भीष्म उवाच
विश्वास-प्रस्तुतिः
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी
विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः ॥ १ ॥
मूलम्
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी
विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः ॥ १ ॥
विश्वास-प्रस्तुतिः
माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितम्
फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु ॥ २ ॥
मूलम्
माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितम्
फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु ॥ २ ॥
विश्वास-प्रस्तुतिः
विष्णुना च पदन्यासः कृतो यत्र महामुने
कनीयसस्तथोत्पत्तिर्यथाभूता वदस्व मे ॥ ३ ॥
मूलम्
विष्णुना च पदन्यासः कृतो यत्र महामुने
कनीयसस्तथोत्पत्तिर्यथाभूता वदस्व मे ॥ ३ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
पुरा रथन्तरे कल्पे राजासीत्पुष्पवाहनः
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ॥ ४ ॥
मूलम्
पुलस्त्य उवाच
पुरा रथन्तरे कल्पे राजासीत्पुष्पवाहनः
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत
कमलं काञ्चनं दत्तं यथाकामगमं नृप ॥ ५ ॥
मूलम्
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत
कमलं काञ्चनं दत्तं यथाकामगमं नृप ॥ ५ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा
कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना ॥ ६ ॥
मूलम्
सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा
कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना ॥ ६ ॥
विश्वास-प्रस्तुतिः
लोकेन पूजितं तस्मात्पुष्करद्वीपमुच्यते
तदेव ब्रह्मणा दत्तं यानमस्य ततोम्बुजम् ॥ ७ ॥
मूलम्
लोकेन पूजितं तस्मात्पुष्करद्वीपमुच्यते
तदेव ब्रह्मणा दत्तं यानमस्य ततोम्बुजम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
पुष्पवाहन इत्याहुस्तस्मात्तं देवदानवाः
नौपम्यमस्तीह जगत्त्रयेपि ब्रह्माम्बुजस्थस्य च तस्य राज्ञः ॥ ८ ॥
मूलम्
पुष्पवाहन इत्याहुस्तस्मात्तं देवदानवाः
नौपम्यमस्तीह जगत्त्रयेपि ब्रह्माम्बुजस्थस्य च तस्य राज्ञः ॥ ८ ॥
विश्वास-प्रस्तुतिः
तपोनुभावादथ तस्य राज्ञी नारी सहस्रैरभिवन्द्यमाना
नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य ॥ ९ ॥
मूलम्
तपोनुभावादथ तस्य राज्ञी नारी सहस्रैरभिवन्द्यमाना
नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य ॥ ९ ॥
विश्वास-प्रस्तुतिः
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम्
तदात्मजांस्तानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद ॥ १० ॥
मूलम्
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम्
तदात्मजांस्तानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद ॥ १० ॥
विश्वास-प्रस्तुतिः
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाक्यमिदं बभाषे
कस्माद्विभूतिरचलामरमर्त्यपूजा जाता कथं कमलजा सदृशी सुराज्ञी ॥ ११ ॥
मूलम्
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाक्यमिदं बभाषे
कस्माद्विभूतिरचलामरमर्त्यपूजा जाता कथं कमलजा सदृशी सुराज्ञी ॥ ११ ॥
विश्वास-प्रस्तुतिः
भार्या मयाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्जररथौघजनावृतानां ॥ १२ ॥
मूलम्
भार्या मयाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्जररथौघजनावृतानां ॥ १२ ॥
विश्वास-प्रस्तुतिः
नालक्ष्यते क्वगतमम्बरगामिभिश्च तारागणेन्दुरविरश्मिभिरप्यगम्यम्
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं यत् ॥ १३ ॥
मूलम्
नालक्ष्यते क्वगतमम्बरगामिभिश्च तारागणेन्दुरविरश्मिभिरप्यगम्यम्
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं यत् ॥ १३ ॥
विश्वास-प्रस्तुतिः
सर्वैर्मयाथ तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः
सोप्यभ्यधादथ भवान्तरितं निरीक्ष्य पृथ्वीपते शृणु तदद्भुतहेतुवृत्तम् ॥ १४ ॥
मूलम्
सर्वैर्मयाथ तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः
सोप्यभ्यधादथ भवान्तरितं निरीक्ष्य पृथ्वीपते शृणु तदद्भुतहेतुवृत्तम् ॥ १४ ॥
विश्वास-प्रस्तुतिः
जन्माभवत्तव तु लुब्धकुलेपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी
वपुरप्यभूत्तव पुनः पुरुषाङ्गसन्धिदुर्गन्धिसत्त्वकुनखाभरणं समन्तात् ॥ १५ ॥
मूलम्
जन्माभवत्तव तु लुब्धकुलेपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी
वपुरप्यभूत्तव पुनः पुरुषाङ्गसन्धिदुर्गन्धिसत्त्वकुनखाभरणं समन्तात् ॥ १५ ॥
विश्वास-प्रस्तुतिः
न च ते सुहृन्न सुतबन्धुजनो न तादृक्नैवस्वसा न जननी च तदाभिशस्ता
अतिसम्मता परमभीष्टतमाभिमुखी जाता मही शतवयोषिदियं सुरूपा ॥ १६ ॥
मूलम्
न च ते सुहृन्न सुतबन्धुजनो न तादृक्नैवस्वसा न जननी च तदाभिशस्ता
अतिसम्मता परमभीष्टतमाभिमुखी जाता मही शतवयोषिदियं सुरूपा ॥ १६ ॥
विश्वास-प्रस्तुतिः
अभूदनावृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमस्यां
क्षुत्पीडितेन भवता तु यदा न किञ्चिदासादितं वन्यफलादि भक्ष्यं॥ १७ ॥
मूलम्
अभूदनावृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमस्यां
क्षुत्पीडितेन भवता तु यदा न किञ्चिदासादितं वन्यफलादि भक्ष्यं॥ १७ ॥
विश्वास-प्रस्तुतिः
अथाभिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः
पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिश नामधेयं ॥ १८ ॥
मूलम्
अथाभिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः
पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिश नामधेयं ॥ १८ ॥
विश्वास-प्रस्तुतिः
तन्मूल्यलाभाय पुरं समस्तं भ्रान्तं त्वयाशेषमहस्तदासीत्
क्रेता न कश्चित्कमलेषु जातः क्लान्तः परं क्षुत्परिपीडितश्च ॥ १९ ॥
मूलम्
तन्मूल्यलाभाय पुरं समस्तं भ्रान्तं त्वयाशेषमहस्तदासीत्
क्रेता न कश्चित्कमलेषु जातः क्लान्तः परं क्षुत्परिपीडितश्च ॥ १९ ॥
विश्वास-प्रस्तुतिः
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनाङ्गणे
ततो रात्रौ भवांस्तत्र अश्रौषीन्मङ्गलध्वनिं ॥ २० ॥
मूलम्
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनाङ्गणे
ततो रात्रौ भवांस्तत्र अश्रौषीन्मङ्गलध्वनिं ॥ २० ॥
विश्वास-प्रस्तुतिः
सभार्यस्तत्र गतवान्यत्रासौ मङ्गलध्वनिः
तत्र मण्डलमध्यस्था विष्णोरर्चाविलोकिता ॥ २१ ॥
मूलम्
सभार्यस्तत्र गतवान्यत्रासौ मङ्गलध्वनिः
तत्र मण्डलमध्यस्था विष्णोरर्चाविलोकिता ॥ २१ ॥
विश्वास-प्रस्तुतिः
वेश्यानङ्गवती नाम बिभ्रती द्वादशीव्रतं
समाप्य माघमासस्य द्वादश्यां लवणाचलं ॥ २२ ॥
मूलम्
वेश्यानङ्गवती नाम बिभ्रती द्वादशीव्रतं
समाप्य माघमासस्य द्वादश्यां लवणाचलं ॥ २२ ॥
विश्वास-प्रस्तुतिः
न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम्
अलङ्कृत्य हृषीकेशं सौवर्णं सममादरात् ॥ २३ ॥
मूलम्
न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम्
अलङ्कृत्य हृषीकेशं सौवर्णं सममादरात् ॥ २३ ॥
विश्वास-प्रस्तुतिः
सा तु दृष्टा ततस्ताभ्यामिदं च परिचिन्तितं
किमेभिः कमलैः कार्यं वरं विष्णुरलङ्कृतः ॥ २४ ॥
मूलम्
सा तु दृष्टा ततस्ताभ्यामिदं च परिचिन्तितं
किमेभिः कमलैः कार्यं वरं विष्णुरलङ्कृतः ॥ २४ ॥
विश्वास-प्रस्तुतिः
इति भक्तिस्तदा जाता दम्पत्योस्तु नरेश्वर
तत्प्रसङ्गात्समभ्यर्च्य केशवं लवणाचलं ॥ २५ ॥
मूलम्
इति भक्तिस्तदा जाता दम्पत्योस्तु नरेश्वर
तत्प्रसङ्गात्समभ्यर्च्य केशवं लवणाचलं ॥ २५ ॥
विश्वास-प्रस्तुतिः
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वशः
अथानङ्गवती तुष्टा तयोर्धान्यशतत्रयम् ॥ २६ ॥
मूलम्
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वशः
अथानङ्गवती तुष्टा तयोर्धान्यशतत्रयम् ॥ २६ ॥
विश्वास-प्रस्तुतिः
दीयतामादिदेशाथ कलधौतपलत्रयं
न गृहीतं ततस्ताभ्यां महासत्वावलम्बनात् ॥ २७ ॥
मूलम्
दीयतामादिदेशाथ कलधौतपलत्रयं
न गृहीतं ततस्ताभ्यां महासत्वावलम्बनात् ॥ २७ ॥
विश्वास-प्रस्तुतिः
अनङ्गवत्या च पुनस्तयोरन्नं चतुर्विधं
आनीय व्याहृतं चान्नं भुज्यतामिति भूपते ॥ २८ ॥
मूलम्
अनङ्गवत्या च पुनस्तयोरन्नं चतुर्विधं
आनीय व्याहृतं चान्नं भुज्यतामिति भूपते ॥ २८ ॥
विश्वास-प्रस्तुतिः
ताभ्यां च तदपि त्यक्तं भोक्ष्यावः श्वो वरानने
प्रसङ्गादुपवासो नौ तवाद्यास्तु शुभावहः ॥ २९ ॥
मूलम्
ताभ्यां च तदपि त्यक्तं भोक्ष्यावः श्वो वरानने
प्रसङ्गादुपवासो नौ तवाद्यास्तु शुभावहः ॥ २९ ॥
विश्वास-प्रस्तुतिः
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते
त्वत्प्रसङ्गाद्भवद्गेहे धर्मलेशोस्तु नाविह ॥ ३० ॥
मूलम्
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते
त्वत्प्रसङ्गाद्भवद्गेहे धर्मलेशोस्तु नाविह ॥ ३० ॥
विश्वास-प्रस्तुतिः
इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितं
प्रभाते च तया दत्ता शय्या सलवणाचला ॥ ३१ ॥
मूलम्
इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितं
प्रभाते च तया दत्ता शय्या सलवणाचला ॥ ३१ ॥
