
तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः॥ ४२ ॥
मूलम्
तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः
तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः॥ ४२ ॥
विश्वास-प्रस्तुतिः
नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले
अहं वै तोषितो येन पञ्चवार्षिकजन्मना॥ ४३ ॥
मूलम्
नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले
अहं वै तोषितो येन पञ्चवार्षिकजन्मना॥ ४३ ॥
विश्वास-प्रस्तुतिः
वरेण त्वं मदीयेन उपमां चिरजीविनाम्
गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम॥ ४४ ॥
मूलम्
वरेण त्वं मदीयेन उपमां चिरजीविनाम्
गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्
एवं लब्धप्रसादेन मृकण्डुतनयेन च॥ ४५ ॥
मूलम्
एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्
एवं लब्धप्रसादेन मृकण्डुतनयेन च॥ ४५ ॥
विश्वास-प्रस्तुतिः
आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युत
तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत्॥ ४६ ॥
मूलम्
आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युत
तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत्॥ ४६ ॥
विश्वास-प्रस्तुतिः
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः
पुलस्त्य उवाच
तथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम्॥ ४७ ॥
मूलम्
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः
पुलस्त्य उवाच
तथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम्॥ ४७ ॥
विश्वास-प्रस्तुतिः
यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम्
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च॥ ४८ ॥
मूलम्
यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम्
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च॥ ४८ ॥
विश्वास-प्रस्तुतिः
अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम्
राम उवाच
कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने॥ ४९ ॥
मूलम्
अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम्
राम उवाच
कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने॥ ४९ ॥
विश्वास-प्रस्तुतिः
यत्र गत्वा नरो योगिन्वियोगं सह बन्धुभिः
नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत1.33.॥ ५० ॥
मूलम्
यत्र गत्वा नरो योगिन्वियोगं सह बन्धुभिः
नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत1.33.॥ ५० ॥
विश्वास-प्रस्तुतिः
अनेन वनवासेन राज्ञस्तु मरणेन च
भरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः॥ ५१ ॥
मूलम्
अनेन वनवासेन राज्ञस्तु मरणेन च
भरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः॥ ५१ ॥
विश्वास-प्रस्तुतिः
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा
ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत्॥ ५२ ॥
मूलम्
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा
ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत्॥ ५२ ॥
विश्वास-प्रस्तुतिः
अत्रिरुवाच
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन
मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम्॥ ५३ ॥
मूलम्
अत्रिरुवाच
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन
मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम्॥ ५३ ॥
विश्वास-प्रस्तुतिः
पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ
कुण्डत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम्॥ ५४ ॥
मूलम्
पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ
कुण्डत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम्॥ ५४ ॥
विश्वास-प्रस्तुतिः
