भीष्म उवाच
विश्वास-प्रस्तुतिः
भगवन्महदाश्चर्यं बाष्कलेर्बन्धनं हि यत्
कृतं त्रिविक्रमं रूपं यदा संयमितो बलि॥ १ ॥
मूलम्
भगवन्महदाश्चर्यं बाष्कलेर्बन्धनं हि यत्
कृतं त्रिविक्रमं रूपं यदा संयमितो बलि॥ १ ॥
विश्वास-प्रस्तुतिः
एतन्मया श्रुतं पूर्वं कथ्यमानं द्विजोत्तमैः
पाताले वसतेद्यापि वैरोचनसुतो बलि॥ २ ॥
मूलम्
एतन्मया श्रुतं पूर्वं कथ्यमानं द्विजोत्तमैः
पाताले वसतेद्यापि वैरोचनसुतो बलि॥ २ ॥
विश्वास-प्रस्तुतिः
नागतीर्थं यथाभूतं पिशाचानां तु सम्भवम्
शिवदूती कथं चात्र केनेयं मङ्गलीकृता॥ ३ ॥
मूलम्
नागतीर्थं यथाभूतं पिशाचानां तु सम्भवम्
शिवदूती कथं चात्र केनेयं मङ्गलीकृता॥ ३ ॥
विश्वास-प्रस्तुतिः
अन्तरिक्षे पुष्करं तु केन नीतं महामुने
एतदाचक्ष्व मे सर्वं यथा बाष्कलिबन्धनम्॥ ४ ॥
मूलम्
अन्तरिक्षे पुष्करं तु केन नीतं महामुने
एतदाचक्ष्व मे सर्वं यथा बाष्कलिबन्धनम्॥ ४ ॥
विश्वास-प्रस्तुतिः
भूमिप्रक्रमणं पूर्वं कृतं देवेन विष्णुना
द्वितीये कारणं किं च येन देवश्चकार ह॥ ५ ॥
मूलम्
भूमिप्रक्रमणं पूर्वं कृतं देवेन विष्णुना
द्वितीये कारणं किं च येन देवश्चकार ह॥ ५ ॥
विश्वास-प्रस्तुतिः
तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद
पापक्षयकरं ह्येतच्छ्रोतव्यं भूतिमिच्छता॥ ६ ॥
मूलम्
तत्त्वतस्त्वं हि तत्सर्वं यथाभूतं तथा वद
पापक्षयकरं ह्येतच्छ्रोतव्यं भूतिमिच्छता॥ ६ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
प्रश्नभारस्त्वया राजन्कौतुकादेव कीर्तितः
कथयामि हि तत्सर्वं यथाभूतं नृपोत्तम॥ ७ ॥
मूलम्
पुलस्त्य उवाच
प्रश्नभारस्त्वया राजन्कौतुकादेव कीर्तितः
कथयामि हि तत्सर्वं यथाभूतं नृपोत्तम॥ ७ ॥
विश्वास-प्रस्तुतिः
विष्णोः पदानुषङ्गेण बन्धनं बाष्कलेरिह
श्रुतं तद्भवता सर्वं मया ते परिकीर्तितं॥ ८ ॥
मूलम्
विष्णोः पदानुषङ्गेण बन्धनं बाष्कलेरिह
श्रुतं तद्भवता सर्वं मया ते परिकीर्तितं॥ ८ ॥
विश्वास-प्रस्तुतिः
भूयोपि विष्णुना भीष्म प्राप्ते वैवस्वतेन्तरे
त्रैलोक्यं बलिनाक्रान्तं विष्णुना प्रभविष्णुना॥ ९ ॥
मूलम्
भूयोपि विष्णुना भीष्म प्राप्ते वैवस्वतेन्तरे
त्रैलोक्यं बलिनाक्रान्तं विष्णुना प्रभविष्णुना॥ ९ ॥
विश्वास-प्रस्तुतिः
गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि
भूयोपि देवदेवेन भूमेः प्रक्रमणं कृतम्॥ १० ॥
मूलम्
गत्वा त्वेकाकिना यज्ञे तथा संयमितो बलि
भूयोपि देवदेवेन भूमेः प्रक्रमणं कृतम्॥ १० ॥
विश्वास-प्रस्तुतिः
प्रादुर्भावो वामनस्य तथाभूतो नराधिप
पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः॥ ११ ॥
मूलम्
प्रादुर्भावो वामनस्य तथाभूतो नराधिप
पुनस्त्रिविक्रमो भूत्वा वामनो भूदवामनः॥ ११ ॥
विश्वास-प्रस्तुतिः
उत्पत्तिरेषा ते सर्वा कथिता कुरुनन्दन
नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत॥ १२ ॥
मूलम्
उत्पत्तिरेषा ते सर्वा कथिता कुरुनन्दन
नागानां तु यथा तीर्थं तच्छृणुष्व महाव्रत॥ १२ ॥
विश्वास-प्रस्तुतिः
अनन्तो वासुकिश्चैव तक्षकश्च महाबलः
कर्कोटकश्च नागेन्द्रः पद्मश्चान्यः सरीसृपः॥ १३ ॥
मूलम्
अनन्तो वासुकिश्चैव तक्षकश्च महाबलः
कर्कोटकश्च नागेन्द्रः पद्मश्चान्यः सरीसृपः॥ १३ ॥
विश्वास-प्रस्तुतिः
महापद्मस्तथा शङ्खः कुलिकश्चापराजितः
एते कश्यपदायादा एतैरापूरितं जगत्॥ १४ ॥
मूलम्
महापद्मस्तथा शङ्खः कुलिकश्चापराजितः
एते कश्यपदायादा एतैरापूरितं जगत्॥ १४ ॥
विश्वास-प्रस्तुतिः
एतेषां तु प्रसूत्या तु इदमापूरितं जगत्
कुटिलाभीमकर्माणस्तीक्ष्णास्याश्च विषोल्बणाः॥ १५ ॥
मूलम्
एतेषां तु प्रसूत्या तु इदमापूरितं जगत्
कुटिलाभीमकर्माणस्तीक्ष्णास्याश्च विषोल्बणाः॥ १५ ॥
विश्वास-प्रस्तुतिः
दष्ट्वा मन्दांश्चमनुजान्कुर्युर्भस्मक्षणात्तु ते
तद्दर्शनाद्भवेन्नाशो मनुष्याणां नराधिप॥ १६ ॥
मूलम्
दष्ट्वा मन्दांश्चमनुजान्कुर्युर्भस्मक्षणात्तु ते
तद्दर्शनाद्भवेन्नाशो मनुष्याणां नराधिप॥ १६ ॥
विश्वास-प्रस्तुतिः