विश्वास-प्रस्तुतिः
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु
वस्त्रालङ्कारसंयुक्ता गावश्च कनकान्विताः ॥ ३२ ॥
मूलम्
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु
वस्त्रालङ्कारसंयुक्ता गावश्च कनकान्विताः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
भोजनं च सुहृन्मित्रदीनान्धकृपणैः सह
तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् ॥ ३३ ॥
मूलम्
भोजनं च सुहृन्मित्रदीनान्धकृपणैः सह
तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः
स भवान्लुब्धको जातः सपत्नीको नृपेश्वरः
पुष्करप्रकरात्तस्मात्केशवस्य तु पूजनात् ॥ ३४ ॥
मूलम्
स भवान्लुब्धको जातः सपत्नीको नृपेश्वरः
पुष्करप्रकरात्तस्मात्केशवस्य तु पूजनात् ॥ ३४ ॥
विश्वास-प्रस्तुतिः
विनष्टाशेषपापस्य तव पुष्करमन्दिरं
तस्य सत्यस्य माहात्म्यादलोभतपसा नृप ॥ ३५ ॥
मूलम्
विनष्टाशेषपापस्य तव पुष्करमन्दिरं
तस्य सत्यस्य माहात्म्यादलोभतपसा नृप ॥ ३५ ॥
विश्वास-प्रस्तुतिः
प्रादात्कामगमं यानं लोकनाथश्चतुर्मुखः
सन्तुष्टस्तव राजेन्द्र पुष्करं त्वं समाश्रय ॥ ३६ ॥
मूलम्
प्रादात्कामगमं यानं लोकनाथश्चतुर्मुखः
सन्तुष्टस्तव राजेन्द्र पुष्करं त्वं समाश्रय ॥ ३६ ॥
विश्वास-प्रस्तुतिः
कल्पं सत्वं समासाद्य विभूतिद्वादशीव्रतं
कुरु राजेन्द्र निर्वाणमवश्यं समवाप्स्यसि ॥ ३७ ॥
मूलम्
कल्पं सत्वं समासाद्य विभूतिद्वादशीव्रतं
कुरु राजेन्द्र निर्वाणमवश्यं समवाप्स्यसि ॥ ३७ ॥
विश्वास-प्रस्तुतिः
एतदुक्त्वा तु स मुनिस्तत्रैवान्तरधीयत
राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ॥ ३८ ॥
मूलम्
एतदुक्त्वा तु स मुनिस्तत्रैवान्तरधीयत
राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ॥ ३८ ॥
विश्वास-प्रस्तुतिः
इदमाचरतो राजन्नखण्डव्रतता भवेत्
यथाकथञ्चित्कालेन द्वादशद्वादशीर्नृप ॥ ३९ ॥
मूलम्
इदमाचरतो राजन्नखण्डव्रतता भवेत्
यथाकथञ्चित्कालेन द्वादशद्वादशीर्नृप ॥ ३९ ॥
विश्वास-प्रस्तुतिः
कर्तव्या शक्तितो देव विप्रेभ्यो दक्षिणा नृप
ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा ॥ ४० ॥
मूलम्
कर्तव्या शक्तितो देव विप्रेभ्यो दक्षिणा नृप
ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा ॥ ४० ॥
विश्वास-प्रस्तुतिः
कनिष्ठे काञ्चनं देयमित्येषा दक्षिणा स्मृता
प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा ॥ ४१ ॥
मूलम्
कनिष्ठे काञ्चनं देयमित्येषा दक्षिणा स्मृता
प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा ॥ ४१ ॥
विश्वास-प्रस्तुतिः
तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः
इति कलुषविदारणं जनानां पठति च यस्तु शृणोति चापि भक्त्या ॥ ४२ ॥
मूलम्
तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः
इति कलुषविदारणं जनानां पठति च यस्तु शृणोति चापि भक्त्या ॥ ४२ ॥
विश्वास-प्रस्तुतिः
मतिमपि च स याति देवलोके वसति च रोमसमानि वत्सराणि
अथातः सम्प्रवक्ष्यामि व्रतानामुत्तमं व्रतं ॥ ४३ ॥
मूलम्
मतिमपि च स याति देवलोके वसति च रोमसमानि वत्सराणि
अथातः सम्प्रवक्ष्यामि व्रतानामुत्तमं व्रतं ॥ ४३ ॥
विश्वास-प्रस्तुतिः
कथितं तेन रुद्रेण महापातकनाशनम्
नक्तमब्दं चरित्वा तु गवासार्धं कुटुम्बिने ॥ ४४ ॥
मूलम्
कथितं तेन रुद्रेण महापातकनाशनम्
नक्तमब्दं चरित्वा तु गवासार्धं कुटुम्बिने ॥ ४४ ॥
विश्वास-प्रस्तुतिः
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी
एवं यः कुरुते पुण्यं शिवलोके स मोदते॥ ४५ ॥
मूलम्
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी
एवं यः कुरुते पुण्यं शिवलोके स मोदते॥ ४५ ॥
विश्वास-प्रस्तुतिः
एतदेव व्रतं नाम महापातकनाशनम्
यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्विताम् ॥ ४६ ॥
मूलम्
एतदेव व्रतं नाम महापातकनाशनम्
यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्विताम् ॥ ४६ ॥
विश्वास-प्रस्तुतिः
धेनुं तिलमयीं दद्यात्स पदं याति शाङ्करम्
एतद्रुद्रव्रतं नाम भयशोकविनाशनम् ॥ ४७ ॥
मूलम्
धेनुं तिलमयीं दद्यात्स पदं याति शाङ्करम्
एतद्रुद्रव्रतं नाम भयशोकविनाशनम् ॥ ४७ ॥
विश्वास-प्रस्तुतिः
यश्च नीलोत्पलं हैमं शर्करापात्रसंयुतम्
एकान्तरितनक्ताशी समान्ते वृषसंयुतम् ॥ ४८ ॥
मूलम्
यश्च नीलोत्पलं हैमं शर्करापात्रसंयुतम्
एकान्तरितनक्ताशी समान्ते वृषसंयुतम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः
वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम्
