०१९

भीष्म उवाच

विश्वास-प्रस्तुतिः

पुष्करस्य च नन्दायाः श्रुतं माहात्म्यमुत्तमं
ऋषिकोटिर्यदायाता पुष्करे मुखदर्शनात्॥ १ ॥

मूलम्

सर्वैः सुरूपता लब्धा सर्वमेतन्मया श्रुतं
यज्ञोपवीतैर्भक्तानि यानि तानि वदस्व मे॥ २ ॥

कथं तीर्थविभागस्तु कृतस्तैस्सु महात्मभिः
आश्रमे यानि तीर्थानि कृतान्यपि महर्षिभिः॥ ३ ॥

पदन्यासः कृतः पूर्वं विष्णुना यज्ञपर्वते
नागैस्तत्र पञ्चतीर्थं कृतं तैस्तु महाविषैः॥ ४ ॥

पिण्डप्रदानवापी च केन पूर्वं विनिर्मिता
उदङ्मुखी भूमिगता कथं गङ्गासरस्वती॥ ५ ॥

मूलम्

पिण्डप्रदानवापी च केन पूर्वं विनिर्मिता
उदङ्मुखी भूमिगता कथं गङ्गासरस्वती॥ ५ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणैर्वेदविद्वद्भिः कथं यात्रा त्रिपुष्करे
कर्तव्या यत्फलं तस्या जायते तद्वदस्व मे॥ ६ ॥

पुलस्त्य उवाच
प्रश्नभारो महानेष भवता परिकल्पितः
तदेकाग्रमना भूत्वा शृणु तीर्थ महाफलं॥ ७ ॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतं
विद्यातपश्च कीर्तिश्च स तीर्थफलमश्नुते॥ ८ ॥

प्रतिग्रहादुपावृत्तः सन्तुष्टो येनकेन चित्
अहङ्कारनिवृत्तश्च स तीर्थफलमश्नुते॥ ९ ॥

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते॥ १० ॥

ऋषीणां परमं गुह्यमिदं भरतसत्तम
पूर्वं यत्र महाराज सत्रे पैतामहे तथा॥ ११ ॥

यतीनामुग्रतपसां येषां कोटिः समागता
मुखदर्शनमाश्रित्य स्थितास्ते ज्येष्ठपुष्करे॥ १२ ॥

सुरूपतां परां लब्ध्वा प्रीतास्ते मुनिसत्तमाः
हर्षेण महताविष्टा ब्रह्मदर्शनकाङ्क्षिणः॥ १३ ॥

यज्ञोपवीतैस्ते भूमिं माप्य सर्वे चतुर्द्दिशं
कृत्वा तीर्थं विभागं च स्थिता भक्तिपरायणाः॥ १४ ॥

आसन्नश्च ततस्तेषां तदा तुष्टः पितामहः
कोटिं कृत्वा तदा तेषां मानं दृष्ट्वा मनीषिणां॥ १५ ॥

अद्यप्रभृति युष्माकं धर्मवृद्धिर्भविष्यति
इहागत्य नरो यो वै यदङ्गं प्रथमं जले॥ १६ ॥

प्लावविष्यति रूपार्थं रूपिता तीर्थकारिता
भविष्यति न सन्देहो योजनायतमण्डले॥ १७ ॥

अर्धयोजनविस्तारं दीर्घं सार्धं हि योजनम्
एतत्प्रमाणं तीर्थस्य ऋषिकोटिप्रवर्त्तितम्॥ १८ ॥

गमनादेव राजेन्द्र पुष्करस्य त्वरिन्दम
राजसूयाश्वमेधाभ्यां फलमाप्नोति मानवः॥ १९ ॥

सरस्वती महापुण्या प्रविष्टा ज्येष्ठपुष्करे
तत्रब्रह्मादयो देवा ऋषयः सिद्धचारणाः॥ २० ॥

अभिगच्छन्ति राजेन्द्र चैत्रशुक्ल चतुर्दशीं
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः॥ २१ ॥

गोमेधं च तदाप्नोति कुलं चैव समुद्धरेत्
एवं तीर्थविभागस्तु कृतस्तैस्तु महर्षिभिः॥ २२ ॥

पितॄन्देवांश्च सन्तर्प्य विष्णुलोके महीयते
तत्र स्नात्वा भवेन्मर्त्यो विमलश्चन्द्रमा यथा॥ २३ ॥

ब्रह्मलोकमवाप्नोति गतिं च परमां व्रजेत्
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम्॥ २४ ॥

पुष्करं नाम विख्यातं महापातकनाशनम्
दशकोटिसहस्राणि तीर्थानां वै महीपते॥ २५ ॥

सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुलनन्दन
आदित्या वसवो रुद्रास्साध्याश्च स मरुद्गणाः॥ २६ ॥

गन्धर्वाप्सरसश्चैव नित्यं सन्निहिता विभोः
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा॥ २७ ॥

दिव्य योगा महाराज पुण्येन महतान्विताः
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः॥ २८ ॥

पूयन्ते सर्वपापानि नाकपृष्ठे स मोदते
तस्मिंस्तीर्थे महाराज नित्यमेव पितामहः॥ २९ ॥

उवास परमप्रीतो देवदानवसम्मतः
पुष्करेषु महाराज देवास्सर्षिपुरोगमाः॥ ३० ॥

सिद्धिं च समनुप्राप्ताः पुण्येन महतान्विताः
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः॥ ३१ ॥

अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः॥ ३२ ॥

अन्नेन तेन सम्प्रीता कोटिर्भवति पूजिता
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते॥ ३३ ॥

शाकैर्मूलैः फलैर्वापि येन वा वर्त्तयेत्स्वयम्
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः॥ ३४ ॥

तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम॥ ३५ ॥

पैतामहं सरः पुण्यं पुष्करं नाम नामतः
वैखानसानां सिद्धानां मुनीनां पुण्यदं हि यत्॥ ३६ ॥

सरस्वती पुण्यतमा यस्माद्याता महार्णवम्
आदिदेवो महायोगी यत्रास्ते मधुसूदनः॥ ३७ ॥

ख्यात आदिवराहेति नाम्ना त्रिदशपूजितः
हीनवर्णाश्च ये वर्णास्तीर्थे पैतामहे गताः॥ ३८ ॥

न वियोनिं व्रजन्त्येते स्नात्वा तीर्थे महात्मनः
कार्तिक्यां च विशेषेण योभिगच्छेत्तु पुष्करं॥ ३९ ॥

फलं तत्राक्षयं तस्य भवतीत्यनुशुश्रुम
सायम्प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलि॥ ४० ॥

उपस्पृष्टं भवेत्तेन सर्वतीर्थे तु कौरव
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा॥ ४१ ॥

पुष्करे स्नानमात्रेण सर्वमेतत्प्रणश्यति
यथासुराणां प्रवरः सर्वेषां तु पितामहः॥ ४२ ॥

तथैव पुष्करं तीर्थं तीर्थानामादिरुच्यते
त द्दृष्ट्वा दशवर्षाणि पुष्करे नियतः शुचिः॥ ४३ ॥

क्रतून्सर्वानवाप्नोति ब्रह्मलोकं स गच्छति
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते॥ ४४ ॥

कार्तिकीं वा वसेदेकां पुष्करे सममेव तु
पुष्करे दुष्करो होमः पुष्करे दुष्करं तपः॥ ४५ ॥

