०२२

भीष्म उवाच

विश्वास-प्रस्तुतिः

भूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनः
तपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः॥ १ ॥

मूलम्

भूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनः
तपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः॥ १ ॥

विश्वास-प्रस्तुतिः

पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्
इहलोके शुभं रूपमायुरारोग्यमेव च ॥ २ ॥

मूलम्

पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्
इहलोके शुभं रूपमायुरारोग्यमेव च ॥ २ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजित
पुलस्त्य उवाच
पुरा हुताशनः सार्द्धं मारुतेन महीतले ॥ ३ ॥

मूलम्

लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजित
पुलस्त्य उवाच
पुरा हुताशनः सार्द्धं मारुतेन महीतले ॥ ३ ॥

विश्वास-प्रस्तुतिः

आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ॥ ४ ॥

मूलम्

आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ॥ ४ ॥

विश्वास-प्रस्तुतिः

तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः
विरोचनस्तु संह्रादः प्रयातास्ते तदा वसन् ॥ ५ ॥

मूलम्

तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः
विरोचनस्तु संह्रादः प्रयातास्ते तदा वसन् ॥ ५ ॥

विश्वास-प्रस्तुतिः

अन्तःसमुद्रमाविश्य सन्निवेशमकुर्वत
अशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः ॥ ६ ॥

मूलम्

अन्तःसमुद्रमाविश्य सन्निवेशमकुर्वत
अशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततः प्रभृति वै देवान्मानुषान्स भुजङ्गमान्
सम्पीड्य च मुनीन्सर्वान्प्रविशन्ति पुनर्जलम् ॥ ७ ॥

मूलम्

ततः प्रभृति वै देवान्मानुषान्स भुजङ्गमान्
सम्पीड्य च मुनीन्सर्वान्प्रविशन्ति पुनर्जलम् ॥ ७ ॥

विश्वास-प्रस्तुतिः

एवं युगसहस्राणि ते वीराः सप्त पञ्च च
जलदुर्गबलाद्राजन्पीडयन्ति जगत्त्रयम् ॥ ८ ॥

मूलम्

एवं युगसहस्राणि ते वीराः सप्त पञ्च च
जलदुर्गबलाद्राजन्पीडयन्ति जगत्त्रयम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

ततः पुनरथो वह्निमारुतावमराधिपः
आदिदेशाचिरादम्बु निधिरेष विशोष्यताम्॥ ९ ॥

मूलम्

ततः पुनरथो वह्निमारुतावमराधिपः
आदिदेशाचिरादम्बु निधिरेष विशोष्यताम्॥ ९ ॥

विश्वास-प्रस्तुतिः

यस्मादस्मद्द्विषां चैष शरणं वरुणालयः
तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम्॥ १० ॥

मूलम्

यस्मादस्मद्द्विषां चैष शरणं वरुणालयः
तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम्॥ १० ॥

विश्वास-प्रस्तुतिः

तावूचतुस्ततः शक्रं मयशम्बरसूदनम्
अधर्म एष देवेन्द्र सागरस्य विनाशनम्॥ ११ ॥

मूलम्

तावूचतुस्ततः शक्रं मयशम्बरसूदनम्
अधर्म एष देवेन्द्र सागरस्य विनाशनम्॥ ११ ॥

विश्वास-प्रस्तुतिः

यस्माज्जीवनिकायस्य महतः सङ्क्षयो भवेत्
तस्मादुपायमन्यं तु समाश्रय पुरन्दर॥ १२ ॥

मूलम्

यस्माज्जीवनिकायस्य महतः सङ्क्षयो भवेत्
तस्मादुपायमन्यं तु समाश्रय पुरन्दर॥ १२ ॥

विश्वास-प्रस्तुतिः

यस्य योजनमात्रेपि जीवकोटि शतानि च
निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति॥ १३ ॥

मूलम्

यस्य योजनमात्रेपि जीवकोटि शतानि च
निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति॥ १३ ॥

विश्वास-प्रस्तुतिः

एवमुक्तः सुरेन्द्रस्तु क्रोधसंरक्तलोचनः
उवाचेदं वचो रोषादमरावग्निमारुतौ ॥ १४ ॥

मूलम्

एवमुक्तः सुरेन्द्रस्तु क्रोधसंरक्तलोचनः
उवाचेदं वचो रोषादमरावग्निमारुतौ ॥ १४ ॥

विश्वास-प्रस्तुतिः

न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित्
भवन्तौ तु विशेषेण महात्मानौ च तिष्ठतः ॥ १५ ॥

मूलम्

न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित्
भवन्तौ तु विशेषेण महात्मानौ च तिष्ठतः ॥ १५ ॥

विश्वास-प्रस्तुतिः

ममाज्ञा न कृता यस्मान्मारुतेन समं त्वया
मुन्निव्रतपरो भूत्वा परिगृह्य कलेवरम्॥ १६ ॥

मूलम्

ममाज्ञा न कृता यस्मान्मारुतेन समं त्वया
मुन्निव्रतपरो भूत्वा परिगृह्य कलेवरम्॥ १६ ॥

