०१७

भीष्म उवाच

विश्वास-प्रस्तुतिः

तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम
कथं रुद्रः स्थितस्तत्र विष्णुश्चापि सुरोत्तमः॥ १ ॥

मूलम्

तस्मिन्यज्ञे किमाश्चर्यं तदासीद्द्विजसत्तम
कथं रुद्रः स्थितस्तत्र विष्णुश्चापि सुरोत्तमः॥ १ ॥

विश्वास-प्रस्तुतिः

गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया
आभीरैः किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने॥ २ ॥

मूलम्

गायत्र्या किं कृतं तत्र पत्नीत्वे स्थितया तया
आभीरैः किं सुवृत्तज्ञैर्ज्ञात्वा तैश्च कृतं मुने॥ २ ॥

विश्वास-प्रस्तुतिः

एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्
आभीरैर्ब्रह्मणा चापि ममैतत्कौतुकं महत्॥ ३ ॥

मूलम्

एतद्वृत्तं समाचक्ष्व यथावृत्तं यथाकृतम्
आभीरैर्ब्रह्मणा चापि ममैतत्कौतुकं महत्॥ ३ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप
कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप॥ ४ ॥

मूलम्

पुलस्त्य उवाच
तस्मिन्यज्ञे यदाश्चर्यं वृत्तमासीन्नराधिप
कथयिष्यामि तत्सर्वं शृणुष्वैकमना नृप॥ ४ ॥

विश्वास-प्रस्तुतिः

रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः
निन्द्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ॥ ५ ॥

मूलम्

रुद्रस्तु महदाश्चर्यं कृतवान्वै सदो गतः
निन्द्यरूपधरो देवस्तत्रायाद्द्विजसन्निधौ॥ ५ ॥

विश्वास-प्रस्तुतिः

विष्णुना न कृतं किञ्चित्प्राधान्ये स यतः स्थितः
नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः॥ ६ ॥

मूलम्

विष्णुना न कृतं किञ्चित्प्राधान्ये स यतः स्थितः
नाशं तु गोपकन्याया ज्ञात्वा गोपकुमारकाः॥ ६ ॥

विश्वास-प्रस्तुतिः

गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोन्तिकम्
दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्॥ ७ ॥

मूलम्

गोप्यश्च तास्तथा सर्वा आगता ब्रह्मणोन्तिकम्
दृष्ट्वा तां मेखलाबद्धां यज्ञसीमव्यस्थिताम्॥ ७ ॥

विश्वास-प्रस्तुतिः

हा पुत्रीति तदा माता पिता हा पुत्रिकेति च
स्वसेति बान्धवाः सर्वे सख्यः सख्येन हा सखि॥ ८ ॥

मूलम्

हा पुत्रीति तदा माता पिता हा पुत्रिकेति च
स्वसेति बान्धवाः सर्वे सख्यः सख्येन हा सखि॥ ८ ॥

विश्वास-प्रस्तुतिः

केन त्वमिह चानीता अलक्ताङ्का तु सन्दरी
शाटीं निवृत्तां कृत्वा तु केन युक्ता च कम्बली॥ ९ ॥

मूलम्

केन त्वमिह चानीता अलक्ताङ्का तु सन्दरी
शाटीं निवृत्तां कृत्वा तु केन युक्ता च कम्बली॥ ९ ॥

विश्वास-प्रस्तुतिः

केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता
एवंविधानि वाक्यानि श्रुत्वोवाच स्वयं हरिः॥ १० ॥

मूलम्

केन चेयं जटा पुत्रि रक्तसूत्रावकल्पिता
एवंविधानि वाक्यानि श्रुत्वोवाच स्वयं हरिः॥ १० ॥

विश्वास-प्रस्तुतिः

इह चास्माभिरानीता पत्न्यर्थं विनियोजिता
ब्रह्मणालम्बिता बाला प्रलापं मा कृथास्त्विह॥ ११ ॥

मूलम्

इह चास्माभिरानीता पत्न्यर्थं विनियोजिता
ब्रह्मणालम्बिता बाला प्रलापं मा कृथास्त्विह॥ ११ ॥

विश्वास-प्रस्तुतिः

पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी
पुण्या चेन्न भवत्येषा कथमागच्छते सदः॥ १२ ॥

मूलम्

पुण्या चैषा सुभाग्या च सर्वेषां कुलनन्दिनी
पुण्या चेन्न भवत्येषा कथमागच्छते सदः॥ १२ ॥

विश्वास-प्रस्तुतिः

एवं ज्ञात्वा महाभाग न त्वं शोचितुमर्हसि
कन्यैषा ते महाभागा प्राप्ता देवं विरिञ्चनम्॥ १३ ॥

मूलम्

एवं ज्ञात्वा महाभाग न त्वं शोचितुमर्हसि
कन्यैषा ते महाभागा प्राप्ता देवं विरिञ्चनम्॥ १३ ॥

विश्वास-प्रस्तुतिः

योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः
न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गता॥ १४ ॥

मूलम्

योगिनो योगयुक्ता ये ब्राह्मणा वेदपारगाः
न लभन्ते प्रार्थयन्तस्तां गतिं दुहिता गता॥ १४ ॥

विश्वास-प्रस्तुतिः

धर्मवन्तं सदाचारं भवन्तं धर्मवत्सलम्
मया ज्ञात्वा ततः कन्या दत्ता चैषा विरञ्चये॥ १५ ॥

मूलम्

धर्मवन्तं सदाचारं भवन्तं धर्मवत्सलम्
मया ज्ञात्वा ततः कन्या दत्ता चैषा विरञ्चये॥ १५ ॥

विश्वास-प्रस्तुतिः

अनया तारितो गच्छ दिव्यान्लोकान्महोदयान्
युष्माकं च कुले चापि देवकार्यार्थसिद्धये॥ १६ ॥

मूलम्

अनया तारितो गच्छ दिव्यान्लोकान्महोदयान्
युष्माकं च कुले चापि देवकार्यार्थसिद्धये॥ १६ ॥

विश्वास-प्रस्तुतिः

अवतारं करिष्येहं सा क्रीडा तु भविष्यति
यदा नन्दप्रभृतयो ह्यवतारं धरातले॥ १७ ॥

मूलम्

अवतारं करिष्येहं सा क्रीडा तु भविष्यति
यदा नन्दप्रभृतयो ह्यवतारं धरातले॥ १७ ॥

विश्वास-प्रस्तुतिः

करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः
युष्माकं कन्यकाः सर्वा वसिष्यन्ति मया सह॥ १८ ॥

मूलम्

करिष्यन्ति तदा चाहं वसिष्ये तेषु मध्यतः
युष्माकं कन्यकाः सर्वा वसिष्यन्ति मया सह॥ १८ ॥

विश्वास-प्रस्तुतिः

तत्र दोषो न भविता न द्वेषो न च मत्सरः
करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः॥ १९ ॥

मूलम्

तत्र दोषो न भविता न द्वेषो न च मत्सरः
करिष्यन्ति तदा गोपा भयं च न मनुष्यकाः॥ १९ ॥

विश्वास-प्रस्तुतिः

न चास्या भविता दोषः कर्मणानेन कर्हिचित्
श्रुत्वा वाक्यं तदा विष्णोः प्रणिपत्य ययुस्तदा॥ २० ॥

मूलम्

न चास्या भविता दोषः कर्मणानेन कर्हिचित्
श्रुत्वा वाक्यं तदा विष्णोः प्रणिपत्य ययुस्तदा॥ २० ॥

विश्वास-प्रस्तुतिः

एवमेष वरो देव यो दत्तो भविता हि मे
अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः॥ २१ ॥

मूलम्

एवमेष वरो देव यो दत्तो भविता हि मे
अवतारः कुलेस्माकं कर्तव्यो धर्मसाधनः॥ २१ ॥

विश्वास-प्रस्तुतिः

भवतो दर्शनादेव भवामः स्वर्गवासिनः
शुभदा कन्यका चैषा तारिणी मे कुलैः सह॥ २२ ॥

मूलम्

भवतो दर्शनादेव भवामः स्वर्गवासिनः
शुभदा कन्यका चैषा तारिणी मे कुलैः सह॥ २२ ॥

विश्वास-प्रस्तुतिः

एवं भवतु देवेश वरदानं विभो तव
अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना॥ २३ ॥

मूलम्

एवं भवतु देवेश वरदानं विभो तव
अनुनीतास्तदा गोपाः स्वयं देवेन विष्णुना॥ २३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्
त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी॥ २४ ॥

मूलम्

ब्रह्मणाप्येवमेवं तु वामहस्तेन भाषितम्
त्रपान्विता दर्शने तु बन्धूनां वरवर्णिनी॥ २४ ॥

विश्वास-प्रस्तुतिः

कैरहं तु समाख्याता येनेमं देशमागताः
दृष्ट्वा तु तांस्ततः प्राह गायत्री गोपकन्यका॥ २५ ॥

मूलम्

कैरहं तु समाख्याता येनेमं देशमागताः
दृष्ट्वा तु तांस्ततः प्राह गायत्री गोपकन्यका॥ २५ ॥

विश्वास-प्रस्तुतिः

वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्
अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता॥ २६ ॥

