पुलस्त्य उवाच
विश्वास-प्रस्तुतिः
आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः
सुहृच्छक्रस्य निहता येन दैत्यास्सहस्रशः॥ १ ॥
मूलम्
आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः
सुहृच्छक्रस्य निहता येन दैत्यास्सहस्रशः॥ १ ॥
विश्वास-प्रस्तुतिः
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः
भवन्ति शतशो येन दानवाश्च पराजिताः॥ २ ॥
मूलम्
सोमसूर्यादयो यस्य तेजसा विगतप्रभाः
भवन्ति शतशो येन दानवाश्च पराजिताः॥ २ ॥
विश्वास-प्रस्तुतिः
यथेच्छरूपधारी च मानुषोप्यपराजितः
तस्य भानुमती भार्या सती त्रैलोक्यसुन्दरी॥ ३ ॥
मूलम्
यथेच्छरूपधारी च मानुषोप्यपराजितः
तस्य भानुमती भार्या सती त्रैलोक्यसुन्दरी॥ ३ ॥
विश्वास-प्रस्तुतिः
लक्ष्मीसदृशरूपेण निर्जितामरसुन्दरी
राज्ञस्तस्याग्रमहिषी प्राणेभ्योपि गरीयसी॥ ४ ॥
मूलम्
लक्ष्मीसदृशरूपेण निर्जितामरसुन्दरी
राज्ञस्तस्याग्रमहिषी प्राणेभ्योपि गरीयसी॥ ४ ॥
विश्वास-प्रस्तुतिः
दशनारीसहस्राणां मध्ये श्रीरिव राजते
नृपकोटिसहस्रेण न कदाचित्समुच्यते॥ ५ ॥
मूलम्
दशनारीसहस्राणां मध्ये श्रीरिव राजते
नृपकोटिसहस्रेण न कदाचित्समुच्यते॥ ५ ॥
विश्वास-प्रस्तुतिः
कदाचिदास्थानगतः पप्रच्छ स्वपुरोहितम्
विस्मयेनावृतो नत्वा वसिष्ठमृषिसत्तमम्॥ ६ ॥
मूलम्
कदाचिदास्थानगतः पप्रच्छ स्वपुरोहितम्
विस्मयेनावृतो नत्वा वसिष्ठमृषिसत्तमम्॥ ६ ॥
विश्वास-प्रस्तुतिः
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्॥ ७ ॥
मूलम्
भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा
कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम्॥ ७ ॥
विश्वास-प्रस्तुतिः
वसिष्ठ उवाच
पुरा लीलावती नाम वेश्या शिवपरायणा
तया दत्तश्चतुर्दश्यां पुष्करे लवणाचलः॥ ८ ॥
मूलम्
वसिष्ठ उवाच
पुरा लीलावती नाम वेश्या शिवपरायणा
तया दत्तश्चतुर्दश्यां पुष्करे लवणाचलः॥ ८ ॥
विश्वास-प्रस्तुतिः
हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकं
शूद्रः सुवर्णकारश्च कर्मकृत्सोऽभवत्तदा॥ ९ ॥
मूलम्
हेमवृक्षामरैः सार्द्धं यथावद्विधिपूर्वकं
शूद्रः सुवर्णकारश्च कर्मकृत्सोऽभवत्तदा॥ ९ ॥
विश्वास-प्रस्तुतिः
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः
तरवो हेमपुष्पाश्च श्रद्धायुक्तेन पार्थिव॥ १० ॥
मूलम्
भृत्यो लीलावतीगेहे तेन हैमा विनिर्मिताः
तरवो हेमपुष्पाश्च श्रद्धायुक्तेन पार्थिव॥ १० ॥
विश्वास-प्रस्तुतिः
अतिरूपेण सम्पन्ना घटितास्ते सुशोभनाः
धर्मकार्यमिति ज्ञात्वा न गृहीतं च वेतनम्॥ ११ ॥
मूलम्
अतिरूपेण सम्पन्ना घटितास्ते सुशोभनाः
धर्मकार्यमिति ज्ञात्वा न गृहीतं च वेतनम्॥ ११ ॥
विश्वास-प्रस्तुतिः
उज्ज्वालिताश्च ते पत्न्या सुवर्णमयपादपाः
लीलावतीगृहे चापि परिचर्या च पार्थिव॥ १२ ॥
मूलम्
उज्ज्वालिताश्च ते पत्न्या सुवर्णमयपादपाः
लीलावतीगृहे चापि परिचर्या च पार्थिव॥ १२ ॥
विश्वास-प्रस्तुतिः
कृता ताभ्यामशाठ्येन द्विजशुश्रूषणादिका
सा च लीलावती वेश्या कालेन महतानघ॥ १३ ॥
मूलम्
कृता ताभ्यामशाठ्येन द्विजशुश्रूषणादिका
सा च लीलावती वेश्या कालेन महतानघ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम्
योऽसौ सुवर्णकारश्च दरिद्रोप्यतिसत्त्ववान्॥ १४ ॥
मूलम्
सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम्
योऽसौ सुवर्णकारश्च दरिद्रोप्यतिसत्त्ववान्॥ १४ ॥
विश्वास-प्रस्तुतिः
न मूल्यमादाद्वेश्यातः स भवानिह साम्प्रतम्
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः॥ १५ ॥
मूलम्
न मूल्यमादाद्वेश्यातः स भवानिह साम्प्रतम्
सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः॥ १५ ॥
विश्वास-प्रस्तुतिः
यया सुवर्णकारस्य तरवो हेमनिर्मिताः
सम्यगुज्ज्वलिताः पत्न्या सेयं भानुमती तव॥ १६ ॥
मूलम्
यया सुवर्णकारस्य तरवो हेमनिर्मिताः
सम्यगुज्ज्वलिताः पत्न्या सेयं भानुमती तव॥ १६ ॥
विश्वास-प्रस्तुतिः
तस्मान्नृलोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्नृपते कुरुष्व॥ १७ ॥
मूलम्
तस्मान्नृलोकेष्वपराजितस्त्वमारोग्यसौभाग्ययुता च लक्ष्मीः
तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्नृपते कुरुष्व॥ १७ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
तथेति सम्पूज्य सुधर्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान्
धान्याचलादीन्विधिनास्मरारेर्लोकं गतोसौ सुरपूज्यमानः॥ १८ ॥
मूलम्
पुलस्त्य उवाच
तथेति सम्पूज्य सुधर्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान्
धान्याचलादीन्विधिनास्मरारेर्लोकं गतोसौ सुरपूज्यमानः॥ १८ ॥
विश्वास-प्रस्तुतिः
पश्येद्यदीमानुपनीयमानान्स्पृशेन्मनुष्यैरिह दीयमानान्
शृणोति भक्त्याथ मतिं ददाति विकल्मषः सोपि दिवं प्रयाति॥ १९ ॥
मूलम्
पश्येद्यदीमानुपनीयमानान्स्पृशेन्मनुष्यैरिह दीयमानान्
शृणोति भक्त्याथ मतिं ददाति विकल्मषः सोपि दिवं प्रयाति॥ १९ ॥
विश्वास-प्रस्तुतिः
दुःस्वप्नप्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यः
यः कुर्यात्किमु नृपपुङ्गवेह सम्यक्शान्तात्मा सकलगिरीन्द्रसम्प्रदानम्॥ २० ॥
मूलम्
दुःस्वप्नप्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यः
यः कुर्यात्किमु नृपपुङ्गवेह सम्यक्शान्तात्मा सकलगिरीन्द्रसम्प्रदानम्॥ २० ॥
विश्वास-प्रस्तुतिः
भीष्म उवाच
किमभीष्टवियोगशोकसन्धानलमुद्धर्तुमुपोषणं व्रतं वा
विभवध्रुवकारिभूतलेस्मिन्भवभीतेरपि सूदनं च पुंसः॥ २१ ॥
मूलम्
भीष्म उवाच
किमभीष्टवियोगशोकसन्धानलमुद्धर्तुमुपोषणं व्रतं वा
विभवध्रुवकारिभूतलेस्मिन्भवभीतेरपि सूदनं च पुंसः॥ २१ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात्
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम्॥ २२ ॥
मूलम्
पुलस्त्य उवाच
परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात्
तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम्॥ २२ ॥
विश्वास-प्रस्तुतिः
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्
दशम्यां लघुभुग्विद्वान्प्रारभेत यमेन तु॥ २३ ॥
मूलम्
पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम्
दशम्यां लघुभुग्विद्वान्प्रारभेत यमेन तु॥ २३ ॥
विश्वास-प्रस्तुतिः
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम्
एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम्॥ २४ ॥
मूलम्
उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम्