विश्वास-प्रस्तुतिः

धर्मार्थशास्त्ररहितां योनिं प्रति विभावसो
तस्मादेकेन वपुषा मुनिरूपेण मानुषे ॥ १७ ॥

मूलम्

धर्मार्थशास्त्ररहितां योनिं प्रति विभावसो
तस्मादेकेन वपुषा मुनिरूपेण मानुषे ॥ १७ ॥

विश्वास-प्रस्तुतिः

मारुतेन समं लोके तव जन्म भविष्यति
यदा तु मानुषत्वेपि त्वया गण्डूषशोषितः ॥ १८ ॥

मूलम्

मारुतेन समं लोके तव जन्म भविष्यति
यदा तु मानुषत्वेपि त्वया गण्डूषशोषितः ॥ १८ ॥

विश्वास-प्रस्तुतिः

भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि
इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले ॥ १९ ॥

मूलम्

भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि
इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले ॥ १९ ॥

विश्वास-प्रस्तुतिः

अवाप्तवन्तौ देहे च कुम्भाज्जन्म ततोभवत्
मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत् ॥ २० ॥

मूलम्

अवाप्तवन्तौ देहे च कुम्भाज्जन्म ततोभवत्
मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत् ॥ २० ॥

विश्वास-प्रस्तुतिः

ततोगस्त्य उग्रतपा बभूव मुनिसत्तमः
अस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः॥ २१ ॥

मूलम्

ततोगस्त्य उग्रतपा बभूव मुनिसत्तमः
अस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः॥ २१ ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच
कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ
जन्म कुम्भादगस्त्यस्य यथाभूत्तद्वदाधुना ॥ २२ ॥

मूलम्

भीष्म उवाच
कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ
जन्म कुम्भादगस्त्यस्य यथाभूत्तद्वदाधुना ॥ २२ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
पुरा पुराणपुरुषः कदाचिद्गन्धमादने
भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः ॥ २३ ॥

मूलम्

पुलस्त्य उवाच
पुरा पुराणपुरुषः कदाचिद्गन्धमादने
भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः ॥ २३ ॥

विश्वास-प्रस्तुतिः

तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौ
शक्रेण माधवानङ्गावप्सरोगणसंयुतौ ॥ २४ ॥

मूलम्

तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौ
शक्रेण माधवानङ्गावप्सरोगणसंयुतौ ॥ २४ ॥

विश्वास-प्रस्तुतिः

यदा च गीतवाद्येन भावहावादिना हरिः
न काममाधवाभ्यां च मोहं नेतुमशक्यत ॥ २५ ॥

मूलम्

यदा च गीतवाद्येन भावहावादिना हरिः
न काममाधवाभ्यां च मोहं नेतुमशक्यत ॥ २५ ॥

विश्वास-प्रस्तुतिः

तदा काममधुस्त्रीणां विषादमभजद्गणः
सङ्क्षोभायत तस्तेषामूरुदेशान्नराग्रजः॥ २६ ॥

मूलम्

तदा काममधुस्त्रीणां विषादमभजद्गणः
सङ्क्षोभायत तस्तेषामूरुदेशान्नराग्रजः॥ २६ ॥

विश्वास-प्रस्तुतिः

नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम्
सम्मोहितास्तया देवास्तौ तु चैव सुरावुभौ॥ २७ ॥

मूलम्

नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम्
सम्मोहितास्तया देवास्तौ तु चैव सुरावुभौ॥ २७ ॥

विश्वास-प्रस्तुतिः

अप्सराणां समक्षं हि देवानामब्रवीद्धरिः
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति॥ २८ ॥

मूलम्

अप्सराणां समक्षं हि देवानामब्रवीद्धरिः
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति॥ २८ ॥

विश्वास-प्रस्तुतिः

ततः कामयमानेन मित्रेणाहूयतोर्वशी
प्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा ॥ २९ ॥

मूलम्

ततः कामयमानेन मित्रेणाहूयतोर्वशी
प्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा ॥ २९ ॥

विश्वास-प्रस्तुतिः

गच्छन्ती तु ततः सूर्यलोकमिन्दीवरेक्षणा
वरुणेन वृता पश्चाद्वचनं तमभाषत ॥ ३० ॥

मूलम्

गच्छन्ती तु ततः सूर्यलोकमिन्दीवरेक्षणा
वरुणेन वृता पश्चाद्वचनं तमभाषत ॥ ३० ॥

विश्वास-प्रस्तुतिः

मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभो
उवाच वरुणश्चित्तं मयि सन्न्यस्य गम्यताम् ॥ ३१ ॥

मूलम्

मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभो
उवाच वरुणश्चित्तं मयि सन्न्यस्य गम्यताम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

गतायां बाढमित्युक्त्वा मित्रः शापमदादथ
अद्यैव मानुषे लोके गच्छ सोमसुतात्मजम्॥ ३२ ॥