पुष्करे दुष्करं दानं वासश्चैव सुदुष्करः
ब्राह्मणो वेदविद्वांस्तु गत्वा वै ज्येष्ठपुष्करं॥ ४६ ॥

स्नानाद्भवेन्मोक्षभागी श्राद्धेन पितृतारकः
नाममात्रोपि यो विप्रो गत्वा सन्ध्यामुपासते॥ ४७ ॥

वर्षाणि द्वादशैवेह तेन सन्ध्या ह्युपासिता
भवेत्तु नात्र सन्देहः पुरा प्रोक्तं स्वयम्भुवा॥ ४८ ॥

सावित्री कथितो दोषः कुले तस्य न जायते
या पत्नी ददते भर्तुः सन्ध्योपास्तिं करिष्यतः॥ ४९ ॥

करकेण तु ताम्रेण तोयं मुक्ता दिवं व्रजेत्
ब्रह्मलोकमनुप्राप्य तिष्ठति ब्रह्मणो दिनं५० 1.19.50
एकाकिना गतेनापि सन्ध्या वन्द्या यथाक्रमं
पौष्करेणाथ तोयेन भृङ्गारे निहितेन तु॥ ५१ ॥

तेनापि द्वादशाब्दानि सन्ध्योपास्ता न संशयः
भवेत्समीपगा पत्नी कुर्वतः पितृतर्पणं॥ ५१ ॥

दक्षिणां दिशमास्थाय गायत्र्या राजसत्तम
पितॄणां परमा तृप्तिः क्रियते द्वादशाब्दिकी॥ ५३ ॥

युगसहस्रं पिण्डेन श्राद्धेनानन्त्यमश्नुते
एतदर्थं हि विद्वांसः कुर्वन्ते दारसङ्ग्रहं॥ ५४ ॥

तीर्थे गत्त्वा प्रदास्यामः पिण्डान्वै श्राद्धपूर्वकं
तेषां पुत्रा धनं धान्यमविच्छिन्ना च सन्ततिः॥ ५५ ॥

भवेद्वै नात्र सन्देह एतदाह पितामहः
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत्॥ ५६ ॥

आश्रमानपि ते वच्मि शृणुष्वैकमना नृप
अगस्त्येन कृतश्चात्र आश्रमो देवसम्मितः॥ ५७ ॥

सप्तर्षीणां पुरा चात्र आश्रमो देवसम्मतः
ब्रह्मर्षीणां तथा चात्र मनूनां परमस्तथा॥ ५८ ॥

नागानां च पुरी रम्या यज्ञपर्वतरोधसि
अगस्त्यस्य महाराज प्रभावममितात्मनः॥ ५९ ॥

कथयामि समासेन शृणु त्वं सुसमाहितः
पूर्वं कृतयुगे भीष्म दानवा युद्धदुर्मदाः॥ ६० ॥

कालेया इति विख्याता गणाः परमदारुणाः
ते तु वृत्रं समाश्रित्य देवान्हन्तुं समुद्यताः॥ ६१ ॥

ततो देवाः समुद्विग्ना ब्रह्माणमुपतस्थिरे
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठीत्युवाच ह॥ ६२ ॥

विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितं
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ॥ ६३ ॥

दधीचिरिति विख्यातो महानृषिरुदारधीः
तं गत्वा सहितास्सर्वे वरं च प्रतियाचत॥ ६४ ॥

स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः॥ ६५ ॥

स्वान्यस्थीनि प्रयच्छस्व त्रैलोक्यहितकाङ्क्षया
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति॥ ६६ ॥

तस्यास्थिभिर्महाघोरं वज्रं सङ्क्रियतां दृढं
महच्छत्रुहनं दिव्यं तदस्त्रमशनिः स्मृतं॥ ६७ ॥

तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः
एतद्वः सर्वमाख्यातं तस्मात्सर्वं विधीयतां॥ ६८ ॥

एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहं
शतक्रतुं पुरस्कृत्य दधीचेराश्रमं ययुः॥ ६९ ॥

सरस्वत्याः परे पारे नानाद्रुमलतावृतं
षट्पदोद्गीतनिनदैरुद्घुष्टं सामगैरिव॥ ७० ॥

पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्
महिषैश्च वराहैश्च सृमरैश्चमरैरपि॥ ७१ ॥

मूलम्

पुंस्कोकिलरवोन्मिश्रं जीवं जीवकनादितम्
महिषैश्च वराहैश्च सृमरैश्चमरैरपि॥ ७१ ॥

विश्वास-प्रस्तुतिः

तत्रतत्रानुचरितैः शार्दूलभयवर्जितैः
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः॥ ७२ ॥

स्वरोद्गारैश्च क्रीडद्भिः समन्तादनुनादितं
सिंहव्याघ्रैर्महानादं नदद्भिरनुनादितं॥ ७३ ॥

मयूरैश्चापि संलीनैर्गुहाकन्दरवासिभिः
तेषु तेषु च कुञ्जेषु नादितं सुमनोरमं॥ ७४ ॥

त्रिविष्टपसमप्रख्यं दधीच्याश्रममागमन्
तत्रापश्यन्दधीचिं तं दिवाकरसमप्रभम्॥ ७५ ॥

जाज्वल्यमानं वपुषा यथा लक्ष्म्या चतुर्भुजम्
तस्य पादौ सुरा राजन्नभिवन्द्य प्रणम्य च
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना॥ ७६ ॥

ततो दधीचिः परमप्रतीतः सुरोत्तमांस्तानिदमित्युवाच
करोमि यद्वो हितमद्य देवाः स्वं वापि देहं त्वहमुत्सृजामि॥ ७७ ॥

तानेवमुक्त्वा द्विपदां वरिष्ठः प्राणांस्ततोऽसौ सहसोत्ससर्ज
सुरास्तदस्थीनि सवासवास्ते यथोपयोगं जगृहुः स्म तस्य॥ ७८ ॥

प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमासाद्य तमर्थमूचुः
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात्॥ ७९ ॥

चकार वज्रं भृशमुग्रवीर्यं कृत्वा च शस्त्रं तमुवाच हृष्टः
अनेन शस्त्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रं॥ ८० ॥

ततो हतारिः सगणः सुखं त्वं प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः
त्वष्ट्रा तथोक्तस्तु पुरन्दरश्च वज्रं प्रहृष्टः प्रयतो ह्यगृह्णात्॥ ८१ ॥

ततः स वज्रेणयुतो दैवतैरभिपूजितः
आससाद ततो वृत्रं स्थितमावृत्य रोदसी॥ ८२ ॥

कालकेयैर्महाकायैस्समन्तादभिरक्षितं
समुद्यत प्रहरणैः सशृङ्गैरिव पर्वतैः॥ ८३ ॥

ततो युद्धं समभवद्देवानां सह दानवैः
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत्॥ ८४ ॥

उद्यतैः प्रतिसृष्टानां खड्गानां वीरबाहुभिः
आसीत्सुतुमुलः शब्दः शरीरैरभिपाटितैः॥ ८५ ॥

शिरोभिः प्रपतद्भिश्चाप्यन्तरिक्षान्महीतलं
तालैरिव महीपाल वृतं तैरेव दृश्यते॥ ८६ ॥

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः
त्रिदशानभ्यवर्तन्त दावदग्धा इव द्रुमाः॥ ८७ ॥