एकादश्यां निराहारः सम्यगभ्यर्च्य केशवम्॥ २४ ॥
विश्वास-प्रस्तुतिः
श्रियं चाभ्यर्च्य विधिवद्भोक्ष्येऽहं चापरेहनि
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः॥ २५ ॥
मूलम्
श्रियं चाभ्यर्च्य विधिवद्भोक्ष्येऽहं चापरेहनि
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः॥ २५ ॥
विश्वास-प्रस्तुतिः
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु
शुभ्रमाल्याम्बरधरःपूजयेच्छ्रीशमुत्पलैः॥ २६ ॥
मूलम्
स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु
शुभ्रमाल्याम्बरधरःपूजयेच्छ्रीशमुत्पलैः॥ २६ ॥
विश्वास-प्रस्तुतिः
विशोकाय नमः पादौ जङ्घे च वरदाय वै
श्रीशाय जानुनी तद्वदूरू च जलशायिने॥ २७ ॥
मूलम्
विशोकाय नमः पादौ जङ्घे च वरदाय वै
श्रीशाय जानुनी तद्वदूरू च जलशायिने॥ २७ ॥
विश्वास-प्रस्तुतिः
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिं
दामोदरायेत्युदरं पार्श्वे च विपुलायवै॥ २८ ॥
मूलम्
कन्दर्पाय नमो गुह्यं माधवाय नमः कटिं
दामोदरायेत्युदरं पार्श्वे च विपुलायवै॥ २८ ॥
विश्वास-प्रस्तुतिः
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै
श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः॥ २९ ॥
मूलम्
नाभिं च पद्मनाभाय हृदयं मन्मथाय वै
श्रीधराय विभोर्वक्षः करौ मधुभिदे नमः॥ २९ ॥
विश्वास-प्रस्तुतिः
वैकुण्ठाय नमः कण्ठमास्यं पद्ममुखायवै
नासामशोकनिधये वासुदेवाय चाक्षिणी॥ ३० ॥
मूलम्
वैकुण्ठाय नमः कण्ठमास्यं पद्ममुखायवै
नासामशोकनिधये वासुदेवाय चाक्षिणी॥ ३० ॥
विश्वास-प्रस्तुतिः
ललाटं वामनायेति हरये च पुनर्भ्रुवौ
अलकं माधवायेति किरीटं विश्वरूपिणे॥ ३१ ॥
मूलम्
ललाटं वामनायेति हरये च पुनर्भ्रुवौ
अलकं माधवायेति किरीटं विश्वरूपिणे॥ ३१ ॥
विश्वास-प्रस्तुतिः
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्
एवं सम्पूज्य गोविन्दं धूपमाल्यानुलेपनैः॥ ३२ ॥
मूलम्
नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत्
एवं सम्पूज्य गोविन्दं धूपमाल्यानुलेपनैः॥ ३२ ॥
विश्वास-प्रस्तुतिः
ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मृदा
चतुरश्रं समन्ताच्च रत्निमात्रमुदक्प्लवम्॥ ३३ ॥
मूलम्
ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मृदा
चतुरश्रं समन्ताच्च रत्निमात्रमुदक्प्लवम्॥ ३३ ॥
विश्वास-प्रस्तुतिः
श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम्
त्रिरङ्गुलोच्छ्रितावप्रास्तद्विस्तारो द्विरङ्गुलः३४ (पा. – च्छिता)
स्थण्डिलस्योपरिष्टात्तु भित्तिरष्टाङ्गुला भवेत्
नदी वालुकया सूर्ये लक्ष्म्याः प्रतिकृतिं न्यसेत्॥ ३५ ॥

स्थण्डिले सूर्यमध्यस्थ लक्ष्मीमभ्यर्चयेद्बुधः
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये॥ ३६ ॥
मूलम्
स्थण्डिले सूर्यमध्यस्थ लक्ष्मीमभ्यर्चयेद्बुधः
नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रिये॥ ३६ ॥
विश्वास-प्रस्तुतिः
नमस्तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै दृष्ट्यै नमो नमः
विशोका दुःखनाशा यविशोका वरदास्तु ते॥ ३७ ॥
मूलम्
नमस्तुष्ट्यै नमः पुष्ट्यै सृष्ट्यै दृष्ट्यै नमो नमः
विशोका दुःखनाशा यविशोका वरदास्तु ते॥ ३७ ॥
विश्वास-प्रस्तुतिः
विशोका मेस्तु सम्पत्त्यै विशोका सर्वसिद्धये
ततः शुभ्राम्बरैः सूर्यं वेष्ट्य सम्पूजयेत्फलैः॥ ३८ ॥
मूलम्
विशोका मेस्तु सम्पत्त्यै विशोका सर्वसिद्धये
ततः शुभ्राम्बरैः सूर्यं वेष्ट्य सम्पूजयेत्फलैः॥ ३८ ॥
विश्वास-प्रस्तुतिः
भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च
राजतीषु च पात्रीषु न्यसेद्दर्भोदकं बुधः॥ ३९ ॥
मूलम्
भक्ष्यैर्नानाविधैस्तद्वत्सुवर्णकमलेन च
राजतीषु च पात्रीषु न्यसेद्दर्भोदकं बुधः॥ ३९ ॥
विश्वास-प्रस्तुतिः
ततस्तु नृत्यगीतानि कारयेत्सकलां निशाम्
यामत्रये व्यतीते तु तत उत्थाय मानवः॥ ४० ॥
मूलम्
ततस्तु नृत्यगीतानि कारयेत्सकलां निशाम्
यामत्रये व्यतीते तु तत उत्थाय मानवः॥ ४० ॥
विश्वास-प्रस्तुतिः
अभिगम्य च विप्राणां मिथुनानि च पूजयेत्
शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः॥ ४१ ॥
मूलम्
अभिगम्य च विप्राणां मिथुनानि च पूजयेत्
शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः॥ ४१ ॥
विश्वास-प्रस्तुतिः
शयनस्थानि पूज्यानि नमोस्तु जलशायिने
ततस्तु गीतवाद्येन रात्र्यां जागरणे कृते॥ ४२ ॥
मूलम्
शयनस्थानि पूज्यानि नमोस्तु जलशायिने
ततस्तु गीतवाद्येन रात्र्यां जागरणे कृते॥ ४२ ॥
विश्वास-प्रस्तुतिः
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत्
भोजयेच्च यथाशक्ति वित्तशाठ्येन वर्जितः॥ ४३ ॥
मूलम्
प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत्
भोजयेच्च यथाशक्ति वित्तशाठ्येन वर्जितः॥ ४३ ॥
विश्वास-प्रस्तुतिः
भक्त्याश्रुत्वापुराणानितद्दिनञ्चातिवाहयेत्
अनेन विधिना सर्वं मासिमासि समाचरेत्॥ ४४ ॥
मूलम्
भक्त्याश्रुत्वापुराणानितद्दिनञ्चातिवाहयेत्
अनेन विधिना सर्वं मासिमासि समाचरेत्॥ ४४ ॥
विश्वास-प्रस्तुतिः
व्रतान्ते शयनं दद्याद्गुडधेनुसमन्वितं
सोपधानं सविश्रामं स्वास्तरावरणं शुभं॥ ४५ ॥
मूलम्
व्रतान्ते शयनं दद्याद्गुडधेनुसमन्वितं
सोपधानं सविश्रामं स्वास्तरावरणं शुभं॥ ४५ ॥
विश्वास-प्रस्तुतिः
यथालक्ष्मीर्नरेश त्वां न परित्यज्य गच्छति
तथा सुरूपतारोग्यमशोकं चास्तु मे सदा॥ ४६ ॥
मूलम्
यथालक्ष्मीर्नरेश त्वां न परित्यज्य गच्छति
तथा सुरूपतारोग्यमशोकं चास्तु मे सदा॥ ४६ ॥
विश्वास-प्रस्तुतिः
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्
तथा विशोकता मेऽस्तु भक्तिरग्य्रा च केशवे॥ ४७ ॥
मूलम्
यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित्
तथा विशोकता मेऽस्तु भक्तिरग्य्रा च केशवे॥ ४७ ॥
विश्वास-प्रस्तुतिः
मन्त्रेणानेन शयनं गुडधेनुसमन्वितं
सूर्यश्च लक्ष्म्या सहितो दातव्यो भूतिमिच्छता॥ ४८ ॥
मूलम्
मन्त्रेणानेन शयनं गुडधेनुसमन्वितं
सूर्यश्च लक्ष्म्या सहितो दातव्यो भूतिमिच्छता॥ ४८ ॥
विश्वास-प्रस्तुतिः
उत्पलं करवीरं वाप्यम्लानं चैव कुङ्कुमं
केतकं सिन्धुवारं च मल्लिकागन्धपाटला॥ ४९ ॥
मूलम्
उत्पलं करवीरं वाप्यम्लानं चैव कुङ्कुमं
केतकं सिन्धुवारं च मल्लिकागन्धपाटला॥ ४९ ॥
विश्वास-प्रस्तुतिः
कदम्बं कुब्जकं जाती शस्तान्येतानि सर्वदा
भीष्म उवाच
गुडधेनुविधानं च समाचक्ष्व मुनीश्वर५० 1.21.50
