भीष्म उवाच
विश्वास-प्रस्तुतिः
केन कर्मविपाकेन प्रेतत्वं जायते पुनः
केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते॥ १ ॥
मूलम्
केन कर्मविपाकेन प्रेतत्वं जायते पुनः
केन वात्र प्रमुच्येत तन्मे ब्रूहि महामते॥ १ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
अहं ते कथयिष्यामि सर्वमेतदशेषतः
यच्छ्रुत्वा न पुनर्मोहं यास्यते नृपसत्तम॥ २ ॥
मूलम्
पुलस्त्य उवाच
अहं ते कथयिष्यामि सर्वमेतदशेषतः
यच्छ्रुत्वा न पुनर्मोहं यास्यते नृपसत्तम॥ २ ॥
विश्वास-प्रस्तुतिः
येन जायेत प्रेतत्वं येन चास्मात्प्रमुच्यते
प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि॥ ३ ॥
मूलम्
येन जायेत प्रेतत्वं येन चास्मात्प्रमुच्यते
प्राप्नोति नरकं घोरं दुस्तरं त्रिदशैरपि॥ ३ ॥
विश्वास-प्रस्तुतिः
सतां सम्भाषणे चैव पुण्यतीर्थानुकीर्त्तने
मानवास्तु प्रमुच्यन्त आपन्नाः प्रेतयोनिषु॥ ४ ॥
मूलम्
सतां सम्भाषणे चैव पुण्यतीर्थानुकीर्त्तने
मानवास्तु प्रमुच्यन्त आपन्नाः प्रेतयोनिषु॥ ४ ॥
विश्वास-प्रस्तुतिः
श्रूयते हि पुरा भीष्म ब्राह्मणः संशितव्रतः
पृथुस्सर्वत्र विख्यातः सन्तोषे च सदा स्थितः॥ ५ ॥
मूलम्
श्रूयते हि पुरा भीष्म ब्राह्मणः संशितव्रतः
पृथुस्सर्वत्र विख्यातः सन्तोषे च सदा स्थितः॥ ५ ॥
विश्वास-प्रस्तुतिः
स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित्
जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः॥ ६ ॥
मूलम्
स्वाध्याययुक्तो गेहेषु नित्ययोगश्च योगवित्
जपयज्ञविधानेन युक्तं कालं क्षिपेच्च सः॥ ६ ॥
विश्वास-प्रस्तुतिः
युक्तः क्षमादयाभ्यां च क्षान्त्यायुक्तश्च तत्त्ववित्
अहिंसाहितचित्तश्च मार्द्दवे च तथास्थितः॥ ७ ॥
मूलम्
युक्तः क्षमादयाभ्यां च क्षान्त्यायुक्तश्च तत्त्ववित्
अहिंसाहितचित्तश्च मार्द्दवे च तथास्थितः॥ ७ ॥
विश्वास-प्रस्तुतिः
ब्रह्मचर्यसमायुक्तस्तपोयोगसमन्वितः
युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु॥ ८ ॥
मूलम्
ब्रह्मचर्यसमायुक्तस्तपोयोगसमन्वितः
युक्तः स पितृकार्येषु युक्तो वैदिककर्मसु॥ ८ ॥
विश्वास-प्रस्तुतिः
परलोकभयेयुक्तो युक्तस्सत्यवचः प्रति
युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने॥ ९ ॥
मूलम्
परलोकभयेयुक्तो युक्तस्सत्यवचः प्रति
युक्तो मधुरवाक्येषु युक्तश्चातिथिपूजने॥ ९ ॥
विश्वास-प्रस्तुतिः
इष्टापूर्तसमायुक्तो युक्तो द्वन्द्वविवर्जने
स्वकर्मविधिसंयुक्तो युक्तः स्वाध्यायकर्मसु॥ १० ॥
मूलम्
इष्टापूर्तसमायुक्तो युक्तो द्वन्द्वविवर्जने
स्वकर्मविधिसंयुक्तो युक्तः स्वाध्यायकर्मसु॥ १० ॥
विश्वास-प्रस्तुतिः
एवं कर्माणि कुर्वन्तस्संसारविजिगीषया
बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे सतः॥ ११ ॥
मूलम्
एवं कर्माणि कुर्वन्तस्संसारविजिगीषया
बहून्यब्दान्यतीतानि ब्राह्मणस्य गृहे सतः॥ ११ ॥
विश्वास-प्रस्तुतिः
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति
पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरम्॥ १२ ॥
मूलम्
तस्य बुद्धिरियं जाता तीर्थाभिगमनं प्रति
पुण्यैस्तीर्थजलैरेतत्क्लिन्नं कुर्यां कलेवरम्॥ १२ ॥
विश्वास-प्रस्तुतिः
प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति
कृतजप्यनमस्कारोप्यद्ध्वानं प्रत्यपद्यत॥ १३ ॥
मूलम्
प्रयतः पुष्करे स्नात्वा भास्करस्योदयं प्रति
कृतजप्यनमस्कारोप्यद्ध्वानं प्रत्यपद्यत॥ १३ ॥
विश्वास-प्रस्तुतिः
अग्रतः पञ्चपुरुषानपश्यत्सोति भीषणान्
वने कण्टकवृक्षाढ्ये निर्जने पक्षिवर्जिते॥ १४ ॥
मूलम्
अग्रतः पञ्चपुरुषानपश्यत्सोति भीषणान्
वने कण्टकवृक्षाढ्ये निर्जने पक्षिवर्जिते॥ १४ ॥
विश्वास-प्रस्तुतिः
तान्दृष्ट्वा विकृताकारान्सुघोरान्पापदर्शनान्
ईषत्सन्त्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः॥ १५ ॥
मूलम्
तान्दृष्ट्वा विकृताकारान्सुघोरान्पापदर्शनान्
ईषत्सन्त्रस्तहृदयो व्यतिष्ठन्निश्चलाकृतिः॥ १५ ॥
विश्वास-प्रस्तुतिः
अवलम्ब्य ततो धैर्य्यं भयमुत्सृज्य दूरतः
पप्रच्छ मधुराभाषी के यूयं विकृताः कुतः॥ १६ ॥