मूलम्

गतायां बाढमित्युक्त्वा मित्रः शापमदादथ
अद्यैव मानुषे लोके गच्छ सोमसुतात्मजम्॥ ३२ ॥

विश्वास-प्रस्तुतिः

भजस्वेति यतो मिथ्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च ॥ ३३ ॥

मूलम्

भजस्वेति यतो मिथ्या धर्म एष त्वया कृतः
जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च ॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्रक्षिप्तमथ सञ्जातौ द्वावेव मुनिसत्तमौ
निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ॥ ३४ ॥

मूलम्

प्रक्षिप्तमथ सञ्जातौ द्वावेव मुनिसत्तमौ
निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तदन्तरेभ्याजगाम वसिष्ठो ब्रह्मसम्भवः
तस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम् ॥ ३५ ॥

मूलम्

तदन्तरेभ्याजगाम वसिष्ठो ब्रह्मसम्भवः
तस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिः
अन्योन्यशापादुभयोर्विशरीरे तु तेजसी ॥ ३६ ॥

मूलम्

विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिः
अन्योन्यशापादुभयोर्विशरीरे तु तेजसी ॥ ३६ ॥

विश्वास-प्रस्तुतिः

जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम्
अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः ॥ ३७ ॥

मूलम्

जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम्
अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः ॥ ३७ ॥

विश्वास-प्रस्तुतिः

निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिव
वसिष्ठोप्यभवत्तस्मिञ्जलकुम्भे च पूर्ववत् ॥ ३८ ॥

मूलम्

निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिव
वसिष्ठोप्यभवत्तस्मिञ्जलकुम्भे च पूर्ववत् ॥ ३८ ॥

विश्वास-प्रस्तुतिः

ततो जातश्चतुर्बाहुः साक्षसूत्रकमण्डलुः
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः॥ ३९ ॥

मूलम्

ततो जातश्चतुर्बाहुः साक्षसूत्रकमण्डलुः
अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः॥ ३९ ॥

विश्वास-प्रस्तुतिः

मलयस्यैकदेशे तु वैखानस विधानतः
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ॥ ४० ॥

मूलम्

मलयस्यैकदेशे तु वैखानस विधानतः
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ॥ ४० ॥

विश्वास-प्रस्तुतिः

ततः कालेन महता तारकादिनिपीडितम्
जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम्॥ ४१ ॥

मूलम्

ततः कालेन महता तारकादिनिपीडितम्
जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम्॥ ४१ ॥

विश्वास-प्रस्तुतिः

ततोस्य वरदास्सर्वे बभूवुः शङ्करादयः
ब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः॥ ४२ ॥

मूलम्

ततोस्य वरदास्सर्वे बभूवुः शङ्करादयः
ब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः॥ ४२ ॥

विश्वास-प्रस्तुतिः

वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुने
अगस्त्य उवाच
यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः॥ ४३ ॥

मूलम्

वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुने
अगस्त्य उवाच
यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः॥ ४३ ॥

विश्वास-प्रस्तुतिः

वैमानिको भविष्यामि दक्षिणाम्बरवर्त्मनि
मद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम ॥ ४४ ॥

मूलम्

वैमानिको भविष्यामि दक्षिणाम्बरवर्त्मनि
मद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स सप्तलोकाधिपतिः पर्यायेण भविष्यति
यस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत् ॥ ४५ ॥

मूलम्

स सप्तलोकाधिपतिः पर्यायेण भविष्यति
यस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

स चैव पुण्यतां यातु वर एष वृतो मया
श्राद्धं येऽत्र करिष्यन्ति पिण्डपूर्वं तु भक्तितः॥ ४६ ॥

मूलम्

स चैव पुण्यतां यातु वर एष वृतो मया
श्राद्धं येऽत्र करिष्यन्ति पिण्डपूर्वं तु भक्तितः॥ ४६ ॥

विश्वास-प्रस्तुतिः

तेषां पितृगणास्सर्वे मया सह दिवि स्थिताः
एतत्कालं वसिष्यन्ति एष एव वरो मम॥ ४७ ॥

मूलम्

तेषां पितृगणास्सर्वे मया सह दिवि स्थिताः
एतत्कालं वसिष्यन्ति एष एव वरो मम॥ ४७ ॥

विश्वास-प्रस्तुतिः

एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्
तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः॥ ४८ ॥

मूलम्

एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्
तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः॥ ४८ ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच
कथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेः
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥ ४९ ॥

मूलम्

भीष्म उवाच
कथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेः
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥ ४९ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
प्रत्यूष समये विद्वान्कुर्यादस्योदये निशि
स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही ५० 1.22.50
स्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम्
पञ्चरत्नसमायुक्तं घृतपात्रेणसंयुतम्॥ ५१ ॥

अङ्गुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदण्डम्
चतुर्भुजं कुम्भमुखे निधाय धान्यानि सप्ताचलसंयुतानि॥ ५२ ॥

मूलम्

अङ्गुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदण्डम्
चतुर्भुजं कुम्भमुखे निधाय धान्यानि सप्ताचलसंयुतानि॥ ५२ ॥