किं रूपा केन मन्त्रेण दातव्या तदिहोच्यतां
पुलस्त्य उवाच
गुडधेनुविधानस्य यद्रूपमिह यत्फलम्॥ ५१ ॥

तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि॥ ५२ ॥
मूलम्
तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम्
कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि॥ ५२ ॥
विश्वास-प्रस्तुतिः
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः
लघ्वेणकाजिनं तद्वत्वत्सं च परिकल्पयेत्॥ ५३ ॥
मूलम्
गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः
लघ्वेणकाजिनं तद्वत्वत्सं च परिकल्पयेत्॥ ५३ ॥
विश्वास-प्रस्तुतिः
प्राङ्मुखीं कल्पयेद्धेनुं मृदा वा गां सवत्सकां
उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयं॥ ५४ ॥
मूलम्
प्राङ्मुखीं कल्पयेद्धेनुं मृदा वा गां सवत्सकां
उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयं॥ ५४ ॥
विश्वास-प्रस्तुतिः
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता
अर्द्धभारेण वत्सस्स्यात्कनिष्ठा भारकेण तु॥ ५५ ॥
मूलम्
वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता
अर्द्धभारेण वत्सस्स्यात्कनिष्ठा भारकेण तु॥ ५५ ॥
विश्वास-प्रस्तुतिः
चतुर्थांशे नवत्सः स्याद्गृहवित्तानुसारतः
धेनुवत्सौ कृतौ चोभौ सितसूक्ष्माम्बरावृतौ॥ ५६ ॥
मूलम्
चतुर्थांशे नवत्सः स्याद्गृहवित्तानुसारतः
धेनुवत्सौ कृतौ चोभौ सितसूक्ष्माम्बरावृतौ॥ ५६ ॥
विश्वास-प्रस्तुतिः
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ
सितसूत्रसिराजालौ सितकम्बलकम्बलौ॥ ५७ ॥
मूलम्
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ
सितसूत्रसिराजालौ सितकम्बलकम्बलौ॥ ५७ ॥
विश्वास-प्रस्तुतिः
ताम्रगण्डकपृष्ठौ द्वौ सितचामरलोमकौ
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ॥ ५८ ॥
मूलम्
ताम्रगण्डकपृष्ठौ द्वौ सितचामरलोमकौ
विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ॥ ५८ ॥
विश्वास-प्रस्तुतिः
काञ्चनाक्षियुगोपेताविन्द्रनीलकनीनिकौ
क्षौमपुच्छौ कांस्यदोहौ शुभ्रातिकमनीयकौ॥ ५९ ॥
मूलम्
काञ्चनाक्षियुगोपेताविन्द्रनीलकनीनिकौ
क्षौमपुच्छौ कांस्यदोहौ शुभ्रातिकमनीयकौ॥ ५९ ॥
विश्वास-प्रस्तुतिः
सुवर्णशृङ्गाभरणौ राजताढ्य खुरौ च तौ
नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ॥ ६० ॥
मूलम्
सुवर्णशृङ्गाभरणौ राजताढ्य खुरौ च तौ
नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ॥ ६० ॥
विश्वास-प्रस्तुतिः
इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेत्
या लक्ष्मीस्सर्वभूतानां या च देवेष्ववस्थिता॥ ६१ ॥
मूलम्
इत्येवं रचयित्वा तु धूपदीपैस्तथार्चयेत्
या लक्ष्मीस्सर्वभूतानां या च देवेष्ववस्थिता॥ ६१ ॥
विश्वास-प्रस्तुतिः
धेनुरूपेण सा देवी मम पापं व्यपोहतु
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ॥ ६२ ॥
मूलम्
धेनुरूपेण सा देवी मम पापं व्यपोहतु
विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसौ॥ ६२ ॥
विश्वास-प्रस्तुतिः
चन्द्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः॥ ६३ ॥
मूलम्
चन्द्रार्कशक्रशक्तिर्या सा धेनुर्वरदास्तु मे
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः॥ ६३ ॥
विश्वास-प्रस्तुतिः
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मे
एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत्॥ ६४ ॥
मूलम्
सर्वपापहरा धेनुस्तस्माद्भूतिं प्रयच्छ मे
एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत्॥ ६४ ॥
विश्वास-प्रस्तुतिः
विधानमेतद्धेनूनां सर्वासामपि पठ्यते
यास्तु पापविनाशिन्यः पठ्यन्ते दश धेनवः॥ ६५ ॥
मूलम्
विधानमेतद्धेनूनां सर्वासामपि पठ्यते
यास्तु पापविनाशिन्यः पठ्यन्ते दश धेनवः॥ ६५ ॥
विश्वास-प्रस्तुतिः
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप
प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा॥ ६६ ॥
मूलम्
तासां स्वरूपं वक्ष्यामि नामानि च नराधिप
प्रथमा गुडधेनुः स्याद्घृतधेनुरथापरा॥ ६६ ॥
विश्वास-प्रस्तुतिः
तिलधेनुस्तृतीया च चतुर्थी जलनामिका
क्षीरधेनुः पञ्चमी च मधुधेनुस्तथापरा॥ ६७ ॥
मूलम्
तिलधेनुस्तृतीया च चतुर्थी जलनामिका
क्षीरधेनुः पञ्चमी च मधुधेनुस्तथापरा॥ ६७ ॥
विश्वास-प्रस्तुतिः
सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता
रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः॥ ६८ ॥
मूलम्
सप्तमी शर्कराधेनुरष्टमी दधिकल्पिता
रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः॥ ६८ ॥
विश्वास-प्रस्तुतिः
कुम्भास्स्यू रसधेनूनामितरासां स्वराशयः
सुवर्णधेनुं चाप्यत्र केचिदिच्छन्ति मानवाः॥ ६९ ॥
मूलम्
कुम्भास्स्यू रसधेनूनामितरासां स्वराशयः
सुवर्णधेनुं चाप्यत्र केचिदिच्छन्ति मानवाः॥ ६९ ॥
विश्वास-प्रस्तुतिः
नवनीतेन तैलैश्च तथान्येपि महर्षयः
एतदेवविधानं स्यात्त एवोपस्करास्स्मृताः॥ ७० ॥
मूलम्
नवनीतेन तैलैश्च तथान्येपि महर्षयः
एतदेवविधानं स्यात्त एवोपस्करास्स्मृताः॥ ७० ॥
विश्वास-प्रस्तुतिः
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि
यथा श्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः॥ ७१ ॥
मूलम्
मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि
यथा श्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः॥ ७१ ॥
विश्वास-प्रस्तुतिः
गुडधेनुप्रसङ्गेन सर्वास्तव मयोदिताः
अशेषयज्ञफलदाः सर्वपापहराः शुभाः॥ ७२ ॥
मूलम्
गुडधेनुप्रसङ्गेन सर्वास्तव मयोदिताः
अशेषयज्ञफलदाः सर्वपापहराः शुभाः॥ ७२ ॥
विश्वास-प्रस्तुतिः
व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम्
तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते॥ ७३ ॥
मूलम्
व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम्
तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते॥ ७३ ॥
विश्वास-प्रस्तुतिः
अयने विषुवे पुण्ये व्यतीपाते तथा पुनः
गुडधेन्वादयो देया उपरागादिपर्वसु॥ ७४ ॥
मूलम्
अयने विषुवे पुण्ये व्यतीपाते तथा पुनः
गुडधेन्वादयो देया उपरागादिपर्वसु॥ ७४ ॥
विश्वास-प्रस्तुतिः
विशोकद्वादशी चैषा सर्वपापहरा शुभा
यामुपोष्य नरो याति तद्विष्णोः परमं पदम्॥ ७५ ॥
मूलम्
विशोकद्वादशी चैषा सर्वपापहरा शुभा
यामुपोष्य नरो याति तद्विष्णोः परमं पदम्॥ ७५ ॥
विश्वास-प्रस्तुतिः
इहलोके स सौभाग्यमायुरारोग्यमेव च
