भीष्म उवाच
विश्वास-प्रस्तुतिः
दीर्घायुरारोग्यकुलातिवृद्धिभिर्युक्तः पुमान्रूपकुलान्वितः स्यात्
मुहुर्मुहुर्जन्मनि येन सम्यक्व्रतं समाचक्ष्व च शीतरश्मेः॥ १ ॥
मूलम्

पुलस्त्य उवाच
त्वया पृष्टमिदं सम्यगक्षयस्वर्गकारकम्
रहस्यं तु प्रवक्ष्यामि यत्पुराणविदो विदुः॥ २ ॥

रोहिणीचन्द्रशयनं नामव्रतमिहोच्यते
तस्मिन्नारायणस्यार्चामर्चयेदिन्दुनामभिः॥ ३ ॥

यदा सोमदिने शुक्ला भवेत्पञ्चदशी क्वचित्
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते॥ ४ ॥

तदा स्नानं नरः कुर्यात्पञ्चगव्येन सर्षपैः
आप्यायस्वेति च जपेद्विद्वानष्टशतं पुनः॥ ५ ॥

शूद्रोपि परया भक्त्या पाषण्डालापवर्जितः
सोमाय शान्ताय नमोस्तु पादावनन्तधाम्नेति च जानुजङ्घे
ऊरुद्वयं चापि जलोदराय सम्पूजयेन्मेढ्रमनङ्गधाम्ने॥ ८ ॥

नमोनमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीयः
तथोदरं चाप्यमृतोदराय नाभिः शशाङ्काय नमोभिपूज्या॥ ९ ॥

नमोस्तु चन्द्राय मुखं च नित्यं दन्ता द्विजानामधिपाय पूज्याः
हास्यं नमश्चन्द्रमसेऽभिपूज्यमोष्ठौ तु कौमोदवनप्रियाय॥ १० ॥

नासा च नाथाय वरौषधीनामानन्दबीजाय पुनर्भ्रुवौ च
नेत्रद्वयं पद्मनिभं तथेन्दोरिन्दीवरव्यासकराय शौरेः॥ ११ ॥

नमः समस्ताध्वरपूजिताय कर्णद्वयं दैत्यनिषूदनाय
ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः॥ १२ ॥

शिरः शशाङ्काय नमो मुरारेर्विश्वेश्वरायाथ नमः किरीटं
पद्मप्रिये रोहिणीनाम लक्ष्मि सौभाग्यसौख्यामृतसागराय॥ १३ ॥

दैवीं च सम्पूज्य सुगन्धिपुष्पैर्नैवेद्यधूपादिभिरिन्दुपत्नीम्
सुप्त्वा तु भूमौ पुनरुत्थितो यः स्नात्वा च विप्राय हविष्यभुक्तः॥ १४ ॥

देयः प्रभाते सहिरण्य वारिकुम्भो नमः पापविनाशनाय
सम्प्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च॥ १५ ॥

ग्रासांश्च त्रीन्सर्पियुतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तं
कदम्बनीलोत्पलकेतकानि जातिःसरोजं शतपत्रिका च॥ १६ ॥

अम्लानपुष्पाण्यथ सिन्दुवारं पुष्पं पुनर्भारतमल्लिकायाः
शुक्लं च पुष्पं करवीरपुष्पं श्रीचम्पकं चन्द्रमसे प्रदेयम्॥ १७ ॥

श्रावणादिषु मासेषु क्रमादेतानि सर्वदा
यस्मिन्मासे व्रतादिः स्यात्तत्पुष्पैरर्चयेद्धरिम्॥ १८ ॥

एवं संवत्सरं यावदुपोष्य विधिवन्नरः
व्रतान्ते शयनं दद्याच्छयनोपस्करान्वितम्॥ १९ ॥

रोहिणीचन्द्रमिथुनं कारयित्वा तु काञ्चनम्
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला॥ २० ॥

मुक्ताफलाष्टकयुतां सितनेत्रसमन्विताम्
क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्विताम्॥ २१ ॥

दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुताम्
श्वेतामथ सुवर्णास्यां रौप्यखुरसमन्विताम्॥ २२ ॥

सवस्त्रभाजनां धेनुं तथा शङ्खं च भाजनम्
भूषणैर्द्विजदाम्पत्यमलङ्कृत्य गुणान्वितं॥ २३ ॥

चन्द्रोयं विप्ररूपेण सभार्य इति कल्पयेत्
यथा ते रोहिणी कृष्ण शयनं न त्यजेदपि॥ २४ ॥

सोमरूपस्य वैतद्वन्न मे भेदो विभूतिभिः
यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः॥ २५ ॥

भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्र दृढास्तु मे
इति संसारभीतस्य मुक्तिकामस्य चानघ॥ २६ ॥

रूपारोग्यायुषामेतद्विधायकमनुत्तमम्
इदमेव पितॄणां च सर्वदा वल्लभं नृप॥ २७ ॥
मूलम्
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्
इदमेव पितॄणां च सर्वदा वल्लभं नृप॥ २७ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्
चन्द्रलोकमवाप्नोति पुनरावृत्तिदुर्लभम्॥ २८ ॥

नारी वा रोहिणीचन्द्रशयनं या समाचरेत्
सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम्॥ २९ ॥

इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिन्दुकीर्तनेन
मतिमपि च ददाति सोपि शौरेर्भवनगतः परिपूज्यतेमरौघैः॥ ३० ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे रोहिणीचन्द्रशयनव्रतं नाम षड्विंशोऽध्यायः२६