मूलम्

वामहस्तेन तान्सर्वान्प्राणिपातपुरःसरम्
अत्र चाहं स्थिता मातर्ब्रह्माणं समुपागता॥ २६ ॥

विश्वास-प्रस्तुतिः

भर्ता लब्धो मया देवः सर्वस्याद्यो जगत्पतिः
नाहं शोच्या भवत्या तु न पित्रा न च बान्धवैः॥ २७ ॥

मूलम्

भर्ता लब्धो मया देवः सर्वस्याद्यो जगत्पतिः
नाहं शोच्या भवत्या तु न पित्रा न च बान्धवैः॥ २७ ॥

विश्वास-प्रस्तुतिः

सखीगणश्च मे यातु भगिन्यो दारकैः सह
सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः॥ २८ ॥

मूलम्

सखीगणश्च मे यातु भगिन्यो दारकैः सह
सर्वेषां कुशलं वाच्यं स्थितास्मि सह दैवतैः॥ २८ ॥

विश्वास-प्रस्तुतिः

गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा
ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती॥ २९ ॥

मूलम्

गतेषु तेषु सर्वेषु गायत्री सा सुमध्यमा
ब्रह्मणा सहिता रेजे यज्ञवाटं गता सती॥ २९ ॥

विश्वास-प्रस्तुतिः

याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्
यथेप्सितं वरं तेषां तदा ब्रह्माप्ययच्छत॥ ३० ॥

मूलम्

याचितो ब्राह्मणैर्ब्रह्मा वरान्नो देहि चेप्सितान्
यथेप्सितं वरं तेषां तदा ब्रह्माप्ययच्छत॥ ३० ॥

विश्वास-प्रस्तुतिः

तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्
सा तु यज्ञे स्थिता साध्वी देवतानां समीपगा॥ ३१ ॥

मूलम्

तया देव्या च गायत्र्या दत्तं तच्चानुमोदितम्
सा तु यज्ञे स्थिता साध्वी देवतानां समीपगा॥ ३१ ॥

विश्वास-प्रस्तुतिः

दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा
यज्ञवाटं कपर्दी तु भिक्षार्थं समुपागतः॥ ३२ ॥

मूलम्

दिव्यंवर्षशतं साग्रं स यज्ञो ववृधे तदा
यज्ञवाटं कपर्दी तु भिक्षार्थं समुपागतः॥ ३२ ॥

विश्वास-प्रस्तुतिः

बृहत्कपालं सङ्गृह्य पञ्चमुण्डैरलङ्कृतः
ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः॥ ३३ ॥

मूलम्

बृहत्कपालं सङ्गृह्य पञ्चमुण्डैरलङ्कृतः
ऋत्विग्भिश्च सदस्यैश्च दूरात्तिष्ठन्जुगुप्सितः॥ ३३ ॥

विश्वास-प्रस्तुतिः

कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः
एवं प्रोत्सार्यमाणोपि निन्द्यमानः स तैर्द्विजैः॥ ३४ ॥

मूलम्

कथं त्वमिह सम्प्राप्तो निन्दितो वेदवादिभिः
एवं प्रोत्सार्यमाणोपि निन्द्यमानः स तैर्द्विजैः॥ ३४ ॥

विश्वास-प्रस्तुतिः

उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः
अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि॥ ३५ ॥

मूलम्

उवाच तान्द्विजान्सर्वान्स्मितं कृत्वा महेश्वरः
अत्र पैतामहे यज्ञे सर्वेषां तोषदायिनि॥ ३५ ॥

विश्वास-प्रस्तुतिः

कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः
उक्तः स तैः कपर्दी तु भुक्त्वा चान्नं ततो व्रज॥ ३६ ॥

मूलम्

कश्चिदुत्सार्य तेनैव ऋतेमां द्विजसत्तमाः
उक्तः स तैः कपर्दी तु भुक्त्वा चान्नं ततो व्रज॥ ३६ ॥

विश्वास-प्रस्तुतिः

कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः
एवमुक्त्वा निषण्णः स कपालं न्यस्य चाग्रतः॥ ३७ ॥

मूलम्

कपर्दिना च ते उक्ता भुक्त्वा यास्यामि भो द्विजाः
एवमुक्त्वा निषण्णः स कपालं न्यस्य चाग्रतः॥ ३७ ॥

विश्वास-प्रस्तुतिः

तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः
मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्॥ ३८ ॥

मूलम्

तेषां निरीक्ष्य तत्कर्म चक्रे कौटिल्यमीश्वरः
मुक्त्वा कपालं भूमौ तु तान्द्विजानवलोकयन्॥ ३८ ॥

विश्वास-प्रस्तुतिः

उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः
तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः॥ ३९ ॥

मूलम्

उवाच पुष्करं यामि स्नानार्थं द्विजसत्तमाः
तूर्णं गच्छेति तैरुक्तः स गतः परमेश्वरः॥ ३९ ॥

विश्वास-प्रस्तुतिः

वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः
स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः॥ ४० ॥

मूलम्

वियत्स्थितः कौतुकेन मोहयित्वा दिवौकसः
स्नानार्थं पुष्करं याते कपर्दिनि द्विजातयः॥ ४० ॥

विश्वास-प्रस्तुतिः

कथं होमोत्र क्रियते कपाले सदसि स्थिते
कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः॥ ४१ ॥

मूलम्

कथं होमोत्र क्रियते कपाले सदसि स्थिते
कपालान्तान्यशौचानि पुरा प्राह प्रजापतिः॥ ४१ ॥

विश्वास-प्रस्तुतिः

विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं
उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्॥ ४२ ॥

मूलम्

विप्रोभ्यधात्सदस्येकः कपालमुत्क्षिपाम्यहं
उद्धृतं तु सदस्येन प्रक्षिप्तं पाणिना स्वयम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्
एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो॥ ४३ ॥

मूलम्

तावदन्यत्स्थितं तत्र पुनरेव समुद्धृतम्
एवं द्वितीयं तृतीयं विंशतिस्त्रिंशदप्यहो॥ ४३ ॥

विश्वास-प्रस्तुतिः

पञ्चाशच्च शतं चैव सहस्रमयुतं तथा
एवं नान्तः कपालानां प्राप्यते द्विजसत्तमैः॥ ४४ ॥

मूलम्

पञ्चाशच्च शतं चैव सहस्रमयुतं तथा
एवं नान्तः कपालानां प्राप्यते द्विजसत्तमैः॥ ४४ ॥

विश्वास-प्रस्तुतिः

नत्वा कपर्दिनं देवं शरणं समुपागताः
पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्॥ ४५ ॥

मूलम्

नत्वा कपर्दिनं देवं शरणं समुपागताः
पुष्करारण्यमासाद्य जप्यैश्च वैदिकैर्भृशम्॥ ४५ ॥

विश्वास-प्रस्तुतिः

तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्
ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः॥ ४६ ॥

मूलम्

तुष्टुवुः सहिताः सर्वे तावत्तुष्टो हरः स्वयम्
ततः सदर्शनं प्रादाद्द्विजानां भक्तितः शिवः॥ ४६ ॥

विश्वास-प्रस्तुतिः

उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्
पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्॥ ४७ ॥

मूलम्

उवाच तांस्ततो देवो भक्तिनम्रान्द्विजोत्तमान्
पुरोडाशस्य निष्पत्तिः कपालं न विना भवेत्॥ ४७ ॥

विश्वास-प्रस्तुतिः

कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम
एवं कृते कृतं सर्वं मदीयं शासनं भवेत्॥ ४८ ॥

मूलम्

कुरुध्वं वचनं विप्राः भागः स्विष्टकृतो मम
एवं कृते कृतं सर्वं मदीयं शासनं भवेत्॥ ४८ ॥

विश्वास-प्रस्तुतिः

तथेत्यूचुर्द्विजाश्शम्भुं कुर्मो वै तव शासनम्
कपालपाणिराहेशो भगवन्तं पितामहम्॥ ४९ ॥

मूलम्

तथेत्यूचुर्द्विजाश्शम्भुं कुर्मो वै तव शासनम्
कपालपाणिराहेशो भगवन्तं पितामहम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

वरं वरय भो ब्रह्मन्हृदि यत्ते प्रियं स्थितम्
सर्वं तव प्रदास्यामि अदेयं नास्ति मे प्रभो५० 1.17.50
ब्रह्मोवाच
न ते वरं ग्रहीष्यामि दीक्षितोहं सदः स्थितः
सर्वकामप्रदश्चाहं यो मां प्रार्थयते त्विह॥ ५१ ॥

एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्
तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत॥ ५२ ॥

मूलम्

एवं वदन्तं वरदं क्रतौ तस्मिन्पितामहम्
तथेति चोक्त्वा रुद्रः स वरमस्मादयाचत॥ ५२ ॥

विश्वास-प्रस्तुतिः

ततो मन्वन्तरेतीते पुनरेव प्रभुः स्वयम्
ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शम्भुना॥ ५३ ॥

मूलम्

ततो मन्वन्तरेतीते पुनरेव प्रभुः स्वयम्
ब्रह्मोत्तरं कृतं स्थानं स्वयं देवेन शम्भुना॥ ५३ ॥

विश्वास-प्रस्तुतिः

चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः
तस्मिन्काले तदा देवो नगरस्यावलोकने॥ ५४ ॥