वैष्णवं पुरमाप्नोति मरणे स्मरणं हरेः॥ ७६ ॥
मूलम्
इहलोके स सौभाग्यमायुरारोग्यमेव च
वैष्णवं पुरमाप्नोति मरणे स्मरणं हरेः॥ ७६ ॥
विश्वास-प्रस्तुतिः
नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्
न शोकदुःखदौर्गत्यं तस्य सञ्जायते नृप॥ ७७ ॥
मूलम्
नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित्
न शोकदुःखदौर्गत्यं तस्य सञ्जायते नृप॥ ७७ ॥
विश्वास-प्रस्तुतिः
नारी वा कुरुते या तु विशोकद्वादशीमिमां
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात्॥ ७८ ॥
मूलम्
नारी वा कुरुते या तु विशोकद्वादशीमिमां
नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात्॥ ७८ ॥
विश्वास-प्रस्तुतिः
यस्मादग्रे हरेर्नृत्यमनन्तं गीतवादनम्
इति पठति य इत्थं यः शृणोतीह सम्यक्
मधुमुरनरकारेरर्चनं वाथ पश्येत्॥ ७९ ॥
मूलम्
यस्मादग्रे हरेर्नृत्यमनन्तं गीतवादनम्
इति पठति य इत्थं यः शृणोतीह सम्यक्
मधुमुरनरकारेरर्चनं वाथ पश्येत्॥ ७९ ॥
विश्वास-प्रस्तुतिः
मतिमपि च जनानां यो ददातीन्द्रलोके
स वसति विबुधौघैः पूज्यते कल्पमेकम्
भीष्म उवाच
भगवन्श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्॥ ८० ॥
मूलम्
मतिमपि च जनानां यो ददातीन्द्रलोके
स वसति विबुधौघैः पूज्यते कल्पमेकम्
भीष्म उवाच
भगवन्श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्॥ ८० ॥
विश्वास-प्रस्तुतिः
यदक्षयं परे लोके देवर्षिगणपूजितम्
पुलस्त्य उवाच
मेरोः प्रदानं वक्ष्यामि दशधा नृपसत्तम॥ ८१ ॥
मूलम्
यदक्षयं परे लोके देवर्षिगणपूजितम्
पुलस्त्य उवाच
मेरोः प्रदानं वक्ष्यामि दशधा नृपसत्तम॥ ८१ ॥
विश्वास-प्रस्तुतिः
यत्प्रदातानन्तलोकान्प्राप्नोति सुरपूजितान्
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च॥ ८२ ॥
मूलम्
यत्प्रदातानन्तलोकान्प्राप्नोति सुरपूजितान्
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च॥ ८२ ॥
विश्वास-प्रस्तुतिः
न तत्फलमधीतेषु कृतेष्विह यदश्नुते
तस्माद्दानं प्रवक्ष्यामि पर्वतानामनुक्रमात्॥ ८३ ॥
मूलम्
न तत्फलमधीतेषु कृतेष्विह यदश्नुते
तस्माद्दानं प्रवक्ष्यामि पर्वतानामनुक्रमात्॥ ८३ ॥
विश्वास-प्रस्तुतिः
प्रथमो धान्यशैलः स्यादिद्वतीयो लवणाचलः
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः॥ ८४ ॥
मूलम्
प्रथमो धान्यशैलः स्यादिद्वतीयो लवणाचलः
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः॥ ८४ ॥
विश्वास-प्रस्तुतिः
पञ्चमस्तिलशैलस्स्यात्षष्टः कार्प्पासपर्वतः
सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाष्टमः॥ ८५ ॥
मूलम्
पञ्चमस्तिलशैलस्स्यात्षष्टः कार्प्पासपर्वतः
सप्तमो घृतशैलः स्याद्रत्नशैलस्तथाष्टमः॥ ८५ ॥
विश्वास-प्रस्तुतिः
राजतो नवमस्तद्वद्दशमः शर्कराचलः
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः॥ ८६ ॥
मूलम्
राजतो नवमस्तद्वद्दशमः शर्कराचलः
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः॥ ८६ ॥
विश्वास-प्रस्तुतिः
अयनो वेपुण्ये व्यतीपाते दिनक्षये
शुक्लपक्षे तृतीयायामुपरागेश शिक्षये॥ ८७ ॥
मूलम्
अयनो वेपुण्ये व्यतीपाते दिनक्षये
शुक्लपक्षे तृतीयायामुपरागेश शिक्षये॥ ८७ ॥
विश्वास-प्रस्तुतिः
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः॥ ८८ ॥
मूलम्
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः॥ ८८ ॥
विश्वास-प्रस्तुतिः
धान्यशैलादयो देयाः कार्तिक्यां ज्येष्ठपुष्करे
तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे॥ ८९ ॥
मूलम्
धान्यशैलादयो देयाः कार्तिक्यां ज्येष्ठपुष्करे
तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे॥ ८९ ॥
विश्वास-प्रस्तुतिः
मण्डपं कारयेद्भक्त्या चतुरश्रमुदङ्मुखम्
प्रागुदक्प्रवणं पुण्यं प्राङ्मुखं वा विधानतः॥ ९० ॥
मूलम्
मण्डपं कारयेद्भक्त्या चतुरश्रमुदङ्मुखम्
प्रागुदक्प्रवणं पुण्यं प्राङ्मुखं वा विधानतः॥ ९० ॥
विश्वास-प्रस्तुतिः
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्
तन्मध्ये पर्वतं कुयाद्विष्कम्भं पर्वतान्वितम्॥ ९१ ॥
मूलम्
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्
तन्मध्ये पर्वतं कुयाद्विष्कम्भं पर्वतान्वितम्॥ ९१ ॥
विश्वास-प्रस्तुतिः
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः
मध्यमः पञ्चशतकैः कनिष्ठश्च त्रिभिः शतैः॥ ९२ ॥
मूलम्
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः
मध्यमः पञ्चशतकैः कनिष्ठश्च त्रिभिः शतैः॥ ९२ ॥
विश्वास-प्रस्तुतिः
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्
मूर्द्धन्यवस्थानमथाम्बरेण कार्यं त्वनेकं च पुनर्द्विजाग्र्यैः॥ ९३ ॥
मूलम्
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्
मूर्द्धन्यवस्थानमथाम्बरेण कार्यं त्वनेकं च पुनर्द्विजाग्र्यैः॥ ९३ ॥
विश्वास-प्रस्तुतिः
चत्वारि शृङ्गाणि च राजतानि नितम्बभागा अपि राजतास्स्युः
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपद्मरागैः॥ ९४ ॥
मूलम्
चत्वारि शृङ्गाणि च राजतानि नितम्बभागा अपि राजतास्स्युः
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपद्मरागैः॥ ९४ ॥
विश्वास-प्रस्तुतिः
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यकपुष्परागैः
श्रीखण्डखण्डैरभितः प्रवालैर्लतान्वितो मौक्तिकप्रस्तराढ्यः॥ ९५ ॥
मूलम्
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैडूर्यकपुष्परागैः
श्रीखण्डखण्डैरभितः प्रवालैर्लतान्वितो मौक्तिकप्रस्तराढ्यः॥ ९५ ॥
विश्वास-प्रस्तुतिः
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोप्यत्र हिरण्मयः स्यात्
तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणो दिशासु॥ ९६ ॥
मूलम्
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोप्यत्र हिरण्मयः स्यात्
तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणो दिशासु॥ ९६ ॥
विश्वास-प्रस्तुतिः
शुभ्राम्बराण्यम्बुधरावलिस्यात्पूर्वेण पीतानि च दक्षिणेन
वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनानि॥ ९७ ॥
मूलम्
शुभ्राम्बराण्यम्बुधरावलिस्यात्पूर्वेण पीतानि च दक्षिणेन
वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनानि॥ ९७ ॥
विश्वास-प्रस्तुतिः
रौप्यान्महेन्द्रप्रमुखांस्तथाऽष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण
नानावनाली च समन्ततः स्यान्मनोरमम्माल्यविलेपनं च॥ ९८ ॥
मूलम्