तेषु गत्वा दशरथं पिण्डदानेन तर्पय
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम्॥ ५५ ॥
मूलम्
तेषु गत्वा दशरथं पिण्डदानेन तर्पय
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम्॥ ५५ ॥
विश्वास-प्रस्तुतिः
अवियोगा च सुरसा वापी रघुकुलोद्वह
तथा सौभाग्यकूपोन्यः सुजलो रघुनन्दन॥ ५६ ॥
मूलम्
अवियोगा च सुरसा वापी रघुकुलोद्वह
तथा सौभाग्यकूपोन्यः सुजलो रघुनन्दन॥ ५६ ॥
विश्वास-प्रस्तुतिः
तेषु पिण्डप्रदानेन पितरो मोक्षमाप्नुयुः
आभूतसम्प्लवं कालमेतदाह पितामहः॥ ५७ ॥
मूलम्
तेषु पिण्डप्रदानेन पितरो मोक्षमाप्नुयुः
आभूतसम्प्लवं कालमेतदाह पितामहः॥ ५७ ॥
विश्वास-प्रस्तुतिः
तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाः
तथेति चोक्त्वा रामोपि गमनाय मनो दधे॥ ५८ ॥
मूलम्
तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाः
तथेति चोक्त्वा रामोपि गमनाय मनो दधे॥ ५८ ॥
विश्वास-प्रस्तुतिः
ऋक्षवन्तमभिक्रम्य नगरं वैदिशं तथा
चर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम्॥ ५९ ॥
मूलम्
ऋक्षवन्तमभिक्रम्य नगरं वैदिशं तथा
चर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम्॥ ५९ ॥
विश्वास-प्रस्तुतिः
तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितः
पितॄन्सन्तर्पयामास अद्भिर्देवांश्च सर्वशः॥ ६० ॥
मूलम्
तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितः
पितॄन्सन्तर्पयामास अद्भिर्देवांश्च सर्वशः॥ ६० ॥
विश्वास-प्रस्तुतिः
स्नानावसाने रामेण मार्कण्डो मुनिपुङ्गवः
आगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता॥ ६१ ॥
मूलम्
स्नानावसाने रामेण मार्कण्डो मुनिपुङ्गवः
आगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता॥ ६१ ॥
विश्वास-प्रस्तुतिः
गत्वा वै सम्मुखं तस्य प्रणिपत्य च सादरम्
पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो॥ ६२ ॥
मूलम्
गत्वा वै सम्मुखं तस्य प्रणिपत्य च सादरम्
पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो॥ ६२ ॥
विश्वास-प्रस्तुतिः
सुतो दशरथस्याहं रामो नाम जनैः स्मृतः
सौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात्॥ ६३ ॥
मूलम्
सुतो दशरथस्याहं रामो नाम जनैः स्मृतः
सौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात्॥ ६३ ॥
विश्वास-प्रस्तुतिः
तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मे
एवमुक्तश्च रामेण मार्कण्डः प्रत्युवाच ह॥ ६४ ॥
मूलम्
तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मे
एवमुक्तश्च रामेण मार्कण्डः प्रत्युवाच ह॥ ६४ ॥
विश्वास-प्रस्तुतिः
मार्कण्डेय उवाच
साधु राघव भद्रं ते सुकृतं भवता कृतम्
तीर्थयात्राप्रसङ्गेन यत्प्राप्तोसीह साम्प्रतम्॥ ६५ ॥
मूलम्
मार्कण्डेय उवाच
साधु राघव भद्रं ते सुकृतं भवता कृतम्
तीर्थयात्राप्रसङ्गेन यत्प्राप्तोसीह साम्प्रतम्॥ ६५ ॥
विश्वास-प्रस्तुतिः
एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम्
अवियोगश्च सर्वैश्च कूप एवात्र जायते॥ ६६ ॥
मूलम्
एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम्
अवियोगश्च सर्वैश्च कूप एवात्र जायते॥ ६६ ॥
विश्वास-प्रस्तुतिः
आमुष्मिके चैहिके च जीवतोपि मृतस्य वा
एतद्वाक्यं मुनीन्द्रस्य श्रुत्वा लक्ष्मणपूर्वजः॥ ६७ ॥
मूलम्
आमुष्मिके चैहिके च जीवतोपि मृतस्य वा
एतद्वाक्यं मुनीन्द्रस्य श्रुत्वा लक्ष्मणपूर्वजः॥ ६७ ॥
विश्वास-प्रस्तुतिः
सस्मार रामो राजानं तदा दशरथं नृप
भरतं सह शत्रुघ्न्रम्भातॄनन्यांश्चनागरान्॥ ६८ ॥
मूलम्
सस्मार रामो राजानं तदा दशरथं नृप
भरतं सह शत्रुघ्न्रम्भातॄनन्यांश्चनागरान्॥ ६८ ॥
विश्वास-प्रस्तुतिः
एवञ्चिन्तयतस्तस्य सन्ध्याकालो व्यजायत
उपास्य पश्चिमां सन्ध्यां मुनिभिःसह राघवः॥ ६९ ॥
मूलम्