मूलम्
अवलम्ब्य ततो धैर्य्यं भयमुत्सृज्य दूरतः
पप्रच्छ मधुराभाषी के यूयं विकृताः कुतः॥ १६ ॥
विश्वास-प्रस्तुतिः
किं वा चैव कृतं कर्म ये नप्राप्ताश्च वैकृतम्
कथमेवंविधाः सर्वे प्रस्थिताः कुत्र चाध्वनि॥ १७ ॥
मूलम्
किं वा चैव कृतं कर्म ये नप्राप्ताश्च वैकृतम्
कथमेवंविधाः सर्वे प्रस्थिताः कुत्र चाध्वनि॥ १७ ॥
विश्वास-प्रस्तुतिः
प्रेता ऊचुः
क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः
हृतप्रज्ञा वयं सर्वे नष्टसञ्ज्ञाविचेतसः॥ १८ ॥
मूलम्
प्रेता ऊचुः
क्षुत्पिपासान्विता नित्यं महादुःखसमावृताः
हृतप्रज्ञा वयं सर्वे नष्टसञ्ज्ञाविचेतसः॥ १८ ॥
विश्वास-प्रस्तुतिः
न जानीमो दिशं चापि प्रदिशं चापि कां च न
नान्तरिक्षं महीं चापि न जानीमो दिवं तथा॥ १९ ॥
मूलम्
न जानीमो दिशं चापि प्रदिशं चापि कां च न
नान्तरिक्षं महीं चापि न जानीमो दिवं तथा॥ १९ ॥
विश्वास-प्रस्तुतिः
यदेतद्दुःखमाख्यातमेतदेव सुखं भवेत्
प्रभातमिदमाभाति भास्करोदयदर्शनात्॥ २० ॥
मूलम्
यदेतद्दुःखमाख्यातमेतदेव सुखं भवेत्
प्रभातमिदमाभाति भास्करोदयदर्शनात्॥ २० ॥
विश्वास-प्रस्तुतिः
अहं पर्युषितो नाम सूचीमुखस्तथाऽपरः
शीघ्रगो रोहकश्चैव पञ्चमो लेखकस्तथा॥ २१ ॥
मूलम्
अहं पर्युषितो नाम सूचीमुखस्तथाऽपरः
शीघ्रगो रोहकश्चैव पञ्चमो लेखकस्तथा॥ २१ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच
प्रेतानां कर्मजातानां नाम्ना वै सम्भवः कुतः
किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः॥ २२ ॥
मूलम्
ब्राह्मण उवाच
प्रेतानां कर्मजातानां नाम्ना वै सम्भवः कुतः
किं तत्कारणमुद्दिश्य यतो यूयं सनामकाः॥ २२ ॥
विश्वास-प्रस्तुतिः
प्रेता ऊचुः
अहं स्वादु सदा भुञ्जे दद्यां पर्युषितं द्विजे
एतत्कारणमासाद्य नाम पर्युषितो मम॥ २३ ॥
मूलम्
प्रेता ऊचुः
अहं स्वादु सदा भुञ्जे दद्यां पर्युषितं द्विजे
एतत्कारणमासाद्य नाम पर्युषितो मम॥ २३ ॥
विश्वास-प्रस्तुतिः
सूचिता बहवोऽनेन विप्राश्चान्नाद्यकाङ्क्षिणः
एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः॥ २४ ॥
मूलम्
सूचिता बहवोऽनेन विप्राश्चान्नाद्यकाङ्क्षिणः
एतत्कारणमुद्दिश्य सूचीमुखाभिधो मतः॥ २४ ॥
विश्वास-प्रस्तुतिः
शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम॥ २५ ॥
मूलम्
शीघ्रं गतोऽस्मि विप्रेण याचितः क्षुधितेन च
एतत्कारणमुद्दिश्य शीघ्रगो द्विजसत्तम॥ २५ ॥
विश्वास-प्रस्तुतिः
गृहोपरि सदा स्वादु भुङ्क्ते द्विजभयेन हि
उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः॥ २६ ॥
मूलम्
गृहोपरि सदा स्वादु भुङ्क्ते द्विजभयेन हि
उद्विग्नमानसस्तत्र तेनासौ रोहकः स्मृतः॥ २६ ॥
विश्वास-प्रस्तुतिः
मौने चापि स्थितो नित्यं याचितो विलिखन्महीम्
अस्माकमपि पापिष्ठो लेखको नाम नामतः॥ २७ ॥
मूलम्
मौने चापि स्थितो नित्यं याचितो विलिखन्महीम्
अस्माकमपि पापिष्ठो लेखको नाम नामतः॥ २७ ॥
विश्वास-प्रस्तुतिः
कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः
शीघ्रगः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्॥ २८ ॥
मूलम्
कृच्छ्रेण लेखको याति रोहकस्तु अवाक्शिराः
शीघ्रगः पङ्गुतां प्राप्तः सूची सूचीमुखोऽभवत्॥ २८ ॥
विश्वास-प्रस्तुतिः
पर्युषितो लम्बग्रीवो लम्बोदर उदाहृतः
बृहद्वृषणलम्बोष्ठः पापादस्मादजायत॥ २९ ॥
मूलम्
पर्युषितो लम्बग्रीवो लम्बोदर उदाहृतः
बृहद्वृषणलम्बोष्ठः पापादस्मादजायत॥ २९ ॥
विश्वास-प्रस्तुतिः
एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम्
पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे॥ ३० ॥
मूलम्
एतत्ते सर्वमाख्यातमात्मवृत्तं सहेतुकम्
पृच्छस्व यदि ते श्रद्धा पृष्टाश्च कथयामहे॥ ३० ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच
ये जीवा भुवि तिष्ठन्ति सर्वेप्याहारमूलकाः
युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः॥ ३१ ॥
मूलम्
ब्राह्मण उवाच
ये जीवा भुवि तिष्ठन्ति सर्वेप्याहारमूलकाः
युष्माकमपि चाहारं श्रोतुमिच्छामि तत्त्वतः॥ ३१ ॥
विश्वास-प्रस्तुतिः
