एकोनत्रिंशोऽध्यायः
विश्वास-प्रस्तुतिः
पुलस्त्यउवाच
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्
सौभाग्यशयनन्नाम यत्पुराणविदो विदुः॥ १ ॥
मूलम्
पुलस्त्यउवाच
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम्
सौभाग्यशयनन्नाम यत्पुराणविदो विदुः॥ १ ॥
विश्वास-प्रस्तुतिः
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा॥ २ ॥
मूलम्
पुरा दग्धेषु लोकेषु भूर्भुवः स्वर्महादिषु
सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा॥ २ ॥
विश्वास-प्रस्तुतिः
वैकुण्ठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्
ततः कालेन कियता पुनः सर्गविधौ नृपः॥ ३ ॥
मूलम्
वैकुण्ठं सर्वमासाद्य विष्णोर्वक्षस्थले स्थितम्
ततः कालेन कियता पुनः सर्गविधौ नृपः॥ ३ ॥
विश्वास-प्रस्तुतिः
अहङ्कारवृतेलोके प्रधानपुरुषान्विते
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः॥ ४ ॥
मूलम्
अहङ्कारवृतेलोके प्रधानपुरुषान्विते
स्पर्द्धायां च प्रवृद्धायां कमलासनकृष्णयोः॥ ४ ॥
विश्वास-प्रस्तुतिः
पिङ्गाकारा समुद्भूता वह्निज्वालातिभीषणा
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्॥ ५ ॥
मूलम्
पिङ्गाकारा समुद्भूता वह्निज्वालातिभीषणा
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम्॥ ५ ॥
विश्वास-प्रस्तुतिः
यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्
रसरूपं न तद्यावदाप्नोति वसुधातले॥ ६ ॥
मूलम्
यद्वक्षःस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम्
रसरूपं न तद्यावदाप्नोति वसुधातले॥ ६ ॥
विश्वास-प्रस्तुतिः
उत्क्षिप्तमन्तरिक्षात्तु ब्रह्मपुत्रेण धीमता
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्॥ ७ ॥
मूलम्
उत्क्षिप्तमन्तरिक्षात्तु ब्रह्मपुत्रेण धीमता
दक्षेण पीतमात्रं तद्रूपलावण्यकारकम्॥ ७ ॥
विश्वास-प्रस्तुतिः
बलन्तेजोमहज्जातं दक्षस्य परमेष्ठिनः
शेषं यदपतद्भूमावष्टधा तद्व्यजायत॥ ८ ॥
मूलम्
बलन्तेजोमहज्जातं दक्षस्य परमेष्ठिनः
शेषं यदपतद्भूमावष्टधा तद्व्यजायत॥ ८ ॥
विश्वास-प्रस्तुतिः
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्॥ ९ ॥
मूलम्
ततस्त्वोषधयो जाताः सप्त सौभाग्यदायिकाः
इक्षवस्तरुराजश्च निष्पवावश्शालिधान्यकम्॥ ९ ॥
विश्वास-प्रस्तुतिः
विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते॥ १० ॥
मूलम्
विकारवच्च गोक्षीरं कुसुम्भं कुसुमं तथा
लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते॥ १० ॥
विश्वास-प्रस्तुतिः
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते॥ ११ ॥
मूलम्
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुरा
दुहिता साभवत्तस्माद्या सतीत्यभिधीयते॥ ११ ॥
विश्वास-प्रस्तुतिः
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते
त्रैलोक्यसुन्दरीं देवीमुपयेमे पिनाकधृत्॥ १२ ॥
मूलम्
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते
त्रैलोक्यसुन्दरीं देवीमुपयेमे पिनाकधृत्॥ १२ ॥
विश्वास-प्रस्तुतिः
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्
तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति॥ १३ ॥
मूलम्
त्रिविश्वसौभाग्यमयीं भुक्तिमुक्तिफलप्रदाम्
तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति॥ १३ ॥
विश्वास-प्रस्तुतिः
भीष्म उवाच
कथमाराधनं तस्या ललिताया मुने वद
यद्विधानं च जगतः शान्तये तद्वदस्व मे॥ १४ ॥
मूलम्
भीष्म उवाच
कथमाराधनं तस्या ललिताया मुने वद
यद्विधानं च जगतः शान्तये तद्वदस्व मे॥ १४ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