तेषां वेगवतां वेगं सहितानां प्रधावताम्
न शेकुः सहिताः सोढुं भग्नास्ते प्राद्रवन्भयात्॥ ८८ ॥

तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरन्दरः
वृत्रं च वर्द्धमानं तु कश्मलं महदाविशत्॥ ८९ ॥

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन्॥ ९० ॥

विष्णुनाप्यायितं शक्रं दृष्ट्वादे वगणास्तदा
सर्वे तेजस्समादध्युस्तथा ब्रह्मर्षयोऽमलाः॥ ९१ ॥

स समाप्यायितः शक्रो विष्णुना दैवतैः सह
ऋषिभिश्च महाभागैर्बलवान्समपद्यत॥ ९२ ॥

मूलम्

स समाप्यायितः शक्रो विष्णुना दैवतैः सह
ऋषिभिश्च महाभागैर्बलवान्समपद्यत॥ ९२ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा बलस्थं त्रिदशाधिपं तं ननाद वृत्रस्सुमहानि नादम्
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चेति चचाल सर्वं॥ ९३ ॥

ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोरतरं महान्तम्
भयेन मग्नस्त्वरितं मुमोच वज्रं महान्तं खलु तस्य शीर्षे॥ ९४ ॥

स शक्रवज्राभिहतः पपात महास्वनः काञ्चनमाल्यधारी
यथा महाशैलवरः पुरस्तात्स मन्दरो विष्णुकरात्प्रमुक्तः॥ ९५ ॥

तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुं
वज्रं च मेने स्वकरात्प्रमुक्तं वृत्रं भयाच्चैव हतं न पश्यति॥ ९६ ॥

सर्वे च देवा मुदिताः प्रहृष्टाः सहर्षयश्चैनमथो स्तुवन्ति
शेषांश्च दैत्यांस्त्वरितं समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान्॥ ९७ ॥

ते वध्यमानास्त्रिदशैस्तदानीं महासुरा वायुसमानवेगाः
समुद्रमेवाविविशुर्भयार्ताः प्रविश्य चैवोदधिमप्रमेयम्॥ ९८ ॥

झषाकुलं रत्नसमाकुलं च तदा स्म मन्त्रं सहिताः प्रचक्रुः
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायान्परिचिन्तयन्तः॥ ९९ ॥