विश्वास-प्रस्तुतिः

सकांस्यपात्राक्षतशुक्लयुक्तं मन्त्रेण दद्याद्द्विजपुङ्गवाय
उत्क्षिप्य कुम्भोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम्॥ ५३ ॥

मूलम्

सकांस्यपात्राक्षतशुक्लयुक्तं मन्त्रेण दद्याद्द्विजपुङ्गवाय
उत्क्षिप्य कुम्भोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम्॥ ५३ ॥

विश्वास-प्रस्तुतिः

श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सां
धेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघण्टाभराणां द्विजाय॥ ५४ ॥

मूलम्

श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सां
धेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघण्टाभराणां द्विजाय॥ ५४ ॥

विश्वास-प्रस्तुतिः

आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेण
यावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदन्ति केचित्॥ ५५ ॥

मूलम्

आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेण
यावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदन्ति केचित्॥ ५५ ॥

विश्वास-प्रस्तुतिः

काशपुष्पप्रतीकाश अग्निमारुतसम्भव
मित्रावरुणयोः पुत्र कुम्भयोने नमोस्तु ते॥ ५६ ॥

मूलम्

काशपुष्पप्रतीकाश अग्निमारुतसम्भव
मित्रावरुणयोः पुत्र कुम्भयोने नमोस्तु ते॥ ५६ ॥

विश्वास-प्रस्तुतिः

प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदति
होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम्॥ ५७ ॥

मूलम्

प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदति
होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम्॥ ५७ ॥

विश्वास-प्रस्तुतिः

अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्य
इमं लोकमवाप्नोति रूपारोग्यफलप्रदम्॥ ५८ ॥

मूलम्

अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्य
इमं लोकमवाप्नोति रूपारोग्यफलप्रदम्॥ ५८ ॥

विश्वास-प्रस्तुतिः

द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम्
सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति॥ ५९ ॥

मूलम्

द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम्
सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति॥ ५९ ॥

विश्वास-प्रस्तुतिः

इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत्
मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः॥ ६० ॥

मूलम्

इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत्
मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः॥ ६० ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच
सौभाग्यारोग्यफलदममित्रक्षयकारकम्
भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते॥ ६१ ॥

मूलम्

भीष्म उवाच
सौभाग्यारोग्यफलदममित्रक्षयकारकम्
भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते॥ ६१ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
यदुमाया पुरा देव उवाचान्धकसूदनः
कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च॥ ६२ ॥

मूलम्

पुलस्त्य उवाच
यदुमाया पुरा देव उवाचान्धकसूदनः
कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च॥ ६२ ॥

विश्वास-प्रस्तुतिः

तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्
गौर्युवाच
दत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर॥ ६३ ॥

मूलम्

तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्
गौर्युवाच
दत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर॥ ६३ ॥

विश्वास-प्रस्तुतिः

यथा लक्ष्मीप्रधानत्वमहं यामि तथा वद
शङ्कर उवाच
शुणुष्वावहिता देवि तथैवान्यत्स्वयङ्कृतम्॥ ६४ ॥

मूलम्

यथा लक्ष्मीप्रधानत्वमहं यामि तथा वद
शङ्कर उवाच
शुणुष्वावहिता देवि तथैवान्यत्स्वयङ्कृतम्॥ ६४ ॥

विश्वास-प्रस्तुतिः

नराणामथ नारीणामाराधनमनुत्तमम्
नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ॥ ६५ ॥

मूलम्

नराणामथ नारीणामाराधनमनुत्तमम्
नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ॥ ६५ ॥

विश्वास-प्रस्तुतिः

शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः
गोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा॥ ६६ ॥

मूलम्

शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः
गोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा॥ ६६ ॥

विश्वास-प्रस्तुतिः

दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत्
सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम्॥ ६७ ॥

मूलम्

दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत्
सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम्॥ ६७ ॥

विश्वास-प्रस्तुतिः

प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी
धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च ॥ ६८ ॥

मूलम्

प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी
धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च ॥ ६८ ॥

विश्वास-प्रस्तुतिः

विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत्
कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी ॥ ६९ ॥

मूलम्

विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत्
कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी ॥ ६९ ॥

विश्वास-प्रस्तुतिः

देवीं च पञ्चगव्येन ततः क्षीरेण केवलं
स्नापयेन्मधुना तद्वत्पुष्पगन्धोदकेन तु॥ ७० ॥

मूलम्

देवीं च पञ्चगव्येन ततः क्षीरेण केवलं
स्नापयेन्मधुना तद्वत्पुष्पगन्धोदकेन तु॥ ७० ॥

विश्वास-प्रस्तुतिः

पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि
धान्यलाजादिलवणगुडक्षीरघृतान्वितैः॥ ७१ ॥

मूलम्

पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि
धान्यलाजादिलवणगुडक्षीरघृतान्वितैः॥ ७१ ॥

विश्वास-प्रस्तुतिः

शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया
पादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने ॥ ७२ ॥

