भीष्म उवाच
विश्वास-प्रस्तुतिः
वैष्णवा ये तु वै धर्मा यान्रुद्रः प्रोक्तवानिह
तान्मे कथय विप्रेन्द्र कीदृशास्ते फलं तु किम्॥ १ ॥
मूलम्
वैष्णवा ये तु वै धर्मा यान्रुद्रः प्रोक्तवानिह
तान्मे कथय विप्रेन्द्र कीदृशास्ते फलं तु किम्॥ १ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
पुरा रथन्तरे कल्पे परिपृष्टो महात्मना
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्॥ २ ॥
मूलम्
पुलस्त्य उवाच
पुरा रथन्तरे कल्पे परिपृष्टो महात्मना
मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम्॥ २ ॥
विश्वास-प्रस्तुतिः
कथमारोग्यमैश्वर्यमनन्तममरेश्वर
अल्पेन तपसा देव भवेन्मोक्षः सदा नृणां॥ ३ ॥
मूलम्
कथमारोग्यमैश्वर्यमनन्तममरेश्वर
अल्पेन तपसा देव भवेन्मोक्षः सदा नृणां॥ ३ ॥
विश्वास-प्रस्तुतिः
किं तज्ज्ञानं महादेव त्वत्प्रसादादधोक्षज
अल्पकेनापि तपसा महाफलमिहोच्यते॥ ४ ॥
मूलम्
किं तज्ज्ञानं महादेव त्वत्प्रसादादधोक्षज
अल्पकेनापि तपसा महाफलमिहोच्यते॥ ४ ॥
विश्वास-प्रस्तुतिः
इति पृष्टस्स विश्वात्मा ब्रह्मणा लोकभावनः
उमापतिरुवाचेदं मनसः प्रीतिकारकम्॥ ५ ॥
मूलम्
इति पृष्टस्स विश्वात्मा ब्रह्मणा लोकभावनः
उमापतिरुवाचेदं मनसः प्रीतिकारकम्॥ ५ ॥
विश्वास-प्रस्तुतिः
ईश्वर उवाच
अस्माद्रथन्तरात्कल्पाद्भूयो विंशतिमो यदा
वाराहो भविता कल्पस्तदा मन्वन्तरे शुभे॥ ६ ॥
मूलम्
ईश्वर उवाच
अस्माद्रथन्तरात्कल्पाद्भूयो विंशतिमो यदा
वाराहो भविता कल्पस्तदा मन्वन्तरे शुभे॥ ६ ॥
विश्वास-प्रस्तुतिः
वैवस्वताख्ये सम्प्राप्ते सप्तमे सप्तलोकधृक्
द्वापराख्यं युगं तस्मिन्सप्तविंशतिमं यदा॥ ७ ॥
मूलम्
वैवस्वताख्ये सम्प्राप्ते सप्तमे सप्तलोकधृक्
द्वापराख्यं युगं तस्मिन्सप्तविंशतिमं यदा॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्यां ते तु महातेजा वासुदेवो जनार्दनः
भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति॥ ८ ॥
मूलम्
तस्यां ते तु महातेजा वासुदेवो जनार्दनः
भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति॥ ८ ॥
विश्वास-प्रस्तुतिः
द्वैपायन ऋषिस्तत्र रौहिणेयोथ केशवः
कंसारिः केशिमथनः केशवः क्लेशनाशनः॥ ९ ॥
मूलम्
द्वैपायन ऋषिस्तत्र रौहिणेयोथ केशवः
कंसारिः केशिमथनः केशवः क्लेशनाशनः॥ ९ ॥
विश्वास-प्रस्तुतिः
पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः॥ १० ॥
मूलम्
पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली
दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः॥ १० ॥
विश्वास-प्रस्तुतिः
त्वष्टा तदाज्ञया ब्रह्मन्करिष्यति जगत्पतेः
तस्यां कदाचिदासीनः सभायां सोऽमितद्युतिः॥ ११ ॥
मूलम्
त्वष्टा तदाज्ञया ब्रह्मन्करिष्यति जगत्पतेः
तस्यां कदाचिदासीनः सभायां सोऽमितद्युतिः॥ ११ ॥
विश्वास-प्रस्तुतिः
भार्याभिर्वृष्णिविद्वद्भिभूरिभिर्भूरिदक्षिणैः
कुरुभिर्देवगन्धर्वैरन्वितः कैटभार्दनः॥ १२ ॥
मूलम्
भार्याभिर्वृष्णिविद्वद्भिभूरिभिर्भूरिदक्षिणैः
कुरुभिर्देवगन्धर्वैरन्वितः कैटभार्दनः॥ १२ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तासु पुराणासु धर्मसम्बधधिनीषु च
कथासु भीमसेनेन परिपृष्टः प्रतापवान्॥ १३ ॥
मूलम्
प्रवृत्तासु पुराणासु धर्मसम्बधधिनीषु च
कथासु भीमसेनेन परिपृष्टः प्रतापवान्॥ १३ ॥
विश्वास-प्रस्तुतिः
त्वया पृष्टस्य धर्मस्य वक्ष्यत्यस्य च भेददृक्
भविता स तदा ब्रह्मन्कर्ता चैव वृकोदरः॥ १४ ॥
मूलम्
त्वया पृष्टस्य धर्मस्य वक्ष्यत्यस्य च भेददृक्
भविता स तदा ब्रह्मन्कर्ता चैव वृकोदरः॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रवर्तकोऽस्य धर्मस्य पाण्डुसूनुर्महाबलः
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः॥ १५ ॥
मूलम्
प्रवर्तकोऽस्य धर्मस्य पाण्डुसूनुर्महाबलः
यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः॥ १५ ॥
विश्वास-प्रस्तुतिः
सम्भाष्यते स धर्मात्मा तेन चासौ वृकोदरः
अतीव स्वादशीलश्च नागायुत बलो महान्॥ १६ ॥
मूलम्
सम्भाष्यते स धर्मात्मा तेन चासौ वृकोदरः
अतीव स्वादशीलश्च नागायुत बलो महान्॥ १६ ॥
विश्वास-प्रस्तुतिः
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे
इदं व्रतमशेषाणां व्रतानामधिकं यतः॥ १७ ॥
मूलम्
धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे
इदं व्रतमशेषाणां व्रतानामधिकं यतः॥ १७ ॥
विश्वास-प्रस्तुतिः
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः
अशेषयज्ञफलदमशेषाघविनाशनम्॥ १८ ॥
मूलम्
कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः
अशेषयज्ञफलदमशेषाघविनाशनम्॥ १८ ॥
विश्वास-प्रस्तुतिः
अशेषदुष्टशमनमशेषसुरपूजितम्
पवित्राणां पवित्रं यन्मगलानां च मङ्गलम्
भविष्यं च भविष्याणां पुराणानां पुरातनम्॥ १९ ॥
मूलम्
अशेषदुष्टशमनमशेषसुरपूजितम्
पवित्राणां पवित्रं यन्मगलानां च मङ्गलम्
भविष्यं च भविष्याणां पुराणानां पुरातनम्॥ १९ ॥
विश्वास-प्रस्तुतिः
वासुदेव उवाच
यद्यष्टमी चतुर्द्दश्योर्द्वादशीषु च भारत
अन्येष्वपि दिनर्क्षेषु नशक्तस्त्वमुपोषितुम्॥ २० ॥
मूलम्
वासुदेव उवाच
यद्यष्टमी चतुर्द्दश्योर्द्वादशीषु च भारत
अन्येष्वपि दिनर्क्षेषु नशक्तस्त्वमुपोषितुम्॥ २० ॥
विश्वास-प्रस्तुतिः
ततस्त्वग्र्यामिमां भीम तिथिं पापप्रणाशिनीम्
उपोष्य विधिनानेन गच्छ विष्णोः परं पदं॥ २१ ॥
मूलम्
ततस्त्वग्र्यामिमां भीम तिथिं पापप्रणाशिनीम्
उपोष्य विधिनानेन गच्छ विष्णोः परं पदं॥ २१ ॥
विश्वास-प्रस्तुतिः
माघमासस्य दशमी यदा शुक्ला भवेत्तदा
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत्॥ २२ ॥
मूलम्
माघमासस्य दशमी यदा शुक्ला भवेत्तदा
घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत्॥ २२ ॥
विश्वास-प्रस्तुतिः
तथैव विष्णुमभ्यर्चेन्नमो नारायणाय च
कृष्णाय पादौ सम्पूज्य शिरः कृष्णात्मनेति च॥ २३ ॥
मूलम्
तथैव विष्णुमभ्यर्चेन्नमो नारायणाय च
कृष्णाय पादौ सम्पूज्य शिरः कृष्णात्मनेति च॥ २३ ॥
विश्वास-प्रस्तुतिः
वैकुण्ठायेति वैकण्ठमुरः श्रीवत्सधारिणे
शङ्खिने गदिने चैव चक्रिणे वरदाय वै॥ २४ ॥
मूलम्
वैकुण्ठायेति वैकण्ठमुरः श्रीवत्सधारिणे
शङ्खिने गदिने चैव चक्रिणे वरदाय वै॥ २४ ॥
विश्वास-प्रस्तुतिः
सर्वं नारायणन्त्वेवं सम्पूज्यावाहनक्रमात्
दामोदरायेत्युदरं कटिं पञ्चजनाय वै॥ २५ ॥
मूलम्
सर्वं नारायणन्त्वेवं सम्पूज्यावाहनक्रमात्
दामोदरायेत्युदरं कटिं पञ्चजनाय वै॥ २५ ॥
विश्वास-प्रस्तुतिः
ऊरूसौभाग्यनाथाय जानुनी भूतधारिणे
नमो नीलाय वै जङ्घे पादौ विश्वभुजे पुनः॥ २६ ॥
मूलम्
ऊरूसौभाग्यनाथाय जानुनी भूतधारिणे
नमो नीलाय वै जङ्घे पादौ विश्वभुजे पुनः॥ २६ ॥
विश्वास-प्रस्तुतिः
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै
नमस्तुष्ट्यै नमः पुष्ट्यै धृत्यै व्युष्ट्यै नमो नमः॥ २७ ॥
मूलम्
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै
नमस्तुष्ट्यै नमः पुष्ट्यै धृत्यै व्युष्ट्यै नमो नमः॥ २७ ॥
विश्वास-प्रस्तुतिः
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे
विषप्रमथनायेति गरुडं चाभिपूजयेत्॥ २८ ॥
मूलम्
नमो विहङ्गनाथाय वायुवेगाय पक्षिणे
विषप्रमथनायेति गरुडं चाभिपूजयेत्॥ २८ ॥
विश्वास-प्रस्तुतिः
एवं सम्पूज्य गोविन्दमुमापतिविनायकौ
गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि॥ २९ ॥
मूलम्
एवं सम्पूज्य गोविन्दमुमापतिविनायकौ
गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि॥ २९ ॥
विश्वास-प्रस्तुतिः
गव्येन पयसा सिक्तां कृसरामथ पायसम्
सर्पिषा सह भुक्त्वा तु गत्वा स्थानान्तरं पुनः॥ ३० ॥
मूलम्