भयार्दिता देवनिकायतप्तास्त्रैलोक्यनाशाय मतिं प्रचक्रुः
तेषां तु तत्र क्षयकालयोगाद्घोरामतिश्चिन्तयतां बभूव१०० 1.19.100
ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं च कार्यः
लोकाश्च सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय१०१
ये सन्ति केचिद्धि वसुन्धरायां तपस्विनो धर्मविदश्च तज्ज्ञाः
तेषां वधश्चक्रियतां हि क्षिप्रं तेषु प्रणष्टेषु जगद्विनष्टम्१०२
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः
दुर्गंसमाश्रित्य महोर्मिमन्तं रत्नाकरं वारुणमालयं स्म१०३
समुद्रं ते समासाद्य वारुणं त्वम्भसां निधिं
कालेयास्समपद्यन्त त्रैलोक्यस्य विनाशने१०४
ते रात्रौ समभिक्रुद्धा बभक्षुस्तांस्तदा मुनीन्
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च१०५
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः
अशीतिः शतमष्टौ च वने चान्ये तपस्विनः१०६
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम्
फलमूलाशनानां हि मुनीनां भक्षितं शतं१०७
एवं रात्रौ स्म कुर्वन्तो विविशुश्चार्णवं दिवा
भरद्वाजाश्रमं गत्वा नियता ब्रह्मचारिणः१०८
वाताहाराम्बुभक्षाश्च विंशतिश्च निषूदिताः
एवं क्रमेण भक्षार्थं मुनीनां दानवास्तदा१०९
निशायां पर्यधावन्त शक्ता भुजबलाश्रयात्
कालेन महता ते वै जघ्नुर्मुनिगणान्बहून्११०
न चैतानवबुध्यन्त मनुजा मनुजाधिप
निस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम्१११
जगदासीन्निरुत्साहं कालेयभयपीडितं
एवं प्रक्षीयमाणास्ते मानवा मनुजेश्वर११२
आत्मत्राणपरा भीताः प्राद्रवंस्तु दिशो दश
केचिद्गुहां प्रविविशुर्विकीर्णाश्चापरे द्विजाः११३
अपरे च भयोद्विग्ना भयात्प्राणान्समत्यजन्
केचित्तत्र महेष्वासाः शूराः परमदर्पिताः११४
मार्गमाणाः परं यत्नन्दानवानाम्प्रचक्रिरे
नचैताननुजग्मुस्ते समुद्रं समुपाश्रितान्११५
शमं न जग्मुः परममाजग्मुः क्षयमेव च
जगत्प्रशमने जाते नष्टयज्ञोत्सवक्रिये११६
आजग्मुः परमोद्विग्नास्त्रिदशा मनुजेश्वर
समेत्य समहेन्द्रास्तु भयान्मन्त्रं प्रचक्रिरे११७
नारायणं पुरस्कृत्य वैकुण्ठमपराजितम्
ततो देवास्समेतास्ते तदोचुर्मधुसूदनम्११८
त्वं नः स्रष्टा च गोप्ता च भर्ता च जगतः प्रभो
त्वया सृष्टं जगत्सर्वं यच्चेङ्गं यच्च नेङ्गति११९
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण
वाराहं रूपमास्थाय जगदर्थे समुद्धृता१२०
आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम१२१
अवध्यः सर्वभूतानां बलिश्चापि महासुरः
वामनं वपुरास्थाय त्रैलोक्याद्भ्रंशितस्त्वया१२२
असुरः सुमहेष्वासो जम्भ इत्यभिविश्रुतः
यज्ञक्षोभकरः क्रूरस्त्वमरैर्विनिपातितः१२३
एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन१२४
तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्१२५
भवत्प्रसादाद्वर्तन्ते प्रजास्सर्वाश्चतुर्विधाः
स्वस्था भवन्ति मनुजा हव्यकव्यैर्दिवौकसः१२६
लोका ह्येवं प्रवर्तन्ते अन्योन्यं च समाश्रिताः
त्वत्प्रभावान्निरुद्विग्नास्त्वयैव परिरक्षिताः१२७
इदं च समनुप्राप्तं लोकानां भयमुत्तम्
जानीमो न च केनैते वध्यन्ते ब्राह्मणा निशि१२८
ब्राह्मणेषु च क्षीणेषु पृथिवी क्षयमेष्यति
त्वत्प्रसादान्महाबाहो लोकास्सर्वे जगत्पते१२९
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः
विष्णु उवाच
विदितं मे सुरास्सर्वं प्रजायाः क्षयकारणम्१३०
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः
कालकेया इति ख्याता गणाः परमदारुणाः१३१
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम्१३२
ते प्रविश्योदधिं घोरं नानाग्राहसमाकुलम्
उत्सादनार्थं लोकस्य रात्रौ घ्नन्ति मुनीनिह१३३
न तु शक्याः क्षयं नेतुं समुद्रान्तर्हिता हि ते
समुद्रस्य क्षये बुद्धिर्भवद्भिः परिचिन्त्यताम्१३४
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम्
परमेष्ठिनमासाद्य अगस्त्यस्याश्रमं ययुः१३५
तत्रापश्यन्महात्मानं वारुणं दीप्ततेजसम्
उपास्यमानमृषिभिर्द्देवैरिव पितामहम्१३६
तेभिगम्य महात्मानं मैत्रावरुणिमुत्तमम्
अप्रमत्तं तपोराशिं कर्मभिः स्वैरनुष्ठितैः१३७
देवा ऊचुः
नहुषेणाभितप्तानां लोकानां त्वं गतिः पुरा
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः१३८
क्रोधात्प्रवृद्धः स महान्भास्करस्य नगोत्तमः
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते१३९
तमसाच्छादिते लोके मृत्युनाभ्यर्दिताः प्रजाः
त्वामेव नाथमागम्य निर्वृतिं परमां गताः१४०
अस्माकं भयभीतानां नित्यमेव भवान्गतिः
ततस्त्वद्य प्रयाचामस्त्वां वरं वरदो ह्यसि१४१
भीष्म उवाच
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने१४२
पुलस्त्य उवाच
अद्रिराजं महाशैलं मेरुं कनकपर्वतम्
उदयेऽस्तमये भानुः प्रदक्षिणमवर्तत१४३
तं दृष्ट्वा तु तदा विन्ध्यः शैलः सूर्यमथाब्रवीत्
यथा हि मेरुर्भवता नित्यशः परिगम्यते१४४
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत१४५
नाहमात्मेच्छया शैलं करोम्येनं प्रदक्षिणम्
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत्१४६
एवमुक्तस्तदा क्रोधात्प्रवृद्धः सहसाचलः
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप१४७
ततो हि देवाः सहितास्तु सर्वे सेन्द्राः समागम्य महाद्रिराजम्
निवारयामासुरथोत्पतन्तं न वै स तेषां वचनं चकार१४८
ततो हि जग्मुर्मुनिमाश्रमस्थं तपस्विनां धर्मवतां वरिष्ठम्
अगस्त्यमत्यद्भुतदीप्तवीर्यं तं चार्यमूचुः सहिताः सुरास्ते१४९
देवा ऊचुः
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा
शैलराडावृणोत्येष विन्ध्यः क्रोधवशानुगः१५० 1.19.150
तं निवारयितुं शक्तो नान्यः कश्चिन्मुनीश्वर
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात्१५१
सोभिगम्याब्रवीद्विन्ध्यं सादरं समुपस्थितम्
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम१५२
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित्
यावदागमनं मे स्यात्तावत्त्वं प्रतिपालय१५३
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः
पुलस्त्य उवाच