अहन्यहनि जायेत क्षयः परमदारुणः
आत्मनस्तु क्षयं दृष्ट्वा प्रजास्सर्वास्समन्ततः॥ १७ ॥
मूलम्
अहन्यहनि जायेत क्षयः परमदारुणः
आत्मनस्तु क्षयं दृष्ट्वा प्रजास्सर्वास्समन्ततः॥ १७ ॥
विश्वास-प्रस्तुतिः
जग्मुः शरण्यं शरणं ब्रह्माणं परमेश्वरं
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते॥ १८ ॥
मूलम्
जग्मुः शरण्यं शरणं ब्रह्माणं परमेश्वरं
इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते॥ १८ ॥
विश्वास-प्रस्तुतिः
ऊचुः कमलजं दृष्ट्वा पुराणं ब्रह्मसञ्ज्ञकम्
प्रजा ऊचुः
देवदेवेश लोकानां प्रसूते परमेश्वर॥ १९ ॥
मूलम्
ऊचुः कमलजं दृष्ट्वा पुराणं ब्रह्मसञ्ज्ञकम्
प्रजा ऊचुः
देवदेवेश लोकानां प्रसूते परमेश्वर॥ १९ ॥
विश्वास-प्रस्तुतिः
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजगानां महात्मनाम्
दिनेदिने भयं देव पश्यामः कृपणा भृशम्॥ २० ॥
मूलम्
त्राहि नस्तीक्ष्णदंष्ट्राणां भुजगानां महात्मनाम्
दिनेदिने भयं देव पश्यामः कृपणा भृशम्॥ २० ॥
विश्वास-प्रस्तुतिः
मनुष्यपशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेत्
त्वया सृष्टिः कृता देव क्षीयते तु भुजङ्गमैः॥ २१ ॥
मूलम्
मनुष्यपशुपक्ष्यादि तत्सर्वं भस्मसाद्भवेत्
त्वया सृष्टिः कृता देव क्षीयते तु भुजङ्गमैः॥ २१ ॥
विश्वास-प्रस्तुतिः
एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह
ब्रह्मोवाच
अहं रक्षां विधास्यामि भवतीनां न संशयः॥ २२ ॥
मूलम्
एतज्ज्ञात्वा यदुचितं तत्कुरुष्व पितामह
ब्रह्मोवाच
अहं रक्षां विधास्यामि भवतीनां न संशयः॥ २२ ॥
विश्वास-प्रस्तुतिः
व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः
एवमुक्ते प्रजाः सर्वा ब्रह्मणाऽव्यक्तमूर्तिना॥ २३ ॥
मूलम्
व्रजध्वं स्वनिकेतानि नीरुजो गतसाध्वसाः
एवमुक्ते प्रजाः सर्वा ब्रह्मणाऽव्यक्तमूर्तिना॥ २३ ॥
विश्वास-प्रस्तुतिः
आजग्मुः परमप्रीताः स्तुत्वा चैव स्वयम्भुवम्
प्रयातासु प्रजास्वेवं तानाहूय भुजङ्गमान्॥ २४ ॥
मूलम्
आजग्मुः परमप्रीताः स्तुत्वा चैव स्वयम्भुवम्
प्रयातासु प्रजास्वेवं तानाहूय भुजङ्गमान्॥ २४ ॥
विश्वास-प्रस्तुतिः
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा
ब्रह्मोवाच
अहन्यहनि भूतानि भक्ष्यन्ते वै दुरात्मभिः॥ २५ ॥
मूलम्
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा
ब्रह्मोवाच
अहन्यहनि भूतानि भक्ष्यन्ते वै दुरात्मभिः॥ २५ ॥
विश्वास-प्रस्तुतिः
नश्यन्ति तूरगैर्दष्टा मनुष्याः पशवस्तथा
यस्मान्मत्प्रभवान्नित्यं क्षयं नयथ मानुषान्॥ २६ ॥
मूलम्
नश्यन्ति तूरगैर्दष्टा मनुष्याः पशवस्तथा
यस्मान्मत्प्रभवान्नित्यं क्षयं नयथ मानुषान्॥ २६ ॥
विश्वास-प्रस्तुतिः
अतोन्यस्मिन्भवे भूयान्ममकोपात्सुदारुणात्
भवतां हि क्षयो घोरो भावि वैवस्वतेन्तरे॥ २७ ॥
मूलम्
अतोन्यस्मिन्भवे भूयान्ममकोपात्सुदारुणात्
भवतां हि क्षयो घोरो भावि वैवस्वतेन्तरे॥ २७ ॥
विश्वास-प्रस्तुतिः
तथान्यः सोमवंशीयो राजा वै जनमेजयः
धक्ष्यते सर्पसत्रेण प्रदीप्ते हव्यवाहने॥ २८ ॥
मूलम्
तथान्यः सोमवंशीयो राजा वै जनमेजयः
धक्ष्यते सर्पसत्रेण प्रदीप्ते हव्यवाहने॥ २८ ॥
विश्वास-प्रस्तुतिः
मातृष्वसुश्च तनयांस्तार्क्ष्यो वो भक्षयिष्यति
एवं वो भविता नाशः सर्वेषां दुष्टचेतसाम्॥ २९ ॥
मूलम्
मातृष्वसुश्च तनयांस्तार्क्ष्यो वो भक्षयिष्यति
एवं वो भविता नाशः सर्वेषां दुष्टचेतसाम्॥ २९ ॥
विश्वास-प्रस्तुतिः
शप्त्वा कुलसहस्रं तु यावदेकं कुलं स्थितम्
एवमुक्ते तु वेपन्तो ब्रह्मणा भुजगोत्तमाः॥ ३० ॥
मूलम्
शप्त्वा कुलसहस्रं तु यावदेकं कुलं स्थितम्
एवमुक्ते तु वेपन्तो ब्रह्मणा भुजगोत्तमाः॥ ३० ॥
विश्वास-प्रस्तुतिः
निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा
भगवन्कुटिला जातिरस्माकं भूतभावन॥ ३१ ॥
मूलम्
निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा
भगवन्कुटिला जातिरस्माकं भूतभावन॥ ३१ ॥
विश्वास-प्रस्तुतिः
विषोल्बणत्वं क्रूरत्वं दन्दशूकत्वमेव च