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेन्नरः ॥ ४९ ॥
मूलम्
वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम्
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेन्नरः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
भोजनोपस्करं दद्यात्स याति भवनं हरेः
जनप्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ५० 1.20.50
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुतम् ॥ ५१ ॥
मूलम्
भोजनोपस्करं दद्यात्स याति भवनं हरेः
जनप्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ५० 1.20.50
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुतम् ॥ ५१ ॥
विश्वास-प्रस्तुतिः
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति
एतद्गौरीव्रतं नाम भवानीलोकदायकम् ॥ ५२ ॥
मूलम्
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति
एतद्गौरीव्रतं नाम भवानीलोकदायकम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः
अशोकं काञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम् ॥ ५३ ॥
मूलम्
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः
अशोकं काञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति
कल्पं विष्णुपुरे स्थित्वा विशोकस्स्यात्पुनर्नृप ॥ ५४ ॥
मूलम्
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति
कल्पं विष्णुपुरे स्थित्वा विशोकस्स्यात्पुनर्नृप ॥ ५४ ॥
विश्वास-प्रस्तुतिः
एतत्कामव्रतं नाम सदा शोकविनाशनम्
आषाढादि व्रते यस्तु वर्जयेद्यः फलाशनम् ॥ ५५ ॥
मूलम्
एतत्कामव्रतं नाम सदा शोकविनाशनम्
आषाढादि व्रते यस्तु वर्जयेद्यः फलाशनम् ॥ ५५ ॥
विश्वास-प्रस्तुतिः
चातुर्मास्ये निवृत्ते तु घटं सर्पिर्गुडान्वितम्
कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् ॥ ५६ ॥
मूलम्
चातुर्मास्ये निवृत्ते तु घटं सर्पिर्गुडान्वितम्
कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम्
वर्जयेद्यस्तु पुष्पाणि हेमन्ते शिशिरावृते ॥ ५७ ॥
मूलम्
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम्
वर्जयेद्यस्तु पुष्पाणि हेमन्ते शिशिरावृते ॥ ५७ ॥
विश्वास-प्रस्तुतिः
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम्
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ ॥ ५८ ॥
मूलम्
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम्
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ ॥ ५८ ॥
विश्वास-प्रस्तुतिः
दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्
फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्॥ ५९ ॥
मूलम्
दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्
फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्॥ ५९ ॥
विश्वास-प्रस्तुतिः
समान्ते शयनं दद्याद्गृहं चोपस्करान्वितम्
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति ॥ ६० ॥
मूलम्
समान्ते शयनं दद्याद्गृहं चोपस्करान्वितम्
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति ॥ ६० ॥
विश्वास-प्रस्तुतिः
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते
सन्ध्यामौनं नरः कृत्वा समान्ते घृतकुम्भकम् ॥ ६१ ॥
मूलम्
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते
सन्ध्यामौनं नरः कृत्वा समान्ते घृतकुम्भकम् ॥ ६१ ॥
विश्वास-प्रस्तुतिः
वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत्
लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम् ॥ ६२ ॥
मूलम्
वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत्
लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम् ॥ ६२ ॥
विश्वास-प्रस्तुतिः
एतत्सारस्वतं नाम रूपविद्याप्रदायकम्
लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भवेन्नरः ॥ ६३ ॥
मूलम्
एतत्सारस्वतं नाम रूपविद्याप्रदायकम्
लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भवेन्नरः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
समान्ते हेमकमलं दद्याद्धेनुसमन्वितम्
स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि ॥ ६४ ॥
मूलम्
समान्ते हेमकमलं दद्याद्धेनुसमन्वितम्
स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि ॥ ६४ ॥
विश्वास-प्रस्तुतिः
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम्
कृत्वोपलेपनं शम्भोरग्रतः केशवस्य च ॥ ६५ ॥
मूलम्
