भीष्म उवाच
विश्वास-प्रस्तुतिः
पादपानां विधिं ब्रह्मन्यथावद्विस्तराद्वद
विधिना येन कर्त्तव्यं पादपारोपणं बुधैः॥ १ ॥
मूलम्

ये च लोकाः स्मृता येषां तानिदानीं वदस्व मे
पुलस्त्य उवाच
पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु॥ २ ॥

तटाकविधिवत्सर्वं समाप्य जगतीश्वर
ऋत्विङ्मण्डपसम्भारमाचार्यं चापि तद्विधं॥ ३ ॥

पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः
सर्वौषध्युदकैः सिक्तान्दध्यक्षतविभूषितान्॥ ४ ॥

वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत्
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनं॥ ५ ॥

अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्॥ ६ ॥

प्रत्येकं सर्ववृक्षाणां वेद्यान्तान्यधिवासयेत्
धूपोत्र गुग्गुलुः श्रेष्ठस्ताम्रपात्रेष्वधिष्ठितान्॥ ७ ॥

सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः
कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वावनीश्वर॥ ८ ॥

पूजयित्वा दिनान्ते च कृत्वा बलिनिवेदनम्
यथावल्लोकपालानामिन्द्रादीनां विधानतः॥ ९ ॥

वनस्पतेरधिवास एवं कार्यो द्विजातिभिः
ततः शुक्लाम्बरधरान्सौवर्णकृतमेखलान्॥ १० ॥

सकांस्यदोहां सौवर्णशृङ्गाभ्यामतिशालिनीं
पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम्॥ ११ ॥

ततोभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः
ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तदा॥ १२ ॥

तैरेव कुम्भैः स्नपनं कुर्युर्ब्राह्मणपुङ्गवाः
स्नातः शुक्लाम्बरधरो यजमानोभिपूजयेत्॥ १३ ॥

गोभिर्विभवतः सर्वानृत्विजः ससमाहितान्
हेमसूत्रैः सकटकैरङ्गुलीयैः पवित्रकैः॥ १४ ॥

वासोभिः शयनीयैश्च तथोपस्करपादुकैः
क्षीराभिषेचनं कुर्याद्यावद्दिनचतुष्टयम्॥ १५ ॥

होमश्च सर्पिषा कार्यो यवैः कृष्णतिलैरपि
पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः॥ १६ ॥

दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः
यद्यदिष्टतमं किचित्तत्तद्दद्यादमत्सरी॥ १७ ॥

आचार्ये द्विगुणं दत्त्वा प्रणिपत्य क्षमापयेत्
अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः॥ १८ ॥

सर्वान्कामानवाप्नोति पदं चानन्तमश्नुते
यश्चैवमपि राजेन्द्र वृक्षं संस्थापयेद्बुधः॥ १९ ॥

सोपि स्वर्गे वसेद्राजन्यावदिन्द्रायुतत्रयम्
भूतान्भव्यांश्च मनुजांस्तारयेद्रोमसम्मितान्॥ २० ॥

परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम्
य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः॥ २१ ॥

सोपि सम्पूज्यते देवैर्ब्रह्मलोके महीयते
अपुत्रस्य च पुत्रित्वं पादपा एव कुर्वते॥ २२ ॥

तीर्थेषु पिण्डदानादीन्रोपकाणां ददन्ति ते
यत्नेनापि च राजेन्द्र अश्वत्थारोपणं कुरु॥ २३ ॥

स ते पुत्रसहस्रस्य कृत्यमेकः करिष्यति
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः॥ २४ ॥

प्लक्षो यज्ञप्रदः प्रोक्तः क्षीरी चायुःप्रदः स्मृतः
जम्बुकी कन्यकादात्री भार्यादा दाडिमी तथा॥ २५ ॥

अश्वत्थो रोगनाशाय पलाशो ब्रह्मदस्तथा
प्रेतत्वं जायते पुंसो रोपयेद्यो विभीतकम्॥ २६ ॥

अङ्कोले कुलवृद्धिस्तु खादिरेणाप्यरोगिता
निम्बप्ररोहकाणां तु नित्यं तुष्येद्दिवाकरः॥ २७ ॥

श्रीवृक्षे शङ्करो देवः पाटलायां तु पार्वती
शिंशपायामप्सरसः कुन्दे गन्धर्वसत्तमाः॥ २८ ॥

तिन्तिडीके दासवर्गा वञ्जुले दस्यवस्तथा
पुण्यप्रदः श्रीप्रदश्च चन्दनः पनसस्तथा॥ २९ ॥

सौभाग्यदश्चम्पकश्च करीरः पारदारिकः
अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः॥ ३० ॥
मूलम्
सौभाग्यदश्चम्पकश्च करीरः पारदारिकः
अपत्यनाशकस्तालो बकुलः कुलवर्द्धनः॥ ३० ॥
विश्वास-प्रस्तुतिः
बहुभार्या नारिकेला द्राक्षा सर्वाङ्गसुन्दरी
रतिप्रदा तथा कोली केतकी शत्रुनाशिनी॥ ३१ ॥

एवमादि नगाश्चान्ये ये नोक्तास्तेपि दायकाः
प्रतिष्ठां ते गमिष्यन्ति यैस्तु वृक्षाः प्ररोपिताः३२