प्रेता ऊचुः
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्
यच्छ्रुत्वा निन्दसे विप्र भूयोभूयश्च नित्यशः॥ ३२ ॥
मूलम्
प्रेता ऊचुः
शृणुष्वाहारमस्माकं सर्वसत्वविगर्हितम्
यच्छ्रुत्वा निन्दसे विप्र भूयोभूयश्च नित्यशः॥ ३२ ॥
विश्वास-प्रस्तुतिः
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च
गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै॥ ३३ ॥
मूलम्
श्लेष्ममूत्रपुरीषेण योषिदङ्गमलेन च
गृहाणि त्यक्तशौचानि प्रेता भुञ्जन्ति तत्र वै॥ ३३ ॥
विश्वास-प्रस्तुतिः
स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च
मलेनापि जुगुप्स्यानि प्रेता भुञ्जन्ति तत्र वै॥ ३४ ॥
मूलम्
स्त्रीभिर्दग्धानि कीर्णानि प्रकीर्णोच्छिष्टकानि च
मलेनापि जुगुप्स्यानि प्रेता भुञ्जन्ति तत्र वै॥ ३४ ॥
विश्वास-प्रस्तुतिः
चित्तलज्जाविहीनानि होमहीनानि यानि च
व्रतैश्चैव विहीनानि प्रेता भुञ्जन्ति तत्र वै॥ ३५ ॥
मूलम्
चित्तलज्जाविहीनानि होमहीनानि यानि च
व्रतैश्चैव विहीनानि प्रेता भुञ्जन्ति तत्र वै॥ ३५ ॥
विश्वास-प्रस्तुतिः
गुरवो नैव पूज्यन्ते स्त्रीजितानि गृहाणि च
क्रोधलोभगृहीतानि प्रेता भुञ्जन्ति तत्र वै॥ ३६ ॥
मूलम्
गुरवो नैव पूज्यन्ते स्त्रीजितानि गृहाणि च
क्रोधलोभगृहीतानि प्रेता भुञ्जन्ति तत्र वै॥ ३६ ॥
विश्वास-प्रस्तुतिः
त्रपा मे जायते तात कथ्यमाने स्वभोजने
अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते॥ ३७ ॥
मूलम्
त्रपा मे जायते तात कथ्यमाने स्वभोजने
अस्मात्परतरं चान्यन्न वक्तुमपि शक्यते॥ ३७ ॥
विश्वास-प्रस्तुतिः
निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत
यथा न भवति प्रेतस्तन्मे वद तपोधन॥ ३८ ॥
मूलम्
निवृत्तिं प्रेतभावस्य पृच्छामस्त्वां दृढव्रत
यथा न भवति प्रेतस्तन्मे वद तपोधन॥ ३८ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच
एकरात्र द्विरात्रादि कृच्छ्रचान्द्रायणदिभिः
व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः॥ ३९ ॥
मूलम्
ब्राह्मण उवाच
एकरात्र द्विरात्रादि कृच्छ्रचान्द्रायणदिभिः
व्रतैरन्यैः कृतैर्नित्यं न प्रेतो जायते नरः॥ ३९ ॥
विश्वास-प्रस्तुतिः
त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते
स वै भूतदयापन्नो न प्रेतो जायते नरः॥ ४० ॥
मूलम्
त्रीनग्नीन्पञ्च चैकं वा योऽहन्यहनि सेवते
स वै भूतदयापन्नो न प्रेतो जायते नरः॥ ४० ॥
विश्वास-प्रस्तुतिः
तुल्यो मानेऽपमाने च तुल्यः काञ्चनलोष्टयोः
तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः॥ ४१ ॥
मूलम्
तुल्यो मानेऽपमाने च तुल्यः काञ्चनलोष्टयोः
तुल्यः शत्रौ च मित्रे च न प्रेतो जायते नरः॥ ४१ ॥
विश्वास-प्रस्तुतिः
देवताऽतिथिपूजासु गुरुपूजासु नित्यशः
रतो वै पितृपूजासु न प्रेतो जायते नरः॥ ४२ ॥
मूलम्
देवताऽतिथिपूजासु गुरुपूजासु नित्यशः
रतो वै पितृपूजासु न प्रेतो जायते नरः॥ ४२ ॥
विश्वास-प्रस्तुतिः
शुक्लाङ्गारकसंयुक्ता चतुर्थी जायते यदा
श्रद्धया श्राद्धकृत्तस्यां न प्रेतो जायते नरः॥ ४३ ॥
मूलम्
शुक्लाङ्गारकसंयुक्ता चतुर्थी जायते यदा
श्रद्धया श्राद्धकृत्तस्यां न प्रेतो जायते नरः॥ ४३ ॥
विश्वास-प्रस्तुतिः
जितक्रोधविमर्शोयस्तृष्णासङ्गविवर्जितः
क्षमावान्दानशीलश्च न प्रेतो जायते नरः॥ ४४ ॥
मूलम्
जितक्रोधविमर्शोयस्तृष्णासङ्गविवर्जितः
क्षमावान्दानशीलश्च न प्रेतो जायते नरः॥ ४४ ॥
विश्वास-प्रस्तुतिः
गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा
देवांश्चैव तु यो वन्द्यान्न प्रेतो जायते नरः॥ ४५ ॥
मूलम्
गोब्राह्मणांश्च तीर्थानि पर्वतांश्च नदीस्तथा
देवांश्चैव तु यो वन्द्यान्न प्रेतो जायते नरः॥ ४५ ॥
विश्वास-प्रस्तुतिः
प्रेता ऊचुः
श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने
येन वै जायते प्रेतस्तन्नो वद महामते॥ ४६ ॥
मूलम्
प्रेता ऊचुः
श्रुताश्च विविधा धर्माः पृच्छामो दुःखिता मुने
येन वै जायते प्रेतस्तन्नो वद महामते॥ ४६ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण उवाच