वसन्तमासमासाद्य तृतीयायां जनप्रियः
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्॥ १५ ॥
मूलम्
पुलस्त्य उवाच
वसन्तमासमासाद्य तृतीयायां जनप्रियः
शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत्॥ १५ ॥
विश्वास-प्रस्तुतिः
तस्मिन्नहनि सा देवी किल विश्वात्मना सती
पाणिग्रहणिकैर्मन्त्रैरुदूढा वरवर्णिनी॥ १६ ॥
मूलम्
तस्मिन्नहनि सा देवी किल विश्वात्मना सती
पाणिग्रहणिकैर्मन्त्रैरुदूढा वरवर्णिनी॥ १६ ॥
विश्वास-प्रस्तुतिः
तया सहैव विश्वेशं तृतीयायामथार्चयेत्
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः॥ १७ ॥
मूलम्
तया सहैव विश्वेशं तृतीयायामथार्चयेत्
फलैर्नानाविधैर्दीपैर्धूपैर्नैवेद्यसंयुतैः॥ १७ ॥
विश्वास-प्रस्तुतिः
प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च
स्नापयित्वार्चयेद्गौरीमिन्दुशेखरसंयुताम्॥ १८ ॥
मूलम्
प्रतिमां पञ्चगव्येन तथा गन्धोदकेन च
स्नापयित्वार्चयेद्गौरीमिन्दुशेखरसंयुताम्॥ १८ ॥
विश्वास-प्रस्तुतिः
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्द्वयोः॥ १९ ॥
मूलम्
नमोस्तु पाटलायै तु पादौ देव्याः शिवस्य च
शिवायेति च सङ्कीर्त्य जयायै गुल्फयोर्द्वयोः॥ १९ ॥
विश्वास-प्रस्तुतिः
त्र्यम्बकायेति रुद्रस्य भवान्यै जङ्घयोर्युगम्
शिरो रुद्रेश्वरायेति विजयायै च जानुनी॥ २० ॥
मूलम्
त्र्यम्बकायेति रुद्रस्य भवान्यै जङ्घयोर्युगम्
शिरो रुद्रेश्वरायेति विजयायै च जानुनी॥ २० ॥
विश्वास-प्रस्तुतिः
सङ्कीर्त्य हरिकेशाय तथोरुवरदे नमः
ईशायेति कटिं रत्यै शङ्करायेति शङ्करम्॥ २१ ॥
मूलम्
सङ्कीर्त्य हरिकेशाय तथोरुवरदे नमः
ईशायेति कटिं रत्यै शङ्करायेति शङ्करम्॥ २१ ॥
विश्वास-प्रस्तुतिः
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये
मङ्गलायै नमस्तुभ्यमुदरं चाभिभूजयेत्॥ २२ ॥
मूलम्
कुक्षिद्वयं च कोटव्यै शूलिनं शूलपाणये
मङ्गलायै नमस्तुभ्यमुदरं चाभिभूजयेत्॥ २२ ॥
विश्वास-प्रस्तुतिः
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्
शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेत्॥ २३ ॥
मूलम्
सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम्
शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेत्॥ २३ ॥
विश्वास-प्रस्तुतिः
त्रिपुरघ्नाय विश्वेशमनन्तायै करद्वयम्
त्रिलोचनायेति हरं बाहू कालानलप्रिये॥ २४ ॥
मूलम्
त्रिपुरघ्नाय विश्वेशमनन्तायै करद्वयम्
त्रिलोचनायेति हरं बाहू कालानलप्रिये॥ २४ ॥
विश्वास-प्रस्तुतिः
सौभाग्यभवनायेति भूषणानि सदार्चयेत्
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्॥ २५ ॥
मूलम्
सौभाग्यभवनायेति भूषणानि सदार्चयेत्
स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम्॥ २५ ॥
विश्वास-प्रस्तुतिः
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ
स्थाणवे च हरं तद्वदास्यं चन्द्रमुखप्रिये॥ २६ ॥
मूलम्
अशोकवनवासिन्यै पूज्यावोष्ठौ च भूतिदौ
स्थाणवे च हरं तद्वदास्यं चन्द्रमुखप्रिये॥ २६ ॥
विश्वास-प्रस्तुतिः
नमोर्धनारीशहरमसिताङ्गीति नासिकाम्
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ॥ २७ ॥
मूलम्
नमोर्धनारीशहरमसिताङ्गीति नासिकाम्
नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ॥ २७ ॥
विश्वास-प्रस्तुतिः
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्
नमः श्रीकण्ठनाथाय शिवकेशांस्तथार्चयेत्॥ २८ ॥
मूलम्
शर्वाय पुरहर्त्तारं वासुदेव्यै तथालकम्
नमः श्रीकण्ठनाथाय शिवकेशांस्तथार्चयेत्॥ २८ ॥
विश्वास-प्रस्तुतिः
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः॥ २९ ॥
मूलम्
