भीष्म उवाच
विश्वास-प्रस्तुतिः
तटाकारामकूपेषु वापीषु नलिनीषु च
विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च॥ १ ॥
मूलम्

के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत्
दक्षिणाबलयः कालः स्थानमाचार्य एव च॥ २ ॥

द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व सुव्रत
पुलस्त्य उवाच
शृणु राजन्महाबाहो तटाकादिषु यो विधिः॥ ३ ॥

पुराणेष्वितिहासोयं पठ्यते राजसत्तम
प्राप्य पक्षं शुभं शुक्लं सम्प्राप्ते चोत्तरायणे॥ ४ ॥

पुण्येह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम्
अशुभैर्वर्जिते देशे तटाकस्य समीपतः॥ ५ ॥

चतुर्हस्तां समां वेदीं चतुरश्रां चतुर्मुखीम्
तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः॥ ६ ॥

वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः
नव सप्ताथ वा पञ्च ऋजुवक्त्रा नृपात्मज॥ ७ ॥

वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलि विस्तृता
गर्ताश्च हस्तमात्राः स्युस्त्रिपर्वोच्छ्रितमेखलाः॥ ८ ॥

सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः
अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु॥ ९ ॥

मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्
शुभास्तत्राष्टहोतारो द्वारपालास्तथाष्ट वै॥ १० ॥

अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः
सर्वलक्षणसम्पूर्णान्मन्त्रज्ञान्विजितेन्द्रियान्॥ ११ ॥

कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान्
प्रतिगर्तेषु कलशा यज्ञोपकरणानि च॥ १२ ॥

व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम्
ततस्त्वनेकवर्णास्युर्बलयः प्रतिदैवतम्॥ १३ ॥

आचार्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः
अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः॥ १४ ॥

यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता
हेमालङ्कारिणः कार्याः पञ्चविंशति ऋत्विजः॥ १५ ॥

कुण्डलानि च हैमानि केयूरकटकानि च
तथाङ्गुलिपवित्राणि वासांसि विविधानि च॥ १६ ॥

दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम्
दद्याच्छय(प)नसंयुक्तमात्मनश्चापि यत्प्रियम्॥ १७ ॥

सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ
ताम्रौ कुम्भीरमण्डूका वायसः शिंशुमारकः॥ १८ ॥

एवमासाद्य तत्सर्वमादावेव विशाम्पते
शुक्लमाल्याम्बरधरः शुक्लङ्गन्धानुलेपनः॥ १९ ॥

सर्वौषध्युदकैः सर्वैः स्नापितो वेदपारगैः
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः॥ २० ॥

पश्चिमद्वारमासाद्य प्रविशेद्यागमण्डपम्
ततो मङ्गलशब्देन भेरीणां निःस्वनेन च॥ २१ ॥

रजसा मण्डलं कुर्यात्पञ्चवर्णेन तत्त्ववित्
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम्॥ २२ ॥

चतुरश्रं तु परितो वृत्तं मध्ये सुशोभनम्
वेद्याश्चोपरितः कृत्वा ग्रहान्लोकपतींस्ततः॥ २३ ॥

सन्न्यसेन्मन्त्रतः सर्वान्प्रतिदिक्षु विचक्षणः
कलशं स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितम्॥ २४ ॥

ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः
विनायकं च विन्यस्य कमलामम्बिकां तथा॥ २५ ॥

शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम्॥ २६ ॥

कुम्भांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत्
पुष्पगन्धैरलङ्कृत्य द्वारपालान्समन्ततः॥ २७ ॥

यजद्ध्वमिति तान्ब्रूयादाचार्यमभिपूजयेत्
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ॥ २८ ॥

सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ
उदङ्मुखो दक्षिणतो यजमान उपाविशेत्॥ २९ ॥
मूलम्
सामगौ पश्चिमे स्थाप्यावुत्तरेण अथर्वणौ
उदङ्मुखो दक्षिणतो यजमान उपाविशेत्॥ २९ ॥
विश्वास-प्रस्तुतिः
यजध्वमिति तान्ब्रूयाद्याजकान्पुनरेव तान्
उत्कृष्टमन्त्रजाप्येन तिष्ठध्वमिति जापकान्॥ ३० ॥