मूलम्

चतुर्ष्वपि हि वेदेषु परिनिष्ठां गतो हि यः
तस्मिन्काले तदा देवो नगरस्यावलोकने॥ ५४ ॥

विश्वास-प्रस्तुतिः

सम्भाषणे द्विजानां तु कौतुकेन सदो गतः
तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः॥ ५५ ॥

मूलम्

सम्भाषणे द्विजानां तु कौतुकेन सदो गतः
तेनैवोन्मत्तवेषेण हुतशेषे महेश्वरः॥ ५५ ॥

विश्वास-प्रस्तुतिः

प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः
प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयन्ति च॥ ५६ ॥

मूलम्

प्रविष्टो ब्रह्मणः सद्म दृष्टो देवैर्द्विजोत्तमैः
प्रहसन्ति च केप्येनं केचिन्निर्भर्त्सयन्ति च॥ ५६ ॥

विश्वास-प्रस्तुतिः

अपरे पांसुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः
लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः॥ ५७ ॥

मूलम्

अपरे पांसुभिः सिञ्चन्त्युन्मत्तं तं तथा द्विजाः
लोष्टैश्च लगुडैश्चान्ये शुष्मिणो बलगर्विताः॥ ५७ ॥

विश्वास-प्रस्तुतिः

प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्
ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्॥ ५८ ॥

मूलम्

प्रहरन्ति स्मोपहासं कुर्वाणा हस्तसंविदम्
ततोन्ये वटवस्तत्र जटास्वागृह्य चान्तिकम्॥ ५८ ॥

विश्वास-प्रस्तुतिः

पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता
अत्र वामास्त्रियः सन्ति तासामर्थे त्वमागतः॥ ५९ ॥

मूलम्

पृच्छन्ति व्रतचर्यां तां केनैषा ते निदर्शिता
अत्र वामास्त्रियः सन्ति तासामर्थे त्वमागतः॥ ५९ ॥

विश्वास-प्रस्तुतिः

केनैषा दर्शिता चर्या गुरुणा पापदर्शिना
येनचोन्मत्तवद्वाक्यं वदन्मध्ये प्रधावसि॥ ६० ॥

मूलम्

केनैषा दर्शिता चर्या गुरुणा पापदर्शिना
येनचोन्मत्तवद्वाक्यं वदन्मध्ये प्रधावसि॥ ६० ॥

विश्वास-प्रस्तुतिः

शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः
उप्यमानमिदं बीजं लोकः क्लिश्नाति चान्यथा॥ ६१ ॥

मूलम्

शिश्नं मे ब्रह्मणो रूपं भगं चापि जनार्दनः
उप्यमानमिदं बीजं लोकः क्लिश्नाति चान्यथा॥ ६१ ॥

विश्वास-प्रस्तुतिः

मयायं जनितः पुत्रो जनितोनेन चाप्यहम्
महादेवकृते सृष्टिः सृष्टा भार्या हिमालये॥ ६२ ॥

मूलम्

मयायं जनितः पुत्रो जनितोनेन चाप्यहम्
महादेवकृते सृष्टिः सृष्टा भार्या हिमालये॥ ६२ ॥

विश्वास-प्रस्तुतिः

उमादत्ता तु रुद्रस्य कस्य सा तनया वद
मूढा यूयं न जानीथ वदतां भगवांस्तु वः॥ ६३ ॥

मूलम्

उमादत्ता तु रुद्रस्य कस्य सा तनया वद
मूढा यूयं न जानीथ वदतां भगवांस्तु वः॥ ६३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना
गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु॥ ६४ ॥

मूलम्

ब्रह्मणा न कृता चर्या दर्शिता नैव विष्णुना
गिरिशेनापि देवेन ब्रह्मवध्या कृतेन तु॥ ६४ ॥

विश्वास-प्रस्तुतिः

कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै
एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शङ्करः॥ ६५ ॥

मूलम्

कथंस्विद्गर्हसे देवं वध्योस्माकं त्वमद्य वै
एवं तैर्हन्यमानस्तु ब्राह्मणैस्तत्र शङ्करः॥ ६५ ॥

विश्वास-प्रस्तुतिः

स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम
किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्॥ ६६ ॥

मूलम्

स्मितं कृत्वाब्रवीत्सर्वान्ब्राह्मणान्नृपसत्तम
किं मां न वित्थ भो विप्रा उन्मत्तं नष्टचेतनम्॥ ६६ ॥

विश्वास-प्रस्तुतिः

यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः
वदमानमिदं छद्म ब्रह्मरूपधरं हरम्॥ ६७ ॥

मूलम्

यूयं कारुणिकाः सर्वे मित्रभावे व्यवस्थिताः
वदमानमिदं छद्म ब्रह्मरूपधरं हरम्॥ ६७ ॥

विश्वास-प्रस्तुतिः

मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः
कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः॥ ६८ ॥

मूलम्

मायया तस्य देवस्य मोहितास्ते द्विजोत्तमाः
कपर्दिनं निजघ्नुस्ते पाणिपादैश्च मुष्टिभिः॥ ६८ ॥

विश्वास-प्रस्तुतिः

दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्
पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्॥ ६९ ॥

मूलम्

दण्डैश्चापि च कीलैश्च उन्मत्तवेषधारिणम्
पीड्यमानस्ततस्तैस्तु द्विजैः कोपमथागमत्॥ ६९ ॥

विश्वास-प्रस्तुतिः

ततो देवेन ते शप्ता यूयं वेदविवर्जिताः
ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः॥ ७० ॥

मूलम्

ततो देवेन ते शप्ता यूयं वेदविवर्जिताः
ऊर्ध्वजटाः क्रतुभ्रष्टाः परदारोपसेविनः॥ ७० ॥

विश्वास-प्रस्तुतिः

वेश्यायां तु रता द्यूते पितृमातृविवर्जिताः
न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति॥ ७१ ॥

मूलम्

वेश्यायां तु रता द्यूते पितृमातृविवर्जिताः
न पुत्रः पैतृकं वित्तं विद्यां वापि गमिष्यति॥ ७१ ॥

विश्वास-प्रस्तुतिः

सर्वे च मोहिताः सन्तु सर्वेन्द्रियविवर्जिताः
रौद्रीं भिक्षां समश्नन्तु परपिण्डोपजीविनः॥ ७२ ॥

मूलम्

सर्वे च मोहिताः सन्तु सर्वेन्द्रियविवर्जिताः
रौद्रीं भिक्षां समश्नन्तु परपिण्डोपजीविनः॥ ७२ ॥

विश्वास-प्रस्तुतिः

आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः
कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि साम्प्रतम्॥ ७३ ॥

मूलम्

आत्मानं वर्तयन्तश्च निर्ममा धर्मवर्जिताः
कृपार्पिता तु यैर्विप्रैरुन्मत्ते मयि साम्प्रतम्॥ ७३ ॥

विश्वास-प्रस्तुतिः

तेषां धनं च पुत्राश्च दासीदासमजाविकम्
कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह॥ ७४ ॥

मूलम्

तेषां धनं च पुत्राश्च दासीदासमजाविकम्
कुलोत्पन्नाश्च वै नार्यो मयि तुष्टे भवन्विह॥ ७४ ॥

विश्वास-प्रस्तुतिः

एवं शापं वरं चैव दत्वान्तर्द्धानमीश्वरः
गतो द्विजागते देवे मत्वा तं शङ्करं प्रभुम्॥ ७५ ॥

मूलम्

एवं शापं वरं चैव दत्वान्तर्द्धानमीश्वरः
गतो द्विजागते देवे मत्वा तं शङ्करं प्रभुम्॥ ७५ ॥

विश्वास-प्रस्तुतिः

अन्विष्यन्तोपि यत्नेन न चापश्यन्त ते यदा
तदा नियमसम्पन्नाः पुष्करारण्यमागताः॥ ७६ ॥

मूलम्

अन्विष्यन्तोपि यत्नेन न चापश्यन्त ते यदा
तदा नियमसम्पन्नाः पुष्करारण्यमागताः॥ ७६ ॥

विश्वास-प्रस्तुतिः

स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्
जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्॥ ७७ ॥

मूलम्

स्नात्वा ज्येष्ठसरो विप्रा जेपुस्ते शतरुद्रियम्
जाप्यावसाने देवस्तानशीररगिराऽब्रवीत्॥ ७७ ॥

विश्वास-प्रस्तुतिः

अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतः पुनः
आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्॥ ७८ ॥

मूलम्

अनृतं न मया प्रोक्तं स्वैरेष्वपि कुतः पुनः
आगते निग्रहे क्षेमं भूयोपि करवाण्यहम्॥ ७८ ॥

विश्वास-प्रस्तुतिः

शान्ता दान्ता द्विजा ये तु भक्तिमन्तो मयि स्थिराः
न तेषां छिद्यते वेदो न धनं नापि सन्ततिः॥ ७९ ॥

मूलम्

शान्ता दान्ता द्विजा ये तु भक्तिमन्तो मयि स्थिराः
न तेषां छिद्यते वेदो न धनं नापि सन्ततिः॥ ७९ ॥