भीमोग्रभीमरूपिण्यै शिरः सर्वात्मने नमः
हरमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः॥ २९ ॥
विश्वास-प्रस्तुतिः
स्थापयेत्स्निग्धनिष्पावान्कुसुम्भक्षीरजीरकम्
तरुराजेक्षुलवणं कुस्तुम्बुरुमथाष्टमम्॥ ३० ॥
मूलम्
स्थापयेत्स्निग्धनिष्पावान्कुसुम्भक्षीरजीरकम्
तरुराजेक्षुलवणं कुस्तुम्बुरुमथाष्टमम्॥ ३० ॥
विश्वास-प्रस्तुतिः
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत
एवन्निवेद्य तत्सर्वमग्रतः शिवयोः पुनः॥ ३१ ॥
मूलम्
दद्यात्सौभाग्यकृद्यस्मात्सौभाग्याष्टकमित्युत
एवन्निवेद्य तत्सर्वमग्रतः शिवयोः पुनः॥ ३१ ॥
विश्वास-प्रस्तुतिः
चैत्रे शृङ्गाटकान्प्राश्य स्वपेद्भूमावरिन्दम
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः॥ ३२ ॥
मूलम्
चैत्रे शृङ्गाटकान्प्राश्य स्वपेद्भूमावरिन्दम
पुनः प्रभाते च तथा कृतस्नानजपः शुचिः॥ ३२ ॥
विश्वास-प्रस्तुतिः
सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रं विभूषणैः
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्॥ ३३ ॥
मूलम्
सम्पूज्य द्विजदाम्पत्यं माल्यवस्त्रं विभूषणैः
सौभाग्याष्टकसंयुक्त सौवर्णं प्रतिमाद्वयम्॥ ३३ ॥
विश्वास-प्रस्तुतिः
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्
एवं संवत्सरं यावत्तृतीयायां सदा नृप॥ ३४ ॥
मूलम्
प्रीयतां मेत्र ललिता ब्राह्मणाय निवेदयेत्
एवं संवत्सरं यावत्तृतीयायां सदा नृप॥ ३४ ॥
विश्वास-प्रस्तुतिः
प्राशने दानमन्त्रे च विशेषोयं निबोध मे
गोशृङ्गाम्बु मधौ प्रोक्तं वैशाखे गोमयं पुनः॥ ३५ ॥
मूलम्
प्राशने दानमन्त्रे च विशेषोयं निबोध मे
गोशृङ्गाम्बु मधौ प्रोक्तं वैशाखे गोमयं पुनः॥ ३५ ॥
विश्वास-प्रस्तुतिः
ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतम्
श्रावणे दधिसम्प्राश्यं नभस्ये तु कुशोदकम्॥ ३६ ॥
मूलम्
ज्येष्ठे मन्दारकुसुमं बिल्वपत्रं शुचौ स्मृतम्
श्रावणे दधिसम्प्राश्यं नभस्ये तु कुशोदकम्॥ ३६ ॥
विश्वास-प्रस्तुतिः
क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्
मार्गशीर्षे तु गोमूत्रं पौषे सम्प्राशयेद्घृतम्॥ ३७ ॥
मूलम्
क्षीरं चाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्
मार्गशीर्षे तु गोमूत्रं पौषे सम्प्राशयेद्घृतम्॥ ३७ ॥
विश्वास-प्रस्तुतिः
माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने
ललिता विजया भद्रा भवानी कुमुदा शिवा॥ ३८ ॥
मूलम्
माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने
ललिता विजया भद्रा भवानी कुमुदा शिवा॥ ३८ ॥
विश्वास-प्रस्तुतिः
वासुदेवी तथा गौरी मङ्गला कमला सती
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्॥ ३९ ॥
मूलम्
वासुदेवी तथा गौरी मङ्गला कमला सती
उमा च दानकाले तु प्रीयतामिति कीर्त्तयेत्॥ ३९ ॥
विश्वास-प्रस्तुतिः
तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्॥ ४० ॥
मूलम्
तस्मिंस्तु द्वादशे मासि द्वादश्यां कृष्णमर्चयेत्
तथा लक्ष्मीं च तत्रैव भर्त्रा सार्धमथार्चयेत्॥ ४० ॥
विश्वास-प्रस्तुतिः
पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः
उपासनीयो विदुषा परत्रा भीतिमिच्छता॥ ४१ ॥
मूलम्
पौर्णमास्यामतस्तद्वत्सपत्नीकः पितामहः
उपासनीयो विदुषा परत्रा भीतिमिच्छता॥ ४१ ॥
विश्वास-प्रस्तुतिः
सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता
मल्लिकाशोककमलं कदम्बोत्पलचम्पकम्॥ ४२ ॥
मूलम्
सौभाग्याष्टकं तद्वच्च दातव्यं भूतिमिच्छता
मल्लिकाशोककमलं कदम्बोत्पलचम्पकम्॥ ४२ ॥
विश्वास-प्रस्तुतिः
कुब्जकं करवीरं च बाणमम्लानपङ्कजम्
सिन्दुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्॥ ४३ ॥