शूद्रान्नेन तु भुक्तेन ब्राह्मणेन विशेषतः
म्रियते ह्युदरस्थेन स वै प्रेतो भवेन्नरः॥ ४७ ॥
मूलम्
ब्राह्मण उवाच
शूद्रान्नेन तु भुक्तेन ब्राह्मणेन विशेषतः
म्रियते ह्युदरस्थेन स वै प्रेतो भवेन्नरः॥ ४७ ॥
विश्वास-प्रस्तुतिः
मातरं पितरं भ्रातॄन्भगिनीं सुतमेव च
अदृष्टदोषांस्त्यजति स प्रेतो जायते नरः॥ ४८ ॥
मूलम्
मातरं पितरं भ्रातॄन्भगिनीं सुतमेव च
अदृष्टदोषांस्त्यजति स प्रेतो जायते नरः॥ ४८ ॥
विश्वास-प्रस्तुतिः
अयाज्ययाजनाच्चैव याज्यस्य च विवर्जनात्
रतो वै शूद्रसेवासु स प्रेतो जायते नरः॥ ४९ ॥
मूलम्
अयाज्ययाजनाच्चैव याज्यस्य च विवर्जनात्
रतो वै शूद्रसेवासु स प्रेतो जायते नरः॥ ४९ ॥
विश्वास-प्रस्तुतिः
न्यासापहर्ता मित्रध्रुक्शूद्रपाकरतः सदा
विस्रम्भघाती कूटस्थः स प्रेतो जायते नरः1.32.॥ ५० ॥
मूलम्
न्यासापहर्ता मित्रध्रुक्शूद्रपाकरतः सदा
विस्रम्भघाती कूटस्थः स प्रेतो जायते नरः1.32.॥ ५० ॥
विश्वास-प्रस्तुतिः
ब्रह्महा गोघ्नकः स्तेनः सुरापो गुरुतल्पगः
भूमिकन्यापहर्त्ता च स प्रेतो जायते नरः॥ ५१ ॥
मूलम्
ब्रह्महा गोघ्नकः स्तेनः सुरापो गुरुतल्पगः
भूमिकन्यापहर्त्ता च स प्रेतो जायते नरः॥ ५१ ॥
विश्वास-प्रस्तुतिः
सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति
नास्तिकीभावनिरतः स वै प्रेतोभिजायते॥ ५२ ॥
मूलम्
सामान्यां दक्षिणां लब्ध्वा एक एव निगूहति
नास्तिकीभावनिरतः स वै प्रेतोभिजायते॥ ५२ ॥
विश्वास-प्रस्तुतिः
एवं ब्रुवाणे विप्रेन्द्र आकाशे दुन्दुभिस्वनः
पुष्पवृष्टिः पपातोर्व्यां देवैर्मुक्ता सहस्रशः॥ ५३ ॥
मूलम्
एवं ब्रुवाणे विप्रेन्द्र आकाशे दुन्दुभिस्वनः
पुष्पवृष्टिः पपातोर्व्यां देवैर्मुक्ता सहस्रशः॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्रेतानां तु विमानानि आगतानि समन्ततः
अस्य विप्रस्य सम्भाषात्पुण्यसङ्कीर्तनेन च॥ ५४ ॥
मूलम्
प्रेतानां तु विमानानि आगतानि समन्ततः
अस्य विप्रस्य सम्भाषात्पुण्यसङ्कीर्तनेन च॥ ५४ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वप्रयत्नेन सतां सम्भाषणं कुरु
यदि ते श्रेयसा कार्यं गङ्गासुत अतन्द्रितः॥ ५५ ॥
मूलम्
तस्मात्सर्वप्रयत्नेन सतां सम्भाषणं कुरु
यदि ते श्रेयसा कार्यं गङ्गासुत अतन्द्रितः॥ ५५ ॥
विश्वास-प्रस्तुतिः
तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमाम्
पठेल्लक्षं योऽस्य कुले न प्रेतो जायते नरः॥ ५६ ॥
मूलम्
तिलकं सर्वधर्मस्य पञ्चप्रेतकथामिमाम्
पठेल्लक्षं योऽस्य कुले न प्रेतो जायते नरः॥ ५६ ॥
विश्वास-प्रस्तुतिः
शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः
भक्त्या समन्वितो वापि न प्रेतो जायते नरः॥ ५७ ॥
मूलम्
शृणोति वाप्यभीक्ष्णं वा श्रद्धया परयान्वितः
भक्त्या समन्वितो वापि न प्रेतो जायते नरः॥ ५७ ॥
विश्वास-प्रस्तुतिः
भीष्म उवाच
अन्तरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते
मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह॥ ५८ ॥
मूलम्
भीष्म उवाच
अन्तरिक्षे किमर्थं तु पुष्करं परिकीर्त्यते
मुनिभिर्धर्मशीलैश्च लभ्यते तत्कथं त्विह॥ ५८ ॥
विश्वास-प्रस्तुतिः
येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदम्
तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः॥ ५९ ॥
मूलम्
येन तल्लभ्यते लब्धं लब्धं चैव फलप्रदम्
तन्मे सर्वं समाचक्ष्व कौतुकादेव पृच्छतः॥ ५९ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
ऋषिकोटिस्समायाता दक्षिणापथवासिनी
स्नानार्थं पुष्करे राजन्पुष्करं च वियद्गतम्॥ ६० ॥
मूलम्
पुलस्त्य उवाच
ऋषिकोटिस्समायाता दक्षिणापथवासिनी
स्नानार्थं पुष्करे राजन्पुष्करं च वियद्गतम्॥ ६० ॥
विश्वास-प्रस्तुतिः
मत्वाते मुनयः सर्वे प्राणायामपरायणाः
ध्यायमानाः परं ब्रह्म स्थिता द्वादशवत्सरान्॥ ६१ ॥
मूलम्
मत्वाते मुनयः सर्वे प्राणायामपरायणाः
ध्यायमानाः परं ब्रह्म स्थिता द्वादशवत्सरान्॥ ६१ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा महर्षयस्तत्र देवास्सेन्द्रास्समागताः
