०२४

ब्रह्मोवाच

विश्वास-प्रस्तुतिः

भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद॥ १ ॥

मूलम्

भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद॥ १ ॥

विश्वास-प्रस्तुतिः

शङ्कर उवाच
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः
क्षीरार्णवे सपत्नीकः सदा वसति केशवः॥ २ ॥

मूलम्

शङ्कर उवाच
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः
क्षीरार्णवे सपत्नीकः सदा वसति केशवः॥ २ ॥

विश्वास-प्रस्तुतिः

तस्यां सम्पूज्य गोविन्दं सर्वान्कामानवाप्नुयात्
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्॥ ३ ॥

मूलम्

तस्यां सम्पूज्य गोविन्दं सर्वान्कामानवाप्नुयात्
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्॥ ३ ॥

विश्वास-प्रस्तुतिः

आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्
अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता॥ ४ ॥

मूलम्

आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्
अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता॥ ४ ॥

विश्वास-प्रस्तुतिः

तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः
श्रीवत्सधारिन्श्रीकान्त श्रीपते श्रीधराव्यय॥ ५ ॥

मूलम्

तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः
श्रीवत्सधारिन्श्रीकान्त श्रीपते श्रीधराव्यय॥ ५ ॥

विश्वास-प्रस्तुतिः

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम॥ ६ ॥

मूलम्

गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम॥ ६ ॥

विश्वास-प्रस्तुतिः

पितरो मा प्रणश्यन्तु मम दाम्पत्यभेदतः
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः॥ ७ ॥

मूलम्

पितरो मा प्रणश्यन्तु मम दाम्पत्यभेदतः
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः॥ ७ ॥

विश्वास-प्रस्तुतिः

तथा कलत्रसम्बन्धो देव मा मे वियुज्यतां
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा॥ ८ ॥

मूलम्

तथा कलत्रसम्बन्धो देव मा मे वियुज्यतां
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा॥ ८ ॥

विश्वास-प्रस्तुतिः

शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्॥ ९ ॥

मूलम्

शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्॥ ९ ॥

विश्वास-प्रस्तुतिः

घण्टा भवेदशक्तस्य सर्ववाद्यमयो यतः
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम्॥ १० ॥

मूलम्

घण्टा भवेदशक्तस्य सर्ववाद्यमयो यतः
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम्॥ १० ॥

विश्वास-प्रस्तुतिः

नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं
ततः प्रभाते सञ्जाते लक्ष्मीपतिसमन्विताम्॥ ११ ॥

मूलम्

नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं
ततः प्रभाते सञ्जाते लक्ष्मीपतिसमन्विताम्॥ ११ ॥

विश्वास-प्रस्तुतिः

दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्
पादुकोपानहच्छत्र चामरासन संयुताम्॥ १२ ॥

मूलम्

दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्
पादुकोपानहच्छत्र चामरासन संयुताम्॥ १२ ॥

विश्वास-प्रस्तुतिः

अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्
अव्यङ्गाय च विप्राय वैष्णवाय कुटुम्बिने॥ १३ ॥

मूलम्

अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम्
अव्यङ्गाय च विप्राय वैष्णवाय कुटुम्बिने॥ १३ ॥

विश्वास-प्रस्तुतिः

दातव्या वेदविदुषे न वन्ध्यापतये क्वचित्
तत्रोपवेश्य दाम्पत्यमलङ्कृत्य विधानतः॥ १४ ॥

मूलम्

दातव्या वेदविदुषे न वन्ध्यापतये क्वचित्
तत्रोपवेश्य दाम्पत्यमलङ्कृत्य विधानतः॥ १४ ॥

विश्वास-प्रस्तुतिः

पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्॥ १५ ॥

मूलम्

पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्॥ १५ ॥

विश्वास-प्रस्तुतिः

प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्
एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः॥ १६ ॥

मूलम्

प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत्
एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः॥ १६ ॥

