भीष्म उवाच
विश्वास-प्रस्तुतिः
उपवासेष्वशक्तस्य तदेव फलमिच्छतः
अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुच्यताम्॥ १ ॥
मूलम्

पुलस्त्य उवाच
उपवासेष्वशक्तानां नक्तं भोजनमिष्यते
यस्मिन्व्रते तदप्यत्र श्रूयतां वै व्रतं महत्॥ २ ॥

आदित्यशयनं नाम यथावच्छङ्करार्चनम्
येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते॥ ३ ॥

यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत्
सूर्यस्य चापि सङ्क्रान्तिस्तिथिस्सा सार्वकामिकी॥ ४ ॥

उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः
सूर्यार्चां शिवलिगं च उभयं पूजयेद्यतः॥ ५ ॥

उमापते रवेश्चापि न भेदः क्वचिदिष्यते
यस्मात्तस्मान्नृपश्रेष्ठ गृहे भानुं समर्चयेत्॥ ६ ॥

हस्तेन सूर्याय नमोस्तुपादावर्काय चित्रासु च गुल्फदेशं
स्वातीषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम्॥ ७ ॥

तथानुराधासु नमोभि पूज्यमुरुद्द्वयं चैव सहस्रभानोः
ज्येष्ठास्वनङ्गाय नमोस्तु गुह्यमिन्द्रा यभीमाय कटिं च मूले॥ ८ ॥

पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततुरङ्गमाय
तीक्ष्णांशवे श्रवणे चाथ कुक्षिं पृष्ठं धनिष्ठासु विकर्तनाय॥ ९ ॥

वक्षस्थलं ध्वान्तविनाशनाय जलाधिपर्क्षे प्रतिपूजनीयम्
पूर्वोत्तरा भाद्रपदद्वये च बाहूत्तमश्चण्डकराय पूज्यौ॥ १० ॥

साम्नामधीशाय करद्वयं च सम्पूजनीयं नृप रेवतीषु
नखानि पूज्यानि तथाश्विनीषु नमोस्तु सप्ताश्वधुरन्धराय॥ ११ ॥

कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीयम्
ग्रीवाग्निपर्क्षे धरसम्पुटे तु सम्पूजयेद्भारत रोहिणीषु॥ १२ ॥

मृगेर्चनीया रसना पुरारे रौद्रे तु दन्ता हरये नमस्ते
नमः सवित्रे इति शङ्करस्य नासाभि पूज्या च पुनर्वसौ च॥ १३ ॥

ललाटमम्भोरुहवल्लभाय पुष्येलकान्वेदशरीरधारिणे
सार्पे च मौलिविबुधप्रियाय मघासु कर्णाविति पूजनीयौ॥ १४ ॥

पूर्वासु गोब्राह्मणनन्दनाय नेत्राणि सम्पूज्यतमानि शम्भोः
अथोत्तराफाल्गुनि भे भ्रुवौ च विश्वेश्वरायेति च पूजनीये॥ १५ ॥

नमोस्तु पाशाङ्कुशपद्मशूल कपालसर्पेन्दुधनुर्धराय
गयासुरानङ्गपुरान्धकादि विनाशमूलाय नमः शिवाय॥ १६ ॥

इत्यादिकाङ्गानि च पूजयित्वा विश्वेश्वरायेति शिरोभिपूज्यम्
अत्रापि भोक्तव्यमतैलमन्नममांसमक्षारमभुक्तशेषम्॥ १७ ॥

इत्येवं नृप नक्तानि कृत्वा दद्यात्पुनर्वसौ
शालेयतण्डुलप्रस्थमौदुम्बरमथो घृतम्॥ १८ ॥

संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत्
सप्तमे वस्त्रयुग्मं तु पारणे त्वधिकं भवेत्॥ १९ ॥

चतुर्दशे तु सम्प्राप्ते पारणे भारतादिके
ब्राह्मणं भोजयेद्भक्त्या गुडक्षीरघृतादिभिः॥ २० ॥

कृत्वा च काञ्चनं पद्ममष्टपत्रं सकर्णिकम्
शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम्॥ २१ ॥

शय्यां सुलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम्
सोपधानवितानां च स्वास्तरावरणाश्रयाम्॥ २२ ॥

पादुकोपानहच्छत्र चामरासनदर्पणैः
भूपणैरपिसंयुक्तां फलवस्त्रानुलेपनैः॥ २३ ॥

तस्यां विधाय तत्पद्ममलङ्कृत्य गुणान्विताम्
कपिलां वस्त्रसंयुक्तामतिशीलां पयस्विनीम्॥ २४ ॥

रौप्यखुरां हेमशृङ्गीं सवत्सां कांस्यदोहनाम्
दद्यान्मन्त्रेण तां धेनुं पूर्वाह्णं नातिलङ्घयेत्॥ २५ ॥

यथैवादित्य शयनमशून्यं तव सर्वदा
कान्त्या धृत्या श्रिया पुष्ट्या तथा मे सन्तु वृद्धयः॥ २६ ॥

यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः
तथा मामुद्धराशेष दुःखसंसारसागरात्॥ २७ ॥
मूलम्
यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः
तथा मामुद्धराशेष दुःखसंसारसागरात्॥ २७ ॥
विश्वास-प्रस्तुतिः
ततः प्रदक्षिणीकृत्य प्रणम्य च विसर्जयेत्
शय्यां गवादि तत्सर्वं द्विजस्य भवनं नयेत्॥ २८ ॥

नैतद्विशीलाय न दाम्भिकाय प्रकाशनीयं व्रतमिन्दुमौलेः
गोविप्रदेवर्षिविकर्मयोगिनां यश्चापि निन्दामधिकां विधत्ते॥ २९ ॥

भक्ताय दान्ताय च गुह्यमेतदाख्येयमानन्दकरं शिवञ्च
इदं महापातकिनां नराणां अघक्षयं वेदविदो वदन्ति॥ ३० ॥

न बन्धुपुत्रैर्न धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणां
नाभ्येति रोगं न च दुःखमोहं या चापि नारी कुरुतेथ भक्त्या॥ ३१ ॥

इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरन्दरेण
यत्कीर्तनादप्यखिलानि नाशमायान्ति पापानि न संशयोत्र॥ ३२ ॥

इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात्
अपि नरकगतान्पितॄनशेषानपि दिवमानयतीह यः करोति॥ ३३ ॥

अश्वत्थं च वटं चैवोदुम्बरं वृक्षमेव च
नन्दीशं जम्बुवृक्षं च बिल्वं प्राहुर्महर्षयः॥ ३४ ॥

मार्गशीर्षादिमासाभ्यां द्वाभ्यां द्वाभ्यामथ क्रमात्
एकैकं दन्तधवनं वृक्षेष्वेतेषु कारयेत्॥ ३५ ॥

दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम्
द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान्॥ ३६ ॥

न वित्तशाठ्यं कुर्वीत कुर्वन्दोषानवाप्नुयात्३७