विश्वास-प्रस्तुतिः

अग्निहोत्ररता ये च भक्तिमन्तो जनार्दने
पूजयन्ति च ब्रह्माणं तेजोराशिं दिवाकरम्॥ ८० ॥

मूलम्

अग्निहोत्ररता ये च भक्तिमन्तो जनार्दने
पूजयन्ति च ब्रह्माणं तेजोराशिं दिवाकरम्॥ ८० ॥

विश्वास-प्रस्तुतिः

नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिः
एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत्॥ ८१ ॥

मूलम्

नाशुभं विद्यते तेषां येषां साम्ये स्थिता मतिः
एतावदुक्त्वा वचनं तूष्णीं भूतस्तु सोऽभवत्॥ ८१ ॥

विश्वास-प्रस्तुतिः

लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात्
आजग्मुः सहितास्सर्वे यत्र देवः पितामहः॥ ८२ ॥

मूलम्

लब्ध्वा वरं सप्रसादं देवदेवान्महेश्वरात्
आजग्मुः सहितास्सर्वे यत्र देवः पितामहः॥ ८२ ॥

विश्वास-प्रस्तुतिः

विरिञ्चिं संहिताजाप्यैस्तोषयन्तोऽग्रतः स्थिताः
तुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः॥ ८३ ॥

मूलम्

विरिञ्चिं संहिताजाप्यैस्तोषयन्तोऽग्रतः स्थिताः
तुष्टस्तानब्रवीद्ब्रह्मा मत्तोपि व्रियतां वरः॥ ८३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाः
को वरो याच्यतां विप्राः परितुष्टे पितामहे॥ ८४ ॥

मूलम्

ब्रह्मणस्तेनवाक्येन हृष्टाः सर्वे द्विजोत्तमाः
को वरो याच्यतां विप्राः परितुष्टे पितामहे॥ ८४ ॥

विश्वास-प्रस्तुतिः

अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च
सान्तानिकाश्च ये लोका वरदानाद्भवन्तु नः॥ ८५ ॥

मूलम्

अग्निहोत्राणि वेदाश्च शास्त्राणि विविधानि च
सान्तानिकाश्च ये लोका वरदानाद्भवन्तु नः॥ ८५ ॥

विश्वास-प्रस्तुतिः

एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत्
के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे॥ ८६ ॥

मूलम्

एवं प्रजल्पतां तत्र विप्राणां कोपमाविशत्
के यूयं केत्र प्रवरा वयं श्रेष्ठास्तथापरे॥ ८६ ॥

विश्वास-प्रस्तुतिः

नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान्
ब्रह्मोवाचाभिसम्प्रेक्ष्य ब्राह्मणान्क्रोधपूरितान्॥ ८७ ॥

मूलम्

नेतिनेति तथा विप्रा द्विजांस्तांस्तत्र संस्थितान्
ब्रह्मोवाचाभिसम्प्रेक्ष्य ब्राह्मणान्क्रोधपूरितान्॥ ८७ ॥

विश्वास-प्रस्तुतिः

यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताः
तस्मादामूलिको गुल्मो ह्येको भवतु वो द्विजाः॥ ८८ ॥

मूलम्

यस्माद्यूयं त्रिभिर्भागैः सभायां बाह्यतः स्थिताः
तस्मादामूलिको गुल्मो ह्येको भवतु वो द्विजाः॥ ८८ ॥

विश्वास-प्रस्तुतिः

उदासीनाः स्थिता ये तु उदासीना भवन्तु ते
सायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः॥ ८९ ॥

मूलम्

उदासीनाः स्थिता ये तु उदासीना भवन्तु ते
सायुधाबद्धनिस्त्रिंशा योद्धुकामा व्यवस्थिताः॥ ८९ ॥

विश्वास-प्रस्तुतिः

कौशिकीति गणो नाम तृतीयो भवतु द्विजाः
त्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति॥ ९० ॥

मूलम्

कौशिकीति गणो नाम तृतीयो भवतु द्विजाः
त्रिधाबद्धमिदं स्थानं सर्वं युष्मद्भविष्यति॥ ९० ॥

विश्वास-प्रस्तुतिः

बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विह
अविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम्॥ ९१ ॥

मूलम्

बाह्यतो लोकशब्देन प्रोच्यमानाः प्रजास्त्विह
अविज्ञेयमिदं स्थानं विष्णुः पालयिता ध्रुवम्॥ ९१ ॥

विश्वास-प्रस्तुतिः

मया दत्तं चिरस्थायि अभङ्गं च भविष्यति
एवमुक्त्वा तदा ब्रह्मा समाप्तिं तामवैक्षत॥ ९२ ॥

मूलम्

मया दत्तं चिरस्थायि अभङ्गं च भविष्यति
एवमुक्त्वा तदा ब्रह्मा समाप्तिं तामवैक्षत॥ ९२ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः
अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते॥ ९३ ॥

मूलम्

ब्राह्मणाः सहितास्ते तु क्रोधामर्षसमन्विताः
अतिथिं भोजयानाश्च वेदाभ्यासरतास्तु ते॥ ९३ ॥

विश्वास-प्रस्तुतिः

एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसञ्ज्ञितम्
तत्रस्था ये द्विजाः शान्ता वसन्ति क्षेत्रवासिनः॥ ९४ ॥

मूलम्

एतच्च परमं क्षेत्रं पुष्करं ब्रह्मसञ्ज्ञितम्
तत्रस्था ये द्विजाः शान्ता वसन्ति क्षेत्रवासिनः॥ ९४ ॥

विश्वास-प्रस्तुतिः

न तेषां दुर्लभं किञ्चिद्ब्रह्मलोके भविष्यति
कोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसङ्गमे॥ ९५ ॥

मूलम्

न तेषां दुर्लभं किञ्चिद्ब्रह्मलोके भविष्यति
कोकामुखे कुरुक्षेत्रे नैमिषे ऋषिसङ्गमे॥ ९५ ॥

विश्वास-प्रस्तुतिः

वाराणस्यां प्रभासे च तथा बदरिकाश्रमे
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे॥ ९६ ॥

मूलम्

वाराणस्यां प्रभासे च तथा बदरिकाश्रमे
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे॥ ९६ ॥

विश्वास-प्रस्तुतिः

रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने
तीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका॥ ९७ ॥

मूलम्

रुद्रकोट्यां विरूपाक्षे मित्रस्यापि तथा वने
तीर्थेष्वेतेषु सर्वेषु सिद्धिर्या द्वादशाब्दिका॥ ९७ ॥

विश्वास-प्रस्तुतिः

प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तम
पुष्करे तु न सन्देहो ब्रह्मचर्यमना यदि॥ ९८ ॥

मूलम्

प्राप्यते मानवैर्लोके षण्मासाद्राजसत्तम
पुष्करे तु न सन्देहो ब्रह्मचर्यमना यदि॥ ९८ ॥

विश्वास-प्रस्तुतिः

तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम्
सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे॥ ९९ ॥

मूलम्

तीर्थानां परमं तीर्थं क्षेत्राणामपि चोत्तमम्
सदा तु पूजितं पूज्यैर्भक्तियुक्तैः पितामहे॥ ९९ ॥