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम्
कृत्वोपलेपनं शम्भोरग्रतः केशवस्य च ॥ ६५ ॥
विश्वास-प्रस्तुतिः
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा
जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् ॥ ६६ ॥
मूलम्
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा
जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
एतदायुर्व्रतं नाम सर्वकामप्रदायकम्
अश्वत्थं भास्करं गङ्गां प्रणम्यैकाग्रमानसः ॥ ६७ ॥
मूलम्
एतदायुर्व्रतं नाम सर्वकामप्रदायकम्
अश्वत्थं भास्करं गङ्गां प्रणम्यैकाग्रमानसः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः
व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् ॥ ६८ ॥
मूलम्
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः
व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् ॥ ६८ ॥
विश्वास-प्रस्तुतिः
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्
एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ॥ ६९ ॥
मूलम्
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्
एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
घृतेन स्नपनं कृत्वा शम्भोर्वा केशवस्य वा
अक्षताभिः सपुष्पाभिः कृत्वा गोमयमण्डलम् ॥ ७० ॥
मूलम्
घृतेन स्नपनं कृत्वा शम्भोर्वा केशवस्य वा
अक्षताभिः सपुष्पाभिः कृत्वा गोमयमण्डलम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
समान्ते हेमकमलं तिलधेनुसमन्वितम्
शूलमष्टाङ्गुलं दद्याच्छिवलोके महीयते॥ ७१ ॥
मूलम्
समान्ते हेमकमलं तिलधेनुसमन्वितम्
शूलमष्टाङ्गुलं दद्याच्छिवलोके महीयते॥ ७१ ॥
विश्वास-प्रस्तुतिः
सामगायनकं चैव सामव्रतमिहोच्यते
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः ॥ ७२ ॥
मूलम्
सामगायनकं चैव सामव्रतमिहोच्यते
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
भोजयित्वा समं दद्याद्धेमकञ्चुकवाससी
हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत् ॥ ७३ ॥
मूलम्
भोजयित्वा समं दद्याद्धेमकञ्चुकवाससी
हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत् ॥ ७३ ॥
विश्वास-प्रस्तुतिः
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः
एतद्वीरव्रतं नाम नराणां च सुखप्रदम्॥ ७४ ॥
मूलम्
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः
एतद्वीरव्रतं नाम नराणां च सुखप्रदम्॥ ७४ ॥
विश्वास-प्रस्तुतिः
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः
व्रतान्ते मणिकं दद्यादन्नं वस्त्रसमन्वितम्॥ ७५ ॥
मूलम्
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः
व्रतान्ते मणिकं दद्यादन्नं वस्त्रसमन्वितम्॥ ७५ ॥
विश्वास-प्रस्तुतिः
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते
कल्पान्ते भूतिजननमानन्दव्रतमुच्यते ॥ ७६ ॥
मूलम्
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते
कल्पान्ते भूतिजननमानन्दव्रतमुच्यते ॥ ७६ ॥
विश्वास-प्रस्तुतिः
पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः
वत्सरान्ते पुनर्दद्याद्धेनुं पञ्चामृतान्वितां ॥ ७७ ॥
मूलम्
पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः
वत्सरान्ते पुनर्दद्याद्धेनुं पञ्चामृतान्वितां ॥ ७७ ॥
विश्वास-प्रस्तुतिः
विप्राय दद्याच्छङ्खं च सपदं याति शाङ्करम्
राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम्॥ ७८ ॥
मूलम्
विप्राय दद्याच्छङ्खं च सपदं याति शाङ्करम्
राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम्॥ ७८ ॥
विश्वास-प्रस्तुतिः
वर्जयित्वा पुमान्मांसं व्रतान्ते गोप्रदो भवेत्
तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्॥ ७९ ॥
मूलम्
वर्जयित्वा पुमान्मांसं व्रतान्ते गोप्रदो भवेत्
तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्॥ ७९ ॥
विश्वास-प्रस्तुतिः
अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत्
कल्यमुत्थाय वै स्नानं कृत्वा दाम्पत्यमर्चयेत्॥ ८० ॥
मूलम्
अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत्
कल्यमुत्थाय वै स्नानं कृत्वा दाम्पत्यमर्चयेत्॥ ८० ॥
विश्वास-प्रस्तुतिः
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्॥ ८१ ॥
मूलम्
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्॥ ८१ ॥
विश्वास-प्रस्तुतिः
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः
विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्॥ ८२ ॥