विश्वास-प्रस्तुतिः

वित्तशाठ्येन रहितो नारायणपरायणः
न तस्य पत्न्या विरहः कदाचिदपि जायते॥ १७ ॥

मूलम्

वित्तशाठ्येन रहितो नारायणपरायणः
न तस्य पत्न्या विरहः कदाचिदपि जायते॥ १७ ॥

विश्वास-प्रस्तुतिः

नारी वा विधवा ब्रह्मन्यावच्चन्द्रार्कतारकं
न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित्॥ १८ ॥

मूलम्

नारी वा विधवा ब्रह्मन्यावच्चन्द्रार्कतारकं
न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित्॥ १८ ॥

विश्वास-प्रस्तुतिः

न पुत्रपशुरत्नानि क्षयं यान्ति पितामह
सप्तकल्पसहस्राणि सप्तकल्पशतानि च॥ १९ ॥

मूलम्

न पुत्रपशुरत्नानि क्षयं यान्ति पितामह
सप्तकल्पसहस्राणि सप्तकल्पशतानि च॥ १९ ॥

विश्वास-प्रस्तुतिः

कुर्वन्नशून्यशयनं विष्णुलोके महीयते
ब्रह्मोवाच
कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा॥ २० ॥

मूलम्

कुर्वन्नशून्यशयनं विष्णुलोके महीयते
ब्रह्मोवाच
कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा॥ २० ॥

विश्वास-प्रस्तुतिः

अव्यङ्गाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्
ईश्वर उवाच
साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते॥ २१ ॥

मूलम्

अव्यङ्गाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्
ईश्वर उवाच
साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते॥ २१ ॥

विश्वास-प्रस्तुतिः

विरोचनस्य संवादं भार्गवस्य च धीमतः
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्॥ २२ ॥

मूलम्

विरोचनस्य संवादं भार्गवस्य च धीमतः
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्॥ २२ ॥

विश्वास-प्रस्तुतिः

तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनन्दनः
साधुसाधु महाबाहो विरोचन शिवं तव॥ २३ ॥

मूलम्

तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनन्दनः
साधुसाधु महाबाहो विरोचन शिवं तव॥ २३ ॥

विश्वास-प्रस्तुतिः

तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः
ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्॥ २४ ॥

मूलम्

तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः
ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्॥ २४ ॥

विश्वास-प्रस्तुतिः

साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे
तमेवं वादिनं युक्तमुवाच वदतां वरः॥ २५ ॥

मूलम्

साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे
तमेवं वादिनं युक्तमुवाच वदतां वरः॥ २५ ॥

विश्वास-प्रस्तुतिः

विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया
पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः॥ २६ ॥

मूलम्

विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया
पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः॥ २६ ॥

विश्वास-प्रस्तुतिः

अपतद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः
भित्वा स सप्तपातालानदहत्सप्तसागरान्॥ २७ ॥

मूलम्

अपतद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः
भित्वा स सप्तपातालानदहत्सप्तसागरान्॥ २७ ॥

विश्वास-प्रस्तुतिः

अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः
वीरभद्र इति ख्यातः करपादायुतैर्युतः॥ २८ ॥

मूलम्

अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः
वीरभद्र इति ख्यातः करपादायुतैर्युतः॥ २८ ॥

विश्वास-प्रस्तुतिः

कृत्वा स यज्ञमथनं पुनर्भूतस्य सम्प्लवः
त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः॥ २९ ॥

मूलम्

कृत्वा स यज्ञमथनं पुनर्भूतस्य सम्प्लवः
त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः॥ २९ ॥

विश्वास-प्रस्तुतिः

कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं
इदानीमलमेतेन लोकदाहेन कर्मणा॥ ३० ॥

मूलम्

कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं
इदानीमलमेतेन लोकदाहेन कर्मणा॥ ३० ॥

विश्वास-प्रस्तुतिः

शान्तिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव
प्रहृष्टाभिजनाः पूजां करिष्यन्ति कृतात्मनः॥ ३१ ॥

मूलम्

शान्तिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव
प्रहृष्टाभिजनाः पूजां करिष्यन्ति कृतात्मनः॥ ३१ ॥