ऋषयोन्तर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान्॥ ६२ ॥
मूलम्
ब्रह्मा महर्षयस्तत्र देवास्सेन्द्रास्समागताः
ऋषयोन्तर्हिताः प्रोचुर्नियमांस्ते सुदुष्करान्॥ ६२ ॥
विश्वास-प्रस्तुतिः
आकारणं पुष्करस्य मन्त्रेण क्रियतां द्विजाः
आपोहिष्ठेति तिसृभिर्ऋग्भिः सान्निध्यमेष्यति॥ ६३ ॥
मूलम्
आकारणं पुष्करस्य मन्त्रेण क्रियतां द्विजाः
आपोहिष्ठेति तिसृभिर्ऋग्भिः सान्निध्यमेष्यति॥ ६३ ॥
विश्वास-प्रस्तुतिः
अघमर्षणजप्येन भवेद्वै फलदायकम्
विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम्॥ ६४ ॥
मूलम्
अघमर्षणजप्येन भवेद्वै फलदायकम्
विप्रैर्वाक्यावसाने तु सर्वैस्तैस्तु तथा कृतम्॥ ६४ ॥
विश्वास-प्रस्तुतिः
कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः
गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः॥ ६५ ॥
मूलम्
कृतेन पुण्यतां प्राप्ता ये निदेशाच्च ते द्विजाः
गर्हिता धर्मशास्त्रेषु ते विप्रा दक्षिणोत्तराः॥ ६५ ॥
विश्वास-प्रस्तुतिः
ये चान्ये पार्वतीयाश्च श्राद्धेनार्हन्ति केतनम्
एतस्मात्कारणाद्राजन्वियत्येवं समास्थितम्॥ ६६ ॥
मूलम्
ये चान्ये पार्वतीयाश्च श्राद्धेनार्हन्ति केतनम्
एतस्मात्कारणाद्राजन्वियत्येवं समास्थितम्॥ ६६ ॥
विश्वास-प्रस्तुतिः
कार्तिक्यां पुष्करं स्नानात्पूततामभियच्छति
ब्रह्मणा सहितं राजन्सर्वेषां पुण्यदायकम्॥ ६७ ॥
मूलम्
कार्तिक्यां पुष्करं स्नानात्पूततामभियच्छति
ब्रह्मणा सहितं राजन्सर्वेषां पुण्यदायकम्॥ ६७ ॥
विश्वास-प्रस्तुतिः
तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः
द्विजैस्तुल्या न सन्देहो विना मन्त्रेण ते नृप॥ ६८ ॥
मूलम्
तत्रागतास्तु ये वर्णाः सर्वे ते पुण्यभाजनाः
द्विजैस्तुल्या न सन्देहो विना मन्त्रेण ते नृप॥ ६८ ॥
विश्वास-प्रस्तुतिः
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित्
महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा॥ ६९ ॥
मूलम्
आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित्
महती सा तिथिर्ज्ञेया स्नाने दाने तथोत्तमा॥ ६९ ॥
विश्वास-प्रस्तुतिः
यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित्
तिथिः सापि महापुण्या यतिभिः परिकीर्तिता॥ ७० ॥
मूलम्
यदा याम्यं तु भवति ऋक्षं तस्यां तिथौ क्वचित्
तिथिः सापि महापुण्या यतिभिः परिकीर्तिता॥ ७० ॥
विश्वास-प्रस्तुतिः
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप
सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा॥ ७१ ॥
मूलम्
प्राजापत्यं यदा ऋक्षं तिथौ तस्यां नराधिप
सा महाकार्तिकी प्रोक्ता देवानामपि दुर्लभा॥ ७१ ॥
विश्वास-प्रस्तुतिः
यदा चार्के गुरौ सोमे वारेष्वेतेषु वै त्रिषु
त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा॥ ७२ ॥
मूलम्
यदा चार्के गुरौ सोमे वारेष्वेतेषु वै त्रिषु
त्रीण्येतानि च ऋक्षाणि स्वयं प्रोक्तानि ब्रह्मणा॥ ७२ ॥
विश्वास-प्रस्तुतिः
अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवम्
दानमक्षयतां याति पितॄणां तर्पणं तथा॥ ७३ ॥
मूलम्
अत्राश्वमेधिकं पुण्यं स्नातस्य भवति ध्रुवम्
दानमक्षयतां याति पितॄणां तर्पणं तथा॥ ७३ ॥
विश्वास-प्रस्तुतिः
विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः
स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः॥ ७४ ॥
मूलम्
विशाखासु यदा भानुः कृत्तिकासु च चन्द्रमाः
स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः॥ ७४ ॥
विश्वास-प्रस्तुतिः
अन्तरिक्षावतीर्णे तु तीर्थे पैतामहे शुभे
स्नानं येऽत्र करिष्यन्ति तेषां लोका महोदयाः॥ ७५ ॥
मूलम्
अन्तरिक्षावतीर्णे तु तीर्थे पैतामहे शुभे
स्नानं येऽत्र करिष्यन्ति तेषां लोका महोदयाः॥ ७५ ॥
विश्वास-प्रस्तुतिः
न स्पृहान्तेन्यपुण्यस्य कृतस्याप्यकृतस्य च
करिष्यन्ति महाराज सत्यमेतदुदाहृतम्॥ ७६ ॥
मूलम्
न स्पृहान्तेन्यपुण्यस्य कृतस्याप्यकृतस्य च
करिष्यन्ति महाराज सत्यमेतदुदाहृतम्॥ ७६ ॥
विश्वास-प्रस्तुतिः
तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते
नास्मात्परं पुण्यतीर्थं लोकेषु नृप पठ्यते॥ ७७ ॥
मूलम्
तीर्थानां प्रवरं तीर्थं पृथिव्यामिह पठ्यते
नास्मात्परं पुण्यतीर्थं लोकेषु नृप पठ्यते॥ ७७ ॥
विश्वास-प्रस्तुतिः
कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा
उदुम्बरवनात्तस्मादागता च सरस्वती॥ ७८ ॥
मूलम्
कार्तिक्यां तु विशेषेण पुण्या पापहरा शुभा
उदुम्बरवनात्तस्मादागता च सरस्वती॥ ७८ ॥
विश्वास-प्रस्तुतिः
तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितम्
दक्षिणे शिखरं भाति पर्वतस्याविदूरतः॥ ७९ ॥
मूलम्
तया तत्पूरितं तीर्थं पुष्करं मुनिसेवितम्
दक्षिणे शिखरं भाति पर्वतस्याविदूरतः॥ ७९ ॥
विश्वास-प्रस्तुतिः
नीलाञ्जनचयप्रख्यं वर्णतो नीलशाद्वलम्
तया तच्छिखरं तस्य खस्थितं पुष्करं यथा॥ ८० ॥
मूलम्
नीलाञ्जनचयप्रख्यं वर्णतो नीलशाद्वलम्
तया तच्छिखरं तस्य खस्थितं पुष्करं यथा॥ ८० ॥
विश्वास-प्रस्तुतिः
प्रावृट्काले वियत्पूर्णं घनवृन्दमिवोच्छ्रितम्
कदम्बपुष्पगन्धाढ्यं कुटजार्जुनभूषितम्॥ ८१ ॥
मूलम्
प्रावृट्काले वियत्पूर्णं घनवृन्दमिवोच्छ्रितम्
कदम्बपुष्पगन्धाढ्यं कुटजार्जुनभूषितम्॥ ८१ ॥
विश्वास-प्रस्तुतिः
रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितम्
वृत्तैस्सपुलकैस्स्निग्धैः स्त्रीणामिव पयोधरैः॥ ८२ ॥
मूलम्
रथमार्गमिवारोढुं रवेस्तच्छिखरं स्थितम्
वृत्तैस्सपुलकैस्स्निग्धैः स्त्रीणामिव पयोधरैः॥ ८२ ॥
विश्वास-प्रस्तुतिः
श्रीफलैः शिखरं भाति समन्तात्सुमनोहरैः
गुञ्जद्भिः षट्पदकुलैः समन्तादुपशोभितम्॥ ८३ ॥
मूलम्
श्रीफलैः शिखरं भाति समन्तात्सुमनोहरैः
गुञ्जद्भिः षट्पदकुलैः समन्तादुपशोभितम्॥ ८३ ॥
विश्वास-प्रस्तुतिः
कोकिलारावरुचिरं शिखि केका रवाकुलम्
शृङ्गे मनोहरे तस्मिन्नुद्गतासु मनोरमा॥ ८४ ॥
मूलम्
कोकिलारावरुचिरं शिखि केका रवाकुलम्
शृङ्गे मनोहरे तस्मिन्नुद्गतासु मनोरमा॥ ८४ ॥
विश्वास-प्रस्तुतिः
पुण्यापुण्यजलोपेता नदीयं ब्रह्मणस्सुता
वंशस्तम्बात्सुविपुला प्रवृत्ता चोत्तरामुखी॥ ८५ ॥
मूलम्
पुण्यापुण्यजलोपेता नदीयं ब्रह्मणस्सुता
वंशस्तम्बात्सुविपुला प्रवृत्ता चोत्तरामुखी॥ ८५ ॥
विश्वास-प्रस्तुतिः
गत्वा ततो नातिदूरात्पुनर्याति पराङ्मुखी
ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता॥ ८६ ॥
मूलम्
गत्वा ततो नातिदूरात्पुनर्याति पराङ्मुखी
ततः प्रभृति सा देवी प्रसन्ना प्रकटास्थिता॥ ८६ ॥
विश्वास-प्रस्तुतिः
अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया
कनका सुप्रभा चैव नन्दा प्राची सरस्वती॥ ८७ ॥
मूलम्
अन्तर्धानं परित्यज्य प्राणिनामनुकम्पया
कनका सुप्रभा चैव नन्दा प्राची सरस्वती॥ ८७ ॥
विश्वास-प्रस्तुतिः
पञ्चस्रोताः पुष्करेषु ब्रह्मणा परिभाषिता
तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च॥ ८८ ॥
मूलम्
पञ्चस्रोताः पुष्करेषु ब्रह्मणा परिभाषिता
तस्यास्तीरे सुरम्याणि तीर्थान्यायतनानि च॥ ८८ ॥
विश्वास-प्रस्तुतिः
संसेवितानि मुनिभिः सिद्धैश्चापि समन्ततः
तेषु सर्वेषु भविता धर्महेतुः सरस्वती॥ ८९ ॥
मूलम्
संसेवितानि मुनिभिः सिद्धैश्चापि समन्ततः
तेषु सर्वेषु भविता धर्महेतुः सरस्वती॥ ८९ ॥
विश्वास-प्रस्तुतिः
हाटकक्षितिगौरीणां तत्तीर्थेषु महोदयम्
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम्॥ ९० ॥
मूलम्
हाटकक्षितिगौरीणां तत्तीर्थेषु महोदयम्
दानं दत्तं नरैः स्नातैर्जनयत्यक्षयं फलम्॥ ९० ॥
विश्वास-प्रस्तुतिः
धान्यप्रदानं प्रवरं वदन्ति तिलप्रदानं च तथा मुनीन्द्राः
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतु प्रवरं प्रदिष्टम्॥ ९१ ॥
मूलम्
धान्यप्रदानं प्रवरं वदन्ति तिलप्रदानं च तथा मुनीन्द्राः
यैस्तेषु तीर्थेषु नरैः प्रदत्तं तद्धर्महेतु प्रवरं प्रदिष्टम्॥ ९१ ॥
विश्वास-प्रस्तुतिः
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तेषु कुर्यात्प्रमदा पुमान्वा
तीर्थेपि संयोज्य मनोपि चेत्थं भुङ्क्ते फलं ब्रह्मगृहे यथेष्टम्॥ ९२ ॥
मूलम्
प्रायोपवेशं प्रयतः प्रयत्नाद्यस्तेषु कुर्यात्प्रमदा पुमान्वा