मूलम्
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः
विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्॥ ८२ ॥
विश्वास-प्रस्तुतिः
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम्
अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी॥ ८३ ॥
मूलम्
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम्
अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी॥ ८३ ॥
विश्वास-प्रस्तुतिः
तदन्ते पुष्पमन्नानि घृतधेन्वा सहैव तु
दत्वा शिवपदं याति विप्राय घृतपायसम्॥ ८४ ॥
मूलम्
तदन्ते पुष्पमन्नानि घृतधेन्वा सहैव तु
दत्वा शिवपदं याति विप्राय घृतपायसम्॥ ८४ ॥
विश्वास-प्रस्तुतिः
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्
यावत्समं भवेद्यस्तु पञ्चदश्यां पयोव्रतः॥ ८५ ॥
मूलम्
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्
यावत्समं भवेद्यस्तु पञ्चदश्यां पयोव्रतः॥ ८५ ॥
विश्वास-प्रस्तुतिः
समान्ते श्राद्धकृद्दद्याद्गाश्च पञ्च पयस्विनीः
वासांसि च पिशङ्गानि जलकुम्भयुतानि च॥ ८६ ॥
मूलम्
समान्ते श्राद्धकृद्दद्याद्गाश्च पञ्च पयस्विनीः
वासांसि च पिशङ्गानि जलकुम्भयुतानि च॥ ८६ ॥
विश्वास-प्रस्तुतिः
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्॥ ८७ ॥
मूलम्
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्॥ ८७ ॥
विश्वास-प्रस्तुतिः
कल्पान्ते राजराजेन्द्र पितृव्रतमिदं स्मृतम्
सन्ध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्॥ ८८ ॥
मूलम्
कल्पान्ते राजराजेन्द्र पितृव्रतमिदं स्मृतम्
सन्ध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्॥ ८८ ॥
विश्वास-प्रस्तुतिः
समान्ते दीपकं दद्याच्चक्रं शूलं च काञ्चनम्
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः॥ ८९ ॥
मूलम्
समान्ते दीपकं दद्याच्चक्रं शूलं च काञ्चनम्
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः॥ ८९ ॥
विश्वास-प्रस्तुतिः
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम्
कार्तिकादि तृतीयायां प्राश्य गोमूत्र यावकम्॥ ९० ॥
मूलम्
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम्
कार्तिकादि तृतीयायां प्राश्य गोमूत्र यावकम्॥ ९० ॥
विश्वास-प्रस्तुतिः
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत्
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह॥ ९१ ॥
मूलम्
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत्
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह॥ ९१ ॥
विश्वास-प्रस्तुतिः
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम्
वर्जयेच्चतुरो मासान्यस्तु गन्धानुलेपनम्॥ ९२ ॥
मूलम्
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम्
वर्जयेच्चतुरो मासान्यस्तु गन्धानुलेपनम्॥ ९२ ॥
विश्वास-प्रस्तुतिः
शुक्तिगन्धाक्षतान्दद्याद्विप्राय सितवाससी
वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्॥ ९३ ॥
मूलम्
शुक्तिगन्धाक्षतान्दद्याद्विप्राय सितवाससी
वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्॥ ९३ ॥
विश्वास-प्रस्तुतिः
वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः
भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह॥ ९४ ॥
मूलम्
वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः
भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह॥ ९४ ॥
विश्वास-प्रस्तुतिः
एतच्छान्तिव्रतं नाम कीर्तिकामफलप्रदम्
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशि समन्वितम्॥ ९५ ॥
मूलम्
एतच्छान्तिव्रतं नाम कीर्तिकामफलप्रदम्
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशि समन्वितम्॥ ९५ ॥
विश्वास-प्रस्तुतिः
घृतेनान्यप्रदो भूत्वा वह्निं सन्तर्प्य सद्विजम्
सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः॥ ९६ ॥
मूलम्
घृतेनान्यप्रदो भूत्वा वह्निं सन्तर्प्य सद्विजम्
सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः॥ ९६ ॥
विश्वास-प्रस्तुतिः
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति
पुण्येऽह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवम्॥ ९७ ॥
मूलम्
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति
पुण्येऽह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवम्॥ ९७ ॥
विश्वास-प्रस्तुतिः
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम्