रौप्यान्महेन्द्रप्रमुखांस्तथाऽष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण
नानावनाली च समन्ततः स्यान्मनोरमम्माल्यविलेपनं च॥ ९८ ॥
विश्वास-प्रस्तुतिः
वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं च
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन्क्रमेण॥ ९९ ॥
मूलम्
वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं च
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन्क्रमेण॥ ९९ ॥
विश्वास-प्रस्तुतिः
तुरीयभागेन चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यम्
पूर्वेण मन्दरमनेकफलैश्चयुक्तं कामेन काञ्चनमयेन विराजमानम्१०० 1.21.100
याम्येन गन्धमदनो विनिवेशनीयो गोधूमसञ्चयमयः कलधौतवांश्च
हैमेन यज्ञपतिना घृतमानसेन वस्त्रेणराजतवनैश्च स संयुतः स्यात्१०१
पश्चात्तिलाचलमनेकसुगन्धपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम्
आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे१०२
संस्थाप्यतं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सवस्त्रम्
पुष्पैश्च हेमवटपादपशेखरं तमाकारयेत्कनककेतुविराजमानम्१०३
माक्षीकभद्रसरसा च वनेन तद्वद्रौप्येण भासुरवितानयुतं विधाय
होमश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः १०४
पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च
रात्रौ च जागरमनुद्धतगीतरूपैरावाहनं च कथयामि शिलोच्चयानाम्१०५
त्वं सर्वदेवगणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वत नाशयाशु
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां च सम्पूजितः परमभक्तिमता मया हि१०६
त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः
मूर्तामूर्तमयं बीजमतः पाहि सनातन१०७
यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरम्
रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे१०८
यस्मादशून्यममरैर्नारीभिश्च शिरस्तव
तस्मान्मामुद्धरामुष्माद्दुःखसंसारसागरात्१०९
एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत्
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च पर्वत११०
शोभसे मन्दर क्षिप्रमतस्तुष्टिकरो भव
यस्माच्चूडामणिर्जम्बूद्वीपे त्वं गन्धमादन१११
गन्धर्वगणशोभावांस्ततः कीर्तिर्दृढास्तु मे
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च११२
हिरण्मयाश्मशोभावांस्तस्मात्पुष्टिर्ध्रुवास्तु मे
उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च११३
सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे
एवमामन्त्र्य तान्सर्वान्प्रभाते विमले पुनः११४
स्नात्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमं
विष्कम्भपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप११५
गावो देयाश्चतुर्विंशदथवा दश पार्थिव
शक्तितः सप्तचाष्टौ वा पञ्च दद्यादशक्तिमान्११६
एकापि गुरवे देया कपिलाथ पयस्विनी
पर्वतानामशेषाणामेष एव विधिः स्मृतः११७
त एव पूजने मन्त्रास्त एवोपस्कराः स्मृताः
ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वतः॥ १८ ॥

स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते११९
विधानं सर्वशैलानां क्रमशः शृणु पार्थिव
दानेषु चैव ये मन्त्राः पर्वतेषु यथा फलम्१२०
अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्तिताः
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्धते१२१
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम१२२
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्
मन्वन्तरशतं साग्रं देवलोके महीयते१२३
अप्सरोगणगन्धर्वैराकीर्णेन विराजितः
विमानेन दिवः पृष्ठमायाति नृपसत्तम१२४
कर्मक्षये राजराज्यमाप्नोतीह न संशयः
अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम्१२५
यत्प्रदानान्नरो लोकमाप्नोति शिवसंयुतम्
उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः१२६
मध्यमश्च तदर्धेन चतुर्भिरधमस्स्मृतः
वित्तहीनो यथाशक्ति द्रोणादूर्द्ध्वं च कारयेत्१२७
चतुर्थांशेन विष्कम्भपर्वतान्कारयेत्पृथक्
विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा१२८
तद्वद्धेममयं सर्वलोकपालनिवेशनम्
सरांसि वनवृक्षादि तद्वच्चान्यान्निनिवेशयेत्१२९
कुर्याज्जागरमत्रापि दानमन्त्रान्निबोधत
सौभाग्यरससंयुक्तो यतोयं लवणे रसः१३०
तदात्मकत्वेन च मां पाह्यापन्नं नगोत्तम
यस्मादन्ये रसाः सर्वे नोत्कटा लवणं विना१३१
प्रियश्च शिवयोर्नित्यं तस्माच्छान्तिप्रदो भव
विष्णुदेहसमुद्भूतो यस्मादारोग्यवर्धनः१३२
तस्मात्पर्वतरूपेण पाहि संसारसागरात्
अनेन विधिना यस्तु दद्याल्लवणपर्वतम्१३३
उमालोके वसेत्कल्पं ततो याति परां गतिम्
अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम्१३४
यत्प्रदानान्नरः स्वर्गं प्राप्नोति सुरपूजितः
उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः१३५
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान्
तद्वदामन्त्रणं पूजां हैमवृक्षान्सुरार्चनं१३६
विष्कम्भपर्वतांस्तद्वत्सरांसि वनदेवताः
होमं जागरणं तद्वल्लोकपालाधिवासनम्१३७
धान्यपर्वतवत्कुर्यादिमं मन्त्रमुदीरयेत्
यथा देवेषु विश्वात्मा प्रवरोयं जनार्दनः१३८
सामवेदस्तु वेदानां महादेवस्तु योगिनां
प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा१३९
तथा रसानां प्रवरः सदैवेक्षुरसो मतः
मम तस्मात्परां लक्ष्मीं ददातु गुडपर्वतः१४०
यस्मात्सौभाग्यदायिन्या धाम त्वं गुडपर्वत
निर्मितश्चासि पार्वत्या तस्मान्मां पाहि सर्वदा१४१
अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम्
सम्पूज्यमानो गन्धर्वैर्गौरीलोके महीयते१४२
पुनः कल्पशतान्ते च सप्तद्वीपाधिपो भवेत्
आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः१४३
अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम्
यस्य प्रदानाद्भवनं वैरिञ्चं यान्ति मानवाः१४४
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः
तदर्धेनाधमस्तद्वदल्पवित्तोपि मानवः१४५
दद्यादेकपलादूर्द्ध्वं यथाशक्ति विमत्सरः
धान्यपर्वतवत्सर्वं विदध्याद्राजसत्तम१४६
विष्कम्भशैलांस्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत्
नमस्ते सर्वबीजाय ब्रह्मगर्भाय वै नमः१४७
यस्मादनन्तफलदस्तस्मात्पाहि शिलोच्चय
यस्मादग्नेरपत्यं त्वं यस्मात्पुत्रो जगत्पतेः१४८
हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम
अनेन विधिना यस्तु दद्यात्कनकपर्वतम्१४९
स याति परमं ब्रह्म लोकमानन्दकारकम्
तत्र कल्पशतं तिष्ठेत्ततो याति परां गतिम्१५० 1.21.150
अथातः सम्प्रवक्ष्यामि तिलशैलं विधानतः
यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम्१५१
उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः
त्रिभिः कनिष्ठो राजेन्द्र तिलशैलः प्रकीर्तितः१५२
पूर्ववच्चापरं सर्वं विष्कम्भपर्वतादिकम्
दानमन्त्रं प्रवक्ष्यामि यथा च नृपपुङ्गव१५३
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः
तिलाः कुशाश्च माषाश्च तस्माच्छान्तिप्रदो भव१५४
हव्यकव्येषु यस्माच्च तिला एव हि रक्षणम्
लक्ष्मीं च कुरु शैलेन्द्र तिलाचल नमोस्तु ते१५५
इत्यामन्त्र्य च यो दद्यात्तिलाचलमनुत्तमम्
स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम्१५६
कार्पासपर्वतश्चैव विंशद्भारैरिहोत्तमः
दशभिर्मध्यमः प्रोक्तः कनिष्ठः पञ्चभिर्मतः१५७
भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः
धान्यपर्वतवत्सर्वमासाद्यं राजसत्तम१५८
प्रभातायां च शर्वर्यां दद्यादिदमुदीरयेत्
त्वमेवावरणं यस्माल्लोकानामिह सर्वदा१५९
कार्पासाद्रे नमस्तस्मादघौघ ध्वंसनो भव
इति कार्पासशैलेन्द्रं यो दद्याच्छर्वसन्निधौ१६०
रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह
अथातः सम्प्रवक्ष्यामि घृताचलमनुत्तमम्१६१
तेजोमयं घृतं पुण्यम्महापातकनाशनम्
विंशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः१६२
दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः
अल्पवित्तोपि कुर्वीत द्वाभ्यामिह विधानतः१६३
विष्कम्भपर्वतांस्तद्वच्चतुर्भागेन कल्पयेत्
शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत्१६४
कारयेत्संहतानुच्चान्यथाशोभं विधानतः
वेष्टयेच्छुक्लवासोभिरिक्षुदण्डफलादिकैः१६५
धान्यपर्वतवत्संर्वं विधानमिह पठ्यते
अधिवासनपूर्वं हि तद्वद्धोमसुरार्चनम्१६६
प्रभातायां च शर्वर्यां गुरवे विनिवेदयेत्
विष्कम्भपर्वतांस्तद्वदृत्विग्भ्यः शान्तमानसः१६७
संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसि
तस्माद्घृतार्चिर्विश्वात्मा प्रीयतामत्र शङ्कर१६८
यस्मात्तेजोमयं ब्रह्म घृते चैव व्यवस्थितम्
घृतपर्वतरूपेण तस्मान्नः पाहि भूधर१६९
अनेन विधिना दद्याद्घृताचलमनुत्तमम्
महापातकयुक्तोपि लोकमायाति शाम्भवम्१७०
हंससारसयुक्तेन किङ्किणीजालमालिना
विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः१७१
विचरेत्पितृभिः सार्धं यावदाभूतसम्प्लवम्
अथातः सम्प्रवक्ष्यामि रत्नाचलमनुत्तमम्१७२
मुक्ताफलसहस्रेण पर्वतस्स्यादनुत्तमः
मध्यमः पञ्चशतिकस्त्रिशतेनाधमः स्मृतः१७३
चतुर्थांशेन विष्कम्भ पर्वताः स्युः समन्ततः
पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः१७४
पुष्यरागैर्युतः कार्यो विद्वद्भिर्गन्धमादनः
वैडूर्यविद्रुमैः पश्चात्सम्मिश्रो विपुलाचलः१७५
पद्मरागैः स सौवर्णैरुत्तरेणापि विन्यसेत्
धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत्१७६
तद्वदावाहनं कृत्वा वृक्षान्देवांश्च काञ्चनान्
पूजयेत्पुष्पगन्धाद्यैः प्रभाते स्याद्विसर्जनम्१७७
पूर्ववद्गुरुऋत्विग्भ्य इमं मन्त्रमुदीरयेत्
यथा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः१७८
त्वं च रत्नमयो नित्यमतः पाहि महाचल
यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः१७९
पूजामन्त्रप्रसादेन तस्मान्नः पाहि पर्वत
अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम्१८०
स याति वैष्णवं लोकममरेश्वरपूजितः
यावत्कल्पशतं साग्रं वसेत्तत्र नराधिप१८१
रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत्
ब्रह्महत्यादिकं किञ्चिदत्रामुत्राथवा कृतम्१८२
तत्सर्वं नाशमायाति गिरिर्वज्राहतो यथा
अथातः सम्प्रवक्ष्यामि रौप्याचलमनुत्तमम्१८३
यत्प्रदानान्नरो याति सोमलोकं नरोत्तम
दशभिः पलसाहस्रैरुत्तमो रजताचलः१८४
पञ्चभिर्मध्यमः प्रोक्तस्तदर्धेनाधमः स्मृतः
अशक्तो विंशतेरूर्द्ध्वं कारयेच्छक्तितः सदा१८५
विष्कम्भपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत्
पूर्ववद्राजतान्कुर्यान्मन्दरादीन्विधानतः१८६
कलधौतमयांस्तद्वल्लोकेशान्कारयेद्बुधः
ब्रह्मविष्ण्वर्कवान्कार्यो नितम्बोत्र हिरण्मयः१८७
राजतं स्यात्तदन्येषां पर्वतान्ना च काञ्चनम्
शेषं च पूर्ववत्कुर्याद्धोमजागरणादिकम्१८८
दद्यात्तद्वत्प्रभाते तु गुरवे रौप्यपर्वतम्
विष्कम्भशैलानृत्विग्भ्यः पूज्य वस्त्रविभूषणैः१८९
इमं मन्त्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः
पितॄणां वल्लभं यस्मादिन्दोर्वा शङ्करस्य च१९०
रजतं पाहि तस्मान्नः शोकसंसारसागरात्
इत्थं निवेश्य यो दद्याद्रजताचलमुत्तमम्१९१
गवामयुतसाहस्रफलमाप्नोति मानवः
सोमलोके सगन्धर्वैः किन्नराप्सरसाङ्गणैः१९२
पूज्यमानो वसेद्विद्वान्यावदाभूतसम्प्लवम्
अथातः सम्प्रवक्ष्यामि शर्कराचलमुत्तमम्१९३
यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा
अष्टभिः शर्कराभारैरुत्तमः स्यान्महाचलः१९४
चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः
भारेण चार्द्धभारेणकुर्याद्यः स्वल्पवित्तवान्१९५
विष्कम्भपर्वतान्कुर्यात्तुरीयांशेन मानवः
धान्यपर्वतवत्सर्वं हैमाम्बरसुसंयुतम्१९६
मेरोरुपरितः स्थाप्यं हैमं तत्र तरुत्रयम्
मन्दारः पारिजातश्च तृतीयः कल्पपादपः१९७
एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि निवेशयेत्
हरिचन्दनसन्तानौ पूर्वपश्चिमभागयोः१९८
निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले
मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत्१९९
गन्धमादनशृङ्गे तु धनदः स्यादुदङ्मुखः
प्राङ्मुखो वेदमूर्त्तिस्तु हंसः स्याद्विपुलाचले२०० 1.21.200
हैमी भवेत्सुपार्श्वे तु सुरभी दक्षिणामुखी
धान्यपर्वतवत्सर्वमावाहनमखादिकम्२०१
कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम्
ऋत्विग्भ्यश्चतुरः शैलानिमान्मन्त्रानुदीरयेत्२०२
सौभाग्यामृतसारोयं परमः शर्कराचलः
तस्मादानन्दकारी त्वं भवशैलेन्द्र सर्वदा२०३
अमृतं पिबतां ये तु पतिता भुवि शीकराः
देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल२०४
मनोभवधनुर्मध्यादुद्भूता शर्करा पुनः
तन्मयोसि महाशैल पाहि संसारसागरात्२०५
यो दद्याच्छर्कराशैलमनेन विधिना नरः
सर्वपापविनिर्मुक्तः प्रयाति ब्रह्ममन्दिरम्२०६
चन्द्रसूर्यप्रतीकाशमधिरुह्यानुजीविभिः