एवञ्चिन्तयतस्तस्य सन्ध्याकालो व्यजायत
उपास्य पश्चिमां सन्ध्यां मुनिभिःसह राघवः॥ ६९ ॥
विश्वास-प्रस्तुतिः
सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितः
विभावर्यवसाने तु स्वप्नान्ते रघुनन्दनः॥ ७० ॥
मूलम्
सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितः
विभावर्यवसाने तु स्वप्नान्ते रघुनन्दनः॥ ७० ॥
विश्वास-प्रस्तुतिः
पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल
विवाहमङ्गले वृत्ते बहुभिर्बान्धवैः सह॥ ७१ ॥
मूलम्
पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल
विवाहमङ्गले वृत्ते बहुभिर्बान्धवैः सह॥ ७१ ॥
विश्वास-प्रस्तुतिः
समासीनः सभार्योऽसावृषिभिः परिवारितः
लक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा॥ ७२ ॥
मूलम्
समासीनः सभार्योऽसावृषिभिः परिवारितः
लक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा॥ ७२ ॥
विश्वास-प्रस्तुतिः
प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम्
ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम॥ ७३ ॥
मूलम्
प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम्
ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम॥ ७३ ॥
विश्वास-प्रस्तुतिः
मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम्
वृद्धिकामास्तु पितरस्तथा चैवान्नकाङ्क्षिणः॥ ७४ ॥
मूलम्
मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम्
वृद्धिकामास्तु पितरस्तथा चैवान्नकाङ्क्षिणः॥ ७४ ॥
विश्वास-प्रस्तुतिः
ददन्ति दर्शनं स्वप्ने भक्तियुक्तस्य राघव
अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च॥ ७५ ॥
मूलम्
ददन्ति दर्शनं स्वप्ने भक्तियुक्तस्य राघव
अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च॥ ७५ ॥
विश्वास-प्रस्तुतिः
चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्
कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च॥ ७६ ॥
मूलम्
चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्
कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च॥ ७६ ॥
विश्वास-प्रस्तुतिः
अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः
अहं च जमदग्निश्च भारद्वाजश्च लोमशः॥ ७७ ॥
मूलम्
अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः
अहं च जमदग्निश्च भारद्वाजश्च लोमशः॥ ७७ ॥
विश्वास-प्रस्तुतिः
देवरातः शमीकश्च षडेते वै द्विजोत्तमाः
श्राद्धे च ते महाबाहो सम्भारांस्त्वमुपाहर॥ ७८ ॥
मूलम्
देवरातः शमीकश्च षडेते वै द्विजोत्तमाः
श्राद्धे च ते महाबाहो सम्भारांस्त्वमुपाहर॥ ७८ ॥
विश्वास-प्रस्तुतिः
मुख्यं चेङ्गुदिपिण्याकं बदरामलकैः सह
श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु॥ ७९ ॥
मूलम्
मुख्यं चेङ्गुदिपिण्याकं बदरामलकैः सह
श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु॥ ७९ ॥
विश्वास-प्रस्तुतिः
मार्गेण चाथ मांसेन धान्येन विविधेन च
तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत॥ ८० ॥
मूलम्
मार्गेण चाथ मांसेन धान्येन विविधेन च
तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत॥ ८० ॥
विश्वास-प्रस्तुतिः
पुष्करारण्यमासाद्य नियतो नियताशनः
पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्॥ ८१ ॥
मूलम्
पुष्करारण्यमासाद्य नियतो नियताशनः
पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्॥ ८१ ॥
विश्वास-प्रस्तुतिः
स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्
इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप॥ ८२ ॥
मूलम्
स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्
इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप॥ ८२ ॥
विश्वास-प्रस्तुतिः
लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्
शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु॥ ८३ ॥
मूलम्
लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्
शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु॥ ८३ ॥
विश्वास-प्रस्तुतिः
जम्बीराणि च मुख्यानि मूलानि विविधानि च
पक्वानि च कपित्थानि फलान्यन्यानि यानि च॥ ८४ ॥
मूलम्
जम्बीराणि च मुख्यानि मूलानि विविधानि च
पक्वानि च कपित्थानि फलान्यन्यानि यानि च॥ ८४ ॥
विश्वास-प्रस्तुतिः
तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण
तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः॥ ८५ ॥
मूलम्
तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण
तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः॥ ८५ ॥
विश्वास-प्रस्तुतिः
बदरेङ्गुदिशाकानि मूलानि विविधानि च
तत्राहृत्य च रामेण कूटाकारः कृतो महान्॥ ८६ ॥
मूलम्
बदरेङ्गुदिशाकानि मूलानि विविधानि च
तत्राहृत्य च रामेण कूटाकारः कृतो महान्॥ ८६ ॥
विश्वास-प्रस्तुतिः
परिपक्वं च जानक्या सिद्धं रामे निवेदितम्
स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन्॥ ८७ ॥
मूलम्
परिपक्वं च जानक्या सिद्धं रामे निवेदितम्
स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन्॥ ८७ ॥
विश्वास-प्रस्तुतिः
मध्याह्नाच्चलिते सूर्ये काले कुतपके तथा
आयाता ऋषयः सर्वे ये रामेणानुमन्त्रिताः॥ ८८ ॥
मूलम्
मध्याह्नाच्चलिते सूर्ये काले कुतपके तथा
आयाता ऋषयः सर्वे ये रामेणानुमन्त्रिताः॥ ८८ ॥
विश्वास-प्रस्तुतिः
तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजा
रामान्तिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता॥ ८९ ॥
मूलम्
तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजा
रामान्तिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता॥ ८९ ॥
विश्वास-प्रस्तुतिः
विस्मयोत्फुल्लनयना चिन्तयाना च वेपती
ब्राह्मणा नेह जानन्ति श्राद्धकाले ह्युपस्थिताः॥ ९० ॥
मूलम्
विस्मयोत्फुल्लनयना चिन्तयाना च वेपती
ब्राह्मणा नेह जानन्ति श्राद्धकाले ह्युपस्थिताः॥ ९० ॥
विश्वास-प्रस्तुतिः
रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधि
वैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः॥ ९१ ॥
मूलम्
रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधि
वैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः॥ ९१ ॥
विश्वास-प्रस्तुतिः
पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः
भुक्तवत्सु च विप्रेषु दत्वा पिण्डान्यथाक्रमम्॥ ९२ ॥
मूलम्
पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः
भुक्तवत्सु च विप्रेषु दत्वा पिण्डान्यथाक्रमम्॥ ९२ ॥
विश्वास-प्रस्तुतिः
प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम्
गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम्॥ ९३ ॥
मूलम्
प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम्
गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम्॥ ९३ ॥
विश्वास-प्रस्तुतिः
किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान्
तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम्॥ ९४ ॥
मूलम्
किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान्
तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम्॥ ९४ ॥
विश्वास-प्रस्तुतिः
भवितव्यं कारणेन तच्च गोप्यं न मे कुरु
शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते॥ ९५ ॥
मूलम्
भवितव्यं कारणेन तच्च गोप्यं न मे कुरु
शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते॥ ९५ ॥
विश्वास-प्रस्तुतिः
एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिता
विमुञ्चन्ती साऽश्रुपातं राघवं वाक्यमब्रवीत्॥ ९६ ॥