सम्पादितं त्वया देव इदानीं शपसे कथं॥ ३२ ॥
मूलम्
विषोल्बणत्वं क्रूरत्वं दन्दशूकत्वमेव च
सम्पादितं त्वया देव इदानीं शपसे कथं॥ ३२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः
ततः किं बहुना नित्यं भक्षयध्वं गतव्यथाः॥ ३३ ॥
मूलम्
ब्रह्मोवाच
यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः
ततः किं बहुना नित्यं भक्षयध्वं गतव्यथाः॥ ३३ ॥
विश्वास-प्रस्तुतिः
नागा ऊचुः
मर्यादां कुरु देवेश स्थानं चैव पृथक्पृथक्
मनुष्याणां तथास्माकं समयं देव कारय॥ ३४ ॥
मूलम्
नागा ऊचुः
मर्यादां कुरु देवेश स्थानं चैव पृथक्पृथक्
मनुष्याणां तथास्माकं समयं देव कारय॥ ३४ ॥
विश्वास-प्रस्तुतिः
शापो यो भवता दत्तो मनुष्यो जनमेजयः
नाशं नः सर्पसत्रेण उल्बणं च करिष्यति॥ ३५ ॥
मूलम्
शापो यो भवता दत्तो मनुष्यो जनमेजयः
नाशं नः सर्पसत्रेण उल्बणं च करिष्यति॥ ३५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
जरत्कारुरिति ख्यातो भविता ब्रह्मवित्तमः
जरत्कन्या तस्य देया तस्यामुत्पत्स्यते सुतः॥ ३६ ॥
मूलम्
ब्रह्मोवाच
जरत्कारुरिति ख्यातो भविता ब्रह्मवित्तमः
जरत्कन्या तस्य देया तस्यामुत्पत्स्यते सुतः॥ ३६ ॥
विश्वास-प्रस्तुतिः
रक्षां कर्ता स वो विप्रो भवतां कुलपावनः
तथा करोमि नागानां समयं मनुजैः सह॥ ३७ ॥
मूलम्
रक्षां कर्ता स वो विप्रो भवतां कुलपावनः
तथा करोमि नागानां समयं मनुजैः सह॥ ३७ ॥
विश्वास-प्रस्तुतिः
तदेकमनसः सर्वे शृणुध्वं मम शासनम्
सुतलं वितलं चैव तृतीयं च तलातलम्॥ ३८ ॥
मूलम्
तदेकमनसः सर्वे शृणुध्वं मम शासनम्
सुतलं वितलं चैव तृतीयं च तलातलम्॥ ३८ ॥
विश्वास-प्रस्तुतिः
दत्तं च त्रिप्रकारं वो गृहं तत्र गमिष्यथ
तत्र भोगान्बहुविधान्भुञ्जाना मम शासनात्॥ ३९ ॥
मूलम्
दत्तं च त्रिप्रकारं वो गृहं तत्र गमिष्यथ
तत्र भोगान्बहुविधान्भुञ्जाना मम शासनात्॥ ३९ ॥
विश्वास-प्रस्तुतिः
तिष्ठध्वं सप्तमं यावत्कालं तं तु पुनःपुनः
ततो वैवस्वतस्यादौ काश्यपेयो भविष्यति॥ ४० ॥
मूलम्
तिष्ठध्वं सप्तमं यावत्कालं तं तु पुनःपुनः
ततो वैवस्वतस्यादौ काश्यपेयो भविष्यति॥ ४० ॥
विश्वास-प्रस्तुतिः
दायादः सर्वदेवानां सुपर्णस्सर्पभक्षकः
तदा प्रसूतिः सर्पाणां दग्धा वै चित्रभानुना॥ ४१ ॥
मूलम्
दायादः सर्वदेवानां सुपर्णस्सर्पभक्षकः
तदा प्रसूतिः सर्पाणां दग्धा वै चित्रभानुना॥ ४१ ॥
विश्वास-प्रस्तुतिः
भवतां चैव सर्वेषां भविष्यति न संशयः
ये ये क्रूरा भोगिनो दुर्विनीतास्तेषामन्तो भाविता नान्यथैतत्॥ ४२ ॥
मूलम्
भवतां चैव सर्वेषां भविष्यति न संशयः
ये ये क्रूरा भोगिनो दुर्विनीतास्तेषामन्तो भाविता नान्यथैतत्॥ ४२ ॥
विश्वास-प्रस्तुतिः
कालव्याप्तं भक्षयध्वं च सत्वं तथापकारे चकृते मनुष्यम्
मन्त्रौषधैर्गारुडैश्चैव तन्त्रैर्बन्धैर्जुष्टा मानवा ये भवन्ति॥ ४३ ॥
मूलम्
कालव्याप्तं भक्षयध्वं च सत्वं तथापकारे चकृते मनुष्यम्
मन्त्रौषधैर्गारुडैश्चैव तन्त्रैर्बन्धैर्जुष्टा मानवा ये भवन्ति॥ ४३ ॥
विश्वास-प्रस्तुतिः
तेभ्यो भीतैर्वर्तितव्यं न चान्यच्चित्ते कार्यं चान्यथा वो विनाशः
इतीरिते ब्रह्मणा वै भुजङ्गा जग्मुः स्थानं सुतलाख्यं हि सर्वे॥ ४४ ॥
मूलम्
तेभ्यो भीतैर्वर्तितव्यं न चान्यच्चित्ते कार्यं चान्यथा वो विनाशः
इतीरिते ब्रह्मणा वै भुजङ्गा जग्मुः स्थानं सुतलाख्यं हि सर्वे॥ ४४ ॥
विश्वास-प्रस्तुतिः
तस्थुर्भोगान्भुञ्जमानाश्च सर्वे रसातले लीलया संस्थितास्ते
एवं शापं तुते लब्ध्वाप्रसादं च चतुर्मुखात्॥ ४५ ॥
मूलम्
तस्थुर्भोगान्भुञ्जमानाश्च सर्वे रसातले लीलया संस्थितास्ते
एवं शापं तुते लब्ध्वाप्रसादं च चतुर्मुखात्॥ ४५ ॥
विश्वास-प्रस्तुतिः
तस्थुः पातालनिलये मुदितेनान्तरात्मना
ततः कालान्त रेभूते पुनरेवं व्यचिन्तयन्॥ ४६ ॥
मूलम्
तस्थुः पातालनिलये मुदितेनान्तरात्मना
ततः कालान्त रेभूते पुनरेवं व्यचिन्तयन्॥ ४६ ॥
विश्वास-प्रस्तुतिः
भविता भरतो राजा पाण्डवेयो महायशाः
अस्माकं तु क्षयकरो दैवयोगेन केनचित्॥ ४७ ॥