तीर्थेपि संयोज्य मनोपि चेत्थं भुङ्क्ते फलं ब्रह्मगृहे यथेष्टम्॥ ९२ ॥
विश्वास-प्रस्तुतिः
तस्योपकण्ठे म्रियते हि यैस्तु कर्मक्षयात्स्थावरजङ्गमैश्च
ते चापि सर्वे सकलं प्रसह्य लभन्ति यज्ञस्य फलं दुरापम्॥ ९३ ॥
मूलम्
तस्योपकण्ठे म्रियते हि यैस्तु कर्मक्षयात्स्थावरजङ्गमैश्च
ते चापि सर्वे सकलं प्रसह्य लभन्ति यज्ञस्य फलं दुरापम्॥ ९३ ॥
विश्वास-प्रस्तुतिः
ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेतसां तु
सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी॥ ९४ ॥
मूलम्
ततस्तु सा धर्मफलारणी च जन्मादिदुःखार्दितचेतसां तु
सर्वात्मना चारुफला सरस्वती सेव्या प्रयत्नात्पुरुषैर्महानदी॥ ९४ ॥
विश्वास-प्रस्तुतिः
तत्र ये सलिलं पूतं पिबन्ति सततं नराः
न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः॥ ९५ ॥
मूलम्
तत्र ये सलिलं पूतं पिबन्ति सततं नराः
न ते मनुष्या देवास्ते जगत्यामिह संस्थिताः॥ ९५ ॥
विश्वास-प्रस्तुतिः
यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः
तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः॥ ९६ ॥
मूलम्
यज्ञैर्दानैस्तपोभिश्च यत्फलं प्राप्यते द्विजैः
तदत्र स्नानमात्रेण शूद्रैरपि स्वभावजैः॥ ९६ ॥
विश्वास-प्रस्तुतिः
दर्शनात्पुष्करस्यापि महापातकिनोपि ये
तेपि तत्पापनिर्मुक्ताः स्वर्गं यान्ति तनुक्षये॥ ९७ ॥
मूलम्
दर्शनात्पुष्करस्यापि महापातकिनोपि ये
तेपि तत्पापनिर्मुक्ताः स्वर्गं यान्ति तनुक्षये॥ ९७ ॥
विश्वास-प्रस्तुतिः
तत्रोपवासी यज्ञस्य पुण्डरीकस्य यत्फलम्
तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे॥ ९८ ॥
मूलम्
तत्रोपवासी यज्ञस्य पुण्डरीकस्य यत्फलम्
तत्प्राप्नोति नरः क्षिप्रमल्पायासेन पुष्करे॥ ९८ ॥
विश्वास-प्रस्तुतिः
माघमासे तिलान्यस्तु प्रयच्छति च स द्द्विजे
यथाशक्ति च भक्त्या च स विष्णुभवने वसेत्॥ ९९ ॥
मूलम्
माघमासे तिलान्यस्तु प्रयच्छति च स द्द्विजे
यथाशक्ति च भक्त्या च स विष्णुभवने वसेत्॥ ९९ ॥
तत्रोपवासं स्नानं च पञ्चगव्याशनं तथा
यः करोति नरः सोपि देहान्ते स्वर्गमाप्नुयात्1.32.१००
वसन्ति तत्समीपस्था येपि तस्करजातयः
तेपि तस्यानुभावेन स्वर्यान्ति च न संशयः१०१
ये पुनः शूद्रवृत्तिस्थास्त्रिरात्रोपोषिता नराः
प्रयच्छन्ति द्विजेष्वर्थं ब्रह्मशक्तिसमन्विताः१०२
ते मृता यानमारूढाः पद्मासनचतुर्भुजाः
ब्रह्मणा सह सायुज्यं प्राप्नुवन्त्यपुनर्भवम्१०३
गङ्गोद्भेदं यत्र गङ्गा सम्प्राप्ता सरितां वराम्
सरस्वतीं द्रष्टुकामा सान्त्वार्थे प्रोद्गतांऽबरात्१०४
तत्र गत्वा पयःपूतं सुरसिद्धनिषेवितम्
सारस्वतं च विमलं विद्याधरगणार्चितम्१०५
पीतमेकाञ्जलिमितं येनाप्तं तेन तत्परं
अवलोक्य दिशं पूर्वामाह गङ्गे सखि त्वया१०६
एकाकिनी वियुक्तास्मि क्व यास्येहमबान्धवा
तां विज्ञाय ततो गङ्गा रुदन्तीं शोककर्शिताम्१०७
पूर्वदेशात्समायाता द्रष्टुं तां दीनमानसाम्
दृष्ट्वा च तां महाभागां परिष्वज्य तु पीडिताम्१०८
नेत्रे प्रमृज्य चैतस्याः प्राह गङ्गा वचस्तदा
मा रोदीस्त्वं महाभागे दुःष्करं ते कृतं सखि१०९
देवकार्यं यदन्येन कर्तुं शक्येत नैव हि
एतस्मात्ते महाभागे द्रष्टुं देवाः समागताः११०
एषां च क्रियतां पूजा वाङ्मनः काय कर्मणा
सरस्वती सुरेन्द्राणां कृत्त्वा पूजा विधिक्रमम्१११
क्रमेण ब्रह्मजा पश्चात्सङ्गता तु सखीजनम्
ज्येष्ठमध्यमयोर्मध्ये सङ्गमो लोकविश्रुतः११२
पश्चान्मुखी ब्रह्मसुता जाह्नवी तु उदङ्मुखी
ततस्ते विबुधाः सर्वे पुष्करं ये समागताः११३
विदित्वा दुष्करं कर्म तस्या स्तुतिमकारयन्
त्वं बुद्धिस्त्वं मतिर्लक्ष्मीस्त्वं विद्या त्वं गतिः परा११४
त्वं श्रद्धा त्त्वं परा निष्ठा बुद्धिर्मेधा रतिः क्षमा
त्वं सिद्धिस्त्वं स्वधा स्वाहा त्वं पवित्रं मतं महत्११५
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती
यज्ञ विद्या महाविद्या गुह्यविद्या च शोभना११६
आन्वीक्षिकी तु या वार्ता दण्डनीतिश्च कथ्यते
नमोस्तु ते पुण्यजले नमः सागरगामिनि११७
नमस्ते पापनिर्मोके नमो देवि जगत्प्रिये
एवं स्तुता हि सा देवी दिव्या स्वार्थपरायणैः११८