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते१५४
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि१५५
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः
अगस्त्यद्वारमासाद्य तन्मे निगदतः शृणु१५६
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत्
किमर्थं समुपायाता वरं मत्तः किमिच्छथ१५७
एवमुक्तास्तदा तेन देवास्तं मुनिमब्रुवन्
इच्छाम एकं वरमद्भुतं वयं पिबार्णवं देवमुने महात्मन्१५८
एवं त्वयेच्छेम कृते महर्षे महार्णवं पीयमानं समग्रम्
ततो विहन्याम च सानुबन्धं कालेयसञ्ज्ञं सुरविद्विषां बलम्१५९
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत्
करिष्ये भवतां कामं लोकानां सुखकारकम्१६०
एवमुक्त्वा ततोऽगच्छत्समुद्रं निधिमम्भसाम्
तपःसिद्धैश्च मुनिभिः सार्धं देवैश्च सुव्रत१६१
मनुष्योरगगन्धर्वा यक्षाः किम्पुरुषास्तथा
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम्१६२
ततोऽभ्यपश्यत्सहितः समुद्रं भीमनिःस्वनम्
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना१६३
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च
नानाग्राहसमाकीर्णं नानाद्विजगणैर्युतम्१६४
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः
ऋषयश्च महाभागाः समासेदुर्महोदधिम्१६५
समुद्रं स समासाद्य वारुणिर्भगवानृषिः
उवाच सहितान्देवानृषींस्तांस्तु समागतान्१६६
पातुकामः समुद्रं च अगस्त्य ऋषिसत्तमः
एष लोकहितार्थाय पिबामि वरुणालयम्१६७
भवतां यदनुष्ठेयं तच्छीघ्रं संविधीयताम्
एतावदुक्त्वा वचनं मैत्रावरुणिरग्रतः१६८
समुद्रमपिबत्क्रुद्धस्सर्वलोकस्य पश्यतः
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः१६९
विस्मयं परमं जग्मुस्स्तुतिभिश्चाप्यपूजयन्
त्वं नस्त्राता विधाता च लोकानां लोकभावनः
त्वत्प्रसादात्समुत्सेधमुपगच्छेत्समं जगत्१७०
सम्पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वमुख्येषु नदत्सु चैव
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार१७१
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः
प्रगृह्य दिव्यानि वरायुधानि तान्दानवान्जघ्नुरदीनसत्त्वाः१७२
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगयुतैर्नदद्भिः
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम्१७३
ते वध्यमानास्त्रिदशैर्दानवा भीमनिःस्वनाः
चक्रुः सुतुमुलं युद्धं मुहूर्त्तमिव भारत१७४
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः१७५
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः
निहता बह्वशोभन्त पुष्पिता इव किंशुकाः१७६
हतशिष्टास्ततः केचित्कालेयदनुजोत्तमाः
विदार्य वसुधां देवीं पातालतलमाश्रिताः१७७
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम्
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः१७८
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम्
त्वत्तेजसा च निहताः कालेया भीमविक्रमाः१७९
पूरयस्व महाविप्र समुद्रं लोकभावनम्
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज१८०
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः
जीर्णं तद्धि मया तोयमुपायोन्यः प्रचिन्त्यताम्१८१
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः
एवं श्रुत्वा तु वचनं महर्षेर्भावितात्मनः१८२
विस्मिताश्च विषण्णाश्च बभूवुः सहितास्सुराः
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम्१८३
प्रजाः सर्वा महाराज विप्रा जग्मुर्यथागतम्
त्रिदशा विष्णुना सार्द्धमनुजग्मुः पितामहम्१८४
पूरणार्थं समुद्रस्य मन्त्रयन्तः परस्परम्
ऊचुः प्राञ्जलयः सर्वे सागरस्य हि पूरणम्१८५
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः
गच्छध्वं विबुधास्सर्वे यथाकामं यथेप्सितम्१८६
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः
ज्ञातींस्तु कारणं कृत्वा महाराजो भगीरथः१८७
गङ्गौघेन समुद्रं च पुनः सम्पूरयिष्यति
एवं ते ब्रह्मणा देवाः प्रेषिता ऋषिसत्तमाः१८८
उवाच भगवांस्तुष्टस्त्वगस्त्यमृषिसत्तमम्
देवकार्यं तु भवता दानवानां विनाशनम्१८९
यतस्सन्तारिता देवास्तेन तुष्टोस्मि वै मुने
अभिप्रेतो वरो यस्ते याचयस्व ददामि तम्१९०
एवमुक्तस्तदागस्त्यः प्रणिपातपुरःसरम्
इहस्थेन मया देव देवकार्यमिदं कृतम्१९१
सर्वाश्रमाणां प्रवरो भवत्वेष ममाश्रमः
त्वया चोक्तस्तु भगवन्भविता नात्र संशयः१९२
ब्रह्मोवाच
यात्रां तु पुष्करे कृत्वा इहागत्य नरास्तु ये
इह कुण्डेषु ये स्नानं तर्पणं पितृदेवयोः१९३
अर्चनं चैव देवेषु सर्वमक्षयकारकम्
अर्घ्यं चोच्चावचं गृह्य शष्कुलापूपकांस्ततः१९४
दास्यन्ति द्विजमुख्येभ्यस्तेषां वासस्त्रिविष्टपे
श्राद्धेन पितरस्तृप्ता यावदाभूतसम्प्लवम्१९५
कन्दमूलफलैर्वापि तर्पयिष्यति यो मुनिम्
सप्तर्षिस्थानमासाद्य मोदते शास्वतीः समाः१९६
यज्ञपर्वतमारूढो दृष्ट्वा गङ्गाविनिर्गमम्
उदङ्मुखी देवनदी निर्गता पुष्करं प्रति१९७
अत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः
अश्वमेधफलं तस्य भवत्येव न संशयः१९८
यस्त्वेकं भोजयेद्विप्रं कोटिर्भवति भोजिता
अक्षयं त्वन्नपानं च अत्र दत्तं मुनीश्वर१९९
यो यमिच्छति कामं तु सर्वं तस्य भविष्यति
न वियोनिं व्रजत्यत्र स्नातमात्रो नरो भुवि२०० 1.19.200
स्थानानां परमं स्थानं तीर्थानां तीर्थमुत्तमम्
मया दत्तं मुनिश्रेष्ठ भविष्यति न संशयः२०१
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा
अत्रैव स्नातमात्रस्य सर्वमेतत्प्रणश्यति२०२
एवमुक्त्वा तु भगवान्ब्रह्मा लोकपितामहः
जगामामन्त्र्य स मुनिमगस्त्यं मुनिसत्तमम्२०३
अगस्त्योपि स्थितस्तत्र आश्रमे स्वे परन्तप
अगस्त्यस्याश्रमोत्पत्तिरेषा ते परिकीर्तिता२०४
सप्तर्षीणामाश्रमांश्च कीर्त्तयिष्ये कुरूद्वह
अत्रिश्चैव वसिष्ठोथ पुलस्त्यः पुलहः क्रतुः२०५
अङ्गिरा गौतमश्चैव सुमतिः सुमुखस्तथा
विश्वामित्रः स्थूलशिराः संवर्तश्च प्रतर्दनः२०६
रैभ्यो बृहस्पतिश्चैव च्यवनः कश्यपो भृगुः
दुर्वासा जमदग्निश्च मार्कण्डेयोथ गालवः२०७
उशनाथ भरद्वाजो यवक्रीतस्तथा मुनिः