विश्वास-प्रस्तुतिः

अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज
देवलोके द्वितीयं च तव रूपं भविष्यति॥ ३२ ॥

मूलम्

अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज
देवलोके द्वितीयं च तव रूपं भविष्यति॥ ३२ ॥

विश्वास-प्रस्तुतिः

ये च त्वां पूजयिष्यन्ति चतुर्थ्यां तु दिने नराः
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति॥ ३३ ॥

मूलम्

ये च त्वां पूजयिष्यन्ति चतुर्थ्यां तु दिने नराः
रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति॥ ३३ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्ततः शान्तिमगमत्कामरूपधृत्
स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः॥ ३४ ॥

मूलम्

एवमुक्तस्ततः शान्तिमगमत्कामरूपधृत्
स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः॥ ३४ ॥

विश्वास-प्रस्तुतिः

स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं
दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः॥ ३५ ॥

मूलम्

स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं
दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः॥ ३५ ॥

विश्वास-प्रस्तुतिः

तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः
विविधा च रुचिर्जाता यस्मात्तव विदूरगा॥ ३६ ॥

मूलम्

तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः
विविधा च रुचिर्जाता यस्मात्तव विदूरगा॥ ३६ ॥

विश्वास-प्रस्तुतिः

विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्॥ ३७ ॥

मूलम्

विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्॥ ३७ ॥

विश्वास-प्रस्तुतिः

ईदृशी रूपसम्पत्तिरिति विस्मितवानहम्
साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं॥ ३८ ॥

मूलम्

ईदृशी रूपसम्पत्तिरिति विस्मितवानहम्
साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं॥ ३८ ॥

विश्वास-प्रस्तुतिः

पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्॥ ३९ ॥

मूलम्

पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः
यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम्॥ ३९ ॥

विश्वास-प्रस्तुतिः

आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः॥ ४० ॥

मूलम्

आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः॥ ४० ॥

विश्वास-प्रस्तुतिः

प्रह्लादनन्दनो वीरः पुनः पप्रच्छ भार्गवम्
विरोचन उवाच
भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः॥ ४१ ॥

मूलम्

प्रह्लादनन्दनो वीरः पुनः पप्रच्छ भार्गवम्
विरोचन उवाच
भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः॥ ४१ ॥

विश्वास-प्रस्तुतिः

दीयमानं तु यद्दानं मया दृष्टं भवान्तरे
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि॥ ४२ ॥

मूलम्

दीयमानं तु यद्दानं मया दृष्टं भवान्तरे
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि॥ ४२ ॥

विश्वास-प्रस्तुतिः

इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं
चतुर्थ्यङ्गारकदिने यदा भवति दानव॥ ४३ ॥

मूलम्

इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं
चतुर्थ्यङ्गारकदिने यदा भवति दानव॥ ४३ ॥

विश्वास-प्रस्तुतिः

मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः
अग्निर्मूर्द्धादिवो मन्त्रं जपेत्स्नात उदङ्मुखः॥ ४४ ॥

मूलम्

मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः
अग्निर्मूर्द्धादिवो मन्त्रं जपेत्स्नात उदङ्मुखः॥ ४४ ॥

विश्वास-प्रस्तुतिः

शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः
अथास्तमित आदित्ये गोमयेनानुलेपयेत्॥ ४५ ॥

मूलम्

शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः
अथास्तमित आदित्ये गोमयेनानुलेपयेत्॥ ४५ ॥

विश्वास-प्रस्तुतिः

प्राङ्गणं पुष्पमालाभिरक्षताद्भिः समन्ततः
तदभ्यर्च्यालिखेत्पद्मं कुङ्कुमेनाष्टपत्रकम्॥ ४६ ॥

मूलम्

प्राङ्गणं पुष्पमालाभिरक्षताद्भिः समन्ततः
तदभ्यर्च्यालिखेत्पद्मं कुङ्कुमेनाष्टपत्रकम्॥ ४६ ॥

विश्वास-प्रस्तुतिः

कुङ्कुमस्याप्यभावेन रक्तचन्दनमिष्यते
चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः॥ ४७ ॥