यश्चोभयमुखीं दद्यात्प्रभूतसकलान्विताम्॥ ९८ ॥
मूलम्
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम्
यश्चोभयमुखीं दद्यात्प्रभूतसकलान्विताम्॥ ९८ ॥
विश्वास-प्रस्तुतिः
दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम्
एतद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभम्॥ ९९ ॥
मूलम्
दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम्
एतद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभम्॥ ९९ ॥
विश्वास-प्रस्तुतिः
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम्
पलादूर्ध्वं यथाशक्ति तण्डुलप्रस्थसंयुतम्१०० 1.20.100
दत्त्वा ब्रह्मपदं याति भीमव्रतमिदं स्मृतम्
मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम्१०१
स वैष्णवपदं याति भीमव्रतमिदं स्मृतम्
दद्याद्विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम्१०२
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते
धनप्रदमिदं प्रोक्तं सप्तकल्पशतानुगम्१०३
माघेमास्यथ चैत्रे वा गुडधेनुप्रदो भवेत्
गुडव्रतं तृतीयायां गौरीलोके महीयते१०४
महाव्रतमिदं नाम परमानन्दकारकम्
पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम्१०५
स ब्रह्मलोकमाप्नोति देवासुरसुपूजितः
कल्पान्ते सर्वराजा स्यात्प्रभाव्रतमिदं स्मृतम्१०६
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुम्भदः
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्॥ ७ ॥

नक्ताशी त्वष्टमीषु स्याद्वत्सरान्ते तु धेनुदः
पौरन्दरं पुरं याति सुगतिव्रतमुच्यते॥ ८ ॥
मूलम्
नक्ताशी त्वष्टमीषु स्याद्वत्सरान्ते तु धेनुदः
पौरन्दरं पुरं याति सुगतिव्रतमुच्यते॥ ८ ॥
इन्धनं यो ददेद्विप्रे वर्षादींश्चतुरस्त्वृतून्
घृतधेनुप्रदोन्ते च स परं ब्रह्म गच्छति१०९
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम्
एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्११०
कृत्वा समान्ते सौवर्णं विष्णोः पदमवाप्नुयात्
एतत्कृष्णव्रतं नाम कल्पान्ते राज्यलाभकृत्१११
पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम्
लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं११२
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीं
सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्११३
चतुर्थ्यां नक्तभुग्दद्याद्धेमन्ते गोयुगं तथा
एतद्वैनायकं नाम शिवलोकफलप्रदम्११४
महाफलानि यस्त्यक्त्वा चातुर्मास्ये द्विजातये
हैमानि कार्तिकेदद्याद्धोमान्ते गोयुगं तथा११५
एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम्
द्वादशाद्वादशीर्यस्तु समाप्योपोषणे नृप११६
गोवस्त्रकाञ्चनैर्विप्रान्पूजयेच्छक्तितो नरः
परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्११७
चतुर्दश्यां तु नक्ताशी समान्ते गोयुगप्रदः
शैवं पदमवाप्नोति त्रैयम्बकमिदं स्मृतम्११८
सप्तरात्रोषितो दद्याद्घृतकुम्भं द्विजातये
वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम्११९
असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीम्
शक्रलोके वसेत्कल्पमिदं मन्त्रव्रतं स्मृतम्१२०
मुखवासं परित्यज्य समान्ते गोप्रदो भवेत्
वारुणं लोकमाप्नोति वारुणव्रतमुच्यते१२१
चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत्
चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम्१२२
ज्येष्ठे पञ्चतपा योन्ते हेमधेनुप्रदो दिवम्
यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्१२३
सकृद्विधानकं कुर्यात्तृतीयायां शिवालये
समाप्ते धेनुदो याति भवानीव्रतमुच्यते१२४
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत्
दिविकल्पं वसित्वेह राजा स्यात्पवनव्रतम्१२५
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम्
आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्१२६
त्रिसन्ध्यं पूज्य दाम्पत्यमुपवासी विभूषणैः
ददन्मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतम्१२७
दत्त्वासितद्वितीयायामिन्दौ लवणभाजनम्
समाप्ते गोप्रदो याति विप्राय शिवमन्दिरम्१२८
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा
समाप्ते गां च यो दद्यात्स याति शिवमन्दिरम्१२९
कल्पान्ते राजराजस्स्यात्सोमव्रतमिदं स्मृतम्
प्रतिपत्स्वेकभक्ताशी समाप्ते च फलप्रदः१३०
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम्
हैमं पलद्वयादूर्द्ध्वं रथमश्वयुगान्वितम्१३१
दद्यात्कृतोपवासः स दिवि कल्पशतं वसेत्