मूलम्

शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया
पादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने ॥ ७२ ॥

विश्वास-प्रस्तुतिः

वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः
अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥ ७३ ॥

मूलम्

वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः
अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥ ७३ ॥

विश्वास-प्रस्तुतिः

ऊरू माङ्गल्यकारिण्यै वामदेव्यै तथा कटिम्
पद्मोदरायै जठरं नमः कण्ठे श्रियै नमः॥ ७४ ॥

मूलम्

ऊरू माङ्गल्यकारिण्यै वामदेव्यै तथा कटिम्
पद्मोदरायै जठरं नमः कण्ठे श्रियै नमः॥ ७४ ॥

विश्वास-प्रस्तुतिः

करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै
मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः॥ ७५ ॥

मूलम्

करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै
मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः॥ ७५ ॥

विश्वास-प्रस्तुतिः

गौर्यै नमस्तथानासामुत्पलायै च लोचने
तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः॥ ७६ ॥

मूलम्

गौर्यै नमस्तथानासामुत्पलायै च लोचने
तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः॥ ७६ ॥

विश्वास-प्रस्तुतिः

नमो गोर्य्यै नमः पुष्ट्यै नमः कान्त्यै नमः श्रियै
रम्भायै ललितायै च वामदेव्यै नमो नमः॥ ७७ ॥

मूलम्

नमो गोर्य्यै नमः पुष्ट्यै नमः कान्त्यै नमः श्रियै
रम्भायै ललितायै च वामदेव्यै नमो नमः॥ ७७ ॥

विश्वास-प्रस्तुतिः

एवं सम्पूज्य विधिवदग्रतः पद्ममालिखेत्
पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम्॥ ७८ ॥

मूलम्

एवं सम्पूज्य विधिवदग्रतः पद्ममालिखेत्
पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम्॥ ७८ ॥

विश्वास-प्रस्तुतिः

पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम्
भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम्॥ ७९ ॥

मूलम्

पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम्
भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम्॥ ७९ ॥

विश्वास-प्रस्तुतिः

विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम्
वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम्॥ ८० ॥

मूलम्

विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम्
वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम्॥ ८० ॥

विश्वास-प्रस्तुतिः

साध्यां पथ्यां तथा सौम्यां मङ्गलां कुमदां सतीम्
भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि॥ ८१ ॥

मूलम्

साध्यां पथ्यां तथा सौम्यां मङ्गलां कुमदां सतीम्
भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि॥ ८१ ॥

विश्वास-प्रस्तुतिः

कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत्
गीतमङ्गलघोषं च कारयित्वा सुवासिनीम्॥ ८२ ॥

मूलम्

कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत्
गीतमङ्गलघोषं च कारयित्वा सुवासिनीम्॥ ८२ ॥

विश्वास-प्रस्तुतिः

पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः
सिन्दूरं स्नानचूर्णं च तासां शिरसि पातयेत्॥ ८३ ॥

मूलम्

पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः
सिन्दूरं स्नानचूर्णं च तासां शिरसि पातयेत्॥ ८३ ॥

विश्वास-प्रस्तुतिः

सिन्दूरं कुङ्कुमं स्नानमतीवेष्टं यतस्ततः
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्॥ ८४ ॥

मूलम्

सिन्दूरं कुङ्कुमं स्नानमतीवेष्टं यतस्ततः
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्॥ ८४ ॥

विश्वास-प्रस्तुतिः

न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः
जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा॥ ८५ ॥

मूलम्

न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः
जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा॥ ८५ ॥

विश्वास-प्रस्तुतिः

बन्धुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतः
जातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरण्टकैः॥ ८६ ॥

मूलम्

बन्धुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतः
जातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरण्टकैः॥ ८६ ॥

विश्वास-प्रस्तुतिः

कुन्दैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत्
सिन्दुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः॥ ८७ ॥

मूलम्

कुन्दैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत्
सिन्दुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः॥ ८७ ॥

विश्वास-प्रस्तुतिः

चैत्रे तु मल्लिकाशोकैर्वैशाखे गन्धपाटलैः
ज्येष्ठे कमलमन्दारैराषाढे च जलाम्बुजैः॥ ८८ ॥

मूलम्

चैत्रे तु मल्लिकाशोकैर्वैशाखे गन्धपाटलैः
ज्येष्ठे कमलमन्दारैराषाढे च जलाम्बुजैः॥ ८८ ॥

विश्वास-प्रस्तुतिः

मन्दारैरथ मालत्या श्रावणे पूजयेत्सदा
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्॥ ८९ ॥

मूलम्

मन्दारैरथ मालत्या श्रावणे पूजयेत्सदा
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्॥ ८९ ॥

विश्वास-प्रस्तुतिः

बिल्वपत्रार्ककुसुमाम्बुज गोशृङ्गवारि च
पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा॥ ९० ॥

मूलम्

बिल्वपत्रार्ककुसुमाम्बुज गोशृङ्गवारि च
पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा॥ ९० ॥