स्थूलाक्षः सकलाक्षश्च कण्वो मेधातिथिः कृतः२०८
नारदः पर्वतश्चैव स्वगन्धी च्यवनो द्विजः
तृणाम्बु शबलो धौम्यः शतानन्दो कृतव्रणः२०९
जमदग्निस्तथा रामो ह्यष्टकश्चैवमादयः
कृष्णद्वैपायनश्चैव पुत्रशिष्यैः समन्वितः२१०
एते तु पुष्करं प्राप्य सप्तर्षीणामथाश्रमे
वेष्टिता नियमैश्चापि दयायुक्तास्तपस्विनः२११
आनृशंस्यं जयो धैर्यं तपः सत्यं क्षमार्जवम्
दया दानं जपश्चैव सर्वेषां तत्प्रतिष्ठितं२१२
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
ज्ञात्वा तदित्त्थं मुनयः परमार्थपरायणाः२१३
न तत्र नास्तिका यान्ति न स्तेना नाजितेन्द्रियाः
न नृशंसा न पिशुना न कृतघ्ना न मानिनः२१४
सत्य तेजस्विनः शूरा दयावन्तः क्षमापराः
यज्वानो यज्ञशीलाश्च निरीहा निरुपद्रवाः२१५
निर्ममा निरहङ्कारास्तत्र गच्छन्ति पुष्करे
न रोगो न जरामृत्युर्भवितात्र महात्मनां२१६
न तत्र मूढा विशन्ति पुरुषा विषयात्मकाः
कामलोभमदद्रोह क्रोधमोहैरुपद्रुताः२१७
तुल्य मानापमानाश्च निर्द्वन्द्वास्संयतेन्द्रियाः
ध्यानयोगपराश्चैव ते तु गच्छन्ति पुष्करं२१८
आश्रमेषु यथोक्तेषु यथोक्तं वै द्विजातयः
ये वर्तन्ते यमं त्रातुं तेषां लोका महोदयाः२१९
ये न हिंसन्ति भूतानि कर्मणा मनसा गिरा
अनृशंसतराः सन्तः सर्वदा च प्रियंवदाः२२०
अग्निहोत्ररता नित्यं नित्यं चातिथिपूजकाः
नित्यं स्वाध्यायवन्तश्च नित्यं स्नानपरायणाः२२१
मातृवत्स्वसृवच्चैव तथा दुहितृवच्च ह
परदारान्प्रपश्यन्ति सततं विगतस्पृहाः२२२
येधिक्षिप्ता न कुप्यन्ति न हिंसन्ति च हिंसिताः
समदुःखसुखाः सन्तो महात्मानो जितेन्द्रियाः२२३
ते हि सर्वे प्रपश्यन्ति पुरा चेरुर्महीमिमां
समाधिना चिन्तयन्तो ब्रह्मलोकं सनातनं२२४
अथाभवदनावृष्टिः कदाचिन्महती तदा
कृच्छ्रप्रायो ह्यभूत्तत्र सर्वलोकः क्षुधार्दितः२२५
ततो निरन्ने लोकेस्मिंश्चात्मानं ते परीप्सवः
मृतं कुमारमादाय कृच्छ्रप्रायास्तदापचन्२२६
अथ पर्यचरत्तत्र क्लिश्यमानान्हि तानृषीन्
दृष्ट्वा राजा विषादार्त्तः प्रोवाचेदं वचस्तदा२२७
राजोवाच
प्रतिग्रहो ब्राह्मणानां दृष्टा वृत्तिरनिन्दिता
तस्मात्प्रतिग्रहान्मत्तो गृह्णीध्वं मुनिसत्तमाः२२८
वरान्ग्रामान्व्रीहियवान्रसान्रत्नानि काञ्चनं
गाश्च धेनूश्च तत्सर्वं मा मांसं पचत द्विजाः२२९
ऋषय ऊचुः
राजन्प्रतिग्रहो घोरो मध्वास्वादो विषोपमः
तज्जानतां नः कस्मात्त्वं कुरुषे सम्प्रलोभनं२३०
दशसूना समश्चक्री दशचक्रिसमो ध्वजी
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः२३१
दशसूना सहस्राणि यो वाहयति शौण्डिकः
तेन तुल्यस्ततो राजा घोरस्तस्य प्रतिग्रहः२३२
यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितः
तामिस्रादिषु घोरेषु नरकेषु स पच्यते२३३
तद्गच्छ कुशलं तेस्तु सह दानेन पार्थिव
अन्येषां दीयतामेतदित्युक्त्वा ते वनं ययुः२३४
अथ राज्ञःसमादेशात्तत्र गत्वाथ मन्त्रिणः
उदुम्बराणि व्यकिरन्हेमगर्भाणि भूतले२३५
ततो ह्यन्नं विचिन्वन्तो गृह्णंश्चोदुम्बराण्यपि
गुरूणि हि विदित्वा तु न ग्राह्याण्यत्रिरब्रवीत्२३६
अत्रिरुवाच
नास्महे मूढविज्ञाना नास्महे मन्दबुद्धयः
हैमानीमानि जानीमः प्रतिबुद्धाः स्म ज्ञानिनः२३७
इहैवेदं वसुप्रीत्यै प्रेत्य वैकुण्ठितोदयं
तस्मान्न ग्राह्यमेवैतत्सुखमानन्त्यमिच्छता२३८
शतेनगुणितं निष्कं सहस्रेण समन्वितम्
यश्चान्यतः प्रतीच्छेत्स पापिष्टां लभते गतिम्२३९
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
नूनं नैकस्य पर्याप्तमिति मत्वा शमं व्रजेत्२४०
वसिष्ठ उवाच
तपसां सञ्चयो यस्य द्रव्याणां यस्य सञ्चयः
तपःसञ्चय एवेह विशिष्टो धनसञ्चयात्२४१
त्यजतः सञ्चयान्सर्वान्यान्ति नाशमुपद्रवाः
नहि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः२४२
यथायथा न गृह्णाति ब्राह्मणोऽसत्प्रतिग्रहम्
तथा तस्य हि सन्तोषाद्ब्राह्मं तेजो विवर्द्धते२४३
अकिञ्चनत्वं राज्यं च तुलया समतोलयत्
अकिञ्चनत्वमधिकं राज्यादपि हितात्मनः२४४
कश्यप उवाच
अनर्थो ब्राह्मणस्यैष यस्त्वर्थनिचयो महान्२४५
अर्थैश्वर्यविमूढो हि श्रेयसो भ्रश्यते द्विजः
अर्थसम्पद्विमोहाय विमोहो नरकाय च२४६
तस्मादर्थमनर्थाख्यं श्रेयोर्थी दूरतस्त्यजेत्
यस्य धर्मार्थमर्थेहा तस्यानीहा गरीयसी२४७
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरं
योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः२४८
यः परार्थे परित्यागः सोक्षयो मुक्तिलक्षणः
भरद्वाज उवाच
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः२४९
धनाशा जीविताशा च जीर्यतोऽपि न जीर्यति
चक्षुः श्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा२५० 1.19.250
सूच्या सूत्रं यथा वस्त्रे समानयति सूचकः
तद्वत्संसारसूत्रं हि तृष्णासूच्योपनीयते२५१
यथा शृङ्गं रुरोः काये वर्द्धमाने च वर्द्धते
अनन्तपारा दुष्पूरा तृष्णा दुःखशतावहा२५२
अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्
गौतम उवाच
सन्तुष्टः को न शक्नोति फलैश्चाप्यतिवर्तितुम्२५३
लुब्धइन्द्रियलौल्येन सङ्कटान्यवगाहते
सर्वत्र सम्पदस्तस्य सन्तुष्टं यस्य मानसं२५४
उपानद्गूढपादस्य तस्य चर्मावृतेव भूः
सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसां२५५
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्
असन्तोषः परं दुःखं सन्तोषः परमं सुखम्२५६
सुखार्थी पुरुषस्तस्मात्सन्तुष्टः सन्ततं भवेत्
विश्वामित्र उवाच
कामं कामयमानस्य यदि कामः समृद्ध्यति२५७
अथैनमपरः कामो भूयो विध्यति बाणवत्
न जातुकामः कामानामुपभोगेन शाम्यति२५८
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते
कामानभिलषन्मोहान्न नरः सुखमेधते२५९
श्येनालयतरुच्छायां व्रजन्निव कपिञ्जलः
चतुस्सागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम्२६०
तुल्याश्मकाञ्चनोयश्च सकृतार्थो न पार्थिवः
जमदग्निरुवाच
प्रतिग्रहसमर्थोपि नादत्ते यः प्रतिग्रहम्२६१
ये लोका दानशीलानां स तानाप्नोति शाश्वतान्
योर्थानिच्छेन्नृपाद्विप्रः शोचितव्यो महर्षिभिः२६२
न स पश्यति मूढात्मा नरके यातनाभयम्
प्रतिग्रहसमर्थोपि न प्रसज्येत्प्रतिग्रहे२६३
प्रतिग्रहेण विप्राणां ब्राह्मं तेजः प्रशाम्यति
प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात्२६४
य एव ददतां लोकास्त एवाप्रतिगृह्णताम्
अरुन्धत्युवाच
बिसतन्तुर्यथानित्यमम्भस्थस्सततं विशेत्२६५
तृष्णा चैवमनाद्यन्ता तथा देहगता सदा
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः२६६
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखं
चाण्डाल उवाच
उग्रादितो भयाद्यस्माद्बिभ्यती मे महेश्वराः२६७
बलीयसो दुर्बलवत्तस्माच्चैव बिभेम्यहम्
पशुसख उवाच
यदाचरन्ति विद्वांसः सदा धर्मपरायणाः२६८
तदेव विदुषा कार्यमात्मनो हितमिच्छता
इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि वै२६९
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः
ततस्ते विचरन्तो वै मध्यमं पुष्करं गताः२७०
ददृशुः सहसा प्राप्तं परिव्राजं शुनःसखं
तेनेह सहितास्तत्र गत्वा किञ्चिद्वनान्तरं२७१
सरः परमपश्यन्त वृतं पद्मैर्जलाशयम्
निविष्टाः सरसस्तीरे चिन्तयन्तो गतिं शुभाम्२७२
शुनःसखो मुनीन्सर्वानुवाच क्षुधितांस्तदा
सर्वे वदन्तु सहिताः कीदृशी क्षुत्प्रवेदना२७३
तमूचुः सहितास्ते तु परिव्राजं शुनःसखं
ऋषय ऊचुः
शक्तिखड्गगदाभिश्च चक्रतोमरसायकैः२७४
बाधिते वेदना या तु क्षुधया सापि निर्जिता
श्वासकुष्ठक्षयाष्ठीली ज्वरापस्मार शूलकैः२७५
व्याधिभिर्जनिता सापि क्षुधाया नाधिका भवेत्
हिरण्याङ्गदकेयूरमकुटोज्ज्वलकुण्डलाः२७६
क्षुधायां न विराजन्ते तत्र ये संस्थिता नराः
यथा भूमिगतं तोयं रविरश्मिर्विकर्षति२७७
तद्वच्छरीरजा नाड्यः शोष्यन्ते जठराग्निना
न शृणोति न चाघ्राति चक्षुषा नैव पश्यति२७८
दह्यते क्षीयते मूढः शुष्यते क्षुधयार्दितः
न पूर्वां दक्षिणां चापि पश्चिमां नोत्तरामपि२७९
न चाधो नैव चोर्द्ध्वं च क्षुधाविष्टो हि विन्दति
मूकत्वं बधिरत्वं च जडत्वमथ पङ्गुता२८०
भैरवत्वममर्यादं क्षुधायां सम्प्रवर्द्धते
जनकं जननीं पुत्रान्भार्यां दुहितरं तथा२८१
भ्रातरं स्वजनं वापि त्यजति क्षुधयार्दितः
न पितॄन्पूजयेत्सम्यक्देवं चापि गुरुं तथा२८२
ऋषीनुपगतांश्चापि क्षुधाविष्टो न विन्दति
एवमन्नविहीनस्य भवन्त्येतानि देहिनां२८३
तदेवं सम्प्रयच्छेत अन्नं श्रद्धासमन्वितः
ब्रह्मभूतस्ततः सोथ ब्रह्मणा सह मोदते२८४
सुसंस्कृतं च योप्यन्नं दद्यादहरहर्द्विजे
यः पठेदन्नदानं तु श्राद्धे चैव विशेषतः२८५
एकाग्रमानसो भूत्वा अमावस्येन्दुसङ्क्षये
भूतोपघातसम्पूर्णे श्राद्धे श्रावयते सदा२८६
पितरस्तस्य तुष्यन्ति यावज्जीवं न संशयः
देवद्विजसमीपस्थोन्नस्यदाता विमुच्यते२८७
प्रबुद्धो वा प्रमत्तो वा प्रसङ्गादागतोपि वा
भक्त्या विरहितो वापि शृण्वन्पापाद्विमुच्यते२८८
दानेन संयुता विप्राः सुखिनो धर्मभागिनः
यमो दमो वै नियमः प्रोक्तस्तत्वार्थदर्शिभिः२८९
ब्राह्मणानां विशेषेण दमो धर्मः सनातनः
दमस्तेजो वर्द्धयति पवित्रो दम उत्तमः२९०
विपाप्मा चैव तेजस्वी पुरुषो दमतो भवेत्
ये केचिन्नियमा लोके ये च धर्माश्शुभान्वयाः २९१
सर्वयज्ञफलं चापि दमस्तेभ्यो विशिष्यते
तपो यज्ञस्तथा दानं दमादेव प्रवर्तते२९२
किमरण्येत्वदान्तस्य दान्तस्यापि किमाश्रमे
यत्रयत्र वसेद्दान्तस्तदरण्यं महाश्रमः२९३
शीलवृत्तसमेतस्य निगृहीतेन्द्रियस्य च
आर्जवे वर्तमानस्य आश्रमैः किं प्रयोजनम्२९४
वनेपि दोषाः प्रभवन्ति रागिणां गृहेपि पञ्चेन्द्रियनिग्रहस्तपः
अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम्२९५
सुकर्मधर्मार्जितजीवितानां सदा च सन्तुष्य गृहे रतानाम्
जितेन्द्रियाणामतिथिप्रियाणां गृहेपि धर्मो नियमस्थितानाम् २९६
न शब्दशास्त्रे निरतस्य मोक्षो न वर्णसङ्गे निरतस्य चैव
न भोजनाच्छादन तत्परस्य न लोकवृत्तग्रहणेरतस्य २९७
एकान्तशीलस्य दृढव्रतस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य
अध्यात्मयोगे गतमानसस्य मोक्षो ध्रुवं नित्यमहिंसकस्य२९८
सुखं च दान्तः स्वपिति सुखेन प्रतिबुध्यते
समः सर्वेषु भूतेषु मनो यस्य प्रबुध्यते २९९
न रथेन सुखं याति न हयेन न दन्तिना
यथात्मना विनीतेन सुखं याति महापथे ३०० 1.19.300
न तु कुर्याद्धरिः स्पृष्टः सर्पो वाप्यतिरोषितः
अरिर्वा नित्यसङ्क्रुद्धो यथात्मा दमवर्जितः३०१
न यमं यममित्याहुरात्मा वै यम उच्यते
आत्मा वै यमितो येन स यमस्तु विशिष्यते३०२
यमो यम इति प्रोक्तो वृथा तूद्विजते जनः
आत्मा वै यमितो येन यमस्तस्य करोति किम्३०३
क्रव्यादेभ्यश्च भूतेभ्योऽदान्तेभ्यश्च सदा भयम्
तेषां विप्रतिषेधार्थं दण्डः सृष्टः स्वयम्भुवा ३०४
दण्डो रक्षति भूतानि दण्डः पालयते प्रजाः
निवारयति पापिष्ठान्दण्डो दुर्जय एव वा ३०५
श्यामो युवा लोहिताक्षः सर्वभूतभयावहः
दण्डः शास्ता मनुष्याणां यस्मिन्धर्मः प्रतिष्ठितः३०६
अथाश्रमेषु सर्वेषु दम एवोत्तमं व्रतम्
तानि लिङ्गानि वक्ष्यामि यैर्दान्त इति कीर्त्यते३०७
अकार्पण्यमपारुष्यं सन्तोषः सुविधानता
अनसूया गुरोः पूजा दया भूतेष्वपैशुनम्३०८
षड्भिरेष दमः प्रोक्त ऋषिभिः शान्तबुद्धिभिः
दयाधीनौ धर्ममोक्षौ तथा स्वर्गश्च पार्थिव३०९
अपमाने न कुप्येत सम्माने न प्रहृष्यति
समदुःखसुखो धीरः स शान्त इति कीर्त्यते३१०
शेते सुखं हि शान्तस्तु सुखं हि प्रतिबुध्यते
श्रेयस्तरमतस्तिष्ठेदवमन्ता विनश्यति३११
अपमानितस्तु न ध्यायेत्तस्य पापं कदाचन
स्वधर्ममपि चावेक्ष्य परधर्मं न दूषयेत्३१२
आत्मानमपि जानीयात्परं दोषैस्तु नाक्षिपेत्
मन्त्रैर्हीनं क्रियाभिर्वा जन्मनाप्यथवा पुनः३१३
दमश्छादयते सर्वं हीनमङ्गं पटो यथा
अधीयते निरर्थन्ते नाभिजानन्ति ये दमम्३१४
श्रुतस्य हि दमो मूलं दमो धर्मः सनातनः
यो ह्यात्मनस्तुलयते सुवर्णं तुलया दमम्३१५
स तेन धृतिमान्ख्यातो न तु द्रव्येण मोहितः
व्रतानामपि सर्वेषां दम एव परायणम्३१६
यद्यधीते षडङ्गानि वेदतत्त्वार्थविद्द्विजः
दमेन तु विहीनश्च पूज्यत्वं नेह गच्छति३१७
दमेनहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः
साङ्ख्यं च योगश्च कुलं च जन्म तीर्थाभिषेकश्च निरर्थकानि३१८
अमृतस्येव तृप्येत अपमानस्य योगवित्
विषवच्च जुगुप्सेत सम्मानस्य सदा द्विजः॥ १९ ॥