मूलम्
भविता भरतो राजा पाण्डवेयो महायशाः
अस्माकं तु क्षयकरो दैवयोगेन केनचित्॥ ४७ ॥
विश्वास-प्रस्तुतिः
कथं त्रिभुवने नाथः सर्वेषां च पितामहः
सृष्टिकर्ता जगद्वन्द्यः शापमस्मासु दत्तवान्॥ ४८ ॥
मूलम्
कथं त्रिभुवने नाथः सर्वेषां च पितामहः
सृष्टिकर्ता जगद्वन्द्यः शापमस्मासु दत्तवान्॥ ४८ ॥
विश्वास-प्रस्तुतिः
देवं विरञ्चिनं त्यक्त्वा गतिरन्या न विद्यते
वैराजे भवनश्रेष्ठे तत्र देवः स तिष्ठति॥ ४९ ॥
मूलम्
देवं विरञ्चिनं त्यक्त्वा गतिरन्या न विद्यते
वैराजे भवनश्रेष्ठे तत्र देवः स तिष्ठति॥ ४९ ॥
विश्वास-प्रस्तुतिः
स देवः पुष्करस्थो वै यज्ञं यजति साम्प्रतम्
गत्वा प्रसादयामस्तं वरं तुष्टः प्रदास्यति1.31.॥ ५० ॥
मूलम्
स देवः पुष्करस्थो वै यज्ञं यजति साम्प्रतम्
गत्वा प्रसादयामस्तं वरं तुष्टः प्रदास्यति1.31.॥ ५० ॥
विश्वास-प्रस्तुतिः
एवं विचिन्त्य ते सर्वे नागा गत्वा च पुष्करम्
यज्ञपर्वतमासाद्य शैलभित्तिमुपाश्रिताः॥ ५१ ॥
मूलम्
एवं विचिन्त्य ते सर्वे नागा गत्वा च पुष्करम्
यज्ञपर्वतमासाद्य शैलभित्तिमुपाश्रिताः॥ ५१ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा नागांस्तथा श्रान्तान्वारिधाराश्च शीतलाः
उदङ्मुखा वै निष्क्रान्तास्सर्वेषां तु सुखप्रदाः॥ ५२ ॥
मूलम्
दृष्ट्वा नागांस्तथा श्रान्तान्वारिधाराश्च शीतलाः
उदङ्मुखा वै निष्क्रान्तास्सर्वेषां तु सुखप्रदाः॥ ५२ ॥
विश्वास-प्रस्तुतिः
नागतीर्थं ततो जातं पृथिव्यां भरतर्षभ
नागकुण्डं च वै केचित्सरितं चापरेऽब्रुवन्॥ ५३ ॥
मूलम्
नागतीर्थं ततो जातं पृथिव्यां भरतर्षभ
नागकुण्डं च वै केचित्सरितं चापरेऽब्रुवन्॥ ५३ ॥
विश्वास-प्रस्तुतिः
पुण्यं तत्सर्वतीर्थानां सर्पाणां विषनाशनम्
मज्जन्ति तत्र ये मर्त्या अधिश्रावण पञ्चमि॥ ५४ ॥
मूलम्
पुण्यं तत्सर्वतीर्थानां सर्पाणां विषनाशनम्
मज्जन्ति तत्र ये मर्त्या अधिश्रावण पञ्चमि॥ ५४ ॥
विश्वास-प्रस्तुतिः
न तेषां तु कुले सर्पाः पीडां कुर्वन्ति कर्हिचित्
श्राद्धं पितॄणां ये तत्र करिष्यन्ति नरा भुवि॥ ५५ ॥
मूलम्
न तेषां तु कुले सर्पाः पीडां कुर्वन्ति कर्हिचित्
श्राद्धं पितॄणां ये तत्र करिष्यन्ति नरा भुवि॥ ५५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मा तेषां परं स्थानं दास्यते नात्र संशयः
नागानां तु भयं ज्ञात्वा ब्रह्मा लोकपितामहः॥ ५६ ॥
मूलम्
ब्रह्मा तेषां परं स्थानं दास्यते नात्र संशयः
नागानां तु भयं ज्ञात्वा ब्रह्मा लोकपितामहः॥ ५६ ॥
विश्वास-प्रस्तुतिः
पूर्वोक्तं तु पुनर्वाक्यं नागानश्रावयत्तदा
पञ्चमी सा तिथिर्धन्या सर्वपापहरा शुभा॥ ५७ ॥
मूलम्
पूर्वोक्तं तु पुनर्वाक्यं नागानश्रावयत्तदा
पञ्चमी सा तिथिर्धन्या सर्वपापहरा शुभा॥ ५७ ॥
विश्वास-प्रस्तुतिः
यतोऽस्यामेव सुतिथौ नागानां कार्यमुद्धृतम्
एतस्यां सर्वतो यस्तु कट्वम्लं परिवर्जयेत्॥ ५८ ॥
मूलम्
यतोऽस्यामेव सुतिथौ नागानां कार्यमुद्धृतम्
एतस्यां सर्वतो यस्तु कट्वम्लं परिवर्जयेत्॥ ५८ ॥
विश्वास-प्रस्तुतिः
क्षीरेण स्नापयेन्नागांस्तस्य ते यान्ति मित्रताम्
भीष्म उवाच
शिवदूती यथा जाता येन चैव निवेशिता॥ ५९ ॥
मूलम्
क्षीरेण स्नापयेन्नागांस्तस्य ते यान्ति मित्रताम्
भीष्म उवाच
शिवदूती यथा जाता येन चैव निवेशिता॥ ५९ ॥
विश्वास-प्रस्तुतिः
तन्मे सर्वं यथातत्त्वं भवान्शंसितुर्महति
पुलस्त्य उवाच
शिवा नीलगिरिं प्राप्ता तपसे धृतमानसा॥ ६० ॥
मूलम्
तन्मे सर्वं यथातत्त्वं भवान्शंसितुर्महति
पुलस्त्य उवाच
शिवा नीलगिरिं प्राप्ता तपसे धृतमानसा॥ ६० ॥
विश्वास-प्रस्तुतिः
रौद्री जटोद्भवा शक्तिस्तस्याः शृणु नृप व्रतम्
तपः कृत्वा चिरं कालं ग्रसिष्याम्यखिलं जगत्॥ ६१ ॥
मूलम्
रौद्री जटोद्भवा शक्तिस्तस्याः शृणु नृप व्रतम्
तपः कृत्वा चिरं कालं ग्रसिष्याम्यखिलं जगत्॥ ६१ ॥
विश्वास-प्रस्तुतिः
एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी
तस्याः कालान्तरे देव्यास्तपन्त्यास्तप उत्तमम्॥ ६२ ॥
मूलम्
एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी
तस्याः कालान्तरे देव्यास्तपन्त्यास्तप उत्तमम्॥ ६२ ॥
विश्वास-प्रस्तुतिः
रुरुर्नाममहातेजा ब्रह्मदत्तवरोऽसुरः
समुद्रमध्ये रत्नाख्यं पुरमस्ति महाधनम्॥ ६३ ॥
मूलम्
रुरुर्नाममहातेजा ब्रह्मदत्तवरोऽसुरः
समुद्रमध्ये रत्नाख्यं पुरमस्ति महाधनम्॥ ६३ ॥
विश्वास-प्रस्तुतिः
तत्रातिष्ठत्स दैत्येन्द्रस्सर्वदेवभयङ्करः
अनेक शतसाहस्र कोटिकोटिशतोत्तमैः॥ ६४ ॥
मूलम्
तत्रातिष्ठत्स दैत्येन्द्रस्सर्वदेवभयङ्करः
अनेक शतसाहस्र कोटिकोटिशतोत्तमैः॥ ६४ ॥
विश्वास-प्रस्तुतिः
असुरैरर्चितः श्रीमान्द्वितीयो नमुचिर्यथा
कालेन महता सोऽथ लोकपालपुरं ययौ॥ ६५ ॥
मूलम्
असुरैरर्चितः श्रीमान्द्वितीयो नमुचिर्यथा
कालेन महता सोऽथ लोकपालपुरं ययौ॥ ६५ ॥
विश्वास-प्रस्तुतिः
जिगीषुः सैन्यसंवीतो देवैर्वैरमरोचयत्
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृधेति वेगात्॥ ६६ ॥
मूलम्
जिगीषुः सैन्यसंवीतो देवैर्वैरमरोचयत्
उत्तिष्ठतस्तस्य महासुरस्य समुद्रतोयं ववृधेति वेगात्॥ ६६ ॥
विश्वास-प्रस्तुतिः
अनेक नाग ग्रह मीनजुष्टमाप्लावयत्पर्वतसानुदेशान्
अन्तःस्थितानेकसुरारिसङ्घं विचित्रवर्मायुधचित्रशोभम्॥ ६७ ॥
मूलम्
अनेक नाग ग्रह मीनजुष्टमाप्लावयत्पर्वतसानुदेशान्
अन्तःस्थितानेकसुरारिसङ्घं विचित्रवर्मायुधचित्रशोभम्॥ ६७ ॥
विश्वास-प्रस्तुतिः
भीमं बलं चलितं चारुयोधं विनिर्ययौ सिन्धुजलाद्विशालम्
तत्र द्विपा दैत्यभठाभ्युपेताः सयानघण्टाश्च समृद्धियुक्ताः॥ ६८ ॥
मूलम्
भीमं बलं चलितं चारुयोधं विनिर्ययौ सिन्धुजलाद्विशालम्
तत्र द्विपा दैत्यभठाभ्युपेताः सयानघण्टाश्च समृद्धियुक्ताः॥ ६८ ॥
विश्वास-प्रस्तुतिः
विनिर्ययुः स्वाकृतिभिर्झषाणां समत्वमुच्चैः खलु दर्शयन्तः
अश्वास्तथा काञ्चनसूत्रनद्धा रोहीतमत्स्या इव ते जलान्ते॥ ६९ ॥
मूलम्
विनिर्ययुः स्वाकृतिभिर्झषाणां समत्वमुच्चैः खलु दर्शयन्तः
अश्वास्तथा काञ्चनसूत्रनद्धा रोहीतमत्स्या इव ते जलान्ते॥ ६९ ॥
विश्वास-प्रस्तुतिः
व्यवस्थितास्तैः सममेव तूर्णं विनिर्ययुर्लक्षशः कोटिशश्च
तथा रविस्यन्दनतुल्यवेगाः सचक्रदण्डाक्षतवेणुयुक्ताः॥ ७० ॥
मूलम्
व्यवस्थितास्तैः सममेव तूर्णं विनिर्ययुर्लक्षशः कोटिशश्च
तथा रविस्यन्दनतुल्यवेगाः सचक्रदण्डाक्षतवेणुयुक्ताः॥ ७० ॥
विश्वास-प्रस्तुतिः
रथाश्च यन्त्रोपरिपीडिताङ्गाश्चलत्पताकाः स्वनितं विचक्रुः
तथैव योधाः स्थगितास्तरीभिस्तितीर्षवस्ते प्रवरास्त्रपाणयः॥ ७१ ॥
मूलम्
रथाश्च यन्त्रोपरिपीडिताङ्गाश्चलत्पताकाः स्वनितं विचक्रुः
तथैव योधाः स्थगितास्तरीभिस्तितीर्षवस्ते प्रवरास्त्रपाणयः॥ ७१ ॥
विश्वास-प्रस्तुतिः
रणेरणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशं
देवेषु वै रणे तेषु विद्रुतेषु विशेषतः॥ ७२ ॥
मूलम्
रणेरणे लब्धजयाः प्रहारिणो विरेजुरुच्चैरसुरानुगा भृशं
देवेषु वै रणे तेषु विद्रुतेषु विशेषतः॥ ७२ ॥
विश्वास-प्रस्तुतिः
असुरास्सर्वदेवानामन्वधावंस्ततस्ततः
ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः॥ ७३ ॥
मूलम्
असुरास्सर्वदेवानामन्वधावंस्ततस्ततः
ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः॥ ७३ ॥
विश्वास-प्रस्तुतिः
नीलं गिरिवरं जग्मुर्यत्र देवी स्वयं स्थिता
रौद्री तपोन्विता धन्या शाम्भवी शक्तिरुत्तमा॥ ७४ ॥
मूलम्
नीलं गिरिवरं जग्मुर्यत्र देवी स्वयं स्थिता
रौद्री तपोन्विता धन्या शाम्भवी शक्तिरुत्तमा॥ ७४ ॥
विश्वास-प्रस्तुतिः
संहारकारिणी देवी कालरात्रीति यां विदुः
सा तु दृष्ट्वा तदा देवान्भयत्रस्तान्विचेतसः॥ ७५ ॥
मूलम्
संहारकारिणी देवी कालरात्रीति यां विदुः
सा तु दृष्ट्वा तदा देवान्भयत्रस्तान्विचेतसः॥ ७५ ॥
विश्वास-प्रस्तुतिः
पप्रच्छ विस्मयाद्देवी प्रोत्फुल्लाम्बुजलोचना
पृष्ठतो वो न पश्यामि भयं किञ्चिदुपागतम्॥ ७६ ॥
मूलम्
पप्रच्छ विस्मयाद्देवी प्रोत्फुल्लाम्बुजलोचना
पृष्ठतो वो न पश्यामि भयं किञ्चिदुपागतम्॥ ७६ ॥
विश्वास-प्रस्तुतिः