मूलम्
एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिता
विमुञ्चन्ती साऽश्रुपातं राघवं वाक्यमब्रवीत्॥ ९६ ॥
विश्वास-प्रस्तुतिः
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्
राम त्वयाऽचिन्त्यमानो राजेन्द्रस्त्विह चागतः॥ ९७ ॥
मूलम्
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्
राम त्वयाऽचिन्त्यमानो राजेन्द्रस्त्विह चागतः॥ ९७ ॥
विश्वास-प्रस्तुतिः
सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ
द्विजानां देहसंयुक्तास्त्रयस्ते रघुनन्दन॥ ९८ ॥
मूलम्
सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ
द्विजानां देहसंयुक्तास्त्रयस्ते रघुनन्दन॥ ९८ ॥
विश्वास-प्रस्तुतिः
पितरस्तु मया दृष्टा ब्राह्मणाङ्गेषु राघव
दृष्ट्वा त्रपान्विता चाहमपक्रान्ता तवान्तिकात्॥ ९९ ॥
मूलम्
पितरस्तु मया दृष्टा ब्राह्मणाङ्गेषु राघव
दृष्ट्वा त्रपान्विता चाहमपक्रान्ता तवान्तिकात्॥ ९९ ॥
त्वया वै भोजिता विप्राः कृतं श्राद्धं यथाविधि
वल्कलाजिनसंवीता कथं राज्ञः पुरःसरा1.33.१००
भवामि रिपुवीरघ्न सत्यमेतदुदाहृतम्
कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च१०१
ततः प्रभृति चैवाहं चीरिणी तु वनाश्रयम्
ज्ञात्वाहं न वदे किञ्चिन्मा ते दुःखं भवत्विति१०२
नाहं स्मरामि वै मातुर्न पितुश्च परन्तप
कदा भविष्यतीहान्तो वनवासस्य राघव१०३
एतदेवानिशं राम चिन्तयन्त्याः पुनः पुनः
व्रजन्ति दिवसा नाथ तव पद्भ्यां शपाम्यहम्१०४
स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदम्
दासानामपि यो दासो नोपभुञ्जीतयत्क्वचित्१०५
एतादृशी कथं त्वस्मै सम्प्रदातुं समुत्सहे
याहं राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता१०६
बालव्यजनहस्ता च वीजयन्ती नराधिपम्
सा स्वेदमलदिग्धाङ्गी कथं पश्यामि भूमिपम्१०७
व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारितः
दृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम्१०८
शोकः स्यात्पार्थिवस्यास्य तेन नष्टास्मि राघव
भवान्प्राणसमो राम न ते गोप्यं ममत्विह१०९
सत्येन तेन चैवाथ स्पृशामि चरणौ तव
तच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम्११०
अङ्कमानीय सुदृढं परिष्वज्य च सादरम्
भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी१११
एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौ
उदिते च सहस्रांशौ गमनाय मनो दधुः११२
प्रत्यङ्मुखं गतः क्रोशं ज्येष्ठं यावच्च पुष्करम्
पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः११३
शुश्राव च ततो वाचं देवदूतेन भाषितम्
भो भो राघव भद्रं ते तीर्थमेतत्सुदुर्लभम्११४
अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुरु
देवकार्यं त्वया कार्यं हन्तव्या देवशत्रवः११५
ततो हृष्टमना वीरो ह्यब्रवील्लक्ष्मणं वचः
सौमित्रेऽनुगृहीतोहं देवदेवेन ब्रह्मणा११६
अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मण
व्रतं चरितुमिच्छामि कायशोधनमुत्तमम्११७
तथेति लक्ष्मणेनोक्ते व्रतं परिसमाप्यतु
पिण्डदानादिभिर्दानैः श्राद्धैश्चैव पितामहान्११८
पुष्करे तु तदा रामोऽतर्पयद्विधिवत्तदा
कनका सुप्रभा चैव नन्दा प्राची सरस्वती११९
पञ्चस्रोताः पुष्करेषु पितॄणां तुष्टिदायिनी
दैनन्दिनीं पितॄणां तु पूजां तां पितृपूर्विकाम्१२०
रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीत्
एहि लक्ष्मण शीघ्रं त्वं पुष्कराज्जलमानय१२१
पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरे
विभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशम्१२२
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतयानीय तां पयः
नाहं राम सर्वकाले दासभावं करोमि ते१२३
इयम्पुष्टाचसुभृशम्पीवरीचममाप्युत
किं त्वं करिष्यस्यनया भार्यया वद साम्प्रतम्१२४