तदन्ते राजराजस्स्यादश्वव्रतमिदं स्मृतम्१३२
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं पुनः
सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः१३३
भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतम्
दशम्यामेकभक्ताशी समाप्ते दशधेनुदः१३४
दीपं च काञ्चनं दद्याद्ब्रह्माण्डाधिपतिर्भवेत्
एतद्विश्वव्रतं नाम महापातकनाशनम्१३५
कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति
एकविंशद्गुणोपेतो ब्रह्मलोकं गमिष्यति१३६
कन्यादानात्परं दानं नैव चास्त्यधिकं क्वचित्
पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः१३७
विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेत्
तिलपिष्टमयं कृत्वा गजं रत्नसमन्वितम्१३८
विप्राय ये प्रयच्छन्ति जलमध्ये स्थिता नराः
तेषां चैवाक्षयो लोको भविता भूतसम्प्लवम्१३९
यः पठेच्छृणुयाद्वापि व्रतषष्ठिमनुत्तमाम्
मन्वन्तरशतं सोपि गन्धर्वाधिपतिर्भवेत्१४०
षष्ठिव्रतं भारत पुण्यमेतत्तवोदितं विश्वजनीनमद्य
श्रोतुं यदीच्छा तवराजराज शृणु द्विजातेः करणीयमेतत्१४१
नैर्मल्यं भावशुद्धिश्चविनास्नानं न विद्यते
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते१४२
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्
तीर्थं प्रकल्पयेद्विद्वान्मूलमन्त्रेण मन्त्रवित्१४३
नमो नारायणायेति मूलमन्त्र उदाहृतः
सदर्भपाणिर्विधिना आचान्तः प्रयतः शुचिः१४४
चतुर्हस्तसमायुक्तं चतुरश्रं समन्ततः
प्रकल्प्यावाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः१४५
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात्१४६
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्
दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि१४७
नन्दिनीत्येव ते नाम देवेषु नलिनीति च
दक्षा पृथ्वी च सुभगा विश्वकाया शिवासिता१४८
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी
क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी१४९
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत्
भवेत्सन्निहिता तत्र गङ्गा त्रिपथगामिनी१५० 1.20.150
सप्तवाराभिजप्तेन करसम्पुटयोजितम्
मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुःपञ्चसप्तधा१५१
स्नानं कुर्यान्मृदातद्वदामन्त्र्य तु विधानतः
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे१५२
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्
उद्धृतासि वराहेण कृष्णेन शतबाहुना१५३
नमस्ते सर्वलोकानां प्रभवोरणि सुव्रते
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः१५४
उत्थाय वाससी शुभ्रे शुद्धे तु परिधाय वै
ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै१५५
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन्
देवायक्षास्तथा नागा गन्धर्वाप्सरसां गणाः१५६
क्रूरास्सर्पाः सुपर्णाश्च तरवो जम्भकादयः
विद्याधरा जलधरास्तथैवाकाशगामिनः१५७
निराधाराश्च ये जीवा पापधर्मरताश्च ये
तेषामाप्यायनायैतद्दीयते सलिलं मया१५८
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा१५९
सनकश्च सनन्दश्च तृतीयश्च सनातनः
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा१६०
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्१६१
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च
देवब्रह्मऋषीन्सर्वांस्तर्पयेत्साक्षतोदकैः१६२
अपसव्यं ततः कृत्वा सव्यं जानु च भूतले
अग्निष्वात्तांस्तथा सौम्यान्हविष्मन्तस्तथोष्मपान्१६३
सुकालिनो बर्हिषदस्तथा चैवाज्यपान्पुनः
सन्तर्पयेत्पितॄन्भक्त्या सतिलोदकचन्दनैः१६४
सदर्भपाणिर्विधिना पितॄन्न्स्वांस्तर्पयेतत्तः
पित्रादीन्नामगोत्रेण तथा मातामहानपि१६५
सन्तर्प्य विधिवद्भक्त्या इमं मन्त्रमुदीरयेत्
यो बान्धवा बान्धवा ये येन्यजन्मनि बान्धवाः१६६
ते तृप्तिमखिलायां तु येप्यस्मत्तोयकाङ्क्षिणः
आचम्य विधिना सम्यगालिखेत्पद्ममग्रतः१६७
साक्षताद्भिस्सपुष्पाभिः सतिलारुणचन्दनैः
अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः१६८
नमस्ते विश्वरूपाय नमस्ते विष्णुरूपिणे
सर्वदेवनमस्तेस्तु प्रसीद मम भास्कर१६९
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते
एवं सूर्यं नमस्कृत्य त्रिः कृत्वा च प्रदक्षिणम्१७०
द्विजं गां काञ्चनं चैव दृष्ट्वा स्पृष्ट्वा गृहं व्रजेत्
स्वगेहस्थां ततः पुण्यां प्रतिमां चापि पूजयेत्१७१
भोजनं च ततः पश्चाद्द्विजपूर्वं च कारयेत्
अनेन विधिना सर्वॠषयः सिद्धिमागताः१७२