सहैव यानमुत्तिष्ठेत्ततो विष्णुप्रभो दिवि२०७
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्
आयुरारोग्यसम्पन्नो यावज्जन्मायुतत्रयम्२०८
भोजनं शक्तितः कुर्यात्सर्वशैलेष्वमत्सरः
स्वयं चाक्षारलवणमश्नीयात्तदनुज्ञया२०९
पर्वतोपस्करान्सर्वान्प्रापयेद्ब्राह्मणालयम्
एतत्ते सर्वमाख्यातं शैलदानमनुत्तमम्२१०
यदन्यद्रोचते तुभ्यं तन्मां पृच्छस्व पार्थिव
भीष्म उवाच
भगवन्भवसंसारसागरोत्तारकारकम्२११
किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यफलप्रदम्
पुलस्त्य उवाच
सौरधर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम्२१२
विशोकसप्तमीं तद्वत्तृतीयां फलसप्तमीम्
शर्करासप्तमीं कुर्यात्तथा कमलसप्तमीम्२१३
मन्दारसप्तमीं षष्ठीं सप्तमीं शुभसप्तमीम्
सर्वाः पुण्यफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः२१४
विधानमासां वक्ष्यामि यथावदनुपूर्वशः
यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत्२१५
सा तु कल्याणिनी नाम विजया च निगद्यते
प्रातर्गव्येन पयसा स्नानं नद्यां समाचरेत्२१६
शुक्लाम्बरधरः पद्ममक्षतैः परिकल्पयेत्
प्राङ्मुखोष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम्२१७
पुष्पाक्षताद्भिर्देवेशं विन्यसेत्सर्वतः क्रमात्
पूर्वेण तपनायेति मार्तण्डायेति वै ततः२१८
याम्ये दिवाकरायेति विधात्र इति नैर्ऋते
पश्चिमे वरुणायेति भास्करायेति चानिले२१९
सौम्ये विकर्तनायेति देवायेत्यष्टमे दले
आदावन्ते च मध्ये चनमोस्तु परमात्मने२२०
मन्त्रैरेतैस्समभ्यर्च्य नमस्कारान्त दापितैः
शुक्लैर्वस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः२२१
स्थण्डिले पूजयेद्भक्त्या गुडेन लवणेन वै
ततो व्याहृतिमन्त्रेण विसृज्य द्विजपुङ्गवान्२२२
शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः
तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत्२२३
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः
कृतस्नानजपो विप्रैः सहैव घृतपायसम्२२४
भुक्त्वा च वेदविदुषि वैडालव्रतवर्जिते
घृतपात्रं सकनकं सोदकुम्भं निवेदयेत्२२५
प्रीयतामत्र भगवान्परमात्मा दिवाकरः
अनेन विधिना सर्वं मासिमासि समाचरेत्२२६
ततस्त्रयोदशे मासि गाश्च दद्यात्त्रयोदश
वस्त्रालङ्कारसंयुक्ताः स्वर्णशृङ्गाः पयस्विनीः२२७
एकामपि प्रदद्याच्च वित्तहीनो विमत्सरः
न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः२२८
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीं
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते२२९
आयुरारोग्यमैश्वर्यमनन्तमिह जायते
सर्वपापहरा चेयं सर्वदैवतपूजिता२३०
सर्वदुष्टोपशमनी सदा कल्याणसप्तमी
इमामनन्तफलदां यस्तु कल्याणसप्तमीं२३१
शृणोति यः पठेद्वापि स च पापैः प्रमुच्यते
विशोकसप्तमीं तद्वद्वक्ष्यामि नृपसत्तम२३२
यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते
माघे कृष्णतिलै स्नातः पञ्चम्यां शुक्लपक्षतः२३३
कृताहारः कृसरया दन्तधावनपूर्वकम्
उपवासव्रतं कृत्वा ब्रह्मचारी निशि स्वपेत्२३४
ततः प्रभात उत्थाय कृतस्नानजपः शुचिः
कृत्वा तु काञ्चनं पद्ममर्कायेति प्रपूजयेत्२३५
करवीरेण रक्तेन रक्तवस्त्रयुगेन च
यथा विशोकं भुवनं त्वयैवादित्य सर्वदा२३६
तथा विशोकता मे स्यात्त्वद्भक्तिः प्रतिजन्म च
एवं सपूज्य षष्ठ्यां तु भक्त्या सम्पूजयेद्द्विजान्२३७
स्वयं सम्प्राश्य गोमूत्रमुत्थाय कृतनैत्यकः
सम्पूज्य विप्रान्यत्नेन गुडपात्रसमन्वितम्२३८
सद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत्
अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः२३९
ततः पुराणश्रवणं कर्त्तव्यं भूतिमिच्छता
अनेन विधिना सर्वमुभयोरपि पक्षयोः२४०
कुर्याद्यावत्पुनर्माघशुक्लपक्षस्य सप्तमी
व्रतान्ते कलशं दद्यात्सुवर्णकमलान्वितम्२४१
शय्यां सोपस्करां दद्यात्कपिलां च पयस्विनीं
अनेन विधिना यस्तु वित्तशाठ्येन वर्जितः२४२
विशोकसप्तमीं कुर्यात्स याति परमां गतिम्
यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत्२४३
तावन्न शोकमाप्नोति रोगदौर्गत्यवर्जितः
यं यं कामयते कामं तं तं प्राप्नोति पुष्कलम्२४४
निष्कामं कुरुते यस्तु स परं ब्रह्म गच्छति
यः पठेच्छृणुयाद्वापि विशोकाख्यां तु सप्तमीम्२४५
सोपीन्द्रलोकमासाद्य न दुःखी जायते क्वचित्
अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम्२४६
यामुपोष्य नरः पापैर्विमुक्तः स्वर्गभाग्भवेत्
मार्गशीर्षे शुभे मासि पञ्चम्यां नियतव्रतः२४७
षष्ठीमुपोष्य कमलं कारयित्वा तु काञ्चनम्
शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुम्बिने२४८
रूपं च काञ्चनं कृत्वा फलस्यैकस्य धर्मवित्
दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति२४९
शक्त्या तु विप्रान्सम्पूज्य सप्तम्यां क्षीरभोजनम्
कृत्वा कुर्यात्फलत्यागं यावत्स्यात्कृष्णसप्तमी२५० 1.21.250
तामुपोष्याथ विधिवदनेनैव क्रमेण तु
तद्वद्धेमफलं दत्वा सुवर्णकमलान्वितम्२५१
शर्करापात्रसंयुक्तं वस्त्रमालासमन्वितम्
संवत्सरमनेनैव विधिनोभयसप्तमीम्२५२
उपोष्य दद्यात्क्रमशः सूर्यमन्त्रमुदीरयेत्
भानुरर्को रविर्ब्रह्मा सूर्यः शुक्रो हरिः शिवः२५३
श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति
प्रतिमासं च सप्तम्यामेकैकं नाम कीर्त्तयेत्२५४
प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत्
व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः२५५
शर्कराकलशं दद्याद्धेमपद्मफलान्वितम्
यथा न विफलः कामस्त्वद्भक्तानां सदा भवेत्२५६
तथानन्तफलावाप्तिरस्तु मे जन्मजन्मनि
इमामनन्तफलदां यः कुर्यात्फलसप्तमीम्२५७
भूतभव्यांश्च पुरुषांस्तारयेदेकविंशतिम्
यः शृणोति पठेद्वापि सोपि कल्याणभाग्भवेत्२५८
सर्वपापविशुद्धात्मा सूर्यलोके महीयते
सुरापानादिकं किञ्ञ्चिदत्रामुत्र च वा कृतम्२५९
तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम्
शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम्२६०
आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते
माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः२६१
प्रातः स्नात्वा तिलैः शुभ्रैः शुद्धमाल्यानुलेपनः
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्२६२
तस्मिन्नमः सवित्रेति गन्धपुष्पं निवेदयेत्
स्थापयेदुदकुम्भं च शर्करापात्रसंयुतम्२६३
शुक्लवस्त्रैरलङ्कृत्य शुक्लमाल्यानुलेपनैः