किं वा मृतस्य वै पृष्ठ इयं यास्यति ते प्रिया
रक्षसे त्वं सदा कालं सुपुष्टां चैव सर्वदा१२५
हृष्टा चैषा क्लेशयति सततं मां रघूत्तम
त्वं च क्लेशयसे राम परत्र जायते क्षतिः१२६
त्वत्कृते च सदा चाहं पिपासां क्षुधया सह
संसहामि न सन्देहः परत्र च निशामय१२७
मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते
भार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः१२८
मृतश्च ते पिता राम त्यक्त्वा राज्यमकण्टकम्
विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया१२९
इहस्थिता सा कैकेयी धनं सर्वे च बान्धवाः
महाराजो दशरथ एक एव गतो गतिम्१३०
मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम्
करिष्यसे किमनया वद राघव साम्प्रतम्१३१
श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम्
विमना राघवस्तस्थौ सीता चापि वरानना१३२
यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह
स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ१३३
नीत्वा विभावरीं तत्र गमनाय मनो दधुः
एह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम्१३४
सौमित्रिरब्रवीद्राम नाहं यास्ये कथञ्चन
व्रज त्वमनया सार्धं भार्यया कमलेक्षण१३५
नान्यद्वनं गमिष्यामि नैवायोध्यां च राघव
अस्मिन्वने वसिष्यामि वर्षाणीह चतुर्दश१३६
मया विना त्वयोध्यायां यदि त्वं न गमिष्यसि
अनेन वर्त्मना भूप आगन्तव्यं त्वया विभो१३७
यदि जीवामि तत्कालं पुनर्यास्ये पितुः पुरम्
तपस्सम्भावयिष्यामि मया त्वं किं करिष्यसि१३८
व्रज सौम्य शिवः पन्थामा च ते परिपन्थिनः
पश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणम्१३९
पितृपैतामहं राज्यमयोध्यायां नराधिप
शत्रुघ्नभरतौ चोभौ त्वदाज्ञाकरणे स्थितौ१४०
अहं ते प्रतिकूलस्तु वनवासे विशेषतः
अनारतं दिवा चाहं रात्रौ चैव परन्तप१४१
कर्मकर्तुं न शक्रोमि व्रज सौम्य यथासुखम्
एवं ब्रुवाणं सौमित्रिमुवाच रघुनन्दनः१४२
कथं पूर्वमयोध्याया निर्गतोसि मया सह
वने वत्स्याम्यहं राम नववर्षाणि पञ्च च१४३
न तु त्वया विरहितः स्वर्गेपि निवसे क्वचित्
या गतिस्ते नरव्याघ्र मम सापि भविष्यति१४४
प्रसादः क्रियतां मह्यं नय मामपि राघव
इदानीमर्धमार्गे त्वं कथं स्थास्यसि शत्रुहन्१४५
लक्ष्मणस्त्वब्रवीद्रामं नाहं गन्ता वने पुनः
लक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीत्१४६
मामनुव्रज सौमित्र एको यास्यामि काननम्
द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः१४७
गृहीत्वाऽथ समुत्तस्थौ रामवाक्यं स लक्ष्मणः
मर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परन्तपौ१४८
अजगन्धं च देवेशं देवदेवं पिनाकिनम्
अष्टाङ्गप्रणिपातेन नत्वा रामस्त्रिलोचनम्१४९
तुष्टाव प्रयतः स्थित्वा शङ्करं पार्वतीप्रियम्
कृताञ्जलिपुटो भूत्वा रोमाञ्चितशरीरकः1.33.१५०
सात्विकं भावमापन्नो विनिर्धूतरजस्तमाः
लोकानां कारणं देवं बुबुधे विबुधाधिपम्१५१
राम उवाच
कृत्स्नस्य योऽस्य जगतः स चराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्च
संहारहेतुरपि यः पुनरन्तकाले तं शङ्करं शरणदं शरणं व्रजामि१५२
योऽयं सकृद्विमलचारुविलोलतोयां गङ्गां महोर्मिविषमां गगनात्पतन्तीम्
मूर्ध्ना दधेऽस्रजमिव प्रविलोलपुष्पां तं शङ्करं शरणदं शरणं व्रजामि१५३
कैलासशैलशिखरं परिकम्प्यमानं कैलासशृङ्गसदृशेन दशाननेन
यत्पादपद्मविधृतं स्थिरतां दधार तं शङ्करं शरणदं शरणं व्रजामि१५४
येनासकृद्दनुसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्रैः
संयोजिता मुनिवराः फलमूलभक्षास्तं शङ्करं शरणदं शरणं व्रजामि१५५
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपङ्क्तिमपातयच्च
तस्तम्भयः कुलिशयुक्तमथेन्द्रहस्तं तं शङ्करं शरणदं शरणं व्रजामि१५६
एनःकृतोपिविषयेष्वपिसक्तचित्ताज्ञानान्वयश्रुतगुणैरपिनैवयुक्ताः