कथं तु विद्रुता देवाः सर्वे शक्रपुरःसराः
देवा ऊचुः
अयमायाति दैत्येन्द्रो रुरुर्भीमपराक्रमः॥ ७७ ॥
मूलम्
कथं तु विद्रुता देवाः सर्वे शक्रपुरःसराः
देवा ऊचुः
अयमायाति दैत्येन्द्रो रुरुर्भीमपराक्रमः॥ ७७ ॥
विश्वास-प्रस्तुतिः
चतुरङ्गेण सैन्येन महता परिवारितः
तस्माद्दीना वयं देवीं भवतीं शरणं गताः॥ ७८ ॥
मूलम्
चतुरङ्गेण सैन्येन महता परिवारितः
तस्माद्दीना वयं देवीं भवतीं शरणं गताः॥ ७८ ॥
विश्वास-प्रस्तुतिः
देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहास सा
तस्यां हसन्त्यां निश्चेरुर्वराङ्ग्यो वदनात्ततः॥ ७९ ॥
मूलम्
देवानामिति वै श्रुत्वा वाक्यमुच्चैर्जहास सा
तस्यां हसन्त्यां निश्चेरुर्वराङ्ग्यो वदनात्ततः॥ ७९ ॥
विश्वास-प्रस्तुतिः
पाशाङ्कुशधराः सर्वाः पीनोन्नतपयोधराः
सर्वाश्शूलधरा भीमाः सर्वा दंष्ट्राङ्कुशाननाः॥ ८० ॥
मूलम्
पाशाङ्कुशधराः सर्वाः पीनोन्नतपयोधराः
सर्वाश्शूलधरा भीमाः सर्वा दंष्ट्राङ्कुशाननाः॥ ८० ॥
विश्वास-प्रस्तुतिः
आबद्धमकुटाः सर्वाः सन्दष्टदशनच्छदाः
फूत्काररावैरशिवैस्त्रासयन्त्यश्चराचरम्॥ ८१ ॥
मूलम्
आबद्धमकुटाः सर्वाः सन्दष्टदशनच्छदाः
फूत्काररावैरशिवैस्त्रासयन्त्यश्चराचरम्॥ ८१ ॥
विश्वास-प्रस्तुतिः
काश्चिच्छुक्लाम्बरधराः काश्चिच्चित्राम्बरास्तथा
सुनीलवसनाः काश्चिद्रक्तपानातिलालसाः॥ ८२ ॥
मूलम्
काश्चिच्छुक्लाम्बरधराः काश्चिच्चित्राम्बरास्तथा
सुनीलवसनाः काश्चिद्रक्तपानातिलालसाः॥ ८२ ॥
विश्वास-प्रस्तुतिः
नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः
ताभिरेवं वृता देवी देवानामभयङ्करी॥ ८३ ॥
मूलम्
नानारूपैर्मुखैस्तास्तु नानावेषवपुर्धराः
ताभिरेवं वृता देवी देवानामभयङ्करी॥ ८३ ॥
विश्वास-प्रस्तुतिः
मा भैष्ट देवा भद्रं वो यावद्वदति दानवः
चतुरङ्गबलोपेतो रुरुस्तावत्समागतः॥ ८४ ॥
मूलम्
मा भैष्ट देवा भद्रं वो यावद्वदति दानवः
चतुरङ्गबलोपेतो रुरुस्तावत्समागतः॥ ८४ ॥
विश्वास-प्रस्तुतिः
तं नीलपर्वतवरं देवानां मार्गमार्गणः
देवानामग्रतः सैन्यं दृष्ट्वा देवी समाकुलम्॥ ८५ ॥
मूलम्
तं नीलपर्वतवरं देवानां मार्गमार्गणः
देवानामग्रतः सैन्यं दृष्ट्वा देवी समाकुलम्॥ ८५ ॥
विश्वास-प्रस्तुतिः
तिष्ठतिष्ठेति जल्पन्तो दैत्यास्ते समुपागताः
ततः प्रववृते युद्धं तासां तेषां महाभयम्॥ ८६ ॥
मूलम्
तिष्ठतिष्ठेति जल्पन्तो दैत्यास्ते समुपागताः
ततः प्रववृते युद्धं तासां तेषां महाभयम्॥ ८६ ॥
विश्वास-प्रस्तुतिः
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां
रोषाद्दण्डप्रभग्नानां सर्पाणामिव सर्पताम्॥ ८७ ॥
मूलम्
नाराचैर्भिन्नदेहानां दैत्यानां भुवि सर्पतां
रोषाद्दण्डप्रभग्नानां सर्पाणामिव सर्पताम्॥ ८७ ॥
विश्वास-प्रस्तुतिः
शक्तिनिर्भिन्नहृदया गदासञ्चूर्णितोरसः
कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः॥ ८८ ॥
मूलम्
शक्तिनिर्भिन्नहृदया गदासञ्चूर्णितोरसः
कुठारैर्भिन्नशिरसो मुसलैर्भिन्नमस्तकाः॥ ८८ ॥
विश्वास-प्रस्तुतिः
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः
क्षताश्वरथमातङ्गपादाताः पेतुराहवे॥ ८९ ॥
मूलम्
विद्धोदरास्त्रिशूलाग्रैश्छिन्नग्रीवा वरासिभिः
क्षताश्वरथमातङ्गपादाताः पेतुराहवे॥ ८९ ॥
विश्वास-प्रस्तुतिः
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना
ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे॥ ९० ॥
मूलम्
रणभूमिं समासाद्य दैत्याः सर्वे रुरुं विना
ततो बलं हतं दृष्ट्वा रुरुर्मायां तदाददे॥ ९० ॥
विश्वास-प्रस्तुतिः
तया सम्मोहिता देव्यो देवाश्चापि रणाजिरे
तामस्या मायया देव्या सर्वमन्धन्तमोभवत्॥ ९१ ॥
मूलम्
तया सम्मोहिता देव्यो देवाश्चापि रणाजिरे
तामस्या मायया देव्या सर्वमन्धन्तमोभवत्॥ ९१ ॥
विश्वास-प्रस्तुतिः
ततो देवी महाशक्या तं दैत्यं समताडयत्
तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः॥ ९२ ॥
मूलम्
ततो देवी महाशक्या तं दैत्यं समताडयत्
तया तु ताडितस्याजौ दैत्यस्य प्रगतं तमः॥ ९२ ॥