अपमानात्तपोवृद्धिः सम्मानाच्च तपःक्षयः
अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति३२०
पुनराप्यायते धेनुः सतृणैः सलिलैर्यथा
एवं जपैश्च होमैश्च पुनराप्यायते द्विजः३२१
आक्रोशकसमो लोके सुहृदन्यो न विद्यते
यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति३२२
आक्रोशमानान्नाक्रोशेन्मन्युं स्वं विनिवर्तयेत्
सन्नियम्य तदात्मानममृतेनाभिषिञ्चति३२३
कपालं वृक्षमूलानि कुचेलमसहायता
अनपेक्षा ब्रह्मचर्यं नयन्ति परमां गतिम्३२४
कामक्रोधौ विनिर्जित्य किमरण्ये करिष्यति
अभ्यासेन तु वै शास्त्रं कुलं शीलेन धार्यते३२५
गुणैर्मन्त्रा विधार्यन्ते क्रोधस्सत्त्वेन धार्यते
यस्तु क्रोधं समुत्पन्नं सन्धारयति चात्मनः३२६
अक्रोधेन जयेद्वीरः कस्तेन सदृशो भुवि
यस्तु क्रोधं समुत्पन्नं सन्तं संयम्य तिष्ठति३२७
तं सत्सारतमम्मन्ये नास्मिन्सीदति यः पुमान्
एष पैतामहो गुह्यो ब्रह्मराशिस्सनातनः३२८
धर्मस्य नियमो यो हि मया ते कथितो भृशम्
अन्ये च यज्वनां लोका अन्ये चापि तपस्विनां३२९
अन्ये दमवतां लोकास्ते वै परमपूजिताः
एकः क्षमावतां दोषो द्वितीयो नोपपद्यते३३०
यदिदं क्षमया युक्तमशक्तम्मन्यते जनः
न चैष दोषो मन्तव्यः क्षमा प्रज्ञावतां बलम्३३१
प्रशमं योभिजानाति इष्टापूर्तं महीयते
यत्क्रोधयुक्तो जपति जुहोति च यदर्चति३३२
सर्वं क्षरति तत्तस्य भिन्नकुम्भादिवोदकम्
दमाध्यायमिमं पुण्यं प्रातरुत्थाय यः पठेत्३३३
स धर्मनावमारुह्य दुर्गाण्यति तरिष्यति
दमाध्यायमिमं पुण्यं सततं श्रावयेदिद्वजः३३४
स ब्रह्मलोकमाप्नोति तस्मान्न च्यवते पुनः
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैतत्प्रधार्यताम्३३५
आत्मनः प्रतिकूलानि परेषां न समाचरेत्
मातृवत्परदारांश्च परद्रव्याणि लोष्ठवत्३३६
आत्मवत्सर्वभूतानि यः पश्यति स पश्यति
पचनं वैश्वदेवार्थे परार्थे यच्च जीवितम्३३७
एतद्भवेच्च सर्वस्वं धातूनामिव काञ्चनम्
सर्वभूतहितं राजन्नधीत्यामृतमश्नुते३३८
एवं वै धर्मसर्वस्वमुक्त्वा ते तु शुनःसखम्
तेनैव सहिताः सर्वे निविष्टास्सरसस्तटे३३९
सरोपश्यन्सुविस्तीर्णं पद्मोत्पलजलावृतम्
तत्रावतारं कृत्वा ते बिसानि च कलापशः३४०
तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जलक्रियाम्
अथोत्तीर्य जलात्तस्मात्ते समेत्य परस्परम्३४१
बिसान्येतान्यपश्यन्त इदं वचनमब्रुवन्
ऋषय ऊचुः
केन क्षुधाभितप्तानामस्माकं पापकर्मणाम्३४२
नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणा
ते शङ्कमानास्त्वन्योन्यं पर्यपृच्छन्द्विजोत्तमाः३४३
चक्रुश्च निश्चयं सर्वे शपथं प्रति पार्थिव
कश्यप उवाच
सर्वत्र सर्वं हरतु न्यासलोपं करोतु च३४४
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः
दम्भेन धर्मं चरतु राजानं चोपसेवताम्३४५
मधुमांसं समश्नातु बिसस्तैन्यं करोति यः
अनृतं भाषतु सदा विषयांश्चोपसेवतु३४६
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति यः
वसिष्ठ उवाच
अनृतौ मैथुनं यातु दिवास्वप्नं निषेवतु३४७
अन्योन्यातिथितामेतु बिसस्तैन्यं करोति यः
एककूपे वसेद्ग्रामे ब्राह्मणो वृषलीपतिः३४८
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः
भरद्वाज उवाच
नृशंसस्सोऽस्तु सर्वेषु समृध्या चाप्यहङ्कृतः३४९
मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः
प्रत्याक्रोशत्ववाक्रुष्टस्ताडयत्वन्यताडितः३५० 1.19.350
विक्रीणातु रसांश्चैव बिसस्तैन्यं करोति यः
गौतम उवाच
अतिथिं त्वागतं प्राप्य पाकभेदं करोतु सः३५१
शूद्रान्नं च सदाश्नातु बिसस्तैन्यं करोति यः
दत्वा दानं कीर्तयतु परभार्यासु तुष्यतु३५२
एकाकीमिष्टमश्नीयाद्बिसस्तैन्यं करोति यः
विश्वामित्र उवाच
नित्यकामपरः सोस्तु दिवसे चैव मैथुनी३५३
नित्यं तु पातकी चैव बिसस्तैन्यं करोति यः
परापवादं वदतु परदारांश्च सेवतु३५४
परनिन्दारतश्चास्तु बिसस्तैन्यं करोति यः
मातरं पितरं चैव सोवमन्यतु दुर्मतिः३५५
समातर्यन्यबुद्धिस्याद् बिसस्तैन्यं करोति यः
परपाकं सदाश्नातु परनारीं च सेवतु३५६
वेदविक्रयकृच्चास्तु बिसस्तैन्यं करोति यः
जमदग्निरुवाच
परस्य यातु प्रेष्यत्वं स तु जन्मनि जन्मनि३५७
सर्वधर्मक्रियाहीनो बिसस्तैन्यं करोति यः
शुनःसख उवाच
न्यायेन वेदानध्येतु गृहस्थोस्तु प्रियातिथिः३५८
सत्यं वदतु वाजस्रं बिसस्तैन्यं करोति यः
अग्निं जुहोतु विधिवद्यज्ञं यजतु नित्यशः३५९
ब्रह्मणस्सदनं यातु बिसस्तैन्यं करोति यः
ऋषय ऊचुः
इष्टमेव द्विजातीनां यदिदं शपथीकृतं३६०
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख
शुनःसख उवाच
मया ह्यन्तर्हितान्यासन्बिसानीमानि वो द्विजाः३६१
धर्मं च श्रोतुकामेन जानीध्वं मां च वासवम्
अलोभादक्षयालोका जिता वो मुनिसत्तमाः३६२
विमानमधितिष्ठध्वं गच्छामस्त्रिदशालयम्
ततो महर्षयस्ते तु विज्ञायाथ पुरन्दरम्३६३
ऊचुः पुरन्दरं चेदं वाक्यं वाक्यविशारदाः
इहागत्य नरो यस्तु मध्यमं पुष्करं विशेत्३६४
त्रिरात्रोपोषितो भूत्वा लभेदावश्यकं फलम्
द्वादशवार्षिकीदीक्षा स्मृता यातु वनौकसां३६५
तस्याः फलं समग्रं च लभेदिह न संशयः
नासौ दुर्गतिमाप्नोति स्वगणैः सह मोदते३६६
विरिञ्चिस्थानमासाद्य तिष्ठेद्वै ब्रह्मणो दिनम्
पुलस्त्य उवाच
इन्द्रेण सह सम्प्रीतास्तदा जग्मुस्त्रिविष्टपम्३६७
एवं विलोभ्यमानास्ते लोभैर्बहुविधैरिह
नैव लोभं तथा चक्रुस्तेन जग्मुस्त्रिविष्टपम्३६८
इदं यः शृणुयान्नित्यमृषीणां चरितं शुभम्
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते३६९