मूलम्

कुङ्कुमस्याप्यभावेन रक्तचन्दनमिष्यते
चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः॥ ४७ ॥

विश्वास-प्रस्तुतिः

तण्डुलै रक्तशालेयैः पद्मरागैश्च संयुताः
चतुःकोणेषु तान्कृत्वा फलानि विविधानि च ॥ ४८ ॥

मूलम्

तण्डुलै रक्तशालेयैः पद्मरागैश्च संयुताः
चतुःकोणेषु तान्कृत्वा फलानि विविधानि च ॥ ४८ ॥

विश्वास-प्रस्तुतिः

गन्धमाल्यादिकं सर्वं तथैव विनिवेशयेत्
सुवर्णशृङ्गां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्॥ ४९ ॥

मूलम्

गन्धमाल्यादिकं सर्वं तथैव विनिवेशयेत्
सुवर्णशृङ्गां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

धुरन्धरं रक्तखुरं च सौम्यं धान्यानि सप्ताम्बरसंयुतानि
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदण्डम् 1.24.॥ ५० ॥

मूलम्

धुरन्धरं रक्तखुरं च सौम्यं धान्यानि सप्ताम्बरसंयुतानि
अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदण्डम् 1.24.॥ ५० ॥

विश्वास-प्रस्तुतिः

चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्
सामस्वरज्ञाय जितेन्द्रियाय वाग्रूपशीलान्वयसंयुताय॥ ५१ ॥

मूलम्

चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्
सामस्वरज्ञाय जितेन्द्रियाय वाग्रूपशीलान्वयसंयुताय॥ ५१ ॥

विश्वास-प्रस्तुतिः

दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दम्भयुक्ते
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः॥ ५२ ॥

मूलम्

दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दम्भयुक्ते
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः॥ ५२ ॥

विश्वास-प्रस्तुतिः

रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते
मन्त्रेणानेन दत्वार्घ्यं रक्तचन्दनवारिणा॥ ५३ ॥

मूलम्

रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते
मन्त्रेणानेन दत्वार्घ्यं रक्तचन्दनवारिणा॥ ५३ ॥

विश्वास-प्रस्तुतिः

ततोर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः
दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम्॥ ५४ ॥

मूलम्

ततोर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः
दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम्॥ ५४ ॥

विश्वास-प्रस्तुतिः

शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे॥ ५५ ॥

मूलम्

शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे॥ ५५ ॥

विश्वास-प्रस्तुतिः

तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता
ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्॥ ५६ ॥

मूलम्

तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता
ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्॥ ५६ ॥

विश्वास-प्रस्तुतिः

नक्तं क्षीराशनं कुर्यादेवं चाङ्गारकाष्टकम्
चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते॥ ५७ ॥

मूलम्

नक्तं क्षीराशनं कुर्यादेवं चाङ्गारकाष्टकम्
चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते॥ ५७ ॥

विश्वास-प्रस्तुतिः

रूपसौभाग्यसम्पन्नः पुमान्जन्मनि जन्मनि
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्॥ ५८ ॥

मूलम्

रूपसौभाग्यसम्पन्नः पुमान्जन्मनि जन्मनि
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्॥ ५८ ॥

विश्वास-प्रस्तुतिः

सप्तकल्पसहस्राणि रुद्रलोके महीयते
तस्मात्वमपि दैत्येन्द्र व्रतमेतत्समाचर॥ ५९ ॥

मूलम्

सप्तकल्पसहस्राणि रुद्रलोके महीयते
तस्मात्वमपि दैत्येन्द्र व्रतमेतत्समाचर॥ ५९ ॥

विश्वास-प्रस्तुतिः

इत्येवमुक्तो भुगुनन्दनेन चकार सर्वं व्रतमेव दैत्यः
त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदन्ति॥ ६० ॥

मूलम्

इत्येवमुक्तो भुगुनन्दनेन चकार सर्वं व्रतमेव दैत्यः
त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदन्ति॥ ६० ॥

शृणोति यश्चैनमनन्यचेतास्तस्यापि सर्वं भगवान्विधत्ते६१