अतः परं प्रवक्ष्यामि सावित्र्या ब्रह्मणा सह
वादो यथानुभूतस्तु परिहासकृतो महान्१०० 1.17.100
सावित्रीगमने सर्वा आगता देवयोषितः
भृगोः ख्यात्यां समुत्पन्ना विष्णुपत्नी यशस्विनी१०१
आमन्त्रिता सदा लक्ष्मीस्तत्रायाता त्वरान्विता
मदिरा च महाभागा योगनिद्रा विभूतिदा१०२
श्रीः कमलालयाभूतिः कीर्तिः श्रद्धा मनस्विनी
पुष्टितुष्टिप्रदा या तु देव्या एताः समागताः१०३
सती या दक्षतनया उमेति पार्वती शुभा
त्रैलोक्यसुन्दरी देवी स्त्रीणां सौभाग्यदायिनी१०४
जया च विजया चैव मधुच्छन्दामरावती
सुप्रिया जनकान्ता च सावित्र्या मन्दिरे शुभे१०५
गौर्या सह समायातास्सुवेषा भरणान्विताः
पुलोमदुहिता चैव शक्राणी च सहाप्सराः१०६
स्वाहा चापि स्वधाऽऽयाता धूमोर्णा च वरानना
यक्षी तु राक्षसी चैव गौरी चैव महाधना१०७
मनोजवा वायुपत्नी ऋद्धिश्च धनदप्रिया
देवकन्यास्तथाऽऽयाता दानव्यो दनुवल्लभाः१०८
सप्तर्षीणां महापत्न्य ऋषीणां च वराङ्गनाः
एवं भगिन्यो दुहिता विद्याधरीगणास्तथा१०९
राक्षस्यः पितृकन्याश्च तथान्या लोकमातरः
वधूभिः सस्नुषाभिश्च सावित्री गन्तुमिच्छति११०
अदित्याद्यास्तथा सर्वा दक्षकन्यास्समागताः
ताभिः परिवृता साध्वी ब्रह्माणी कमलालया१११
काचिन्मोदकमादाय काचिच्छूर्पं वरानना
फलपूरितमादाय प्रयाता ब्रह्मणोन्तिकम्११२
आढकीः सह निष्पावा गृहीत्वान्यास्तथापरा
दाडिमानि विचित्राणि मातुलिङ्गानि शोभना११३
करीराणि तथा चान्या गृहीत्वा कमलानि च
कौसुम्भकं जीरकं च खर्जूरमपरा तथा११४
उत्तमान्यपरादाय नालिकेराणि सर्वशः
द्राक्षयापूरितं काचित्पात्रं शृङ्गाटकं तथा११५
कर्पूराणि विचित्राणि जम्बूकानि शुभानि च
अक्षोटामलकान्गृह्य जम्बीराणि तथापरा११६
बिल्वानि परिपक्वानि चिपिटानि वरानना
कार्पासतूलिकाश्चान्या वस्त्रं कौसुम्भकं तथा११७
एवमाद्यानि चान्यानि कृत्वा शूर्पे वराननाः
सावित्र्या सहिताः सर्वाः सम्प्राप्ताः सहसा शुभाः११८
सावित्रीमागतां दृष्ट्वा भीतस्तत्र पुरन्दरः
अधोमुखः स्थितो ब्रह्मा किमेषा मां वदिष्यति११९
त्रपान्वितौ विष्णुरुद्रौ सर्वे चान्ये द्विजातयः
सभासदस्तथा भीतास्तथा चान्ये दिवौकसः१२०
पुत्राः पौत्रा भागिनेया मातुला भ्रातरस्तथा
ऋभवो नाम ये देवा देवानामपि देवताः१२१
वैलक्ष्येवस्थिताः सर्वे सावित्री किं वदिष्यति
ब्रह्मपार्श्वे स्थिता तत्र किन्तु वै गोपकन्यका१२२
मौनीभूता तु शृण्वाना सर्वेषां वदतां गिरः
अद्ध्वर्युणा समाहूता नागता वरवर्णिनी१२३
शक्रेणान्याहृताभीरा दत्ता सा विष्णुना स्वयम्
अनुमोदिता च रुद्रेण पित्राऽदत्ता स्वयं तथा१२४
कथं सा भविता यज्ञे समाप्तिं वा व्रजेत्कथम्
एवं चिन्तयतां तेषां प्रविष्टा कमलालया१२५
वृतो ब्रह्मासदस्यैस्तु ऋत्विग्भिर्दैवतैस्तथा
हूयन्ते चाग्नयस्तत्र ब्राह्मणैर्वैदपारगैः१२६
पत्नीशालास्थिता गोपी सैणशृङ्गा समेखला
क्षौमवस्त्रपरीधाना ध्यायन्ती परमं पदम्१२७
पतिव्रता पतिप्राणा प्राधान्ये च निवेशिता
रूपान्विता विशालाक्षी तेजसा भास्करोपमा१२८
द्योतयन्ती सदस्तत्र सूर्यस्येव यथा प्रभा
ज्वलमानं तथा वह्निं श्रयन्ते ऋत्विजस्तथा१२९
पशूनामिह गृह्णाना भागं स्वस्व चरोर्मुदा
यज्ञभागार्थिनो देवा विलम्बाद्ब्रुवते तदा१३०
कालहीनं न कर्तव्यं कृतं न फलदं यतः
वेदेष्वेवमधीकारो दृष्टः सर्वैर्मनीषिभिः१३१
प्रावर्ग्ये क्रियमाणे तु ब्राह्मणैर्वेदपारगैः
क्षीरद्वयेन संयुक्त शृतेनाध्वर्युणा तथा१३२
उपहूतेनागते न चाहूतेषु द्विजन्मसु
क्रियमाणे तथा भक्ष्ये दृष्ट्वा देवी रुषान्विता१३३
उवाच देवी ब्रह्माणं सदोमध्ये तु मौनिनम्
किमेतद्युज्यते देव कर्तुमेतद्विचेष्टितम्१३४
मां परित्यज्य यत्कामात्कृतवानसि किल्बिषम्
न तुल्या पादरजसा ममैषा या शिरः कृता१३५
यद्वदन्ति जनास्सर्वे सङ्गताः सदसि स्थिताः
आज्ञामीश्वरभूतानां तां कुरुष्व यदीच्छसि१३६
भवता रूपलोभेन कृतं लोकविगर्हितम्
पुत्रेषु न कृता लज्जा पौत्रेषु च न ते प्रभो१३७
कामकारकृतं मन्य एतत्कर्मविगर्हितम्
पितामहोसि देवानामृषीणां प्रपितामहः१३८
कथं न ते त्रपा जाता आत्मनः पश्यतस्तनुम्
लोकमध्ये कृतं हास्यमहं चापकृता प्रभो१३९
यद्येष ते स्थिरो भावस्तिष्ठ देव नमोस्तुते
अहं कथं सखीनां तु दर्शयिष्यामि वै मुखम्१४०
भर्त्रा मे विधृता पत्नी कथमेतदहं वदे
ब्रह्मोवाच
ऋत्विग्भिस्त्वरितश्चाहं दीक्षाकालादनन्तरम्१४१
पत्नीं विना न होमोत्र शीघ्रं पत्नीमिहानय
शक्रेणैषा समानीता दत्तेयं मम विष्णुना१४२
गृहीता च मया सुभ्रु क्षमस्वैतं मया कृतम्
न चापराधं भूयोन्यं करिष्ये तव सुव्रते१४३
पादयोः पतितस्तेहं क्षमस्वेह नमोस्तुते
पुलस्त्य उवाच
एवमुक्ता तदा क्रुद्धा ब्रह्माणं शप्तुमुद्यता१४४
यदि मेस्ति तपस्तप्तं गुरवो यदि तोषिताः
सर्वब्रह्मसमूहेषु स्थानेषु विविधेषु च१४५
नैव ते ब्राह्मणाः पूजां करिष्यन्ति कदाचन
ॠते तु कार्तिकीमेकां पूजां सांवत्सरीं तव१४६
करिष्यन्ति द्विजाः सर्वे मर्त्या नान्यत्र भूतले
एतद्ब्रह्माणमुक्त्वाह शतक्रतुमुपस्थितम्१४७
भोभोः शक्र त्वयानीता आभीरी ब्रह्मणोन्तिकम्
यस्मात्ते क्षुद्रकं कर्म तस्मात्वं लप्स्यसे फलम्१४८
यदा सङ्ग्राममध्ये त्वं स्थाता शक्र भविष्यसि
तदा त्वं शत्रुभिर्बद्धो नीतः परमिकां दशाम्१४९
अकिञ्चनो नष्टसत्वः शत्रूणां नगरे स्थितः
पराभवं महत्प्राप्य न चिरादेव मोक्ष्यसे१५० 1.17.150
शक्रं शप्त्वा तदा देवी विष्णुं वाक्यमथाब्रवीत्
भृगुवाक्येन ते जन्म यदा मर्त्ये भविष्यति१५१
भार्यावियोगजं दुःखं तदा त्वं तत्र भोक्ष्यसे
हृता ते शत्रुणा पत्नी परे पारो महोदधेः१५२
न च त्वं ज्ञास्यसे नीतां शोकोपहतचेतनः
भ्रात्रा सह परं कष्टामापदं प्राप्य दुःखितः१५३
यदा यदुकुले जातः कृष्णसञ्ज्ञो भविष्यसि
पशूनां दासतां प्राप्य चिरकालं भ्रमिष्यसि१५४
तदाह रुद्रं कुपिता यदा दारुवने स्थितः
तदा त ॠषयः क्रुद्धाः शापं दास्यन्ति वै हर१५५
भोभोः कापालिक क्षुद्र स्त्रीरस्माकं जिहीर्षसि
तदेतद्दर्पितं तेद्य भूमौ लिगं पतिष्यति१५६
विहीनः पौरुषेण त्वं मुनिशापाच्च पीडितः
गङ्गाद्वारे स्थिता पत्नी सा त्वामाश्वासयिष्यति१५७
अग्ने त्वं सर्वभक्षोसि पूर्वं पुत्रेण मे कृतः
भृगुणा धर्मनित्येन कथं दग्धं दहाम्यहम्१५८
जातवेदस्स रुद्रस्त्वां रेतसा प्लावयिष्यति
अमेध्येषु च ते जिह्वा अधिकं प्रज्वलिष्यति१५९