विश्वास-प्रस्तुतिः
मायायामथ नष्टायां तामस्यां दानवो रुरुः
पातालमाविशत्तूर्णं तत्रापि परमेश्वरी॥ ९३ ॥
मूलम्
मायायामथ नष्टायां तामस्यां दानवो रुरुः
पातालमाविशत्तूर्णं तत्रापि परमेश्वरी॥ ९३ ॥
विश्वास-प्रस्तुतिः
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता
रुरोस्तु दानवेन्द्रस्य भीतस्याग्रे गतस्य च॥ ९४ ॥
मूलम्
देवीभिः सहिता क्रुद्धा पुरतोभिमुखी स्थिता
रुरोस्तु दानवेन्द्रस्य भीतस्याग्रे गतस्य च॥ ९४ ॥
विश्वास-प्रस्तुतिः
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता
निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम्॥ ९५ ॥
मूलम्
नखाग्रेण शिरश्छित्वा चर्म चादाय वेगिता
निष्पपाताथ पातालात्पुष्करं च पुनर्गिरिम्॥ ९५ ॥
विश्वास-प्रस्तुतिः
कन्या सैन्येन महता बहुरूपेण भास्वता
देवैस्तुविस्मितैर्दृष्टा चर्ममुण्डधरा रुरोः॥ ९६ ॥
मूलम्
कन्या सैन्येन महता बहुरूपेण भास्वता
देवैस्तुविस्मितैर्दृष्टा चर्ममुण्डधरा रुरोः॥ ९६ ॥
विश्वास-प्रस्तुतिः
स्वकीये तपसः स्थाने निविष्टा परमेश्वरी
ततो देव्यो महाभागाः परिवार्य व्यवस्थिताः॥ ९७ ॥
मूलम्
स्वकीये तपसः स्थाने निविष्टा परमेश्वरी
ततो देव्यो महाभागाः परिवार्य व्यवस्थिताः॥ ९७ ॥
विश्वास-प्रस्तुतिः
याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः
बुभुक्षिता वयं देवि देहि नो भोजनं वरम्॥ ९८ ॥
मूलम्
याचयामासुरव्यग्रास्तां तु देवीं बुभुक्षिताः
बुभुक्षिता वयं देवि देहि नो भोजनं वरम्॥ ९८ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनम्
नाध्यगच्छत्तदा तासां भोजनं चिन्तितम्महत्॥ ९९ ॥
मूलम्
एवमुक्त्वा ततो देवी दध्यौ तासां तु भोजनम्
नाध्यगच्छत्तदा तासां भोजनं चिन्तितम्महत्॥ ९९ ॥
तदा दध्यौ महादेवं रुद्रं पशुपतिं विभुम्
सोपि ध्यानात्समुत्तस्थौ परमात्मा त्रिलोचनः1.31.१००
उवाच रुद्रस्तां देवीं किं ते कार्यं विवक्षितम्
ब्रूहि देवि महामाये यत्ते मनसि वर्तते१०१
शिवदूत्युवाच
छागमध्ये तु वै देव छागरूपेण वर्तसे
एतास्त्वां भक्षयिष्यन्ति भक्ष्यमीप्सितमादरात्१०२
भक्षार्थमासां देवेश किञ्चिद्दातुमिहार्हसि
शूलीकुर्वन्ति मामेता भक्षार्थिन्यो महाबलाः१०३
अन्यथा मामपि बलाद्भक्षयेयुर्बुभुक्षिताः
एवं मां तु समालक्ष्य भक्ष्यं कल्पय सत्वरम्१०४
रुद्र उवाच
शिवदूति ब्रवीम्येकं प्रवृत्तं यद्युगान्तरे
गङ्गाद्वारे दक्षयज्ञो गणैर्विध्वंसितो मम१०५
तत्र यज्ञो मृगो भूत्वा प्रदुद्राव सुवेगवान्
मया बाणेन निर्विद्धो रुधिरेण प्रसेचितः१०६
अजगन्धस्तदा भूतो नाम देवैस्तु मे कृतम्
अजगन्धस्त्वमेवेति दास्ये चान्यत्तु भोजनम्१०७
एतासां शृणु मे देवि भक्ष्यमेकं मयोचितम्
कथ्यमानं वरारोहे कालरात्रि महाप्रभे१०८
या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम्
परिधत्ते स्पृशेद्वापि पुरुषस्य विशेषतः१०९
सभागोस्तु वरारोहे कासाञ्चित्पृथिवीतले
अप्येकवर्षं बालं तु गृहीत्वा तत्र वै बलात्११०
भुक्त्वा तिष्ठन्तु सुप्रीता अपि वर्षशतान्बहून्
अन्याः सूतिगृहे च्छिद्रं गृह्णीयुस्तु ह्यपूजिताः१११
निवसिष्यन्ति देवेशि तथा वै जातहारिकाः
गृहे क्षेत्रे तटाके च वाप्युद्यानेषु चैव हि११२
अत्येषु च रुदन्त्यो या स्त्रियस्तिष्ठन्ति नित्यशः
तासां शरीरगाश्चान्याः काश्चित्तृप्तिमवाप्नुयुः११३
शिवदूत्य उवाच
कुत्सितं भवता दत्तं प्रजानां परिपीडनम्
न च त्वं बुध्यसे दातुं शङ्कररस्य विशेषतः११४
त्रपाकरं यद्भवति प्रजानां परिपीडकम्
न तु तद्युज्यते दातुं तासां भक्ष्यं तु शङ्कर११५
रुद्र उवाच
अवन्त्यां तु यदा स्कन्दो मया पूर्वं तु भद्रितः
चूडाकर्मणि वृत्ते तु कुमारस्य तदा शुभे११६
आगत्य मातरो भक्ष्यमपूर्वं तु प्रचक्रिरे
देवलोकाद्देवगणा मातॄणां भोक्तुमागताः११७
तासां गृहे यदा पूर्वं ब्रह्माद्यास्सुरसत्तमाः
गन्धर्वाप्सरसश्चैव यक्षास्सर्वे च गुह्यकाः११८
मेर्वादयः शिखरिणो गङ्गाद्याः सरितस्तथा
सर्वे नागा गजास्सिद्धाः पक्षिणोऽसुरसूदनाः११९