गव्येन पयसा सिक्तां कृसरामथ पायसम्
सर्पिषा सह भुक्त्वा तु गत्वा स्थानान्तरं पुनः॥ ३० ॥
विश्वास-प्रस्तुतिः
नैयग्रोधं दन्तकाष्ठमथवा खादिरं बुधः
गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः॥ ३१ ॥
मूलम्
नैयग्रोधं दन्तकाष्ठमथवा खादिरं बुधः
गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः॥ ३१ ॥
विश्वास-प्रस्तुतिः
ब्रूयात्सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ
नमो नारायणायेति त्वामहं शरणं गतः॥ ३२ ॥
मूलम्
ब्रूयात्सायन्तनीं कृत्वा सन्ध्यामस्तमिते रवौ
नमो नारायणायेति त्वामहं शरणं गतः॥ ३२ ॥
विश्वास-प्रस्तुतिः
एकादश्यां निराहारः समभ्यर्च्य च केशवम्
तां रात्रिं सकलां स्थित्वा शेषपर्यङ्कशायिनम्॥ ३३ ॥
मूलम्
एकादश्यां निराहारः समभ्यर्च्य च केशवम्
तां रात्रिं सकलां स्थित्वा शेषपर्यङ्कशायिनम्॥ ३३ ॥
विश्वास-प्रस्तुतिः
सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः
सहैव पुण्डरीकाक्षं द्वादश्यां क्षीरभोजनम्॥ ३४ ॥
मूलम्
सर्पिषा विश्वदहनं हुत्वा ब्राह्मणपुङ्गवैः
सहैव पुण्डरीकाक्षं द्वादश्यां क्षीरभोजनम्॥ ३४ ॥
विश्वास-प्रस्तुतिः
करिष्यामि यथात्मानं निर्विघ्नेनास्तु तच्च मे
एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः॥ ३५ ॥
मूलम्
करिष्यामि यथात्मानं निर्विघ्नेनास्तु तच्च मे
एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः॥ ३५ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशाम्पते
स्नानं कृत्वा मुदा तद्वत्पाषण्डानभिवर्जयेत्॥ ३६ ॥
मूलम्
श्रुत्वा प्रभाते सञ्जाते नदीं गत्वा विशाम्पते
स्नानं कृत्वा मुदा तद्वत्पाषण्डानभिवर्जयेत्॥ ३६ ॥
विश्वास-प्रस्तुतिः
उपास्य सन्ध्यां विधिवत्कृत्वा च पितृतर्पणम्
प्रणम्य च हृषीकेशं शेषपर्यङ्कशायिनम्॥ ३७ ॥
मूलम्
उपास्य सन्ध्यां विधिवत्कृत्वा च पितृतर्पणम्
प्रणम्य च हृषीकेशं शेषपर्यङ्कशायिनम्॥ ३७ ॥
विश्वास-प्रस्तुतिः
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः
चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन॥ ३८ ॥
मूलम्
गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः
चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन॥ ३८ ॥
विश्वास-प्रस्तुतिः
चतुर्हस्तप्रमाणं तु विन्यसेत्तत्र तोरणम्
मध्ये च कलशं तत्र माषमात्रेण संयुतम्॥ ३९ ॥
मूलम्
चतुर्हस्तप्रमाणं तु विन्यसेत्तत्र तोरणम्
मध्ये च कलशं तत्र माषमात्रेण संयुतम्॥ ३९ ॥
विश्वास-प्रस्तुतिः
छिद्रेण जलसम्पूर्णमधः कृष्णाजिने स्थितः
तस्य धारां च शिरसा धारयेत्सकलां निशाम्॥ ४० ॥
मूलम्
छिद्रेण जलसम्पूर्णमधः कृष्णाजिने स्थितः
तस्य धारां च शिरसा धारयेत्सकलां निशाम्॥ ४० ॥
विश्वास-प्रस्तुतिः
धाराभिर्भूरिभिर्भूरि फलं वेदविदो विदुः
यस्मात्तस्मात्कुरुश्रेष्ठ कारयेत्प्रयतो द्विजः॥ ४१ ॥
मूलम्
धाराभिर्भूरिभिर्भूरि फलं वेदविदो विदुः
यस्मात्तस्मात्कुरुश्रेष्ठ कारयेत्प्रयतो द्विजः॥ ४१ ॥
विश्वास-प्रस्तुतिः
दक्षिणे चार्धचन्द्रं तु पश्चिमे वर्तुलं तथा
अश्वत्थपत्राकारं च उत्तरेण तु कारयेत्॥ ४२ ॥
मूलम्
दक्षिणे चार्धचन्द्रं तु पश्चिमे वर्तुलं तथा
अश्वत्थपत्राकारं च उत्तरेण तु कारयेत्॥ ४२ ॥
विश्वास-प्रस्तुतिः
मध्ये तु पद्माकारं च कारयेद्वैष्णवो द्विजः
पूर्वतो वेदिकां स्थो न स्थो न याम्ये च कल्पयेत्॥ ४३ ॥
मूलम्
मध्ये तु पद्माकारं च कारयेद्वैष्णवो द्विजः
पूर्वतो वेदिकां स्थो न स्थो न याम्ये च कल्पयेत्॥ ४३ ॥
विश्वास-प्रस्तुतिः
पानीयधारां शिरसि धारयेद्विष्णुतत्परः
द्वितीया वेदी देवस्य तत्र पद्मं सकर्णिकम्॥ ४४ ॥
मूलम्
पानीयधारां शिरसि धारयेद्विष्णुतत्परः
द्वितीया वेदी देवस्य तत्र पद्मं सकर्णिकम्॥ ४४ ॥
विश्वास-प्रस्तुतिः
तस्य मध्ये स्थितं देवं कुर्याद्वै पुरुषोत्तमम्
हस्तमात्रं च तत्कुण्डं कृत्वा तत्र त्रिमेखलम्॥ ४५ ॥
मूलम्
तस्य मध्ये स्थितं देवं कुर्याद्वै पुरुषोत्तमम्
हस्तमात्रं च तत्कुण्डं कृत्वा तत्र त्रिमेखलम्॥ ४५ ॥
विश्वास-प्रस्तुतिः
योनिवक्त्रं ततस्तस्मिन्ब्राह्मणैर्यवसर्पिषी
तिलांश्च विष्णुदेवत्यैर्मन्त्रैरेवानले हुनेत्॥ ४६ ॥
मूलम्
योनिवक्त्रं ततस्तस्मिन्ब्राह्मणैर्यवसर्पिषी
तिलांश्च विष्णुदेवत्यैर्मन्त्रैरेवानले हुनेत्॥ ४६ ॥
विश्वास-प्रस्तुतिः
कृत्वा तु वैष्णवं सम्यग्यागं तत्र प्रकल्पयेत्
आज्यधारा मध्यमे तु कुण्डे दद्यात्तु यत्नतः॥ ४७ ॥
मूलम्
कृत्वा तु वैष्णवं सम्यग्यागं तत्र प्रकल्पयेत्
आज्यधारा मध्यमे तु कुण्डे दद्यात्तु यत्नतः॥ ४७ ॥
विश्वास-प्रस्तुतिः
क्षीरधारां देवदेवे वारिधारात्मनोपरि
निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत्॥ ४८ ॥
मूलम्
क्षीरधारां देवदेवे वारिधारात्मनोपरि
निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत्॥ ४८ ॥
विश्वास-प्रस्तुतिः
स्वेच्छया क्षीरजलयोरविच्छिन्नां च शर्वरीं
जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश॥ ४९ ॥
मूलम्
स्वेच्छया क्षीरजलयोरविच्छिन्नां च शर्वरीं
जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश॥ ४९ ॥
विश्वास-प्रस्तुतिः
भक्ष्यैर्नानाविधैर्युक्तान्सितवस्त्रैरलङ्कृतान्
प्रतानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितैः1.23.॥ ५० ॥
मूलम्
भक्ष्यैर्नानाविधैर्युक्तान्सितवस्त्रैरलङ्कृतान्
प्रतानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितैः1.23.॥ ५० ॥
विश्वास-प्रस्तुतिः
चतुर्भिर्बह्वृचैर्होमः कार्यस्तत्र उदङ्मुखैः
रुद्रजाप्यश्चतुर्भिश्च यजुर्वेदपरायणैः॥ ५१ ॥
मूलम्
चतुर्भिर्बह्वृचैर्होमः कार्यस्तत्र उदङ्मुखैः
रुद्रजाप्यश्चतुर्भिश्च यजुर्वेदपरायणैः॥ ५१ ॥
विश्वास-प्रस्तुतिः
वैष्णवानि च सामानि चतुर्भिः सामवेदिभिः
एवं द्वादश वै विप्रान्वस्त्रमाल्यानुलेपनैः॥ ५२ ॥
मूलम्
वैष्णवानि च सामानि चतुर्भिः सामवेदिभिः
एवं द्वादश वै विप्रान्वस्त्रमाल्यानुलेपनैः॥ ५२ ॥
विश्वास-प्रस्तुतिः
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः
वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः॥ ५३ ॥
मूलम्
पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः
वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः॥ ५३ ॥
विश्वास-प्रस्तुतिः
एवं क्षपातिवाह्या वै गीतमङ्गलनिःस्वनैः
उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु॥ ५४ ॥
मूलम्
एवं क्षपातिवाह्या वै गीतमङ्गलनिःस्वनैः
उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु॥ ५४ ॥
विश्वास-प्रस्तुतिः
ततः प्रभाते विमले समुत्थाय त्रयोदश
गावो देयाः कुरुश्रेष्ठ सौवर्णशृङ्गसंवृताः॥ ५५ ॥
मूलम्
ततः प्रभाते विमले समुत्थाय त्रयोदश
गावो देयाः कुरुश्रेष्ठ सौवर्णशृङ्गसंवृताः॥ ५५ ॥
विश्वास-प्रस्तुतिः
पयस्विन्यः शीलवत्यः कांस्यदोहसमन्विताः
रौप्यखुराः सवत्साश्च चन्दनेनाभिभूषिताः॥ ५६ ॥
मूलम्
पयस्विन्यः शीलवत्यः कांस्यदोहसमन्विताः
रौप्यखुराः सवत्साश्च चन्दनेनाभिभूषिताः॥ ५६ ॥
विश्वास-प्रस्तुतिः
तास्तु तेषां ततो दत्वा भक्ष्यभोज्येन तर्पितान्
कृत्वा वै ब्राह्मणान्सर्वान्छत्रैर्नानाविधैस्तथा॥ ५७ ॥
मूलम्
तास्तु तेषां ततो दत्वा भक्ष्यभोज्येन तर्पितान्
कृत्वा वै ब्राह्मणान्सर्वान्छत्रैर्नानाविधैस्तथा॥ ५७ ॥
विश्वास-प्रस्तुतिः
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः॥ ५८ ॥
मूलम्
भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत्
अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः॥ ५८ ॥
विश्वास-प्रस्तुतिः
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
एवं गुर्वाज्ञया कुम्भान्गाश्चैव शयनानि च॥ ५९ ॥
मूलम्
प्रीयतामत्र देवेशः केशवः क्लेशनाशनः
एवं गुर्वाज्ञया कुम्भान्गाश्चैव शयनानि च॥ ५९ ॥
विश्वास-प्रस्तुतिः
वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानामेकामपि सुसंस्कृताम्॥ ६० ॥
मूलम्
वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः
अभावे बहुशय्यानामेकामपि सुसंस्कृताम्॥ ६० ॥
विश्वास-प्रस्तुतिः
शय्यां दद्याद्गृही भीम सर्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वा तु वाहयेत्॥ ६१ ॥
मूलम्
शय्यां दद्याद्गृही भीम सर्वोपस्करसंयुताम्
इतिहासपुराणानि वाचयित्वा तु वाहयेत्॥ ६१ ॥
विश्वास-प्रस्तुतिः
तद्दिनं कुरुशार्दूल य इच्छेद्विपुलां श्रियम्
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः॥ ६२ ॥
मूलम्
तद्दिनं कुरुशार्दूल य इच्छेद्विपुलां श्रियम्
तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः॥ ६२ ॥
विश्वास-प्रस्तुतिः
कुरु व्रतमिदं सम्यक्स्नेहाद्गुह्यं मयोदितम्
त्वया कृतमिदं वीर त्वन्नाम्ना च भविष्यति॥ ६३ ॥
मूलम्
कुरु व्रतमिदं सम्यक्स्नेहाद्गुह्यं मयोदितम्
त्वया कृतमिदं वीर त्वन्नाम्ना च भविष्यति॥ ६३ ॥
विश्वास-प्रस्तुतिः
सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा
या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते॥ ६४ ॥
मूलम्
सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा
या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते॥ ६४ ॥
विश्वास-प्रस्तुतिः
त्वं चादिकर्ता भव सौकरेस्मिन्कल्पे महावीर वरप्रधान
यस्याः स्मृतेः कीर्तनतोप्यशेषं पापं प्रणष्टं त्रिदशाधिपस्य॥ ६५ ॥
मूलम्
त्वं चादिकर्ता भव सौकरेस्मिन्कल्पे महावीर वरप्रधान
यस्याः स्मृतेः कीर्तनतोप्यशेषं पापं प्रणष्टं त्रिदशाधिपस्य॥ ६५ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा च तामप्सरसामभीष्टां वेश्याकृतामन्यभवान्तरेषु
जाताथ सा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी॥ ६६ ॥
मूलम्
दृष्ट्वा च तामप्सरसामभीष्टां वेश्याकृतामन्यभवान्तरेषु
जाताथ सा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी॥ ६६ ॥
विश्वास-प्रस्तुतिः
तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा
कृतं पुरा मङ्गलमेतदेव द्विजात्मजा वेदवती बभूव॥ ६७ ॥
मूलम्
तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा
कृतं पुरा मङ्गलमेतदेव द्विजात्मजा वेदवती बभूव॥ ६७ ॥
विश्वास-प्रस्तुतिः
अस्यां च कल्याणतिथौ विवस्वान्सहस्रधारेण सहस्ररश्मिः
स्नातः पुरा मण्डलमेत्य तद्वत्तेजोमयं खेटपतिर्बभूव॥ ६८ ॥
मूलम्
अस्यां च कल्याणतिथौ विवस्वान्सहस्रधारेण सहस्ररश्मिः
स्नातः पुरा मण्डलमेत्य तद्वत्तेजोमयं खेटपतिर्बभूव॥ ६८ ॥
विश्वास-प्रस्तुतिः
इदमेवकृतं महेन्द्रमुख्यैर्बहुभिर्देवसुरारिकोटिभिश्च
फलमस्येह न शक्यते हि वक्तुं यदि जिह्वायुतकोटयो मुखे स्युः॥ ६९ ॥
मूलम्
इदमेवकृतं महेन्द्रमुख्यैर्बहुभिर्देवसुरारिकोटिभिश्च
फलमस्येह न शक्यते हि वक्तुं यदि जिह्वायुतकोटयो मुखे स्युः॥ ६९ ॥
विश्वास-प्रस्तुतिः
कलिकलुषविदारिणीमनन्तामपि कथयिष्यति यादवेन्द्रसूनुः
अथ नरकगतान्पितॄनथैषा ह्यलमुद्धर्तुमिहैव यः करोति॥ ७० ॥
मूलम्
कलिकलुषविदारिणीमनन्तामपि कथयिष्यति यादवेन्द्रसूनुः
अथ नरकगतान्पितॄनथैषा ह्यलमुद्धर्तुमिहैव यः करोति॥ ७० ॥
विश्वास-प्रस्तुतिः
इदमनघशृणोति वक्ति भक्त्या परिपठतीह परोपकारहेतोः
इह पङ्कजनाभभक्तिमान्भवेदथ शक्रस्य सपूज्यतामुपैति॥ ७१ ॥
मूलम्
इदमनघशृणोति वक्ति भक्त्या परिपठतीह परोपकारहेतोः
इह पङ्कजनाभभक्तिमान्भवेदथ शक्रस्य सपूज्यतामुपैति॥ ७१ ॥
विश्वास-प्रस्तुतिः
कल्याणिनी नाम पुरा विसर्गे या द्वादशी माघसितेभिपूज्या