मूलम्
कुब्जकं करवीरं च बाणमम्लानपङ्कजम्
सिन्दुवारं च सर्वेषु मासेषु कुसुमं स्मृतम्॥ ४३ ॥
विश्वास-प्रस्तुतिः
जपाकुसुम्भकुसुमं मालती शतपत्रिका
यथालाभं प्रशस्तानि करवीरं च सर्वदा॥ ४४ ॥
मूलम्
जपाकुसुम्भकुसुमं मालती शतपत्रिका
यथालाभं प्रशस्तानि करवीरं च सर्वदा॥ ४४ ॥
विश्वास-प्रस्तुतिः
एवं संवत्सरं यावदुपोष्य विधिवन्नरः
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः॥ ४५ ॥
मूलम्
एवं संवत्सरं यावदुपोष्य विधिवन्नरः
स्त्री च नक्तं कुमारी च शिवमभ्यर्च्य भक्तितः॥ ४५ ॥
विश्वास-प्रस्तुतिः
व्रतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरौ हैमौ वृषभं च गवा सह॥ ४६ ॥
मूलम्
व्रतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम्
उमामहेश्वरौ हैमौ वृषभं च गवा सह॥ ४६ ॥
विश्वास-प्रस्तुतिः
स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्॥ ४७ ॥
मूलम्
स्थापयित्वा च शयनं ब्राह्मणाय निवेदयेत्
द्वादश्यां वत्सरं त्वेकं महालक्ष्म्या च केशवम्॥ ४७ ॥
विश्वास-प्रस्तुतिः
ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह
सर्वान्कामानवाप्नोति मनसा समभीप्सितान्॥ ४८ ॥
मूलम्
ब्रह्माणं सह सावित्र्या पूजयित्वा नरस्त्विह
सर्वान्कामानवाप्नोति मनसा समभीप्सितान्॥ ४८ ॥
विश्वास-प्रस्तुतिः
अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः॥ ४९ ॥
मूलम्
अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः
धान्यालङ्कारगोदानैरन्यैश्च धनसञ्चयैः॥ ४९ ॥
विश्वास-प्रस्तुतिः
वित्तशाठयेन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.॥ ५० ॥
मूलम्
वित्तशाठयेन रहितः पूजयेद्गतविस्मयः
एवं करोति यः सम्यक्सौभाग्यशयनव्रतम्1.29.॥ ५० ॥
विश्वास-प्रस्तुतिः
सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्॥ ५१ ॥
मूलम्
सर्वान्कामानवाप्नोति पदं वा नित्यमश्नुते
फलस्यैकस्य च त्यागमेतत्कुर्वन्समाचरेत्॥ ५१ ॥
विश्वास-प्रस्तुतिः
यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप
सौभाग्यारोग्यरूपैश्च वस्त्रालङ्कारभूषणैः॥ ५२ ॥
मूलम्
यशः कीर्तिमवाप्नोति प्रतिमासं नराधिप
सौभाग्यारोग्यरूपैश्च वस्त्रालङ्कारभूषणैः॥ ५२ ॥
विश्वास-प्रस्तुतिः
न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्॥ ५३ ॥
मूलम्
न वियुक्तो भवेद्राजन्सौभाग्यशयनप्रदः
यस्तु द्वादशवर्षाणि सौभाग्यशयनव्रतम्॥ ५३ ॥
विश्वास-प्रस्तुतिः
करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः॥ ५४ ॥
मूलम्
करोति सप्त चाष्टौ वा ब्रह्मलोके महीयते
पूज्यमानो वसेत्सम्यक्यावत्कल्पायुतं नरः॥ ५४ ॥
विश्वास-प्रस्तुतिः
विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा
नारी वा कुरुते या तु कुमारी वा नरेश्वर॥ ५५ ॥
मूलम्
विष्णोर्लोकमथासाद्य शिवलोकगतस्तथा
नारी वा कुरुते या तु कुमारी वा नरेश्वर॥ ५५ ॥
विश्वास-प्रस्तुतिः
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्॥ ५६ ॥
मूलम्
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
शृणुयादपि यश्चैव प्रदद्यादथवा मतिम्॥ ५६ ॥
विश्वास-प्रस्तुतिः
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्॥ ५७ ॥
मूलम्
सोपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत्
इदमिह मदनेन पूर्वसृष्टं शतधनुषा च कृतं नरेण तद्वत्॥ ५७ ॥
विश्वास-प्रस्तुतिः
कृतमथ पवनेन नन्दिना च किमु जननाथमहाद्भुतं न वा स्यात्॥ ५८ ॥
मूलम्
कृतमथ पवनेन नन्दिना च किमु जननाथमहाद्भुतं न वा स्यात्॥ ५८ ॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे व्रताध्यायोनाम एकोनत्रिंशोऽध्यायः२९