ब्राह्मणानृत्विजः सर्वान्सावित्री वै शशाप ह
प्रतिग्रहार्थाग्निहोत्रो वृथाटव्याश्रयास्तथा१६०
सदा तीर्थानि क्षेत्राणि लोभादेव भजिष्यथ
परान्नेषु सदा तृप्ता अतृप्तास्स्वगृहेषु च१६१
अयाज्ययाजनं कृत्वा कुत्सितस्य प्रतिग्रहम्
वृथाधनार्जनं कृत्वा व्ययं चैव तथा वृथा१६२
प्रेतानां तेन प्रेतत्वं भविष्यति न संशयः
एवं शक्रं तथा विष्णुं रुद्रं वै पावकं तथा१६३
ब्रह्माणं ब्राह्मणांश्चैव सर्वांस्तानाशपद्रुषा
शापं दत्वा तथा तेषां निष्क्रान्ता सदसस्तथा१६४
ज्येष्ठं पुष्करमासाद्य तदा सा च व्यवस्थिता
लक्ष्मीं प्राह सतीं तां च शक्रभार्यां वराननाम्१६५
युवतीस्तास्तथोवाच नात्र स्थास्यामि संसदि
तत्र चाहं गमिष्यामि यत्र श्रोष्ये न च ध्वनिम्१६६
ततस्ताः प्रमदाः सर्वाः प्रयाताः स्वनिकेतनम्
सावित्री कुपिता तासामपि शापाय चोद्यता१६७
यस्मान्मां तु परित्यज्य गतास्ता देवयोषितः
तासामपि तथा शापं प्रदास्ये कुपिता भृशम्१६८
नैकत्रवासो लक्ष्म्यास्तु भविष्यति कदाचन
क्षुद्रा सा चलचित्ता च मूर्खेषु च वसिष्यति१६९
म्लेच्छेषु पार्वतीयेषु कुत्सिते कुत्सिते तथा
मूर्खेषु चावलिप्तेषु अभिशप्ते दुरात्मनि१७०
एवंविधे नरे स्यात्ते वसतिः शापकारिता
शापं दत्वा ततस्तस्या इन्द्राणीमशपत्ततदा१७१
ब्रह्महत्या गृहीतेन्द्रे पत्यौ ते दुःखभागिनि
नहुषापहृते राज्ये दृष्ट्वा त्वां याचयिष्यति१७२
अहमिन्द्रः कथं चैषा नोपस्थास्यति बालिशा
सर्वान्देवान्हनिष्यामि न लप्स्येहं शचीं यदि१७३
नष्टा त्वं च तदा त्रस्ता वाक्पतेर्दुःखिता गृहे
वसिष्यसे दुराचारे मम शापेन गर्विते१७४
देवभार्यासु सर्वासु तदा शापमयच्छत
न चापत्यकृतां प्रीतिमेताः सर्वा लभिष्यथ१७५
दह्यमाना दिवारात्रौ वन्ध्याशब्देन दूषिताः
गौर्य्यप्येवं तदा शप्ता सावित्र्या वरवर्णिनी१७६
रुदमाना तु सा दृष्टा विष्णुना च प्रसादिता
मा रोदीस्त्वं विशालाक्षि एह्यागच्छ सदा शुभे१७७
प्रविश्य च सभां देहि मेखलां क्षौमवाससी
गृहाण दीक्षां ब्रह्माणि पादौ च प्रणमामि ते१७८
एवमुक्ताऽब्रवीदेनं न करोमि वचस्तव
तत्र चाहं गमिष्यामि यत्र श्रोष्ये न वै ध्वनिम्१७९
एतावदुक्त्वा सारुह्य तस्मात्स्थानद्गिरौ स्थिता
विष्णुस्तदग्रतः स्थित्वा बध्वा च करसम्पुटं१८०
तुष्टाव प्रणतो भूत्वा भक्त्या परमया स्थितः
विष्णुरुवाच
सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतोद्भुता१८१
सदसच्चैव यत्किञ्चिद्दृश्यं तन्न विना त्वया
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः१८२
स्मर्तव्या भूमिकामैर्वा तत्प्रवक्ष्यामि तेग्रतः
सावित्री पुष्करे नाम तीर्थानां प्रवरे शुभे१८३
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी
प्रयागे ललितादेवी कामुका गन्धमादने१८४
मानसे कुमुदा नाम विश्वकाया तथाम्बरे
गोमन्ते गोमती नाम मन्दरे कामचारिणी१८५
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे
कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते१८६
एकाम्रके कीर्तिमती विश्वा विश्वेश्वरी तथा
कर्णिके पुरुहस्तेति केदारे मार्गदायिका१८७
नन्दा हिमवतः पृष्टे गोकर्णे भद्रकालिका
स्थाण्वीश्वरे भवानी तु बिल्वके बिल्वपत्रिका१८८
श्रीशैले माधवीदेवी भद्रा भद्रेश्वरी तथा
जया वराहशैले तु कमला कमलालये१८९
रुद्रकोट्यां तु रुद्राणी काली कालञ्जरे तथा
महालिङ्गे तु कपिला कर्कोटे मङ्गलेश्वरी१९०
शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया
मायापुर्यां कुमारी तु सन्ताने ललिता तथा१९१
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला
गयायां मङ्गला नाम विमला पुरुषोत्तमे१९२
विपाशायाममोघाक्षी पाटला पुण्यवर्द्धने
नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी१९३
विपुले विपुला नाम कल्याणी मलयाचले
कोटवी कोटितीर्थे तु सुगन्धा माधवीवने१९४
कुब्जाम्रके त्रिसन्ध्या तु गङ्गाद्वारे हरिप्रिया
शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे१९५
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने तथा
देवकी मथुरायां तु पाताले परमेश्वरी१९६
चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका१९७
रमणा रामतीर्थे तु यमुनायां मृगावती
करवीरे महालक्ष्मी रुमादेवी विनायके१९८
अरोगा वैद्यनाथे तु महाकाले महेश्वरी
अभया पुष्पतीर्थे तु अमृता विन्ध्यकन्दरे१९९
माण्डव्ये माण्डवी देवी स्वाहा माहेश्वरे पुरे
वेगले तु प्रचण्डाथ चण्डिकामरकण्टके२०० 1.17.200
सोमेश्वरे वरारोहा प्रभासे पुष्करावती
देवमाता सरस्वत्यां पारापारे तटे स्थिता२०१
महालये महापद्मा पयोष्ण्यां पिङ्गलेश्वरी
सिंहिका कृतशौचे तु कार्तिकेये तु शङ्करी२०२
उत्पलावर्तके लोला सुभद्रा सिन्धुसङ्गमे
उमा सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे२०३
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले२०४
भीमा देवी हिमाद्रौ च तुष्टिर्वस्त्रेश्वरे तथा
कपालमोचने श्रद्धा माता कायावरोहणे२०५
शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा
काला तु चन्द्रभागायामच्छोदे सिद्धिदायिनी२०६
वेणायाममृता देवी बदर्यामूर्वशी तथा
औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका२०७
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी
अश्वत्थेवन्दनीया तु निधिर्वै श्रवणालये२०८
गायत्री वेदवदने पार्वती शिवसन्निधौ
देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती२०९
सूर्यबिम्बे प्रभानाम मातॄणां वैष्णवी तथा
अरुन्धती सतीनां तु रामासु च तिलोत्तमा२१०
चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणां
एतद्भक्त्या मया प्रोक्तं नामाष्टशतमुत्तमं२११
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतं
यो जपेच्छ्रुणुयाद्वापि सर्वपापैः प्रमुच्यते२१२
येषु तीर्थेषु यः कृत्वा स्नानं पश्येन्नरोत्तमः
सर्वपापविनिर्मुक्तः कल्पं ब्रह्मपुरे वसेत्२१३
नामाष्टकशतं यस्तु श्रावयेद्ब्रह्मसन्निधौ
पौर्णमास्याममायां वा बहुपुत्रो भवेन्नरः२१४
गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः
देवार्चनविधौ शृण्वन्परं ब्रह्माधिगच्छति२१५
एवं स्तुवन्तं सावित्री विष्णुं प्रोवाच सुव्रता
सम्यक्स्तुता त्वया पुत्र त्वमजय्यो भविष्यसि२१६