एवं सा प्राङ्मुखी तत्र स्थिता देवी सरस्वती
सर्वतीर्थमयी देवी सर्वामरसमन्विता११९
प्राची सेति बुधैर्ज्ञेया ब्रह्मणो वचनं तथा
तत्र शुद्धावटन्नाम तीर्थं पैतामहं स्मृतम्१२०
दर्शनेनापि वै तस्य महापातकिनोपि ये
भोगिभोगान्समश्नन्ति विशुद्धा ब्रह्मणोन्तिके१२१
प्रायोपवेशं ये तत्र प्रकुर्वन्ति नरोत्तमाः
ते मृता ब्रह्मयानेन दिवं यान्त्यकुतोभयाः१२२
तत्राल्पमपि यैर्दानं दत्तं ब्रह्मविदात्मनाम्
जन्मान्तरशतं तेषां तैर्दत्तं भावितात्मनाम्१२३
खण्डस्फुटितसंस्कारं तत्र कुर्वन्ति ये नराः
ते ब्रह्मलोकमासाद्य मोदन्ते सुखिनस्सदा१२४
योऽत्र पूजाजपोहोमः कृतो भवति देहिनाम्
अनन्तं तत्फलं सर्वं ब्रह्मभक्तिरतात्मनाम्१२५
तत्र दीपप्रदानेन ज्ञानचक्षुरतीन्द्रियः
प्राप्नोति धूपदानेन स्थानं ब्रह्मनिषेवितम्१२६
अथ किं बहुनोक्तेन सङ्गमे यत्प्रदीयते
तदनन्तफलं प्रोक्तं जीवतो वा मृतस्य च१२७
स्नानाज्जपात्तथा होमादनन्तफलसाधकम्
रामेणागत्य वै तत्र पिण्डं दशरथस्य च१२८
दत्तं श्राद्धं तत्र तेन मार्कण्डेयेन दर्शिते
तत्र वापी चतुःकोणा तत्र पिण्डप्रदा नराः१२९
हंसयुक्तेन यानेन सर्वे यान्ति त्रिविष्टपम्
तस्यां वाप्यां तु वै ब्रह्मा पितृमेधं चकार ह१३०
यज्ञं यज्ञविदां श्रेष्ठः समाप्तवरदक्षिणम्
वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः१३१
आदित्याश्च ततस्तेषां विहिताः प्रपितामहाः
त्रिविधा अपि आहूय पुनरुक्ता विरिञ्चिना१३२
भवद्भिः पिण्डदानाद्यं ग्राह्यमत्र स्थितैस्सदा
यत्कृतं पितृकार्यं च तदनन्तफलं भवेत्१३३
वृत्यर्थं पितरस्तेषां तुष्टाश्चैव पितामहाः
लभन्ते तर्पणात्तृप्तिं पिण्डदानात्त्रिविष्टपम्१३४
तस्मात्सर्वं परित्यज्य प्राचीने पिण्डदो भवेत्
दत्वा पुत्रः प्रयत्नेन पितॄन्सर्वांश्च तर्पयेत्१३५
प्राचीनेश्वरदेवस्य पुरोभूतं प्रतिष्ठितम्
आदितीर्थं तदित्युक्तं दर्शनादपि मुक्तिदम्१३६
स्पृष्ट्वा तु सलिलं तत्र मुच्यते जन्मबन्धनात्
अवगाहनाद्ब्रह्मणोऽसौ भवत्यनुचरः सदा१३७
आदितीर्थे नरः स्नात्वा यः प्रदद्यात्समाधिना
अन्नमल्पमपि प्रायः प्रायशस्स्वर्गमाप्नुयात्१३८
यस्तत्र ब्रह्मभक्तानां नरः स्नात्वा ददेद्धनम्
कृसेरणापि हेम्ना च स स्वर्गे मोदते सुखी१३९
प्राचीसरस्वती तत्र नरैः किं मृग्यते परम्
तस्यां स्नानात्फलं तृप्त्यै तपोयज्ञादिलक्षणम्१४०
ये पिबन्ति नराः पुण्यां प्राचीं देवीं सरस्वतीम्
न ते नराः सुरा ज्ञेया मार्कण्डेयर्षिरब्रवीत्१४१
सरस्वती नदीं प्राप्य न स्नाने नियमः क्वचित्
भुक्ते वा न च वा भुक्ते दिवा वा यदि वा निशि१४२
तत्तीर्थं सर्वत्तीर्थानां प्राचीनं प्रवरं स्मृतत्
पापघ्नं पुण्यजननं प्राणिनां परिकीर्तितम्१४३
ये पुनर्भावितात्मानस्तत्र स्नात्वा जनार्दनम्
पूजयन्ति यथाशक्ति ते प्रयान्ति त्रिविष्टपम्१४४
देवानां प्रवरो विष्णुस्तेन यत्र सरस्वती
सेविता तत्परं तीर्थं क्षितौ ब्रह्मसुतोऽब्रवीत्१४५
ततस्तस्मान्महातीर्थं मन्यमाना महोदयम्
मन्दाकिनीमुदीक्षन्ती स्थिता तत्र सरस्वती१४६
तत्तीर्थं सर्वतीर्थानां परं स्वायम्भुवोऽब्रवीत्
मन्दाकिन्यासमं यत्र प्राप्य पुण्यसमागमम्१४७
तत्रस्थाने स्थिता देवैः स्तुता देवी सरस्वती
मत्वा चैकाकिनीं तां तु दीनास्यां दीनमानसां१४८
सखीं तदाऽसृजद्ब्रह्मा रूपिणीं विमलेक्षणाम्
हरिणीं हरिरप्याशु जज्ञे कमललोचनाम्१४९
वज्रिणीमपि देवेशो वज्रपाणिर्विसृष्टवान्
सुकुरङ्गरुचिं देवो नीलकण्ठो वृषध्वजः1.32.१५०
सखीं सञ्जनयामास सरस्वत्यास्त्रिलोचनः
विलोक्यमाना सा राजन्सखीभिः सुरसुन्दरी१५१
प्रहृष्टा यातुमारब्धा देवादेशान्महानदी
ततः सखीभिः सार्द्धं सा प्राचीनागन्तुमुद्यता१५२
सरस्वती समस्तानां तासां श्रेष्ठतमा स्मृता
प्राचीसरस्वतीतोयं ये पिबन्ति मृगा भुवि१५३
तेपि स्वर्गं गमिष्यन्ति यज्ञैर्द्विजवरा यथा
चिन्तामणिरिवात्रैषा प्राची ज्ञेया सरस्वती१५४
तथा कामफलस्येयं हेतुभूता महानदी
दक्षिणां दिशमालोक्य पुनः पश्चान्मुखी गता१५५
उक्ता तया तथा गङ्गा दिशं प्राचीं व्रजस्व ह
विस्मर्तव्या न चाहं ते व्रज देवि यथागतम्१५६