स्वर्णपुष्पसमायुक्तं मन्त्रेणानेन पूजयेत्२६४
विश्ववेदमयो यस्मात्त्वं वेदेषु च पठ्यसे
त्वमेवामृतसर्वस्वमतः शान्तिं प्रयच्छ मे२६५
पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ
सौरसूक्तं जपन्नास्ते पुराणश्रवणेन च२६६
अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्२६७
भोजयेच्छक्तितो विप्रान्शर्कराघृतपायसैः
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः२६८
अनेन विधिना सर्वं मासिमासि समाचरेत्
संवत्सरान्ते शयनं शर्कराकलशान्वितम्२६९
सर्वोपस्करसंयुक्तं तथैकाङ्गां पयस्विनीम्
गृहं च शक्तिमान्दद्यात्समस्तोपस्करान्वितम्२७०
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा
दशभिर्वा त्रिभिर्वापि निष्केणैकेन वा पुनः२७१
पद्मं स्वशक्तितो दद्यात्पूर्ववन्मन्त्रपाठनम्
वित्तशाठ्यं न कुर्वीत कुर्वन्दोषान्समश्नुते२७२
अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिन्दवः
समुत्पेतुर्द्धरण्यां ये शालिमुद्गेक्षवस्तु ते२७३
शर्करायारसस्तस्मादिक्षुसारोमृतात्मवान्
इष्टारवेरतः पुण्या शर्करा हव्यकव्ययोः२७४
शर्करासप्तमी चेयं वाजिमेधफलप्रदा
सर्वदुष्टोपशमनी पुत्रपौत्रविवर्धिनी२७५
यः कुर्यात्परया भक्त्या स परं ब्रह्म गच्छति
कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम्२७६
इदमनघ शृणोति यः स्मरेद्वा परिपठतीह सुरेश्वरस्य लोके
मतिमपि च ददाति सोपि देवैरमरपुरे परिपूज्यते मुनीन्द्रैः २७७
अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम्
यस्यास्सङ्कीर्त्तनादेव तुष्यतीह दिवाकरः२७८
वसन्तामलसप्तम्यां सुस्नातो गौरसर्षपैः
तिलपात्रे च सौवर्णं निधाय कमलं शुभम्२७९
वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैरथार्चयेत्
नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे२८०
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तुते
ततो द्विकालवेलायामुदकुम्भसमन्वितम्२८१
विप्राय दद्यात्सम्पूज्य वस्त्रमाल्यविभूषणैः
शक्तितः कपिलां दद्यादलङ्कृत्य विधानतः२८२
अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान्
यथाशक्ति च भुञ्जीत विमांसं तैलवर्जितं२८३
अनेन विधिना शुक्लसप्तम्यां मासि मासि च
सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः२८४
व्रतान्ते शयनं दद्यात्सुवर्णकमलान्वितम्२८५
गाश्च प्रदद्याच्छक्त्या तु सुवर्णस्य पयस्विनीः
भाजनासनदीपादीन्दद्यादिष्टानुपस्करान्२८६
अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम्
लक्ष्मीमनन्तामभ्येति सूर्यलोके च मोदते२८७
कल्पेकल्पे ततो लोकान्सप्त गत्वा पृथक्पृथक्
अप्सरोभिः परिवृतस्ततो याति परां गतिं२८८
पश्येदिमां यः शृणुयान्मुहूर्ते पठेच्च भक्त्याथ मतिं ददाति
सोप्यत्र लक्ष्मीममलामवाप्य गन्धर्वविद्याधरलोकमेति२८९
अतः परं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
सर्वकामप्रदां पुण्यां नाम्ना मन्दारसप्तमीं२९०
माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः
दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः२९१
विप्रान्सम्पूजयित्वा तु मन्दारं प्रार्थयेन्निशि
ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान्२९२
भोजयेच्छक्तितः कुर्यान्मन्दारकुसुमाष्टकं
सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनं२९३
पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेष्टपत्रकं
हेममन्दारकुसुमैर्भास्करायेति पूर्वतः२९४
नमस्कारेण तद्वच्च सूर्यायेत्यमले दले
दक्षिणे तद्वदर्काय तथार्यम्णे च नैर्ऋते२९५
पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे
पूष्णे चोत्तरतः पूज्य आनन्दायेति तत्परम्२९६
कर्णिकायां च पुरुषः स्थाप्यः सर्वात्मनेपि च
शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः२९७
एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः
भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही२९८
अनेन विधिना सर्वं सप्तम्यां मासिमासि च
कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः२९९
एतदेव व्रतान्ते तु निधाय कलशोपरि
गोभिर्विभवतः सार्द्धं दातव्यं भूतिमिच्छता३०० 1.21.300
नमो मन्दारनाथाय मन्दारभवनाय च
त्वं रवे तारयस्वास्मानस्मात्संसारसागरात्३०१
अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीम्
विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते३०२
इमामघौघपटलभीषणध्वान्तदीपिकां
गच्छन्सङ्गृह्य संसारशर्वर्यां न स्खलेन्नरः३०३
मन्दारसप्तमीमेतामीप्सितार्थफलप्रदां
यः पठेच्छृणुयाद्वापि सोपि पापैः प्रमुच्यते३०४
अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीं
यामुपोष्य नरो रोगशोकौघात्तु प्रमुच्यते३०५
पुण्यमाश्वयुजे मासि कृतस्नानजपः शुचिः
वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीं३०६
कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः
नमामि सूर्यसम्भूतामशेषभुवनालयां३०७
त्वामहं शुभकल्याणि स्वशरीरविशुद्धये
अथ कृत्वा तिलप्रस्थं ताम्रपात्रेणसंयुतम्३०८
काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितं
सोपधानं च विश्रामभाजनासनसंयुतम्३०९
फलैर्नानाविधैर्भक्ष्यैः घृतपायससंयुतैः
दद्याद्द्विकालवेलायामर्यमा प्रीयतामिति३१० विकाल
पञ्चगव्यं च सम्प्राश्य स्वपेद्भूमावसंस्तरे
ततः प्रभाते सञ्जाते भक्त्या सन्तर्पयेद्द्विजान्३११
अनेन विधिना दद्यान्मासिमासि सदा नरः
वाससी वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम्३१२
संवत्सरान्ते शयनमिक्षुदण्डगुडान्वितम्
ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा३१३
दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति
अनेन विधिना विद्वान्कुर्याद्यः शुभसप्तमीम्३१४
तस्य श्रीर्विमला कीर्त्तिर्भवेज्जन्मनि जन्मनि
अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये३१५
वसेद्गणाधिपो भूत्वा यावदाभूतसम्प्लवम्
कल्पादाववतीर्णश्च सप्तद्वीपाधिपो भवेत्३१६
भ्रूणहत्यासहस्रस्य ब्रह्महत्याशतस्य च
नाशायालमियं पुण्या पठ्यते शुभसप्तमी३१७
इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम्
सोप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम्३१८
यावत्समास्सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम्
स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः३१९