अवतारे सदारस्त्वं पितृमातृषु वल्लभः
इह चागत्य यो मां तु स्तवेनानेन संस्तुयात्२१७
सर्वपापविनिर्मुक्तः परं स्थानं गमिष्यति
गच्छ यज्ञं विरिञ्चस्य समाप्तिं नय पुत्रक२१८
कुरुक्षेत्रे प्रयागे च भविष्ये चान्नदायिनी
समीपगा स्थिता भर्त्तुः करिष्ये तव भाषितम्२१९
एवमुक्तो गतो विष्णुर्ब्रह्मणः सद उत्तम्
गतायामथ सावित्र्यां गायत्री वाक्यमब्रवीत्२२०
शृण्वन्तु वाक्यमृषयो मदीयं भर्तृसन्निधौ
यदिदं वच्म्यहं तुष्टा वरदानाय चोद्यता२२१
ब्रह्माणं पूजयिष्यन्ति नरा भक्तिसमन्विताः
तेषां वस्त्रं धनं धान्यं दाराः सौख्यं धनानि च२२२
अविच्छिन्नं तथा सौख्यं गृहे वै पुत्रपौत्रकम्
भुक्त्वासौ सुचिरं कालमन्ते मोक्षं गमिष्यति२२३
पुलस्त्य उवाच
ब्रह्माणं च प्रतिष्ठाप्य सर्वयत्नैर्विधानतः
यत्पुण्यफलमाप्नोति तदेकाग्रमनाः शृणु२२४
सर्वयज्ञ तपो दान तीर्थ वेदेषु यत्फलम्
तत्फलं कोटिगुणितं लभेतैतत्प्रतिष्ठया२२५
पौर्णमास्युपवासं तु कृत्वा भक्त्या नराधिप
अनेन विधिना यस्तु विरिञ्चिं पूजयेन्नरः२२६
प्रतिपदि महाबाहो स याति ब्रह्मणः पदम्
विरिञ्चिं वासुदेवं तु ऋत्विग्भिश्च विशेषतः२२७
कार्तिके मासि देवस्य रथयात्रा प्रकीर्तिता
यां कृत्वा मानवा भक्त्या संयान्ति ब्रह्मलोकताम्२२८
कार्तिके मासि राजेन्द्र पौर्णमास्यां चतुर्मुखम्
मार्गेण ब्रह्मणा सार्द्धं सावित्र्या च परन्तप२२९
भ्रामयेन्नगरं सर्वं नानावाद्यसमन्वितः
स्नपयेद्भ्रमयित्वा तु सलोकं नगरं नृप२३०
ब्राह्मणान्भोजयित्वाग्रे शाण्डिलेयं प्रपूज्य च
आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः२३१
रथाग्रे शाण्डिलीपुत्रं पूजयित्वा विधानतः
ब्राह्मणान्वाचयित्वा तु कृत्वा पुण्याहमङ्गलम्२३२
देवमारोपयित्वा च रथे कुर्यात्प्रजागरं
नानाविधैः प्रेक्षणिकैर्ब्रह्मघौषैश्च पुष्कलैः२३३
कृत्वा प्रजागरं देवं प्रभाते ब्राह्मणान्नृप
भोजयित्वा यथाशक्ति भक्ष्यभोज्यैरनेकशः२३४
पूजयित्वा जनं धीर मन्त्रेण विधिवन्नृप
आज्येन तु महाबाहो पयसा पायसेन च२३५
ब्राह्मणान्वाचयित्वा तु स्वस्त्या तु विधिवन्नृप
कृत्वा पुण्याहशब्दं च तद्रथं भ्रामयेत्पुरे२३६
विप्रैश्चतुर्वेदविद्भिर्भ्रामयेद्ब्रह्मणो रथम्
बह्वृचाथर्वणैर्वीरछन्दोगाध्वर्युभिस्तथा२३७
भ्रामयेद्देवदेवस्य सुरश्रेष्ठस्य तं रथं
प्रदक्षिणं पुरं सर्वं मार्गेण सुसमेन तु२३८
न वोढव्यो रथो वीर शूद्रेण हितमिच्छता
न चारोहेद्रथं प्राज्ञो मुक्त्वैकं भोजकं नृपः२३९
ब्रह्मणो दक्षिणे पार्श्वे गायत्रीं स्थापयेन्नृप
भोजकं वामपार्श्वे तु पुरतः पङ्ङ्कजं न्येसेत्२४०
एवं तूर्यनिनादैस्तु शङ्खशब्दैश्च पुष्कलैः
भ्रामयित्वा रथं वीर पुरं सर्वं प्रदक्षिणम्२४१
स्वस्थाने स्थापयेद्देवं दत्वा नीराजनं बुधः
य एवं कुरुते यात्रां यो वा भक्त्यापि पश्यति२४२
रथं वा कर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदं
कार्तिके मास्यमावास्यां यश्च दीपप्रदीपनं२४३
शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्
गन्धपुष्पैर्नवैर्वस्त्रैरात्मानं पूजयेत्तु यः२४४
तस्यां प्रतिपदायां तु स गच्छेद्ब्रह्मणः पदम्
महापुण्यातिथिरियं बलिराज्यप्रवर्तिनी२४५
ब्रह्मणः सुप्रिया नित्यं बालेयी परिकीर्तिता
ब्रह्माणं पूजयेद्योऽस्यामात्मानं च विशेषतः२४६
स याति परमं स्थानं विष्णोरमिततेजसः
चैत्रे मासि महाबाहो पुण्या प्रतिपदां वरा२४७
तस्यां यः श्वपचं स्पृष्ट्वा स्नानं कुर्यान्नरोत्तमः
न तस्य दुरितं किञ्चिन्नाधयो व्याधयो नृप२४८
भवन्ति कुरुशार्दूल तस्मात्स्नानं समाचरेत्
दिव्यं नीराजनं तद्धि सर्वरोगविनाशनं२४९
गोमहिष्यादि यत्किञ्चित्तत्सर्वं कर्षयेन्नृप
तेन वस्त्रादिभिः सर्वैस्तोरणं बाह्यतो न्यसेत्२५० 1.17.250
ब्राह्मणानां तथा भोज्यं कुर्यात्कुरुकुलोद्वह
तिस्रो ह्येताः पुरा प्रोक्तास्तिथयः कुरुनन्दन२५१
कार्तिकाश्वयुजे मासि चैत्रेमासि तथा नृप
स्नानं दानं शतगुणं कार्त्तिके या तिथिर्नृप२५२
बलिराज्ञस्तु शुभदा पशूनां हितकारिणी
गायत्र्युवाच
यदुक्तं तु तया वाक्यं सावित्र्या कमलोद्भवं२५३
न तु ते ब्राह्मणाः पूजां करिष्यन्ति कदाचन
मदीयं तु वचः श्रुत्वा ये करिष्यन्ति चार्चनं२५४
इह भुक्त्वा तु भोगांस्ते परत्र मोक्षभागिनः
एतां ज्ञात्वा परां दृष्टिं वरं तुष्टः प्रयच्छति२५५
शक्राहं ते वरं दास्ये सङ्ग्रामे शत्रुनिग्रहे
तदा ब्रह्मा मोचयिता गत्वा शत्रुनिकेतनम्२५६
स्वपुरं लप्स्यसे नष्टं शत्रुनाशात्परां मुदं
अकण्टकं महद्राज्यं त्रैलोक्ये ते भविष्यति२५७
मर्त्यलोके यदा विष्णो अवतारं करिष्यसि
भ्रात्रा सह परं दुःखं स्वभार्याहरणादिजं२५८
हत्वा शत्रुं पुनर्भार्यां लप्स्यसे सुरसन्निधौ
गृहीत्वा तां पुना राज्यं कृत्वा स्वर्गं गमिष्यसि२५९
एकादशसहस्राणि वर्षाणां च पुनर्दिवं
ख्यातिस्ते विपुला लोके अनुरागं जनैस्सह२६०
सान्तानिका नाम तेषां लोका स्थास्यन्ति भाविताः
त्वया ते तारिता देव रामरूपेण मानवाः२६१
गायत्री तु तदा रुद्रं वरदा प्रत्यभाषत
पतितेपि च ते लिङ्गे पूजां कुर्वन्ति ये नराः२६२
ते पूताः पुण्यकर्माणः स्वर्गलोकस्य भागिनः
न तां गतिं चाग्निहोत्रे न क्रतौ हुतपावके२६३
यां गतिं मनुजा यान्ति तव लिङ्गस्य पूजनात्
गङ्गातीरे सदा लिङ्गं बिल्बपत्रेण ये तव२६४
पूजयिष्यन्ति सुप्राता रुद्रलोकस्य भागिनः
प्राप्यापि शर्वभक्तत्वमग्ने त्वं भव पावनः२६५
त्वयि प्रीते सुराः सर्वे प्रीता वै नात्र संशयः
त्वन्मुखेन हविर्देवैः प्रीताः प्रीते त्वयि ध्रुवम्२६६
भुञ्जते नात्र सन्देहो वेदोक्तं वचनं यथा
गायत्री ब्राह्मणांस्तांश्च सर्वांश्चैवाब्रवीदिदं२६७
युष्माकं प्रीणनं कृत्वा सर्वतीर्थेषु मानवाः
पदं सर्वे गमिष्यन्ति वैराजाख्यं न संशयः२६८
अन्नप्रकारान्विविधान्दत्वा दानान्यनेकशः
श्राद्धेषु प्रीणनं कृत्वा देवदेवा भवन्ति ते२६९
ये च वै ब्राह्मणश्रेष्ठास्तेषामास्ये दिवौकसः
भुञ्जते च हविः क्षिप्रं कव्यं चैव पितामहाः२७०
यूयं हि धारणे शक्तास्त्रैलोक्यस्य न संशयः
प्राणायामेन चैकेन सर्वे पूता भविष्यथ२७१
विशेषात्पुष्करे स्नात्वा मां जप्त्वा वेदमातरं
प्रतिग्रहकृतान्दोषान्न प्राप्स्यथ द्विजोतमाः२७२
पुष्करे चान्नदानेन प्रीताः स्युः सर्वदेवताः
एकस्मिन्भोजिते विप्रे कोट्याः फलमवाप्स्यते२७३
ब्रह्महत्यादिपापानि दुष्कृतानि कृतानि च
करिष्यन्ति नरास्सर्वे दत्वा युष्मत्करे धनम्२७४
मदीयेन तु जाप्येन पूजनीयस्त्रिभिः कृतैः
ब्रह्महत्यासमं पापं तत्क्षणादेव नश्यति२७५
दशभिर्जन्मभिर्जातं शतेन च पुरा कृतं
त्रियुगेन सहस्रेण गायत्री हन्ति किल्बिषं२७६
एवं ज्ञात्वा सदा पूता जाप्ये तु मम वै कृते
भविष्यध्वं न सन्देहो नात्र कार्या विचारणा२७७
प्रणवेन त्रिमात्रेण सार्द्धं जप्त्वा विशेषतः
पूताः सर्वे न सन्देहो जप्त्वा मां शिरसा सह२७८
अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्त्विदं
माताहं सर्ववेदानां पदैः सर्वेरलङ्कृता२७९
जप्त्वा मां भक्तितः सिद्धिं यास्यन्ति द्विजसत्तमाः
प्राधान्यं मम जाप्येन सर्वेषां वो भविष्यति२८०
गायत्रीसारमात्रोपि वरं विप्रः सुसंयतः
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी२८१
यस्माद्विप्रेषु सावित्र्या शापो दत्तः सदस्यथ
अत्र दत्तं हुतं चापि सर्वमक्षयकारकम्२८२
दत्तो वरो मया तेन युष्माकं द्विजसत्तमाः
अग्निहोत्रपरा विप्रास्त्रिकालं होमदायिनः२८३
स्वर्गं ते तु गमिष्यन्ति सैकविंशतिभिः कुलैः
एवं शक्रस्य विष्णोश्च रुद्रस्य पावकस्य च२८४
ब्रह्मणो ब्राह्मणानां च गायत्रीवरमुत्तमम्
तस्मिन्वै पुष्करे दत्त्वा ब्रह्मणः पार्श्वगाऽभवत्२८५
चारणैस्तु तदाऽऽख्यातं लक्ष्म्या वै शापकारणम्
युवतीनां च सर्वासां शापान्ज्ञात्वा पृथक्पृथक्२८६
लक्ष्म्याश्चैव वरं प्रादाद्गायत्री ब्रह्मणः प्रिया
अकुत्सितान्सदा सर्वान्कुर्वन्ती धनशोभना२८७
शोभिष्यसे न सन्देहः सर्वेभ्यः प्रीतिदायिनी
ये त्वया वीक्षिताः पुत्रि सर्वे ते पुण्यभोजनाः२८८
परित्यक्तास्त्वया ये तु सर्वे ते दुःखभागिनः
तेषां जातिः कुलं शीलं धर्मश्चैव वरानने२८९
सभायां ते च शोभन्ते दृश्यन्ते चैव पार्थिवैः
अर्थित्वं चैव तेषां तु करिष्यन्ति द्विजोत्तमाः२९०
सौजन्यं तेषु कुर्वन्ति त्वं नो भ्राता पिता गुरुः
बान्धवोपि न सन्देहो न जीवेयं त्वया विना२९१
त्वयि दृष्टे प्रसन्ना मे दृष्टिर्भवति शोभना
मनः प्रसीदतेत्यर्थं सत्यं सत्यं वदामि ते२९२
एवंविधानि वाक्यानि त्वद्दृष्ट्या ये निरीक्षिताः
सज्जनास्ते तु श्रोष्यन्ति जनानां प्रीतिदायकाः२९३
इन्द्रत्वं नहुषः प्राप्य दृष्ट्वा त्वां याचयिष्यति
त्वद्दृष्ट्या तु हतः पापो ह्यगस्त्यवचनाद्ध्रुवम्२९४
सर्पत्वं समनुप्राप्य प्रार्थयिष्यति तं तु सः
दर्पेणाहं विनष्टोस्मि शरणं मे मुने भव२९५
वाक्येन तेन तस्यासौ नृपस्य भगवानृषिः
कृत्वा मनसि कारुण्यमिदं वाक्यं वदिष्यति२९६
उत्पत्स्यते कुले राजा त्वदीये कुलनन्दनः
सर्परूपधरं दृष्ट्वा स ते शापं हि भेत्स्यति२९७
तदा त्वं सर्पतां त्यक्त्वा पुनः स्वर्गं गमिष्यसि
अश्वमेधकृतेन त्वं भर्त्रा सह पुनर्दिवम्२९८
प्राप्स्यसे वरदानेन मदीयेन सुलोचने
पुलस्त्य उवाच
देवपत्न्यस्तदा सर्वास्तुष्टया परिभाषिताः२९९
अपत्यैरपि हीनानां नैव दुःखं भविष्यति
गौरी चैव तु गायत्र्या तदा सापि विबोधिता३०० 1.17.300
बृंहिता परितोषेण वरान्दत्त्वा मनस्विनी
समाप्तिं तस्य यज्ञस्य काङ्क्षन्ती ब्रह्मणः प्रिया३०१
वरदां तां तथा दृष्ट्वा गायत्रीं वेदमातरम्
प्रणिपत्य तदा रुद्रः स्तुतिमेतां चकार ह३०२
रुद्र उवाच
नमोस्तु ते वेदमातरष्टाक्षरविशोधिते
गायत्री दुर्गतरणी वाणी सप्तविधा तथा३०३
सर्वाणि स्तुतिशास्त्राणि गाथाश्च निखिलास्तथा
अक्षराणि च सर्वाणि लक्षणानि तथैव च३०४
भाष्यादि सर्वशास्त्राणि ये चान्ये नियमास्तथा
अक्षराणि च सर्वाणि त्वं तु देवि नमोस्तुते३०५
श्वेता त्वं श्वेतरूपासि शशाङ्केन समानना
बिभ्रती विपुलौ बाहू कदलीगर्भकोमलौ३०६
एणशृङ्गं करे गृह्य पङ्कजं च सुनिर्मलम्
वसाना वसने क्षौमे रक्तेनोत्तरवाससा३०७
शशिरश्मिप्रकाशेन हारेणोरसि राजिता
दिव्यकुण्डलपूर्णाभ्यां कर्णाभ्यां सुविभूषिता३०८
चन्द्रसापत्न्यभूतेन मुखेन त्वं विराजसे
मकुटेनातिशुद्धेन केशबन्धेन शोभिता३०९
भुजङ्गाभोगसदृशौ भुजौ ते भूषणन्दिवः
स्तनौ ते रुचिरौ देवि वर्तुलौ समचूचुकौ३१०
जघनेनातिशुभ्रेण त्रिवलीभङ्गदर्पिता
सुमध्यवर्त्तिनी नाभिर्गम्भीरा शुभदर्शिनी३११
विस्तीर्णजघना देवी सुश्रोणी च वरानने
सुजातवृत्तोरुयुगा सुजानु चरणा तथा३१२
त्रैलोक्यधारिणी सा त्वं भुवि सत्योपयाचना
भविष्यसि महाभागे वरदा वरवर्णिनी३१३
पुष्करे च कृता यात्रा दृष्ट्वा त्वां सम्भविष्यति
ज्येष्ठे मासे पौर्णमास्यामग्र्यां पूजां च लप्स्यसे३१४
ये च वा त्वत्प्रभावज्ञाः पूजयिष्यन्ति मानवाः
न तेषां दुर्लभं किञ्चित्पुत्रतो धनतोपि वा३१५
कान्तारेषु निमग्नानामटव्यां वा महार्णवे
दस्युभिर्वानिरुद्धानां त्वं गतिः परमा नृणाम्३१६
त्वं सिद्धिः श्रीर्धृतिः कीर्तिर्ह्रीर्विद्या सन्नतिर्मतिः
सन्ध्या रात्रिः प्रभा निद्रा कालरात्रिस्त्वमेव च३१७
अम्बा च कमला मातुर्ब्रह्माणी ब्रह्मचारिणी
जननी सर्वदेवानां गायत्री परमाङ्गना३१८
जया च विजया चैव पुष्टिस्त्वं च क्षमा दया
सावित्र्यवरजा चासि सदा चेष्टा पितामहे३१९
बहुरूपा विश्वरूपा सुनेत्रा ब्रह्मचारिणी
सुरूपा त्वं विशालाक्षी भक्तानां परिरक्षिणी३२०
नगरेषु च पुण्येषु आश्रमेषु वरानने
वासस्तव महादेवि वनेषूपवनेषु च३२१
ब्रह्मस्थानेषु सर्वेषु ब्रह्मणो वामतः स्थिता
दक्षिणेन तु सावित्री मध्ये ब्रह्मा पितामहः३२२
अन्तर्वेदी च यज्ञानामृत्विजां चापि दक्षिणा
सिद्धिस्त्वं हि नृपाणां च वेला सागरजा मता३२३
ब्रह्मचारिणि या दीक्षा शोभा च परमा मता
ज्योतिषां च प्रभा देवी लक्ष्मीर्नारायणे स्थिता३२४
क्षमा सिद्धिर्मुनीनां च नक्षत्राणां च रोहिणी
राजद्वारेषु तीर्थेषु नदीनां सङ्गमेषु च३२५
पूर्णिमा पूर्णचन्द्रे च बुद्धिर्नीत्यां क्षमा धृतिः
उमादेवी च नारीणां श्रूयसे वरवर्णिनी३२६
इन्द्रस्य चारुदृष्टिस्त्वं सहस्रनयनोपगा
ॠषीणां धर्मबुद्धिस्त्वं देवानां च परायणा३२७
कर्षकाणां च सीता त्वं भूतानां धरणी तथा
स्त्रीणामवैधव्यकरी धनधान्यप्रदा सदा३२८
व्याधिं मृत्युं भयं चैव पूजिता शमयिष्यसि
तथा तु कार्तिके मासि पौर्णमास्यां सुपूजिता३२९
सर्वकामप्रदा देवी भविष्यसि शुभप्रदे
यश्चेदं पठते स्तोत्रं शृणुयाद्वाप्यभीक्ष्णशः३३०
सर्वार्थसिद्धिं लभते नरो नास्त्यत्र संशयः
गायत्र्युवाच
भविष्यत्येवमेवं तु यत्त्वया पुत्र भाषितम्३३१
विष्णुना सहितः सर्वस्थानेष्वेव भविष्यसि