विश्वास-प्रस्तुतिः

एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम्
प्रतिपक्षं च मिथुनं तृतीयायां वरानने॥ ९१ ॥

मूलम्

एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम्
प्रतिपक्षं च मिथुनं तृतीयायां वरानने॥ ९१ ॥

विश्वास-प्रस्तुतिः

भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः
पुंसः पीताम्बरे दद्यात्स्त्रियाः कौशेयवाससी॥ ९२ ॥

मूलम्

भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः
पुंसः पीताम्बरे दद्यात्स्त्रियाः कौशेयवाससी॥ ९२ ॥

विश्वास-प्रस्तुतिः

निष्पाव जीरलवणमिक्षुदण्ड गुडान्वितम्
स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम्॥ ९३ ॥

मूलम्

निष्पाव जीरलवणमिक्षुदण्ड गुडान्वितम्
स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम्॥ ९३ ॥

विश्वास-प्रस्तुतिः

यथा न देवि देवस्त्वां सम्परित्यज्य गच्छति
तथा मामुद्धराशेष दुःखसंसारसागरात्॥ ९४ ॥

मूलम्

यथा न देवि देवस्त्वां सम्परित्यज्य गच्छति
तथा मामुद्धराशेष दुःखसंसारसागरात्॥ ९४ ॥

विश्वास-प्रस्तुतिः

कुमुदा विमला नन्दा भवानी वसुधा शिवा
ललिता कमला गौरी सती रम्भाथ पार्वती॥ ९५ ॥

मूलम्

कुमुदा विमला नन्दा भवानी वसुधा शिवा
ललिता कमला गौरी सती रम्भाथ पार्वती॥ ९५ ॥

विश्वास-प्रस्तुतिः

नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्
व्रतान्ते शयनं दद्यात्सुवर्णकमलान्वितम्॥ ९६ ॥

मूलम्

नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्
व्रतान्ते शयनं दद्यात्सुवर्णकमलान्वितम्॥ ९६ ॥

विश्वास-प्रस्तुतिः

मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत्
अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत्॥ ९७ ॥

मूलम्

मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत्
अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत्॥ ९७ ॥

विश्वास-प्रस्तुतिः

पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत्
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा॥ ९८ ॥

मूलम्

पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत्
उक्तानन्ततृतीयैषा सदानन्तफलप्रदा॥ ९८ ॥

विश्वास-प्रस्तुतिः

सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी
न चैनं वित्तशाठ्येन कदाचिदपि लङ्घयेत्॥ ९९ ॥

मूलम्

सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी
न चैनं वित्तशाठ्येन कदाचिदपि लङ्घयेत्॥ ९९ ॥