डाकिन्यः सह वेतालैर्वृताः सर्वैर्ग्रहैस्तदा
किमुक्तेनामुना देवि यत्सृष्टं ब्रह्मणा त्विह१२०
तत्सर्वं भोजनं दत्तं स्वेच्छान्नं च नभोगतं
शिवदूत्युवाच
आसां कृतं देहि भोज्यं दुर्लभं यत्त्रिविष्टपे१२१
स्नेहाक्तं सगुडं हृद्यं सुपक्वं परिकल्पितम्
क्वचिन्नान्येन यद्भुक्तमपूर्वं परमेश्वर१२२
एवमुक्तस्तदा सोपि देवदेवो महेश्वरः
भक्ष्यार्थं तास्तदा प्राह पार्वत्याश्चैव सन्निधौ१२३
मया वै साधितं चान्नं प्रकारैर्बहुभिः कृतं
तत्सर्वं च व्ययं यातं न चान्यदिह दृश्यते१२४
भवतीष्वागतास्वद्य किं मया देयमुच्यताम्
अपूर्वं भवतीनां यन्मया देयं विशेषतः१२५
अस्वादितं न चान्येन भक्ष्यार्थे च ददाम्यहम्
अधोभागे च मे नाभेर्वर्तुलौ फलसन्निभौ१२६
भक्षयध्वं हि सहिता लम्बौ मे वृषणाविमौ
अनेन चापि भोज्येन परा तृप्तिर्भविष्यति१२७
महाप्रसादं ता लब्ध्वा देव्यस्सर्वास्तदा शिवम्
प्रणिपत्य स्थिताश्शर्व इदं वचनमब्रवीत्१२८
करिष्यन्ति शुभाचारान्विना हास्येन ये नराः
तेषां धनं पशुः पुत्रा दाराश्चैव गृहादिकम्१२९
भविष्यति मया दत्तं यच्चान्यन्मनसि स्थितम्
हास्येन दीर्घदशना दरिद्राश्च भवन्ति ते१३०
तस्मान्न निन्दा हास्यं च कर्तव्यं हि विजानता
भवत्यो मातरः ख्याता ह्यस्मिन्लोके भविष्यथ१३१
उपहारे नरा ये तु करिष्यन्ति च कौमुदीम्
चणकान्पूरिकाश्चैव वृषणैः सह पूपकान्१३२
बन्धुभिः स्वजनैश्चैव तेषां वंशो न छिद्यते
अपुत्रो लभते पुत्रं धनार्थी लभते धनम्१३३
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः
हंसयुक्तेन यानेन ब्रह्म लोके महीयते१३४
शिवदूति मयाप्येवं तासां दत्तं च भक्षणम्
त्रपाकरं किं भवत्या उक्तोहं तन्निशामय१३५
जयस्व देवि चामुण्डे जय भूतापहारिणि
जय सर्वगते देवि कालरात्रि नमोस्तु ते१३६
विश्वमूर्तियुते शुद्धे विरूपाक्षि त्रिलोचने
भीमरूपे शिवे विद्ये महामाये महोदरे१३७
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये
महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे१३८
विकरालि महाकालि कालिके पापहारिणि
पाशहस्ते दण्डहस्ते भीमहस्ते भयानके१३९
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले
शिवयानप्रिये देवि प्रेतासनगते शिवे१४०
भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि
करालि विकराले च महाकालि करालिनि१४१
कालिकरालविक्रान्ते कालरात्रि नमोस्तु ते
सर्वशस्त्रभृते देवि नमो देवनमस्कृते१४२
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना
तुतोष परमा देवी वाक्यं चैवमुवाच ह१४३
वरं वृणीष्व देवेश यत्ते मनसि वर्तते
रुद्र उवाच
स्तोत्रेणानेन ये देवि स्तोष्यन्ति त्त्वां वरानने१४४
तेषां त्वं वरदा देवि भव सर्वगता सती
इमं पर्वतमारुह्य यः पूजयति भक्तितः१४५
स पुत्रपौत्रपशुमान्समृद्धिमुपगच्छतु
यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवं१४६
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः१४७
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम
संवत्सरेण लभतां राज्यं निष्कण्टकं पुनः१४८
एषा ज्ञानान्विता शक्तिः शिवदूतीति चोच्यते
य एवं शृणुयान्नित्यं भक्त्या परमया नृप१४९
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात्
यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले1.31.१५०
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते
यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव१५१
न तत्राग्निभयं घोरं सर्वचोरादिसम्भवं
यश्चेदं पूजयेद्भक्त्या पुस्तकेपि स्थितं बुधाः१५२
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरं
जायन्ते बहवः पुत्रा धनं धान्यं वरस्त्रियः१५३
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च
यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत्१५४
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे शिवदूतीचरितं नाम एकत्रिंशोऽध्यायः३१