यं संश्रिताः सुखभुजः पुरुषा भवन्ति तं शङ्करं शरणदं शरणं व्रजामि१५७
अत्रिप्रसूतिरविकोटिसमानतेजाः सन्त्रासनं विबुधदानवसत्तमानाम्
यः कालकूटमपिबत्प्रसभं सुदीप्तं तं शङ्करं शरणदं शरणं व्रजामि१५८
ब्रह्मेन्द्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान्महेशः
नन्दिं च मृत्युवदनात्पुनरुज्जहार तं शङ्करं शरणदं शरणं व्रजामि१५९
आराधितः सुतपसा हिमवन्निकुञ्जे धूमव्रतेन मनसापि परैरगम्ये
सञ्जीवनीमकथयद्भृगवे महात्मा तं शङ्करं शरणदं शरणं व्रजामि१६०
नानाविधैर्गजबिडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैन्द्रैः
योभ्यर्चितोमरगणैश्च सलोकपालैस्तं शङ्करं शरणदं शरणं व्रजामि१६१
शङ्खेन्दुकुन्दधवलं वृषभं प्रवीरमारुह्य यः क्षितिधरेन्द्रसुतानुयातः
यात्यम्बरं प्रलयमेघविभूषितं च तं शङ्करं शरणदं शरणं व्रजामि१६२
शान्तं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम्
भक्त्यानतं स्तुतिपरं प्रसभं ररक्ष तं शङ्करं शरणदं शरणं व्रजामि१६३
यः सव्यपाणि कमलाग्रनखेन देवस्तत्पञ्चमं प्रसभमेव पुरस्सुराणाम्
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त्त तं शङ्करं शरणदं शरणं व्रजामि१६४
यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतन्द्रितात्मा
दीप्तस्तमांसि नुदते स्वकरैर्विवस्वांस्तं शङ्करं शरणदं शरणं व्रजामि१६५
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानन्ति नास्य जगतः सचराचरस्य
ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवन्त्यविशुद्धचित्ताः१६६
तस्यैवं स्तुवतोऽवोचच्छूलपाणिर्वृषध्वजः
उवाच वचनं हृष्टो राघवं तुष्टमानसः१६७
रुद्र उवाच
राम हृष्टोस्मि भद्रं ते जातस्त्वं निर्मले कुले
त्वं चापि जगतां वन्द्यो देवो मानुषरूपधृत्१६८
त्वया नाथेन वै देवाः सुखिनः शाश्वतीः समा
सेविष्यन्ते चिरं कालं गते वर्षे चतुर्दशे१६९
अयोध्यामागतं त्वां ये द्रक्ष्यन्ति भुवि मानवाः
सुखं तेऽत्र भजिष्यन्ति स्वर्गे वासन्तथाक्षयम्१७०
देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम्
राघवस्तु तथा देवं नत्वा शीघ्रं विनिर्गतः१७१
इन्द्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च
अब्रवील्लक्ष्मणं राम इदमर्पय मे धनुः१७२
रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीत्
किमर्थं देवि रामेण त्यक्तोहं कारणं विना१७३
अपराधं न जानामि कुपितो यन्महाभुजः
रामेणाहं परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम्१७४
नैव मे जीवितेनार्थो धिग्धिङ्मां कुलपांसनम्
आर्यस्य येन वै मन्युर्जनितः पापकारिणा१७५
कांस्तु लोकान्गमिष्यामि अपध्यातो महात्मना
उभौ हस्तौ मुखे कृत्वा साश्रुकण्ठोऽब्रवीदिदम्१७६
नापराध्यामि रामस्य कर्मणा मनसा गिरा
स्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत्१७७
ततः सीताऽब्रवीद्रामं त्यक्तः किमनुजस्त्वया
वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने१७८
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्
न कदाचिदपि स्वप्ने लक्ष्मणस्य मतं प्रिये१७९
श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्
अत्र क्षेत्रे जनास्सत्यं सर्वे हि स्वार्थतत्पराः१८०
परस्परं न पश्यन्ति स्वात्मनश्च हितं वचः
न शृण्वन्ति पितुः पुत्राः पुत्राणां पितरस्तथा१८१
न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः
अर्थानुबन्धिनीप्रीतिर्न कश्चित्कस्यचित्प्रियः१८२
इत्येवं कथयन्नेव प्राप्तो रेवां महानदीम्
चक्रेभिषेकं काकुत्स्थः सानुजः सह सीतया१८३
तर्पयित्वा च सलिलैः स्वान्पितॄन्दैवतान्यपि
उदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः१८४
कृताभिषेकस्तु रराज रामः सीता द्वितीयः सह लक्ष्मणेन
कृताभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः१८५