सा पाण्डुपुत्रेण कृता भविष्यत्यन्नतपुण्यानघभीमपूर्वा॥ ७२ ॥
मूलम्
कल्याणिनी नाम पुरा विसर्गे या द्वादशी माघसितेभिपूज्या
सा पाण्डुपुत्रेण कृता भविष्यत्यन्नतपुण्यानघभीमपूर्वा॥ ७२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः
सदाचारश्च भगवान्धर्मशास्त्राङ्गविस्तरैः॥ ७३ ॥
मूलम्
ब्रह्मोवाच
वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः
सदाचारश्च भगवान्धर्मशास्त्राङ्गविस्तरैः॥ ७३ ॥
विश्वास-प्रस्तुतिः
पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्वतः
ईश्वर उवाच
तस्मिन्नेव पुरे ब्रह्मन्सहस्राणि तु षोडश॥ ७४ ॥
मूलम्
पण्यस्त्रीणां समाचारं श्रोतुमिच्छामि तत्वतः
ईश्वर उवाच
तस्मिन्नेव पुरे ब्रह्मन्सहस्राणि तु षोडश॥ ७४ ॥
विश्वास-प्रस्तुतिः
वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव
ताभिर्वसन्तसमये कोकिलालिकुलाकुले॥ ७५ ॥
मूलम्
वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव
ताभिर्वसन्तसमये कोकिलालिकुलाकुले॥ ७५ ॥
विश्वास-प्रस्तुतिः
पुष्पितोपवने फुल्लकल्हारसरसस्तटे
निर्भरं सहपत्नीभिः प्रशस्ताभिरलङ्कृतः॥ ७६ ॥
मूलम्
पुष्पितोपवने फुल्लकल्हारसरसस्तटे
निर्भरं सहपत्नीभिः प्रशस्ताभिरलङ्कृतः॥ ७६ ॥
विश्वास-प्रस्तुतिः
रमयिष्यति विश्वात्मा कृष्णो यदुकुलोद्वहः
कुरङ्गनयनः श्रीमान्मालतीकृतशेखरः॥ ७७ ॥
मूलम्
रमयिष्यति विश्वात्मा कृष्णो यदुकुलोद्वहः
कुरङ्गनयनः श्रीमान्मालतीकृतशेखरः॥ ७७ ॥
विश्वास-प्रस्तुतिः
गच्छन्समीपमार्गेण साम्बो जाम्बवतीसुतः
साक्षात्कन्दर्परूपेण सर्वाभरणभूषितः॥ ७८ ॥
मूलम्
गच्छन्समीपमार्गेण साम्बो जाम्बवतीसुतः
साक्षात्कन्दर्परूपेण सर्वाभरणभूषितः॥ ७८ ॥
विश्वास-प्रस्तुतिः
अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः
प्रबुद्धो मन्मथस्तासां भविष्यति यदात्मनि॥ ७९ ॥
मूलम्
अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः
प्रबुद्धो मन्मथस्तासां भविष्यति यदात्मनि॥ ७९ ॥
विश्वास-प्रस्तुतिः
तदवेक्ष्य जगन्नाथस्सर्वज्ञो ध्यानचक्षुषा
स्वयम्प्रभुर्वक्ष्यति ता वो हरिष्यन्ति दस्यवः॥ ८० ॥
मूलम्
तदवेक्ष्य जगन्नाथस्सर्वज्ञो ध्यानचक्षुषा
स्वयम्प्रभुर्वक्ष्यति ता वो हरिष्यन्ति दस्यवः॥ ८० ॥
विश्वास-प्रस्तुतिः
अपरोक्षं यतस्त्वेवं स्निग्धमेतद्विचिन्तितम्
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत्॥ ८१ ॥
मूलम्
अपरोक्षं यतस्त्वेवं स्निग्धमेतद्विचिन्तितम्
ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत्॥ ८१ ॥
विश्वास-प्रस्तुतिः
ताभिः शापाभितप्ताभिर्भगवान्भूतभावनः
उत्तराश्रितदाशानामुद्धर्ता ब्राह्मणप्रियः॥ ८२ ॥
मूलम्
ताभिः शापाभितप्ताभिर्भगवान्भूतभावनः
उत्तराश्रितदाशानामुद्धर्ता ब्राह्मणप्रियः॥ ८२ ॥
विश्वास-प्रस्तुतिः
उपदेक्ष्यत्यनन्तात्मा भावि कल्याणकारकम्
भवतीनामृषिर्दाल्भ्यो यद्व्रतं कथयिष्यति॥ ८३ ॥
मूलम्
उपदेक्ष्यत्यनन्तात्मा भावि कल्याणकारकम्
भवतीनामृषिर्दाल्भ्यो यद्व्रतं कथयिष्यति॥ ८३ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा ताः परित्यज्य गतोन्तर्धानमीश्वरः
ततः कालेन महता भारावतरणे कृते॥ ८४ ॥
मूलम्
इत्युक्त्वा ताः परित्यज्य गतोन्तर्धानमीश्वरः
ततः कालेन महता भारावतरणे कृते॥ ८४ ॥
विश्वास-प्रस्तुतिः
निवृत्ते मौसले तद्वत्केशवे दिवमागते
शून्ये यदुकुले सर्वे चोरैरपि जितेर्जुने॥ ८५ ॥
मूलम्
निवृत्ते मौसले तद्वत्केशवे दिवमागते
शून्ये यदुकुले सर्वे चोरैरपि जितेर्जुने॥ ८५ ॥
विश्वास-प्रस्तुतिः
हृतासु कृष्णपत्नीषु दाशभोग्यासु चार्बुदे
तिष्ठन्तीषु च दौर्गत्यसन्तप्तासु चतुर्मुख॥ ८६ ॥
मूलम्
हृतासु कृष्णपत्नीषु दाशभोग्यासु चार्बुदे
तिष्ठन्तीषु च दौर्गत्यसन्तप्तासु चतुर्मुख॥ ८६ ॥
विश्वास-प्रस्तुतिः
आगमिष्यति योगात्मा दाल्भ्योनाम महातपाः
तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनःपुनः॥ ८७ ॥
मूलम्
आगमिष्यति योगात्मा दाल्भ्योनाम महातपाः
तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनःपुनः॥ ८७ ॥
विश्वास-प्रस्तुतिः
लालप्यमाना बहुशो वाष्पपर्याकुलेक्षणाः
स्मरन्त्यो विविधान्भोगान्दिव्यमाल्यानुलेपनान्॥ ८८ ॥
मूलम्
लालप्यमाना बहुशो वाष्पपर्याकुलेक्षणाः
स्मरन्त्यो विविधान्भोगान्दिव्यमाल्यानुलेपनान्॥ ८८ ॥
विश्वास-प्रस्तुतिः
भर्त्तारं जगतामीशमनन्तमपराजितम्
दिव्यानुभावां च पुरीन्नानारत्नगृहाणि च॥ ८९ ॥
मूलम्
भर्त्तारं जगतामीशमनन्तमपराजितम्
दिव्यानुभावां च पुरीन्नानारत्नगृहाणि च॥ ८९ ॥
विश्वास-प्रस्तुतिः
द्वारकावासिनः सर्वान्देवरूपान्कुमारकान्
प्रश्नमेतं करिष्यन्ति मुनेरभिमुखंस्थिताः॥ ९० ॥
मूलम्
द्वारकावासिनः सर्वान्देवरूपान्कुमारकान्
प्रश्नमेतं करिष्यन्ति मुनेरभिमुखंस्थिताः॥ ९० ॥
विश्वास-प्रस्तुतिः
दस्युमिर्भगवन्सर्वाः परिभुक्ता वयं बलात्
स्वधर्मश्च्यावितोस्माकमस्मिन्नः शरणं भवान्॥ ९१ ॥
मूलम्
दस्युमिर्भगवन्सर्वाः परिभुक्ता वयं बलात्
स्वधर्मश्च्यावितोस्माकमस्मिन्नः शरणं भवान्॥ ९१ ॥
विश्वास-प्रस्तुतिः
आदिष्टोसि पुरा ब्रह्मन्केशवेन च धीमता
कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः॥ ९२ ॥
मूलम्
आदिष्टोसि पुरा ब्रह्मन्केशवेन च धीमता
कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः॥ ९२ ॥
विश्वास-प्रस्तुतिः
वेश्यानामपि यो धर्मस्तं नो ब्रूहि तपोधन
कथयिष्ये वदत्तासां यद्दाल्भ्यश्चैकितायनः॥ ९३ ॥
मूलम्
वेश्यानामपि यो धर्मस्तं नो ब्रूहि तपोधन
कथयिष्ये वदत्तासां यद्दाल्भ्यश्चैकितायनः॥ ९३ ॥
विश्वास-प्रस्तुतिः
दाल्भ्य उवाच
जलक्रीडाविहारेषु पुरा सरसि मानसे
भवतीनां सगर्वाणां नारदोभ्याशमागतः॥ ९४ ॥
मूलम्
दाल्भ्य उवाच
जलक्रीडाविहारेषु पुरा सरसि मानसे
भवतीनां सगर्वाणां नारदोभ्याशमागतः॥ ९४ ॥
विश्वास-प्रस्तुतिः
हुताशनसुताः सर्वा भवत्योप्सरसः पुरा
अप्रणम्यावलेपेन परिपृष्टः स योगवित्॥ ९५ ॥
मूलम्
हुताशनसुताः सर्वा भवत्योप्सरसः पुरा
अप्रणम्यावलेपेन परिपृष्टः स योगवित्॥ ९५ ॥
विश्वास-प्रस्तुतिः
कथं नारायणोस्माकं भर्त्ता स्यादित्युपादिश
तस्माद्वरप्रदानं च शापश्चायमभूत्पुरा॥ ९६ ॥
मूलम्
कथं नारायणोस्माकं भर्त्ता स्यादित्युपादिश
तस्माद्वरप्रदानं च शापश्चायमभूत्पुरा॥ ९६ ॥
विश्वास-प्रस्तुतिः
शय्याद्वयप्रदानेन मधुमाधवमासयोः
सुवर्णोपस्करोत्सङ्गं द्वादश्यां शुक्लपक्षतः॥ ९७ ॥
मूलम्
शय्याद्वयप्रदानेन मधुमाधवमासयोः
सुवर्णोपस्करोत्सङ्गं द्वादश्यां शुक्लपक्षतः॥ ९७ ॥
विश्वास-प्रस्तुतिः
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात्॥ ९८ ॥
मूलम्
भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि
यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात्॥ ९८ ॥
विश्वास-प्रस्तुतिः
परिपृष्टोस्मि तेनाशु वियोगो वो भविष्यति
चोरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ॥ ९९ ॥
मूलम्
परिपृष्टोस्मि तेनाशु वियोगो वो भविष्यति
चोरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ॥ ९९ ॥
एवं नारदशापेन केशवस्य च शापतः
वेश्यात्वमागताः सर्वा भवत्यः काममोहिताः1.23.१००
इदानीमपि यद्वक्ष्ये तच्छ्रणुध्वं वराङ्गनाः
पुरा दैवासुरे युद्धे हतेषु शतशः सुरैः१०१
दानवासुरदैत्येषु राक्षसेषु ततस्ततः
तेषां दारसहस्राणि शतशोथ सहस्रशः१०२
परिणीतानि यानि स्युर्बलाद्भुक्तानि यानि वै
तानि सर्वाणि देवेशः प्रोवाच वदतां वरः१०३
वेश्याधर्मेण वर्तध्वमधुना नृपमन्दिरे
भक्तिमत्यो वरारोहास्तथा देवकुलेषु च१०४
राजतः स्वामिनश्चापि जीविकां च प्रलप्स्यथ
भविष्यति च सौभाग्यं सर्वासामपि शक्तितः१०५
यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा
निश्छद्मनैवोपचर्यः प्रीतिभावैरदाम्भिकैः१०६
देवतानां पितॄणां च पुण्येह्नि समुपस्थिते
गोभूहिरण्यधान्यानि प्रदेयानि च शक्तितः१०७
यद्व्रतं चोपदेक्ष्यामि तत्कुरुध्वं च सर्वशः
संसारोत्तारणायालमेतद्वेदविदो विदुः१०८
यदा सूर्यदिने हस्तः पुष्यो वाथ पुनर्वसुः
भवेत्सर्वौषधिस्नानं सम्यक्नारी समाचरेत्१०९
तदा पञ्चशरात्मा तु हरिस्सन्निधिमेष्यति
अर्चयेत्पुण्डरीकाक्षमनङ्गस्यानुकीर्तनैः११०
कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे
मेढ्रं कन्दर्पनिधये कटिं प्रीतिमते नमः१११
नाभिं सौख्यसमुद्राय वामनाय तथोदरम्
हृदयं हृदयेशाय स्तनावाह्लादकारिणे११२
उत्कण्ठायेति वै कण्ठमास्यमानन्दकारिणे
वामांसं पुष्पचापाय पुष्पबाणाय दक्षिणम्११३
मानसायेति वै मालि विलोलायेति मूर्द्धजम्
सर्वात्मने शिरस्तद्वद्देवदेवस्य पूजयेत्११४
नमः शिवाय शान्ताय पाशाङ्कुशधराय च
गदिने पीतवस्त्राय शङ्खचक्रधराय च११५
नमो नारायणायेति कामदेवात्मने नमः
नमः शान्त्यै नमः प्रीत्यै नमारेत्यै नमः श्रियै११६
नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे
एवं सम्पूज्य गोविन्दमनङ्गात्मकमीश्वरम्११७
गन्धमाल्यैस्तथा धूपैर्नैवेद्येन च भामिनी
तत आहूय धर्मज्ञं ब्राह्मणं वेदपारगम्११८
अव्यङ्गमथ सम्पूज्य गन्धपुष्पार्चनादिभिः
शालेयतण्डुलप्रस्थं घृतपात्रेण संयुतम्११९
तस्मै विप्राय वै दद्यान्माधवः प्रीयतामिति
यथेष्टाहारसम्भुक्तमेनं द्विजमनुत्तमम्१२०
रत्यर्थं कामदेवोयमिति चित्ते च धारयेत्
यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी१२१
सर्वभावेन चात्मानमर्पयेत्स्मितभाषिणी
एवमादित्यवारेण सर्वमेतत्समाचरेत्१२२
तण्डुलप्रस्थदानं च यावन्मासास्त्रयोदश
ततस्त्रयोदशे मासि सम्प्राप्ते चास्य भामिनी१२३
विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विचक्षणा
सोपधानां सविन्यासां स्वास्तरावरणां शुभाम्१२४
दीपिकोपानहच्छत्र पादुकासनसंयुताम्
सपत्नीकमलङ्कृत्य हेमसूत्राङ्गुलीयकैः१२५
सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः
कामदेवं सपत्नीकं गुडकुम्भोपरिस्थितम्१२६
ताम्रपात्रासनगतं हेमनेत्रपटावृतम्
सुकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम्१२७
दद्यादनेन मन्त्रेण तथैकां गां पयस्विनीम्
यथान्तरं न पश्यामि कामकेशवयोः सदा१२८
तथैव सर्वकामाप्तिरस्तु विप्र सदा मम
तथा च काञ्चनं देवं प्रतिगृह्य द्विजोत्तमः१२९
कोदात्कामोदादिति वैदिकं मन्त्रमुदीरयेत्
ततः प्रदक्षिणीकृत्य विसृज्य द्विजपुङ्गवम्१३०
शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत्
ततः प्रभृति योऽन्योपि रत्यर्थं गेहमागतः१३१
सम्मान्य सूर्यवारेण स सम्पूज्यो भवेत्सदा
एवं त्रयोदशं यावन्मासमेकं द्विजोत्तमम्१३२
तर्पयित्वा यथाकामं प्रेषयेच्चैव मन्दिरम्
तदनुज्ञया रूपवन्तं यावदस्यागमो भवेत्१३३
आत्मनोपि यदा विघ्नं गर्भसूतकराजकम्
दैवं वा मानुषं वा स्यादुपरागेण वा ततः१३४
सावारा नष्टपञ्चाशद्यथाशक्ति समर्पयेत्
एतद्धि कथितं सम्यग्भवतीनां विशेषतः१३५
स्वधर्मोयं यतो भाव्यो वेश्यानामिह सर्वदा
शय्यया त्यज्यते देव न कदाचिद्यथा भवान्१३६
शय्या ममाप्यशून्येयं तथास्तु मधुसूदन
गीतवादित्रनिर्घोषं देवदेवस्य कारयेत्१३७
एतद्वः कथितं सर्वं वेश्याधर्ममशेषतः
पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया१३८
तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते
सर्वपापप्रशमनमनन्तफलदायकम्१३९
कल्याणिनीनां कथितं तदेतद्दुश्चरं व्रतम्
करोति याऽशेषमुदग्रमेतत्कल्याणिनी माधवलोकसंस्था१४०
सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः
तपोधनः सोप्यभिधाय चैतदनङ्गदानव्रतमङ्गनानाम्१४१
स्वस्थानमेष्यन्ति समस्तमित्थं व्रतं करिष्यन्ति च देवयोने१४२