एवमादिश्य तान्सर्वान्सन्धुक्ष्याग्निं समन्त्रवित्
जुहुयादाहुतीर्मन्त्रैराज्यं च समिधस्तथा॥ ३१ ॥

ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः
ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च॥ ३२ ॥

मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे
शान्तिसूक्तं च रौद्रं च पावमानं च मङ्गलम्॥ ३३ ॥

जपेच्च पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक्
शाक्रं रौद्रं च सौम्यं च कौश्माण्डं जातवेदसम्॥ ३४ ॥

सौरं सूक्तं जपेयुस्ते दक्षिणेन यजुर्विदः
वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहितम्॥ ३५ ॥

शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च
वामदेव्यं बृहत्साम रौरवं च रथन्तरम्॥ ३६ ॥

गवां व्रतं विकीर्णं च रक्षोघ्नं च यमं तथा
गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः॥ ३७ ॥

आथर्वणाश्चोत्तरतः शान्तिकं पौष्टिकं तथा
जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम्॥ ३८ ॥

पूर्वे द्युरभितो रात्रावेवं कृत्वाधिवासनम्
गजाश्वरथवल्मीक सङ्गमाद्व्रजगोकुलात्॥ ३९ ॥

मृदमादाय कुम्भेषु प्रक्षिपेदोषधीस्तथा
रोचनां च ससिद्धार्थां गन्धान्गुग्गुलुमेव च॥ ४० ॥

स्नापनं तस्य कर्त्तव्यं पञ्चगव्यसमन्वितं
पूर्वं कर्तुर्महामन्त्रैरेवं कृत्वा विधानतः॥ ४१ ॥

अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा
ततः प्रभाते विमले सञ्जाते तु शतं गवां॥ ४२ ॥

ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः
पञ्चाशद्वाथ षट्त्रिंशत्पञ्चविंशति वा पुनः॥ ४३ ॥

ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने
वेदशब्दैः सगन्धर्वैर्वाद्यैश्च विविधैः पुनः॥ ४४ ॥

कनकालङ्कृतां कृत्वा जले गामवतारयेत्
सामगाय च सा देया ब्राह्मणाय विशाम्पते॥ ४५ ॥

पात्रीमादाय सौवर्णी पञ्चरत्नसमन्विताम्
ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः॥ ४६ ॥

धृतां चतुर्भिर्विप्रैश्च वेदवेदाङ्गपारगैः
महानदीजलोपेतां दध्यक्षतविभूषिताम्॥ ४७ ॥

उत्तराभिमुखां न्युब्जां जलमध्ये तु कारयेत्
आथर्वणेन सुस्नातां पुनर्मायां तथैव च॥ ४८ ॥

आपोहिष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपं
पूजयित्वा सदस्यान्वै बलिं दद्यात्समन्ततः॥ ४९ ॥

पुनर्दिनानि होतव्यं चत्वारि राजसत्तम
चतुर्थीकर्म कर्त्तव्यं देयं तत्रापि शक्तितः1.27.॥ ५० ॥

कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च
ऋत्विग्भ्यस्तु समं दद्यान्मण्डपं विभजेत्पुनः॥ ५१ ॥

हेमपात्रीं च शय्यां च विप्राय च निवेदयेत्
ततः सहस्रं विप्राणामथवाऽष्टशतं तथा॥ ५२ ॥

भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः
एवमेष पुराणेषु तटाकविधिरुच्यते॥ ५३ ॥
मूलम्
भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः
एवमेष पुराणेषु तटाकविधिरुच्यते॥ ५३ ॥
विश्वास-प्रस्तुतिः
कूपवापीषु सर्वासु तथा पुष्करिणीषु च
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च॥ ५४ ॥

मन्त्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु
अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा॥ ५५ ॥

स्वल्पेष्वेकाग्निवत्कार्यो वित्तशाठ्यविवर्जितैः
प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम्॥ ५६ ॥

शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम्
वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम्॥ ५७ ॥

अश्वमेधसमं प्राहुर्वसन्तसमये स्थितम्
ग्रीष्मेपि यत्स्थितं तोयं राजसूयाद्विशिष्यते॥ ५८ ॥

एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्धिः
स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदते च॥ ५९ ॥

अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः
सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः॥ ६० ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे तटाकप्रतिष्ठाविधिर्नाम सप्तविंशोऽध्यायः२७