नरो वा यदि वा नारी सोपवासव्रतं चरेत्
गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी१०० 1.22.100
यदाऽशुद्धा तदान्येन कारयेत्प्रयता स्वयम्
इमामनन्तफलदां यस्तृतीयां समाचरेत्१०१
कल्पकोटिशतं साग्रं शिवलोके महीयते
वित्तहीनोपि कुर्वीत यावद्वर्षमुपोषणम्१०२
पुष्पमन्त्रविधाने सोपि तत्फलमाप्नुयात्
नारी वा कुरुते या तु आत्मनः शुभमिच्छती१०३
जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम्
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिन्द्रलोकसंस्थः१०४
मतिमपि च ददाति योपि देवैरमरवधूजनकिन्नरैः स पूज्यः
अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्१०५
रसकल्याणिनीमेतां पुराकल्पभवा विदुः
माघेमासि तु सम्प्राप्य तृतीयां शुक्लपक्षतः१०६
प्रातर्गन्धेन पयसा तिलैः स्नानं समाचरेत्
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु१०७
गन्धोदकेन च पुनः पूजनं कुङ्कुमेन तु
दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत्१०८
ललितायै पदं देव्यै वामगुल्फौ ततोर्चयेत्
जङ्घे जानु तथा शान्त्यै तथैवोरुं श्रियै नमः१०९
मदालसायै च कटिममलायै तथोदरम्
स्तनौ मदनवासिन्यै कुमुदायै च कन्धराम्११०
भुजं भुजाग्रं माधव्यै कमलायै सुखस्मिते
भ्रूललाटं च रुद्राण्यै शङ्करायै तथालकं१११
मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ
नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः११२
उत्कण्ठिन्यै नमः कण्ठममृतायै नमस्तनुम्
रम्भायै च महाबाहू विशोकायै नमः करौ११३
हृदयं मन्मथाह्वायै पाटलायै तथोदरं
कटिं सुरतवासिन्यै तथोरू पङ्कजश्रियै११४
जानुजङ्घे नमो गौर्यै गुल्फौ शान्त्यै तथार्चयेत्
धराधरायै पादौ तु विश्वकायै नमः शिरः११५
नमो भवान्यै कामिन्यै वासुदेव्यै जगच्छ्रियै
आनन्ददायै नन्दायै सुभद्रायै नमोनमः११६
एवं सम्पूज्य विधिवद्द्विजदाम्पत्यमर्चयेत्
भोजयित्त्वा तथान्नेन मधुरेण विमत्सरः११७
समोदकं वारिकुम्भं शुक्लाम्बरयुगद्वयं
दत्त्वा सुवर्णकमलं गन्धमाल्यैरथार्चयेत्११८
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम्
अनेन विधिना देवीं मासिमासि सदार्चयेत्११९
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः
नवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे१२०
पानीयं ज्येष्ठमासे तु तथाषाढे च जीरकं
श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा१२१
घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकं
धान्याकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा१२२
व्रतान्ते करकं पूर्णमेतेषां मासिमासि च
दद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतं१२३ विकाल
लड्डुकास्सेवकाश्चैव संयावमथ पूरिका
नारिका घृतपूर्णाश्च पिष्टपूर्णा च नन्दिकी१२४
क्षीरशाकं च दध्यन्नं पिण्डशाकं तथैव च
माघादौ क्रमशो दद्यादेतानि करकोपरि१२५
कुमुदा माधवी रम्भा सुभद्रा च शिवा जया
ललिता कमलानङ्गा मङ्गला रति लालसा१२६
क्रमान्माघादिमासेषु प्रीयतामिति कीर्तयेत्
सर्वत्र पञ्चगव्यं च प्राशनं समुदाहृतं१२७
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते
कुर्यादेवमिदं नारी रसकल्याणिनी व्रतं१२८
पुनर्माघे च सम्प्राप्ते शर्करा कलशोपरि
कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्वितां१२९
स्वकीयाङ्गुष्ठमात्रं च साक्षसूत्रकमण्डलुं
चतुर्भुजामिन्दुयुतां सितनेत्रपटावृतां१३०
तद्वद्गोमिथुनं चैव सुवर्णस्य सिताम्बरं
सवस्त्रं भाजनं दद्याद्भवानी प्रीयतामिति१३१
अनेनविधिना यस्तु रसकल्याणिनीव्रतं
कुर्याच्च सर्वपापेभ्यस्तत्क्षणादेव मुच्यते१३२
भवानां च सहस्रं तु न दुःखी जायते क्वचित्
अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात्१३३
नारी वा कुरुते या तु कुमारी वा वरानने
विधवा च वराकी वा सापि तत्फलभागिनी१३४
सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते
इति पठति य इत्थं यः शृणोति प्रसङ्गात्
सकलकलुषमुक्तः पार्वतीलोकमेति१३५
मतिमपि च विधत्ते यो नराणां प्रियार्थं
विबुधपतिजनानां लोकगः स्यादमोघः
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्१३६
नाम्ना च लोकविख्यातामग्र्यानन्दकरीमिमां
यदा शुक्लतृतीयायामषाढर्क्षं भवेत्क्वचित्१३७
ब्रह्मर्क्षं वाथ च मघा हस्तो मूलमथापि वा
दर्भगन्धोदकैः स्नानं तदा सम्यक्समाचरेत्१३८
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः
भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगन्धिभिः१३९
महादेवं च सकलमुपविष्टं महासने
वासुदेव्यै नमः पादौ शङ्करायै नमो हरेः१४०
जङ्घेशोकविनाशिन्यै मानदायै नमः प्रभोः
रम्भायै पूजयेदूरू शिवाय च पिनाकिने१४१
आनन्दिन्यै कटिं देव्याः शूलिनश्शूलपाणये
माधव्यै च तथा नाभिमथ शम्भोर्भवाय वै१४२
स्तनौ चानन्दकारिण्यै शङ्करस्येन्दुधारिणे
उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरेः१४३
करावुत्पलधारिण्यै रुद्राय जगतः प्रभो
बाहू च परिरम्भिण्यै नृत्यप्रीताय वै हरेः१४४
देव्या मुखं विलासिन्यै वृषभाय पुनर्विभोः
स्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः१४५
नेत्रे मन्दारवासिन्यै विश्वधाम्ने त्रिशूलिनः
भ्रुवौ नृत्यप्रियायै च शम्भोर्वै पाशशूलिने१४६
देव्या ललाटमिन्द्राण्यै वृषवाहाय वै विभोः
स्वाहायै मकुटं देव्या विभो गङ्गाधराय वै१४७
विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौ
प्रसन्नवरदौ वन्दे पार्वतीपरमेश्वरौ१४८
एवं सम्पूज्य विधिवदग्रतः शिवयोः पुनः
पद्मोत्पलानि रजसा नानावर्णेन कारयेत्१४९
शङ्खचक्रे सकटके स्वस्तिकं शुभकारकम्
यावन्तः पांसवस्तत्र रजसः पतिता भुवि१५० 1.22.150
तावद्वर्षसहस्राणि शिवलोके महीयते
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः१५१
दत्वा द्विजाय करकमुदकेन समन्वितम्
प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेत्१५२
ततस्तु चतुरो मासान्पूर्ववत्करकोपरि
चत्वारि घृतपात्राणि तिलपात्राण्यन्नन्तरं१५३
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकं
अपक्वं दधिदुग्धं च गोशृङ्गोदकमेव च१५४
अब्दोदकं तथा वारिकुष्ठचूर्णान्वितं पुनः
उशीरसलिलं चैव यवचूर्णोदकं पुनः१५५
तिलोदकं च सम्प्राश्यस्वपेन्मार्गशिरादिषु
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्१५६
सर्वत्रशुक्लपुष्पाणिप्रशस्तानिसदार्चने
दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत्१५७
गौरी मे प्रीयतां नित्यमघनाशाय मङ्गला
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये१५८
संवत्सरान्ते लवणं गुडकुङ्कुमसंयुतम्
चन्दनेनयुतं कुम्भं सहस्वर्णाम्बुजेन च१५९
उमायाः प्रीतये हैमं तद्विदिक्षुफलैर्युतम्
सास्तरावरणां शय्यां सविश्रामां निवेदयेत्१६०
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति
आत्मानन्दकरीं नाम प्राप्नुयात्सम्पदं नरः१६१
आयुरानन्दसम्पन्नो न क्वचिच्छोकमाप्नुयात्
नारी वा कुरुते या तु कुमारी विधवा तथा१६२
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानतः१६३
रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम्
इमां यः शृणुयान्नित्यं श्रावयेद्वापि भक्तितः१६४
शक्रलोकं स गत्वा तु पूज्यते कल्पसंस्थितः
शङ्कर उवाच
एवंविधा भवति चेन्नारी व्रतपरायणा१६५
सावित्री तु वराकी सा तस्याः शापस्तु कीदृशः
न काचिद्गणना चास्ति यतस्त्रैलोक्यसुन्दरी१६६
सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहात्
मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः१६७
लक्ष्म्यर्थं विष्णुना चापि वारिधिर्मथितः पुरा
आज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचित्१६८
सावित्र्या मानना कार्या कुपितायाः प्रसादनम्
मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना१६९
गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ वरानने
एवमुक्त्वा गतो रुद्रो गौरी तत्र व्यवस्थिता१७०
कृतं युगं समग्रं च यज्ञे तस्मिन्हुताशनः
वहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयम्१७१
भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणे
कामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः१७२
रुद्रेणोक्तस्तदा विष्णुर्धर्मांस्ते त्वं प्रकीर्त्तय
गौरीधर्मान्सरस्वत्या व्रतं यत्परिकीर्तितम्१७३
इत्येवमुक्ते रुद्रेण विष्णुः प्रोवाच सादरम्
नाहं धर्मं ख्यापयिष्ये स्वकीयं शङ्कराधुना१७४
भवानाख्यातु माहात्म्यं मदीयं सुरसत्तम
त्वया वै कथितं पूर्वं कृते वै पापसङ्क्षयः१७५
भविष्यति न सन्देहो भवान्पूतो भविष्यति
भीष्म उवाच
मधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम१७६
तथैव जनसौभाग्यं मतिर्विद्यासु कौशलम्
अभेदश्चापि दाम्पत्ये सङ्गो बन्धुजनेन च१७७
आयुश्च विपुलं पुंसां तन्मे कथय सत्तम
पुलस्त्य उवाच
सम्यक्पृष्टं त्वया राजन्शृणु सारस्वतं व्रतम्१७८
यस्य सङ्कीर्तनादेव देवी तुष्येत्सरस्वती
यावद्भक्तः स्तवं कुर्यादेतद्व्रतमनुत्तमम्१७९
प्राग्वासरादौ सम्पूज्य दिव्यं स्तवं समारभेत्
अथवा रविवारेण ग्रहताराबलेन च१८०
पायसं भोजयेद्विप्रान्कुर्याद्ब्राह्मणवाचनम्
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः१८१
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः
यथा न देवि भगवान्ब्रह्मा लोकपितामहः१८२
त्वां परित्यज्य तिष्ठेच्च तथा भव वरप्रदा
वेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत्१८३
न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिर्जया मतिः१८४
एताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वति
एवं सम्पूज्य गायत्रीं वीणाकमलधारिणीम्१८५
शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलु पुस्तकाम्
मौनव्रतेन भुञ्जीत सायम्प्रातश्च धर्मवित्१८६
पञ्चम्यां प्रतिपक्षं च गां च विप्राय शोभनाम्
तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम्१८७
क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति
सन्ध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत्१८८
न रात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदश
समाप्ते तु व्रते दद्याद्भोजनं शुक्लतण्डुलैः१८९
दिव्यां वितानं घण्टां च सितनेत्रपटान्विताम्
चन्दनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः१९०
अथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम्
वित्तशाठ्येनरहितो वस्त्रमाल्यानुलेपनैः१९१
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम्
सौभाग्यमतियुक्तस्तु सूक्ष्मकण्ठश्च जायते१९२
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते
नारी वा कुरुते या तु सापि तत्फलभागिनी१९३
ब्रह्मलोके वसेद्राजन्यावत्कल्पायुत त्रयम्
सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत्१९४
विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम्