०१५

भीष्म उवाच

विश्वास-प्रस्तुतिः

किं कृतं ब्रह्मणा ब्रह्मन्प्रेष्य वाराणसीपुरीम्
जनार्दनेन किं कर्म शङ्करेण च यन्मुने॥ १ ॥

मूलम्

किं कृतं ब्रह्मणा ब्रह्मन्प्रेष्य वाराणसीपुरीम्
जनार्दनेन किं कर्म शङ्करेण च यन्मुने॥ १ ॥

विश्वास-प्रस्तुतिः

कथं यज्ञः कृतस्तेन कस्मिंस्तीर्थे वदस्व मे
के सदस्या ऋत्विजश्च सर्वांस्तान्प्रब्रवीहि मे॥ २ ॥

मूलम्

कथं यज्ञः कृतस्तेन कस्मिंस्तीर्थे वदस्व मे
के सदस्या ऋत्विजश्च सर्वांस्तान्प्रब्रवीहि मे॥ २ ॥

विश्वास-प्रस्तुतिः

के देवास्तर्पितास्तेन एतन्मे कौतुकं महत्
पुलस्त्य उवाच
श्रीनिधानं पुरं मेरोः शिखरे रत्नचित्रितम्॥ ३ ॥

मूलम्

के देवास्तर्पितास्तेन एतन्मे कौतुकं महत्
पुलस्त्य उवाच
श्रीनिधानं पुरं मेरोः शिखरे रत्नचित्रितम्॥ ३ ॥

विश्वास-प्रस्तुतिः

अनेकाश्चर्यनिलयम्बहुपादपसङ्कुलम्
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम्॥ ४ ॥

मूलम्

अनेकाश्चर्यनिलयम्बहुपादपसङ्कुलम्
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकनिर्मलम्॥ ४ ॥

विश्वास-प्रस्तुतिः

लतावितानशोभाढ्यं शिखिशब्दविनादितम्
मृगेन्द्ररववित्रस्त गजयूथसमाकुलम्॥ ५ ॥

मूलम्

लतावितानशोभाढ्यं शिखिशब्दविनादितम्
मृगेन्द्ररववित्रस्त गजयूथसमाकुलम्॥ ५ ॥

विश्वास-प्रस्तुतिः

निर्झराम्बुप्रपातोत्थ शीकरासारशीतलम्
वाताहततरुव्रात प्रसन्नापानचित्रितम्॥ ६ ॥

मूलम्

निर्झराम्बुप्रपातोत्थ शीकरासारशीतलम्
वाताहततरुव्रात प्रसन्नापानचित्रितम्॥ ६ ॥

विश्वास-प्रस्तुतिः

मृगनाभिवरामोद वासिताशेषकाननम्
लतागृहरतिश्रान्त सुप्तविद्याधराध्वगम्॥ ७ ॥

मूलम्

मृगनाभिवरामोद वासिताशेषकाननम्
लतागृहरतिश्रान्त सुप्तविद्याधराध्वगम्॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रगीतकिन्नरव्रात मधुरध्वनिनादितम्
तस्मिन्ननेकविन्यास शोभिताशेषभूमिकम्॥ ८ ॥

मूलम्

प्रगीतकिन्नरव्रात मधुरध्वनिनादितम्
तस्मिन्ननेकविन्यास शोभिताशेषभूमिकम्॥ ८ ॥

विश्वास-प्रस्तुतिः

वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः
तत्र दिव्याङ्गनोद्गीत मधुरध्वनि नादिता॥ ९ ॥

मूलम्

वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः
तत्र दिव्याङ्गनोद्गीत मधुरध्वनि नादिता॥ ९ ॥

विश्वास-प्रस्तुतिः

पारिजाततरूत्पन्न मञ्जरीदाममालिनी
रत्नरश्मिसमूहोत्थ बहुवर्णविचित्रिता॥ १० ॥

मूलम्

पारिजाततरूत्पन्न मञ्जरीदाममालिनी
रत्नरश्मिसमूहोत्थ बहुवर्णविचित्रिता॥ १० ॥

विश्वास-प्रस्तुतिः

विन्यस्तस्तम्भकोटिस्तु निर्मलादर्शशोभिता
अप्सरोनृत्यविन्यास विलासोल्लासलासिता॥ ११ ॥

मूलम्

विन्यस्तस्तम्भकोटिस्तु निर्मलादर्शशोभिता
अप्सरोनृत्यविन्यास विलासोल्लासलासिता॥ ११ ॥

विश्वास-प्रस्तुतिः

बह्वातोद्यसमुत्पन्नसमूहस्वननादिता
लयतालयुतानेक गीतवादित्र शोभिता॥ १२ ॥

मूलम्

बह्वातोद्यसमुत्पन्नसमूहस्वननादिता
लयतालयुतानेक गीतवादित्र शोभिता॥ १२ ॥

विश्वास-प्रस्तुतिः

सभा कान्तिमती नाम देवानां शर्मदायिका
ऋषिसङ्घसमायुक्ता मुनिवृन्दनिषेविता॥ १३ ॥

मूलम्

सभा कान्तिमती नाम देवानां शर्मदायिका
ऋषिसङ्घसमायुक्ता मुनिवृन्दनिषेविता॥ १३ ॥

विश्वास-प्रस्तुतिः

द्विजातिसामशब्देन नादिताऽऽनन्ददायिनी
तस्यां निविष्टो देवेशस्सन्ध्यासक्तः पितामहः॥ १४ ॥

मूलम्

द्विजातिसामशब्देन नादिताऽऽनन्ददायिनी
तस्यां निविष्टो देवेशस्सन्ध्यासक्तः पितामहः॥ १४ ॥

विश्वास-प्रस्तुतिः

ध्यायति स्म परं देवं येनेदं निर्मितं जगत्
ध्यायतो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहम्॥ १५ ॥

मूलम्

ध्यायति स्म परं देवं येनेदं निर्मितं जगत्
ध्यायतो बुद्धिरुत्पन्ना कथं यज्ञं करोम्यहम्॥ १५ ॥

विश्वास-प्रस्तुतिः

कस्मिन्स्थाने मया यज्ञः कार्यः कुत्र धरातले
काशीप्रयागस्तुङ्गा च नैमिषं शृङ्खलं तथा॥ १६ ॥

मूलम्

कस्मिन्स्थाने मया यज्ञः कार्यः कुत्र धरातले
काशीप्रयागस्तुङ्गा च नैमिषं शृङ्खलं तथा॥ १६ ॥

विश्वास-प्रस्तुतिः

काञ्ची भद्रा देविका च कुरुक्षेत्रं सरस्वती
प्रभासादीनि तीर्थानि पृथिव्यामिह मध्यतः॥ १७ ॥

मूलम्

काञ्ची भद्रा देविका च कुरुक्षेत्रं सरस्वती
प्रभासादीनि तीर्थानि पृथिव्यामिह मध्यतः॥ १७ ॥

विश्वास-प्रस्तुतिः

क्षेत्राणि पुण्यतीर्थानि सन्ति यानीह सर्वशः
मदादेशाच्च रुद्रेण कृतान्यन्यानि भूतले॥ १८ ॥

मूलम्

क्षेत्राणि पुण्यतीर्थानि सन्ति यानीह सर्वशः
मदादेशाच्च रुद्रेण कृतान्यन्यानि भूतले॥ १८ ॥

विश्वास-प्रस्तुतिः

यथाहं सर्वदेवेषु आदिदेवो व्यवस्थितः
तथा चैकं परं तीर्थमादिभूतं करोम्यहम्॥ १९ ॥

मूलम्

यथाहं सर्वदेवेषु आदिदेवो व्यवस्थितः
तथा चैकं परं तीर्थमादिभूतं करोम्यहम्॥ १९ ॥

विश्वास-प्रस्तुतिः

अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजम्
पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः॥ २० ॥

मूलम्

अहं यत्र समुत्पन्नः पद्मं तद्विष्णुनाभिजम्
पुष्करं प्रोच्यते तीर्थमृषिभिर्वेदपाठकैः॥ २० ॥

विश्वास-प्रस्तुतिः

एवं चिन्तयतस्तस्य ब्रह्मणस्तु प्रजापतेः
मतिरेषा समुत्पन्ना व्रजाम्येष धरातले॥ २१ ॥

मूलम्

एवं चिन्तयतस्तस्य ब्रह्मणस्तु प्रजापतेः
मतिरेषा समुत्पन्ना व्रजाम्येष धरातले॥ २१ ॥

विश्वास-प्रस्तुतिः

प्राक्स्थानं स समासाद्य प्रविष्टस्तद्वनोत्तमम्
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्॥ २२ ॥

मूलम्

प्राक्स्थानं स समासाद्य प्रविष्टस्तद्वनोत्तमम्
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्॥ २२ ॥

विश्वास-प्रस्तुतिः

नानापक्षिरवाकीर्णं नानामृगगणाकुलम्
द्रुमपुष्पभरामोदैर्वासयद्यत्सुरासुरान्॥ २३ ॥

मूलम्

नानापक्षिरवाकीर्णं नानामृगगणाकुलम्
द्रुमपुष्पभरामोदैर्वासयद्यत्सुरासुरान्॥ २३ ॥

विश्वास-प्रस्तुतिः

बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्
नानागन्धरसैः पक्वापक्वैश्च षडृतूद्भवैः॥ २४ ॥

मूलम्

बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्
नानागन्धरसैः पक्वापक्वैश्च षडृतूद्भवैः॥ २४ ॥

विश्वास-प्रस्तुतिः

फलैः सुवर्णरूपाढ्यैर्घ्राणदृष्टिमनोहरैः
जीर्णं पत्रं तृणं यत्र शुष्ककाष्ठफलानि च॥ २५ ॥

मूलम्

फलैः सुवर्णरूपाढ्यैर्घ्राणदृष्टिमनोहरैः
जीर्णं पत्रं तृणं यत्र शुष्ककाष्ठफलानि च॥ २५ ॥

विश्वास-प्रस्तुतिः

बहिः क्षिपति जातानि मारुतोनुग्रहादिव
नानापुष्पसमूहानां गन्धमादाय मारुतः॥ २६ ॥

मूलम्

बहिः क्षिपति जातानि मारुतोनुग्रहादिव
नानापुष्पसमूहानां गन्धमादाय मारुतः॥ २६ ॥

विश्वास-प्रस्तुतिः

शीतलो वाति खं भूमिं दिशो यत्राभिवासयन्
हरितस्निग्ध निश्छिद्रैरकीटकवनोत्कटैः॥ २७ ॥

मूलम्

शीतलो वाति खं भूमिं दिशो यत्राभिवासयन्
हरितस्निग्ध निश्छिद्रैरकीटकवनोत्कटैः॥ २७ ॥

विश्वास-प्रस्तुतिः

वृक्षैरनेकसञ्ज्ञैर्यद्भूषितं शिखरान्वितैः
अरोगैर्दर्शनीयैश्च सुवृत्तैः कैश्चिदुज्ज्वलैः॥ २८ ॥

मूलम्

वृक्षैरनेकसञ्ज्ञैर्यद्भूषितं शिखरान्वितैः
अरोगैर्दर्शनीयैश्च सुवृत्तैः कैश्चिदुज्ज्वलैः॥ २८ ॥

विश्वास-प्रस्तुतिः

कुटुम्बमिव विप्राणामृत्विग्भिर्भाति सर्वतः
शोभन्ते धातुसङ्काशैरङ्कुरैः प्रावृता द्रुमाः॥ २९ ॥

मूलम्

कुटुम्बमिव विप्राणामृत्विग्भिर्भाति सर्वतः
शोभन्ते धातुसङ्काशैरङ्कुरैः प्रावृता द्रुमाः॥ २९ ॥

विश्वास-प्रस्तुतिः

कुलीनैरिव निश्छिद्रैः स्वगुणैः प्रावृता नराः
पवनाविद्धशिखरैः स्पृशन्तीव परस्परम्॥ ३० ॥

मूलम्

कुलीनैरिव निश्छिद्रैः स्वगुणैः प्रावृता नराः
पवनाविद्धशिखरैः स्पृशन्तीव परस्परम्॥ ३० ॥

विश्वास-प्रस्तुतिः

आजिघ्रन्ती वचाऽन्योन्यं पुष्पशाखावतंसकाः
नागवृक्षाः क्वचित्पुष्पैर्द्रुमवानीरकेसरैः॥ ३१ ॥

मूलम्

आजिघ्रन्ती वचाऽन्योन्यं पुष्पशाखावतंसकाः
नागवृक्षाः क्वचित्पुष्पैर्द्रुमवानीरकेसरैः॥ ३१ ॥

विश्वास-प्रस्तुतिः

नयनैरिव शोभन्ते चञ्चलैः कृष्णतारकैः
पुष्पसम्पन्नशिखराः कर्णिकारद्रुमाः क्वचित्॥ ३२ ॥

मूलम्

नयनैरिव शोभन्ते चञ्चलैः कृष्णतारकैः
पुष्पसम्पन्नशिखराः कर्णिकारद्रुमाः क्वचित्॥ ३२ ॥

विश्वास-प्रस्तुतिः

युग्मयुग्माद्विधा चेह शोभन्त इव दम्पती
सुपुष्पप्रभवाटोपैस्सिन्दुवार द्रुपङ्क्तयः॥ ३३ ॥

मूलम्

युग्मयुग्माद्विधा चेह शोभन्त इव दम्पती
सुपुष्पप्रभवाटोपैस्सिन्दुवार द्रुपङ्क्तयः॥ ३३ ॥

विश्वास-प्रस्तुतिः

मूर्तिमत्य इवाभान्ति पूजिता वनदेवताः
क्वचित्क्वचित्कुन्दलताः सपुष्पाभरणोज्वलाः॥ ३४ ॥

मूलम्

मूर्तिमत्य इवाभान्ति पूजिता वनदेवताः
क्वचित्क्वचित्कुन्दलताः सपुष्पाभरणोज्वलाः॥ ३४ ॥

विश्वास-प्रस्तुतिः

दिक्षु वृक्षेषु शोभन्ते बालचन्द्रा इवोच्छ्रिताः
सर्जार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः॥ ३५ ॥

मूलम्

दिक्षु वृक्षेषु शोभन्ते बालचन्द्रा इवोच्छ्रिताः
सर्जार्जुनाः क्वचिद्भान्ति वनोद्देशेषु पुष्पिताः॥ ३५ ॥

विश्वास-प्रस्तुतिः

धौतकौशेयवासोभिः प्रावृताः पुरुषा इव
अतिमुक्तकवल्लीभिः पुष्पिताभिस्तथा द्रुमाः॥ ३६ ॥

मूलम्

धौतकौशेयवासोभिः प्रावृताः पुरुषा इव
अतिमुक्तकवल्लीभिः पुष्पिताभिस्तथा द्रुमाः॥ ३६ ॥

विश्वास-प्रस्तुतिः

उपगूढा विराजन्ते स्वनारीभिरिव प्रियाः
अपरस्परसंसक्तैः सालाशोकाश्च पल्लवैः॥ ३७ ॥

मूलम्

उपगूढा विराजन्ते स्वनारीभिरिव प्रियाः
अपरस्परसंसक्तैः सालाशोकाश्च पल्लवैः॥ ३७ ॥

विश्वास-प्रस्तुतिः

हस्तैर्हस्तान्स्पृशन्तीव सुहृदश्चिरसङ्गताः
फलपुष्पभरानम्राः पनसाः सरलार्जुनाः॥ ३८ ॥

मूलम्

हस्तैर्हस्तान्स्पृशन्तीव सुहृदश्चिरसङ्गताः
फलपुष्पभरानम्राः पनसाः सरलार्जुनाः॥ ३८ ॥

विश्वास-प्रस्तुतिः

अन्योन्यमर्चयन्तीव पुष्पैश्चैव फलैस्तथा
मारुतावेगसंश्लिष्टैः पादपास्सालबाहुभिः॥ ३९ ॥

मूलम्

अन्योन्यमर्चयन्तीव पुष्पैश्चैव फलैस्तथा
मारुतावेगसंश्लिष्टैः पादपास्सालबाहुभिः॥ ३९ ॥

विश्वास-प्रस्तुतिः

अभ्याशमागतं लोकं प्रतिभावैरिवोत्थिताः
पुष्पाणामवरोधेन सुशोभार्थं निवेशिताः॥ ४० ॥

मूलम्

अभ्याशमागतं लोकं प्रतिभावैरिवोत्थिताः
पुष्पाणामवरोधेन सुशोभार्थं निवेशिताः॥ ४० ॥

विश्वास-प्रस्तुतिः

वसन्तमहमासाद्य पुरुषान्स्पर्द्धयन्ति हि
पुष्पशोभाभरनतैः शिखरैर्वायुकम्पितैः॥ ४१ ॥

मूलम्

वसन्तमहमासाद्य पुरुषान्स्पर्द्धयन्ति हि
पुष्पशोभाभरनतैः शिखरैर्वायुकम्पितैः॥ ४१ ॥

विश्वास-प्रस्तुतिः

नृत्यन्तीव नराः प्रीताः स्रगलङ्कृतशेखराः
शृङ्गाग्रपवनक्षिप्ताः पुष्पावलियुता द्रुमाः॥ ४२ ॥

मूलम्

नृत्यन्तीव नराः प्रीताः स्रगलङ्कृतशेखराः
शृङ्गाग्रपवनक्षिप्ताः पुष्पावलियुता द्रुमाः॥ ४२ ॥

विश्वास-प्रस्तुतिः

सवल्लीकाः प्रनृत्यन्ति मानवा इव सप्रियाः
स्वपुष्पनतवल्लीभिः पादपाः क्वचिदावृताः॥ ४३ ॥

मूलम्

सवल्लीकाः प्रनृत्यन्ति मानवा इव सप्रियाः
स्वपुष्पनतवल्लीभिः पादपाः क्वचिदावृताः॥ ४३ ॥

विश्वास-प्रस्तुतिः

भान्ति तारागणैश्चित्रैः शरदीव नभस्तलम्
द्रुमाणामथवाग्रेषु पुष्पिता मालती लताः॥ ४४ ॥

मूलम्

भान्ति तारागणैश्चित्रैः शरदीव नभस्तलम्
द्रुमाणामथवाग्रेषु पुष्पिता मालती लताः॥ ४४ ॥

विश्वास-प्रस्तुतिः

शेखराइव शोभन्ते रचिता बुद्धिपूर्वकम्
हरिताः काञ्चनच्छायाः फलिताः पुष्पिता द्रुमाः॥ ४५ ॥

मूलम्

शेखराइव शोभन्ते रचिता बुद्धिपूर्वकम्
हरिताः काञ्चनच्छायाः फलिताः पुष्पिता द्रुमाः॥ ४५ ॥

विश्वास-प्रस्तुतिः

सौहृदं दर्शयन्तीव नराः साधुसमागमे
पुष्पकिञ्जल्ककपिला गताः सर्वदिशासु च॥ ४६ ॥

मूलम्

सौहृदं दर्शयन्तीव नराः साधुसमागमे
पुष्पकिञ्जल्ककपिला गताः सर्वदिशासु च॥ ४६ ॥

विश्वास-प्रस्तुतिः

कदम्बपुष्पस्य जयं घोषयन्तीव षट्पदाः
क्वचित्पुष्पासवक्षीबाः सम्पतन्ति ततस्ततः॥ ४७ ॥

मूलम्

कदम्बपुष्पस्य जयं घोषयन्तीव षट्पदाः
क्वचित्पुष्पासवक्षीबाः सम्पतन्ति ततस्ततः॥ ४७ ॥

विश्वास-प्रस्तुतिः

पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः
शिरीषपुष्पसङ्काशाः शुका मिथुनशः क्वचित्॥ ४८ ॥

मूलम्

पुंस्कोकिलगणावृक्ष गहनेष्विव सप्रियाः
शिरीषपुष्पसङ्काशाः शुका मिथुनशः क्वचित्॥ ४८ ॥

विश्वास-प्रस्तुतिः

कीर्तयन्ति गिरश्चित्राः पूजिता ब्राह्मणा यथा
सहचारिसुसंयुक्ता मयूराश्चित्रबर्हिणः॥ ४९ ॥

मूलम्

कीर्तयन्ति गिरश्चित्राः पूजिता ब्राह्मणा यथा
सहचारिसुसंयुक्ता मयूराश्चित्रबर्हिणः॥ ४९ ॥

विश्वास-प्रस्तुतिः

वनान्तेष्वपि नृत्यन्ति शोभन्त इव नर्त्तकाः
कूजन्तःपक्षिसङ्घाता नानारुतविराविणः५० 1.15.50
कुर्वन्ति रमणीयं वै रमणीयतरं वनम्
नानामृगगणाकीर्णं नित्यं प्रमुदिताण्डजम्॥ ५१ ॥

मूलम्

वनान्तेष्वपि नृत्यन्ति शोभन्त इव नर्त्तकाः
कूजन्तःपक्षिसङ्घाता नानारुतविराविणः५० 1.15.50
कुर्वन्ति रमणीयं वै रमणीयतरं वनम्
नानामृगगणाकीर्णं नित्यं प्रमुदिताण्डजम्॥ ५१ ॥

विश्वास-प्रस्तुतिः

तद्वनं नन्दनसमं मनोदृष्टिविवर्द्धनम्
पद्मयोनिस्तु भगवांस्तथा रूपं वनोत्तमम्॥ ५२ ॥

मूलम्

तद्वनं नन्दनसमं मनोदृष्टिविवर्द्धनम्
पद्मयोनिस्तु भगवांस्तथा रूपं वनोत्तमम्॥ ५२ ॥

विश्वास-प्रस्तुतिः

ददर्शादर्शवद्दृष्ट्या सौम्ययापा पयन्निव
ता वृक्षपङ्क्तयः सर्वा दृष्ट्वा देवं तथागतम्॥ ५३ ॥

मूलम्

ददर्शादर्शवद्दृष्ट्या सौम्ययापा पयन्निव
ता वृक्षपङ्क्तयः सर्वा दृष्ट्वा देवं तथागतम्॥ ५३ ॥

विश्वास-प्रस्तुतिः

निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसम्पदः
पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः॥ ५४ ॥

मूलम्

निवेद्य ब्रह्मणे भक्त्या मुमुचुः पुष्पसम्पदः
पुष्पप्रतिग्रहं कृत्वा पादपानां पितामहः॥ ५४ ॥

विश्वास-प्रस्तुतिः

वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः
एवमुक्ता भगवता तरवो निरवग्रहाः॥ ५५ ॥

मूलम्

वरं वृणीध्वं भद्रं वः पादपानित्युवाच सः
एवमुक्ता भगवता तरवो निरवग्रहाः॥ ५५ ॥

विश्वास-प्रस्तुतिः

ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा विरिञ्चनम्
वरं ददासि चेद्देव प्रपन्नजनवत्सल॥ ५६ ॥

मूलम्

ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा विरिञ्चनम्
वरं ददासि चेद्देव प्रपन्नजनवत्सल॥ ५६ ॥

विश्वास-प्रस्तुतिः

इहैव भगवन्नित्यं वने सन्निहितो भव
एष नः परमः कामः पितामह नमोस्तु ते॥ ५७ ॥

मूलम्

इहैव भगवन्नित्यं वने सन्निहितो भव
एष नः परमः कामः पितामह नमोस्तु ते॥ ५७ ॥

विश्वास-प्रस्तुतिः

त्वं चेद्वससि देवेश वनेस्मिन्विश्वभावन
सर्वात्मना प्रपन्नानां वाञ्छतामुत्तमं वरम्॥ ५८ ॥

मूलम्

त्वं चेद्वससि देवेश वनेस्मिन्विश्वभावन
सर्वात्मना प्रपन्नानां वाञ्छतामुत्तमं वरम्॥ ५८ ॥

विश्वास-प्रस्तुतिः

वरकोटिभिरन्याभिरलं नो दीयतां वरम्
सन्निधानेन तीर्थेभ्य इदं स्यात्प्रवरं महत्॥ ५९ ॥

मूलम्

वरकोटिभिरन्याभिरलं नो दीयतां वरम्
सन्निधानेन तीर्थेभ्य इदं स्यात्प्रवरं महत्॥ ५९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच
उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति
नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः॥ ६० ॥

मूलम्

ब्रह्मोवाच
उत्तमं सर्वक्षेत्राणां पुण्यमेतद्भविष्यति
नित्यं पुष्पफलोपेता नित्यसुस्थिरयौवनाः॥ ६० ॥

विश्वास-प्रस्तुतिः

कामगाः कामरूपाश्च कामरूपफलप्रदाः
कामसन्दर्शनाः पुंसां तपःसिद्ध्युज्वला नृणाम्॥ ६१ ॥

मूलम्

कामगाः कामरूपाश्च कामरूपफलप्रदाः
कामसन्दर्शनाः पुंसां तपःसिद्ध्युज्वला नृणाम्॥ ६१ ॥

विश्वास-प्रस्तुतिः

श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ
एवं स वरदो ब्रह्मा अनुजग्राह पादपान्॥ ६२ ॥

मूलम्

श्रिया परमया युक्ता मत्प्रसादाद्भविष्यथ
एवं स वरदो ब्रह्मा अनुजग्राह पादपान्॥ ६२ ॥

विश्वास-प्रस्तुतिः

स्थित्वा वर्ष सहस्रं तु पुष्करं प्रक्षिपद्भुवि
क्षितिर्निपतिता तेन व्यकम्पत रसातलम्॥ ६३ ॥

मूलम्

स्थित्वा वर्ष सहस्रं तु पुष्करं प्रक्षिपद्भुवि
क्षितिर्निपतिता तेन व्यकम्पत रसातलम्॥ ६३ ॥

विश्वास-प्रस्तुतिः

विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः
शक्राशनि हतानीव व्याघ्र व्याला वृतानि च॥ ६४ ॥

मूलम्

विवशास्तत्यजुर्वेलां सागराः क्षुभितोर्मयः
शक्राशनि हतानीव व्याघ्र व्याला वृतानि च॥ ६४ ॥

विश्वास-प्रस्तुतिः

शिखराण्यप्यशीर्यन्त पर्वतानां सहस्रशः
देवसिद्धविमानानि गन्धर्वनगराणि च॥ ६५ ॥

मूलम्

शिखराण्यप्यशीर्यन्त पर्वतानां सहस्रशः
देवसिद्धविमानानि गन्धर्वनगराणि च॥ ६५ ॥

विश्वास-प्रस्तुतिः

प्रचेलुर्बभ्रमुः पेतुर्विविशुश्च धरातलम्
कपोतमेघाः खात्पेतुः पुटसङ्घातदर्शिनः॥ ६६ ॥

मूलम्

प्रचेलुर्बभ्रमुः पेतुर्विविशुश्च धरातलम्
कपोतमेघाः खात्पेतुः पुटसङ्घातदर्शिनः॥ ६६ ॥

विश्वास-प्रस्तुतिः

ज्योतिर्गणांश्छादयन्तो बभूवुस्तीव्र भास्कराः
महता तस्य शब्देन मूकान्धबधिरीकृतम्॥ ६७ ॥

मूलम्

ज्योतिर्गणांश्छादयन्तो बभूवुस्तीव्र भास्कराः
महता तस्य शब्देन मूकान्धबधिरीकृतम्॥ ६७ ॥

विश्वास-प्रस्तुतिः

बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्
सुरासुराणां सर्वेषां शरीराणि मनांसि च॥ ६८ ॥

मूलम्

बभूव व्याकुलं सर्वं त्रैलोक्यं सचराचरम्
सुरासुराणां सर्वेषां शरीराणि मनांसि च॥ ६८ ॥

विश्वास-प्रस्तुतिः

अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे
धैर्यमालम्ब्य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्॥ ६९ ॥

मूलम्

अवसेदुश्च किमिति किमित्येतन्न जज्ञिरे
धैर्यमालम्ब्य सर्वेऽथ ब्रह्माणं चाप्यलोकयन्॥ ६९ ॥

विश्वास-प्रस्तुतिः

न च ते तमपश्यन्त कुत्र ब्रह्मागतो ह्यभूत्
किमर्थं कम्पिता भूमिर्निमित्तोत्पातदर्शनम्॥ ७० ॥

मूलम्

न च ते तमपश्यन्त कुत्र ब्रह्मागतो ह्यभूत्
किमर्थं कम्पिता भूमिर्निमित्तोत्पातदर्शनम्॥ ७० ॥

विश्वास-प्रस्तुतिः

तावद्विष्णुर्गतस्तत्र यत्र देवा व्यवस्थिताः
प्रणिपत्य इदं वाक्यमुक्तवन्तो दिवौकसः॥ ७१ ॥

मूलम्

तावद्विष्णुर्गतस्तत्र यत्र देवा व्यवस्थिताः
प्रणिपत्य इदं वाक्यमुक्तवन्तो दिवौकसः॥ ७१ ॥

विश्वास-प्रस्तुतिः

किमेतद्भगवन्ब्रूहि निमित्तोत्पातदर्शनम्
त्रैलोक्यं कम्पितं येन संयुक्तं कालधर्मणा॥ ७२ ॥

मूलम्

किमेतद्भगवन्ब्रूहि निमित्तोत्पातदर्शनम्
त्रैलोक्यं कम्पितं येन संयुक्तं कालधर्मणा॥ ७२ ॥

विश्वास-प्रस्तुतिः

जातकल्पावसानं तु भिन्नमर्यादसागरम्
चत्वारो दिग्गजाः किं तु बभूवुरचलाश्चलाः॥ ७३ ॥

मूलम्

जातकल्पावसानं तु भिन्नमर्यादसागरम्
चत्वारो दिग्गजाः किं तु बभूवुरचलाश्चलाः॥ ७३ ॥

विश्वास-प्रस्तुतिः

समावृता धरा कस्मात्सप्तसागरवारिणा
उत्पत्तिर्नास्ति शब्दस्य भगवन्निः प्रयोजना॥ ७४ ॥

मूलम्

समावृता धरा कस्मात्सप्तसागरवारिणा
उत्पत्तिर्नास्ति शब्दस्य भगवन्निः प्रयोजना॥ ७४ ॥

विश्वास-प्रस्तुतिः

यादृशो वा स्मृतः शब्दो न भूतो न भविष्यति
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण चोद्यता॥ ७५ ॥

मूलम्

यादृशो वा स्मृतः शब्दो न भूतो न भविष्यति
त्रैलोक्यमाकुलं येन चक्रे रौद्रेण चोद्यता॥ ७५ ॥

विश्वास-प्रस्तुतिः

शुभोऽशुभो वा शब्दोरेयं त्रैलोक्यस्य दिवौकसाम्
भगवन्यदि जानासि किमेतत्कथयस्व नः॥ ७६ ॥

मूलम्

शुभोऽशुभो वा शब्दोरेयं त्रैलोक्यस्य दिवौकसाम्
भगवन्यदि जानासि किमेतत्कथयस्व नः॥ ७६ ॥

विश्वास-प्रस्तुतिः

एवमुक्तोऽब्रवीद्विष्णुः परमेणानुभावितः
मा भैष्ट मरुतः सर्वे शृणुध्वं चात्र कारणम्॥ ७७ ॥

मूलम्

एवमुक्तोऽब्रवीद्विष्णुः परमेणानुभावितः
मा भैष्ट मरुतः सर्वे शृणुध्वं चात्र कारणम्॥ ७७ ॥

विश्वास-प्रस्तुतिः

निश्चयेनानुविज्ञाय वक्ष्याम्येष यथाविधम्
पद्महस्तो हि भगवान्ब्रह्मा लोकपितामहः॥ ७८ ॥

मूलम्

निश्चयेनानुविज्ञाय वक्ष्याम्येष यथाविधम्
पद्महस्तो हि भगवान्ब्रह्मा लोकपितामहः॥ ७८ ॥

विश्वास-प्रस्तुतिः

भूप्रदेशे पुण्यराशौ यज्ञं कर्तुं व्यवस्थितः
अवरोहे पर्वतानां वने चातीवशोभने॥ ७९ ॥

मूलम्

भूप्रदेशे पुण्यराशौ यज्ञं कर्तुं व्यवस्थितः
अवरोहे पर्वतानां वने चातीवशोभने॥ ७९ ॥

विश्वास-प्रस्तुतिः

कमलं तस्य हस्तात्तु पतितं धरणीतले
तस्य शब्दो महानेष येन यूयं प्रकम्पिताः॥ ८० ॥

मूलम्

कमलं तस्य हस्तात्तु पतितं धरणीतले
तस्य शब्दो महानेष येन यूयं प्रकम्पिताः॥ ८० ॥

विश्वास-प्रस्तुतिः

तत्रासौ तरुवृन्देन पुष्पामोदाभिनन्दितः
अनुगृह्याथ भगवान्वनन्तत्समृगाण्डजम्॥ ८१ ॥

मूलम्

तत्रासौ तरुवृन्देन पुष्पामोदाभिनन्दितः
अनुगृह्याथ भगवान्वनन्तत्समृगाण्डजम्॥ ८१ ॥

विश्वास-प्रस्तुतिः

जगतोऽनुग्रहार्थाय वासं तत्रान्वरोचयत्
पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च॥ ८२ ॥

मूलम्

जगतोऽनुग्रहार्थाय वासं तत्रान्वरोचयत्
पुष्करं नाम तत्तीर्थं क्षेत्रं वृषभमेव च॥ ८२ ॥

विश्वास-प्रस्तुतिः

जनितं तद्भगवता लोकानां हितकारिणा
ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह॥ ८३ ॥

मूलम्

जनितं तद्भगवता लोकानां हितकारिणा
ब्रह्माणं तत्र वै गत्वा तोषयध्वं मया सह॥ ८३ ॥

विश्वास-प्रस्तुतिः

आराध्यमानो भगवान्प्रदास्यति वरान्वरान्
इत्युक्त्वा भगवान्विष्णुः सह तैर्देवदानवैः॥ ८४ ॥

मूलम्

आराध्यमानो भगवान्प्रदास्यति वरान्वरान्
इत्युक्त्वा भगवान्विष्णुः सह तैर्देवदानवैः॥ ८४ ॥

विश्वास-प्रस्तुतिः

जगाम तद्वनोद्देशं यत्रास्ते स तु कञ्जजः
प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः॥ ८५ ॥

मूलम्

जगाम तद्वनोद्देशं यत्रास्ते स तु कञ्जजः
प्रहृष्टास्तुष्टमनसः कोकिलालापलापिताः॥ ८५ ॥

विश्वास-प्रस्तुतिः

पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनम्
सम्प्राप्तं सर्वदेवैस्तु वनं नन्दनसम्मितम्॥ ८६ ॥

मूलम्

पुष्पोच्चयोज्ज्वलं शस्तं विविशुर्ब्रह्मणो वनम्
सम्प्राप्तं सर्वदेवैस्तु वनं नन्दनसम्मितम्॥ ८६ ॥

विश्वास-प्रस्तुतिः

पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम्॥ ८७ ॥

मूलम्

पद्मिनीमृगपुष्पाढ्यं सुदृढं शुशुभे तदा
प्रविश्याथ वनं देवाः सर्वपुष्पोपशोभितम्॥ ८७ ॥

विश्वास-प्रस्तुतिः

इह देवोस्तीति देवा बभ्रमुश्च दिदृक्षवः
मृगयन्तस्ततस्ते तु सर्वे देवाः सवासवाः॥ ८८ ॥

मूलम्

इह देवोस्तीति देवा बभ्रमुश्च दिदृक्षवः
मृगयन्तस्ततस्ते तु सर्वे देवाः सवासवाः॥ ८८ ॥

विश्वास-प्रस्तुतिः

अद्भुतस्य वनस्यान्तं न ते ददृशुराशुगाः
विचिन्वद्भिस्तदा देवं दैवैर्वायुर्विलोकितः॥ ८९ ॥

मूलम्

अद्भुतस्य वनस्यान्तं न ते ददृशुराशुगाः
विचिन्वद्भिस्तदा देवं दैवैर्वायुर्विलोकितः॥ ८९ ॥

विश्वास-प्रस्तुतिः

स तानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना
तदा खिन्ना विचिन्वन्तस्तस्मिन्पर्वतरोधसि॥ ९० ॥

मूलम्

स तानुवाच ब्रह्माणं न द्रक्ष्यथ तपो विना
तदा खिन्ना विचिन्वन्तस्तस्मिन्पर्वतरोधसि॥ ९० ॥

विश्वास-प्रस्तुतिः

दक्षिणे चोत्तरे चैव अन्तराले पुनः पुनः
वायूक्तं हृदये कृत्वा वायुस्तानब्रवीत्पुनः॥ ९१ ॥

मूलम्

दक्षिणे चोत्तरे चैव अन्तराले पुनः पुनः
वायूक्तं हृदये कृत्वा वायुस्तानब्रवीत्पुनः॥ ९१ ॥

विश्वास-प्रस्तुतिः

त्रिविधो दर्शनोपायो विरिञ्चेरस्य सर्वदा
श्रद्धा ज्ञानेन तपसा योगेन च निगद्यते॥ ९२ ॥

मूलम्

त्रिविधो दर्शनोपायो विरिञ्चेरस्य सर्वदा
श्रद्धा ज्ञानेन तपसा योगेन च निगद्यते॥ ९२ ॥

विश्वास-प्रस्तुतिः

सकलं निष्कलं चैव देवं पश्यन्ति योगिनः
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्॥ ९३ ॥

मूलम्

सकलं निष्कलं चैव देवं पश्यन्ति योगिनः
तपस्विनस्तु सकलं ज्ञानिनो निष्कलं परम्॥ ९३ ॥

विश्वास-प्रस्तुतिः

समुत्पन्ने तु विज्ञाने मन्दश्रद्धो न पश्यति
भक्त्या परमया क्षिप्रं ब्रह्म पश्यन्ति योगिनः॥ ९४ ॥

मूलम्

समुत्पन्ने तु विज्ञाने मन्दश्रद्धो न पश्यति
भक्त्या परमया क्षिप्रं ब्रह्म पश्यन्ति योगिनः॥ ९४ ॥

विश्वास-प्रस्तुतिः

द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः
कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम्॥ ९५ ॥

मूलम्

द्रष्टव्यो निर्विकारोऽसौ प्रधानपुरुषेश्वरः
कर्मणा मनसा वाचा नित्ययुक्ताः पितामहम्॥ ९५ ॥

विश्वास-प्रस्तुतिः

तपश्चरत भद्रं वो ब्रह्माराधनतत्पराः
ब्राह्मीं दीक्षां प्रपन्नानां भक्तानां च द्विजन्मनाम्॥ ९६ ॥

मूलम्

तपश्चरत भद्रं वो ब्रह्माराधनतत्पराः
ब्राह्मीं दीक्षां प्रपन्नानां भक्तानां च द्विजन्मनाम्॥ ९६ ॥

विश्वास-प्रस्तुतिः

सर्वकालं स जानाति दातव्यं दर्शनं मया
वायोस्तु वचनं श्रुत्वा हितमेतदवेत्य च॥ ९७ ॥

मूलम्

सर्वकालं स जानाति दातव्यं दर्शनं मया
वायोस्तु वचनं श्रुत्वा हितमेतदवेत्य च॥ ९७ ॥

विश्वास-प्रस्तुतिः

ब्रह्मेच्छाविष्टमतयो वाक्पतिं च ततोऽब्रुवन्
प्रज्ञानविबुधास्माकं ब्राह्मीं दीक्षां विधत्स्व नः॥ ९८ ॥

मूलम्

ब्रह्मेच्छाविष्टमतयो वाक्पतिं च ततोऽब्रुवन्
प्रज्ञानविबुधास्माकं ब्राह्मीं दीक्षां विधत्स्व नः॥ ९८ ॥

विश्वास-प्रस्तुतिः

स दिदीक्षयिषुः क्षिप्रममरान्ब्रह्मदीक्षया
वेदोक्तेन विधानेन दीक्षयामास तान्गुरुः॥ ९९ ॥

मूलम्

स दिदीक्षयिषुः क्षिप्रममरान्ब्रह्मदीक्षया
वेदोक्तेन विधानेन दीक्षयामास तान्गुरुः॥ ९९ ॥

विनीतवेषाः प्रणता अन्तेवासित्वमाययुः
ब्रह्मप्रसादं सम्प्राप्ताः पौष्करं ज्ञानमीरितम्१०० 1.15.100
यज्ञं चकार विधिना धिषणोध्वर्युसत्तमः
पद्मं कृत्वा मृणालाढ्यं पद्मदीक्षाप्रयोगतः१०१
अनुजग्राह देवांस्तान्सुरेच्छा प्रेरितो मुनिः
तेभ्यो ददौ विवेकिभ्यः स वेदोक्तावधानवित्१०२
दीक्षां वै विस्मयं त्यक्त्वा बृहस्पतिरुदारधीः
एकमग्निं च संस्कृत्य महात्मा त्रिदिवौकसाम्१०३
प्रादादाङ्गिरसस्तुष्टो जाप्यं वेदोदितं तु यत्
त्रिसुपर्णं त्रिमधु च पावमानीं च पावनीम्१०४
स हि जाप्यादिकं सर्वमशिक्षयदुदारधीः
आपो हिष्ठेति यत्स्नानं ब्राह्मं तत्परिपठ्यते१०५
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्
सिद्धिदं कीर्तिदं चैव कलिकल्मषनाशनम्१०६
तस्मात्सर्वप्रयत्नेन ब्राह्मस्नानं समाचरेत्
कुर्वन्तो मौनिनो दान्ता दीक्षिताः क्षपितेन्द्रियाः१०७
सर्वे कमण्डलुयुता मुक्तकक्षाक्षमालिनः
दण्डिनश्चीरवस्त्राश्च जटाभिरतिशोभिताः१०८
स्नानाचारासनरताः प्रयत्नध्यानधारिणः
मनो ब्रह्मणि संयोज्य नियताहारकाङ्क्षिणः१०९
अतिष्ठन्दर्शनालापसङ्गध्यानविवर्जिताः
एवं व्रतधराः सर्वे त्रिकालं स्नानकारिणः११०
भक्त्या परमया युक्ता विधिना परमेण च
कालेन महता ध्यानाद्देवज्ञानमनोगताः१११
ब्रह्मध्यानाग्निनिर्दग्धा यदा शुद्धैकमानसाः
अविर्बभूव भगवान्सर्वेषां दृष्टिगोचरः११२
तेजसाप्यायितास्तस्य बभूवुर्भ्रान्तचेतसः
ततोवलम्ब्य ते धैर्यमिष्टं देवं यथाविधि११३
षडङ्गवेदयोगेन हृष्टचित्तास्तु तत्पराः
शिरोगतैरञ्जलिभिः शिरोभिश्च महीं गताः११४
तुष्टुवुः सृष्टिकर्त्तारं स्थितिकर्तारमीश्वरम्
देवा ऊचुः
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायाऽजिताय च११५
नमस्कुर्मः सुनियताः क्रतुवेदप्रदायिने
लोकानुकम्पिने देव सृष्टिरूपाय वै नमः११६
भक्तानुकम्पिनेत्यर्थं वेदजाप्यस्तुताय च
बहुरूपस्वरूपाय रूपाणां शतधारिणे११७
सावित्रीपतये देव गायत्रीपतये नमः
पद्मासनाय पद्माय पद्मवक्त्राय ते नमः११८
वरदाय वरार्हाय कूर्माय च मृगाय च
जटामकुटयुक्ताय स्रुवस्रुचनिधारिणे११९
मृगाङ्कमृगधर्माय धर्मनेत्राय ते नमः
विश्वनाम्नेऽथ विश्वाय विश्वेशाय नमोनमः१२०
धर्मनेत्रत्राणमस्मादधिकं कर्तुमर्हसि
वाङ्मनःकायभावैस्त्वां प्रपन्नास्स्मः पितामह१२१
एवं स्तुतस्तदा देवैर्ब्रह्मा ब्रह्मविदां वरः
प्रदास्यामि स्मृतो बाढममोघं दर्शनं हि वः१२२
ब्रुवन्तु वाञ्छितं पुत्राः प्रदास्यामि वरान्वरान्
एवमुक्ता भगवता देवा वचनमब्रुवन्१२३
एष एवाद्य भगवन्सुपर्याप्तो महान्वरः
जनितो नः सुशब्दोयं कमलं क्षिपता त्वया१२४
किमर्थं कम्पिता भूमिर्लोकाश्चाकुलिताः कृताः
नैतन्निरर्थकं देव उच्यतामत्र कारणम्१२५
ब्रह्मोवाच
युष्मद्धितार्थमेतद्वै पद्मं विनिहितं मया
देवतानां च रक्षार्थं श्रूयतामत्र कारणम्१२६
असुरो वज्रनाभोऽयं बालजीवापहारकः
अवस्थितस्त्ववष्टभ्य रसातलतलाश्रयम्१२७
युष्मदागमनं ज्ञात्वा तपस्थान्निहितायुधान्
हन्तुकामो दुराचारः सेन्द्रानपि दिवौकसः१२८
घातः कमलपातेन मया तस्य विनिर्मितः
स राज्यैश्वर्यदर्पिष्टस्तेनासौ निहतो मया१२९
लोकेऽस्मिन्समये भक्ता ब्राह्मणा वेदपारगाः
मैव ते दुर्गतिं यान्तु लभन्तां सुगतिं पुनः१३०
देवानां दानवानां च मनुष्योरगरक्षसाम्
भूतग्रामस्य सर्वस्य समोस्मि त्रिदिवौकसः१३१
युष्मद्धितार्थं पापोऽसौ मया मन्त्रेण घातितः
प्राप्तः पुण्यकृतान्लोकान्कमलस्यास्य दर्शनात्१३२
यन्मया पद्ममुक्तं तु तेनेदं पुष्करं भुवि
ख्यातं भविष्यते तीर्थं पावनं पुण्यदं महत्१३३
पृथिव्यां सर्वजन्तूनां पुण्यदं परिपठ्यते
कृतो ह्यनुग्रहो देवा भक्तानां भक्तिमिच्छताम्१३४
वनेस्मिन्नित्यवासेन वृक्षैरभ्यर्थितेन च
महाकालो वनेऽत्रागादागतस्य ममानघाः१३५
तपस्यतां च भवतां महज्ज्ञानं प्रदर्शितम्
कुरुध्वं हृदये देवाः स्वार्थं चैव परार्थकम्१३६
भवद्भिर्दर्शनीयं तु नानारूपधरैर्भुवि
द्विषन्वै ज्ञानिनं विप्रं पापेनैवार्दितो नरः१३७
न विमुच्येत पापेन जन्मकोटिशतैरपि
वेदाङ्गपारगं विप्रं न हन्यान्न च दूषयेत्१३८
एकस्मिन्निहते यस्मात्कोटिर्भवति घातिता
एकं वेदान्तगं विप्रं भोजयेच्छ्रद्धयान्वितः१३९
तस्य भुक्ता भवेत्कोटिर्विप्राणां नात्र संशयः
यः पात्रपूरणीं भिक्षां यतीनां तु प्रयच्छति१४०
विमुक्तः सर्वपापेभ्यो नाऽसौ दुर्गतिमाप्नुयात्
यथाहं सर्वदेवानां ज्येष्ठः श्रेष्ठः पितामहः१४१
तथा ज्ञानी सदा पूज्यो निर्ममो निः परिग्रहः
संसारबन्धमोक्षार्थं ब्रह्मगुप्तमिदं व्रतम्१४२
मया प्रणीतं विप्राणामपुनर्भवकारणम्
अग्निहोत्रमुपादाय यस्त्यजेदजितेन्द्रियः१४३
रौरवं स प्रयात्याशु प्रणीतो यमकिङ्करैः
लोकयात्रावितण्डश्च क्षुद्रं कर्म करोति यः१४४
स रागचित्तः शृङ्गारी नारीजन धनप्रियः
एकभोजी सुमिष्टाशी कृषिवाणिज्यसेवकः१४५
अवेदो वेदनिन्दी च परभार्यां च सेवते
इत्यादिदोषदुष्टो यस्तस्य सम्भाषणादपि१४६
नरो नरकगामी स्याद्यश्च सद्व्रतदूषकः
असन्तुष्टं भिन्नचित्तं दुर्मतिं पापकारिणम्१४७
न स्पृशेदङ्गसङ्गेन स्पृष्ट्वा स्नानेन शुद्ध्यति
एवमुक्त्वा स भगवान्ब्रह्मा तैरमरैः सह१४८
क्षेत्रं निवेशयामास यथावत्कथयामि ते
उत्तरे चन्द्रनद्यास्तु प्राची यावत्सरस्वती१४९
पूर्वं तु नन्दनात्कृत्स्नं यावत्कल्पं सपुष्करम्
वेदी ह्येषा कृता यज्ञे ब्रह्मणा लोककारिणा१५० 1.15.150
ज्येष्ठं तु प्रथमं ज्ञेयं तीर्थं त्रैलोक्यपावनम्
ख्यातं तद्ब्रह्मदैवत्यं मध्यमं वैष्णवं तथा१५१
कनिष्ठं रुद्रदैवत्यं ब्रह्मपूर्वमकारयत्
आद्यमेतत्परं क्षेत्रं गुह्यं वेदेषु पठ्यते१५२
अरण्यं पुष्कराख्यं तु ब्रह्मा सन्निहितः प्रभुः
अनुग्रहो भूमिभागे कृतो वै ब्रह्मणा स्वयम्१५३
अनुग्रहार्थं विप्राणां सर्वेषां भूमिचारिणाम्
सुवर्णवज्रपर्यन्ता वेदिकाङ्का मही कृता१५४
विचित्रकुट्टिमारत्नैः कारिता सर्वशोभना
रमते तत्र भगवान्ब्रह्मा लोकपितामहः१५५
विष्णुरुद्रौ तथा देवौ वसवोप्पश्चिनावपि ?
मरुतश्च महेन्द्रेण रमन्ते च दिवौकसः१५६
एतत्ते तथ्यमाख्यातं लोकानुग्रहकारणम्
संहितानुक्रमेणात्र मन्त्रैश्च विधिपूर्वकम्१५७
वेदान्पठन्ति ये विप्रा गुरुशुश्रूषणे रताः
वसन्ति ब्रह्मसामीप्ये सर्वे तेनानुभाविताः१५८
भीष्म उवाच
भगवन्केन विधिना अरण्ये पुष्करे नरैः
ब्रह्मलोकमभीप्सद्भिर्वस्तव्यं क्षेत्रवासिभिः१५९
किं मनुष्यैरुतस्त्रीभिरुत वर्णाश्रमान्वितैः
वसद्भिः किमनुष्ठेयमेतत्सर्वं ब्रवीहि मे१६०
पुलस्त्य उवाच
नरैः स्त्रीभिश्च वस्तव्यं वर्णाश्रमनिवासिभिः
स्वधर्माचारनिरतैर्दम्भमोहविवर्जितैः१६१
कर्मणा मनसा वाचा ब्रह्मभक्तैर्जितेन्द्रियैः
अनसूयुभिरक्षुद्रैः सर्वभूतहिते रतैः१६२
भीष्म उवाच
किं कुर्वाणो नरः कर्म ब्रह्मभक्तस्त्विहोच्यते
कीदृशा ब्रह्मभक्ताश्च स्मृता नॄणां वदस्व मे१६३
पुलस्त्य उवाच
त्रिविधा भक्तिरुद्दिष्टा मनोवाक्कायसम्भवा
लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा१६४
ध्यानधारणया बुद्ध्या वेदार्थस्मरणे हि यत्
ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते१६५
मन्त्रवेदनमस्कारैरग्निश्राद्धादिचिन्तनैः
जाप्यैश्चावश्यकैश्चैव वाचिकी भक्तिरिष्यते१६६
व्रतोपवासनियतैश्चितेन्द्रियनिरोधिभिः
भूषणैर्हेमरत्नाढ्यैस्तथा चान्द्रायणादिभिः१६७
ब्रह्मकृच्छ्रोपवासैश्च तथाचान्यैः शुभव्रतैः
कायिकीभक्तिराख्याता त्रिविधा तु द्विजन्मनाम्१६८
गोघृतक्षीरदधिभिः रत्नदीपकुशोदकैः
गन्धैर्माल्यैश्च विविधैर्धातुभिश्चोपपादितैः१६९
घृतगुग्गुलुधूपैश्च कृष्णागरुसुगन्धिभिः
भूषणैर्हेमरत्नाढ्यैश्चित्राभिः स्रग्भिरेव च१७०
नृत्यवादित्रगीतैश्च सर्वरत्नोपहारकैः
भक्ष्यभोज्यान्नपानैश्च या पूजा क्रियते नरैः१७१
पितामहं समुद्दिश्य भक्तिस्सा लौकिकी मता
वेदमन्त्रहविर्योगैर्भक्तिर्या वैदिकी मता१७२
दर्शे वा पौर्णमास्यां वा कर्तव्यमग्निहोत्रकम्
प्रशस्तं दक्षिणादानं पुरोडाशं चरुक्रिया१७३
इष्टिर्धृतिः सोमपानां यज्ञीयं कर्म सर्वशः
ऋग्यजुःसामजाप्यानि संहिताध्ययनानि च१७४
क्रियन्ते विधिमुद्दिश्य सा भक्तिर्वैदिकीष्यते
अग्नि भूम्यनिलाकाशाम्बुनिशाकरभास्करम्१७५
समुद्दिश्य कृतं कर्म तत्सर्वं ब्रह्मदैवतम्
आध्यात्मिकी तु द्विविधा ब्रह्मभक्तिः स्थिता नृप१७६
सङ्ख्याख्या योगजा चान्या विभागं तत्र मे शृणु
चतुर्विंशतितत्वानि प्रधानादीनि सङ्ख्यया१७७
अचेतनानि भोग्यानि पुरुषः पञ्चविंशकः
चेतनः पुरुषो भोक्ता न कर्ता तस्य कर्मणः१७८
आत्मा नित्योऽव्ययश्चैव अधिष्ठाता प्रयोजकः
अव्यक्तः पुरुषो नित्यः कारणं च पितामहः१७९
तत्वसर्गो भावसर्गो भूतसर्गश्च तत्त्वतः
सङ्ख्यया परिसङ्ख्याय प्रधानं च गुणात्मकम्१८०
साधर्म्यमानमैश्वर्यं प्रधानं च विधर्मि च
कारणत्वं च ब्रह्मत्वं काम्यत्वमिदमुच्यते१८१
प्रयोज्यत्वं प्रधानस्य वैधर्म्यमिदमुच्यते
सर्वत्रकर्तृस्यद्ब्रह्मपुरुषस्याप्यकर्तृता१८२
चेतनत्वं प्रधाने च साधर्म्यमिदमुच्यते
तत्वान्तरं च तत्वानां कर्मकारणमेव च१८३
प्रयोजनं च नैयोज्यमैश्वर्यं तत्वसङ्ख्यया
सङ्ख्यास्तीत्युच्यते प्राज्ञैर्विनिश्चित्यार्थचिन्तकैः१८४
इति तत्वस्य सम्भारं तत्वसङ्ख्या च तत्वतः
ब्रह्मतत्वाधिकं चापि श्रुत्वा तत्वं विदुर्बुधाः१८५
साङ्ख्यकृद्भक्तिरेषा च सद्भिराध्यात्मिकी कृता
योगजामपि भक्तानां शृणु भक्तिं पितामहे१८६
प्राणायामपरो नित्यं ध्यानवान्नियतेन्द्रियः
भैक्ष्यभक्षी व्रती वापि सर्वप्रत्याहृतेन्द्रियः१८७
धारणं हृदये कुर्याद्ध्यायमानः प्रजेश्वरम्
हृत्पद्मकर्णिकासीनं रक्तवक्त्रं सुलोचनम्१८८
परितो द्योतितमुखं ब्रह्मसूत्रकटीतटम्
चतुर्वक्त्रं चतुर्बाहुं वरदाभयहस्तकम्१८९
योगजा मानसी सिद्धिर्ब्रह्मभक्तिः परा स्मृता
य एवं भक्तिमान्देवे ब्रह्मभक्तः स उच्यते१९०
वृत्तिं च शृणु राजेन्द्र या स्मृता क्षेत्रवासिनाम्
स्वयं देवेन विप्राणां विष्ण्वादीनां समागमे१९१
कथिता विस्तरात्पूर्वं सर्वेषां तत्र सन्निधौ
निर्ममा निरहङ्कारा निःसङ्गा निष्परिग्रहाः१९२
बन्धुवर्गे च निःस्नेहास्समलोष्टाश्मकाञ्चनाः
भूतानां कर्मभिर्नित्यैर्विविधैरभयप्रदाः१९३
प्राणायामपरा नित्यं परध्यानपरायणाः
याजिनः शुचयो नित्यं यतिधर्मपरायणाः१९४
साङ्ख्ययोगविधिज्ञाश्च धर्मज्ञाश्छिन्नसंशयाः
यजन्ते विधिनानेन ये विप्राः क्षेत्रवासिनः१९५
अरण्ये पौष्करे तेषां मृतानां सत्फलं शृणु
व्रजन्ति ते सुदुष्प्रापं ब्रह्मसायुज्यमक्षयम्१९६
यत्प्राप्य न पुनर्जन्म लभन्ते मृत्युदायकम्
पुनरावर्तनं हित्वा ब्राह्मीविद्यां समास्थिताः१९७
पुनरावृत्तिरन्येषां प्रपञ्चाश्रमवासिनाम्
गार्हस्थ्यविधिमाश्रित्य षट्कर्मनिरतः सदा१९८
जुहोति विधिना सम्यङ्मन्त्रैर्यज्ञे निमन्त्रितः
अधिकं फलमाप्नोति सर्वदुःखविवर्जितः१९९
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते
दिव्येनैश्वर्ययोगेन स्वारूढः सपरिग्रहः२०० 1.15.200
बालसूर्यप्रकाशेन विमानेन सुवर्चसा
वृतः स्त्रीणां सहस्रैस्तु स्वञ्च्छदगमनालयः२०१
विचरत्यनिवार्येण सर्वलोकान्यदृच्छया
स्पृहणीयतमः पुंसां सर्वधर्मोत्तमो धनी२०२
स्वर्गच्युतः प्रजायेत कुले महति रूपवान्
धर्मज्ञो धर्मभक्तश्च सर्वविद्यार्थपारगः२०३
तथैव ब्रह्मचर्येण गुरुशुश्रूषणेन च
वेदाध्ययनसंयुक्तो भैक्ष्यवृतिर्जितेन्द्रियः२०४
नित्यं सत्यव्रते युक्तः स्वधर्मेष्वप्रमादवान्
सर्वकामसमृद्धेन सर्वकामावलम्बिना२०५
सूर्येणेव द्वितीयेन विमानेनानिवारितः
गुह्यकानामब्रह्माख्य गणाः परमसम्मताः२०६
अप्रमेयबलैश्वर्या देवदानवपूजिताः
तेषां स समता याति तुल्यैश्वर्यसमन्वितः२०७
देवदानवमर्त्येषु भवत्यनियतायुधः
वर्षकोटिसहस्राणि वर्षकोटिशतानि च२०८
एवमैश्वर्यसंयुक्तो विष्णुलोके महीयते
उषित्वाऽसौ विभूत्यैवं यदा प्रच्यवते पुनः२०९
विष्णुलोकात्स्वकृत्येन स्वर्गस्थानेषु जायते२१०
पुष्करारण्यमासाद्य ब्रह्मचर्याश्रमे स्थितः
अभ्यासेन तु वेदानां वसति म्रियतेपि वा२११
मृतोऽसौ याति दिव्येन विमानेन स्वतेजसा
पूर्णचन्द्रप्रकाशेन शशिवत्प्रियदर्शनः२१२
रुद्रलोकं समासाद्य गुह्यकैः सह मोदते
ऐश्वर्यं महदाप्नोति सर्वस्य जगतः प्रभुः२१३
भुक्त्वा युगसहस्राणि रुद्रलोके महीयते
प्रच्युतस्तु पुनस्तस्माद्रुद्रलोकात्क्रमेण तु२१४
नित्यं प्रमुदितस्तत्र भुक्त्वा सुखमनामयम्
द्विजानां सदने दिव्ये कुले महति जायते२१५
मानुषेषु स धर्मात्मा सुरूपो वाक्पतिर्भवेत्
स्पृहणीयवपुः स्त्रीणाम्महाभोगपतिर्बली२१६
वानप्रस्थसमाचारी ग्राम्यौषधिविवर्जितः
सर्वलोकेषु चाप्यस्य गतिर्न प्रतिहन्यते२१७
शीर्णपर्णफलाहारः पुष्पमूलाम्बुभोजनः
कापोतेनाश्मकुट्टेन दन्तोलूखलिकेन च२१८
वृत्युपायेन जीवेत चीरवल्कलवाससा
जटीत्रिषवणस्नायी त्यक्तदोषस्तु दण्डवान्२१९
कृच्छ्रव्रतपरो यस्तु श्वपचो यदि वा परः
जलशायी पञ्चतपा वर्षास्वभ्रावगाहकः२२०
कीटकण्टकपाषाणभूम्यां तु शयनं तथा
स्थानवीरासनरतः संविभागी दृढव्रतः२२१
अरण्यौषधिभोक्ता च सर्वभूताभयप्रदः
नित्यं धर्मार्जनरतो जितक्रोधो जितेन्द्रियः२२२
ब्रह्मभक्तः क्षेत्रवासी पुष्करे वसते मुनिः
सर्वसङ्गपरित्यागी स्वारामो विगतस्पृहः२२३
यश्चात्र वसते भीष्म शृणु तस्यापि या गतिः
तरुणार्कप्रकाशेन वेदिकास्तम्भशोभिना२२४
ब्रह्मभक्तो विमानेन याति कामप्रचारिणाम्
विराजमानो नभसि द्वितीय इव चन्द्रमाः२२५
गीतवादित्रनृत्यज्ञैर्गन्धर्वाप्सरसाङ्गणैः
अप्सरोभिः समायुक्तो वर्षकोटिशतान्यसौ२२६
यस्य कस्यापि देवस्य लोकं यात्यनिवारितः
ब्रह्मणोऽनुग्रहेणैव तत्रतत्र विराजते२२७
ब्रह्मलोकाच्च्युतश्चापि विष्णुलोकं स गच्छति
विष्णुलोकात्परिभ्रष्टो रुद्रलोकं स गच्छति२२८
तस्मादपि च्युतः स्थानाद्द्वीपेषु स हि जायते
स्वर्गेषु च तथान्येषु भोगान्भुक्त्वा यथेप्सितान्२२९
भुक्त्वैश्वर्यं ततस्तेषु पुनर्मर्त्येषु जायते
राजा वा राजपुत्रो वा जायते धनवान्सुखी२३०
सुरूपः सुभगः कान्तः कीर्तिमान्भक्तिभावितः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वा क्षेत्रवासिनः२३१
स्वधर्मनिरता राजन्सुवृत्ताश्चिरजीविनः
सर्वात्मना ब्रह्मभक्ता भूतानुग्रहकारिणः२३२
पुष्करे तु महाक्षेत्रे ये वसन्ति मुमुक्षवः
मृतास्ते ब्रह्मभवनं विमानैर्यान्ति शोभनैः२३३
अप्सरोगणसङ्घुष्टैः कामगैः कामरूपिभिः
अथवा सर्वदीप्ताग्नौ स्वशरीरं जुहोति यः२३४
ब्रह्मध्यायी महासत्वस्स ब्रह्मभवनं व्रजेत्
ब्रह्मलोकोऽक्षयस्तस्य शाश्वतो विभवैः सह२३५
सर्वलोकोत्तमो रम्यो भवतीष्टार्थसाधकः
पुष्करे तु महापुण्ये प्राणान्ये सलिले त्यजन्२३६
तेषामप्यक्षयो भीष्म ब्रह्मलोको महात्मनाम्
साक्षात्पश्यन्ति ते देवं सर्वदुःखविनाशनम्२३७
सर्वामरयुतं देवं रुद्रविष्णुगणैर्युतम्
अनाशके मृताश्शूद्राः पुष्करे तु वने नराः२३८
हंसयुक्तैस्ततो यान्ति विमानैरर्कसप्रभैः
नानारत्नसुवर्णाढ्यैर्दृढैर्गन्धाधिवासितैः२३९
अनौपम्यगुणैरन्यैरप्सरोगीतनादितैः
पताकाध्वजविन्यस्तैर्नानाघण्टानिनादितैः२४०
बह्वाश्चर्यसमोपेतैः क्रीडाविज्ञानशालिभिः
सुप्रभैर्गुणसम्पन्नैर्मयूरवरवाहिभिः२४१
ब्रह्मलोके नरा धीरा रमन्ते नाशके मृताः
तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथेप्सितान्२४२
धनी विप्नकुले भोगी जायते मर्त्यमागतः
कारीषीं साधयेद्यस्तु पुष्करे तु वने नरः२४३
सर्वलोकान्परित्यज्य ब्रह्मलोकं स गच्छति
ब्रह्मलोके वसेत्तावद्यावत्कल्पक्षयो भवेत्२४४
नैव पश्यति मर्त्यं हि क्लिश्यमानं स्वकर्मभिः
गतिस्तस्याऽप्रतिहता तिर्यगूर्ध्वमधस्तथा२४५
स पूज्यः सर्वलोकेषु यशो विस्तारयन्वशी
सदाचारविधिप्रज्ञः सर्वेन्द्रिय मनोहरः२४६
नृत्यवादित्रगीतज्ञः सुभगः प्रियदर्शनः
नित्यमम्लानकुसुमो दिव्याभरणभूषितः२४७
नीलोत्पलदलश्यामो नीलकुञ्चितमूर्द्धजः
अजघन्याः सुमध्याश्च सर्वसौभाग्यपूरिताः२४८
सर्वैश्वर्यगुणोपेता यौवनेनातिगर्विताः
स्त्रियः सेवन्ति तत्रस्थाः शयने रमयन्ति च२४९
वीणावेणुनिनादैश्च सुप्तः सम्प्रतिबुध्यते
महोत्सवसुखं भुङ्क्ते दुःप्राप्यमकृतात्मभिः२५० 1.15.250
प्रसादाद्देवदेवस्य ब्रह्मणः शुभकारिणः
भीष्म उवाच
आचाराः परमा धर्माः क्षेत्रधर्मपरायणाः२५१
स्वधर्माचारनिरता जितक्रोधा जितेन्द्रियाः
ब्रह्मलोकं व्रजन्तीति नैतच्चित्रं मतं मम२५२
असंशयं च गच्छन्ति लोकानन्यानपि द्विजाः
विना पद्मोपवासेन तथैव नियमेन च२५३
स्त्रियो म्लेछाश्च शूद्राश्च पक्षिणः पशवो मृगाः
मूका जडान्धबधिरास्तपो नियमवर्जिताः२५४
तेषां वद गतिं विप्र पुष्करे ये त्ववस्थिताः
पुलस्त्य उवाच
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः२५५
पुष्करे तु मृता भीष्म ब्रह्मलोकं व्रजन्ति ते
शरीरैर्दिव्यरूपैस्तु विमानै रविसप्रभैः२५६
दिव्यव्यूहसमायुक्तैः सुवर्णवरकेतनैः
सुवर्णवज्रसोपानमणिस्तम्भविभूषितैः२५७
सर्वकामोपभोगाढ्यैः कामगैः कामरूपिभिः
नानारसाढ्यं गच्छन्ति स्त्रीसहस्रसमाकुलाः२५८
ब्रह्मलोकं महात्मानो लोकानन्यान्यथेप्सितान्
ब्रह्मलोकाच्च्युताश्चापि क्रमाद्द्वीपेषु यान्ति ते२५९
कुले महति विस्तीर्णे धनी भवति स द्विजः
तिर्यग्योनि गता ये तु सर्पकीटपिपीलिकाः२६०
स्थलजा जलजाश्चैव स्वेदाण्डोद्भिज्जरायुजाः
सकामा वाप्यकामा वा पुष्करे तु वने मृताः२६१
सूर्यप्रभविमानस्था ब्रह्मलोकं प्रयान्ति ते
कलौ युगे महाघोरे प्रजाः पापसमीरिताः२६२
नान्येनास्मिन्नुपायेन धर्मः स्वर्गश्च लभ्यते
वसन्ति पुष्करे ये तु ब्रह्मार्चनरता नराः२६३
कलौ युगे कृतार्थास्ते क्लिश्यन्त्यन्ये निरर्थकाः
रात्रौ करोति यत्पापं नरः पञ्चभिरिन्द्रियैः२६४
कर्मणा मनसा वाचा कामक्रोधवशानुगाः
प्रातः स जलमासाद्य पुष्करे तु पितामहम्२६५
अभिगम्य शुचिर्भूत्त्वा तस्मात्पापात्प्रमुच्यते
उदयेऽर्कस्य चारभ्य यावद्दर्शनमूर्ध्वगम्२६६
मानसाख्ये प्रसञ्चिन्त्य ब्रह्मयोगे हरेदघम्
दृष्ट्वा विरिञ्चिं मध्याह्ने नरः पापात्प्रमुच्यते२६७
मध्याह्नास्तमयान्तं यदिन्द्रियैः पापमाचरेत्
पितामहस्य सन्ध्यायां दर्शनादेव मुच्यते२६८
शब्दादीन्विषयान्सर्वान्भुञ्जानोपि सकामतः
यः पुष्करे ब्रह्मभक्तो निवसेत्तपसि स्थितः२६९
पुष्करारण्यमध्यस्थो मिष्टान्नास्वादभोजनः
त्रिकालमपि भुञ्जानो वायुभक्षसमो मतः२७०
वसन्ति पुष्करे ये तु नराः सुकृतकर्मिणः
ते लभन्ते महाभोगान्क्षेत्रस्यास्य प्रभावतः२७१
यथा महोदधेस्तुल्यो न चान्योऽस्ति जलाशयः
तथा वै पुष्करस्यापि समं तीर्थं न विद्यते२७२
पुष्करारण्यसदृशं तीर्थं नास्त्यधिकं गुणैः
अथ तेऽन्यान्प्रवक्ष्यामि क्षेत्रे येऽस्मिन्व्यवस्थिताः२७३
विष्णुना सहिताः सर्व इन्द्राद्याश्च दिवौकसः
गजवक्त्रः कुमारश्च रेवन्तः सदिवाकरः२७४
शिवदूती तथा देवी कन्या क्षेमङ्करी सदा
अलं तपोभिर्नियमैः सुक्रियार्चनकारिणाम्२७५
व्रतोपवासकर्माणि कृत्वान्यत्र महान्त्यपि
ज्येष्ठे तु पुष्करारण्ये यस्तिष्ठति निरुद्यमः२७६
लभते सर्वकामित्वं योऽत्रैवास्ते द्विजः सदा
पितामहसमं याति स्थानं परममव्ययम्२७७
कृते द्वादशभिर्वर्षैस्त्रेतायां हायनेन तु
मासेन द्वापरे भीष्म अहोरात्रेण तत्कलौ२७८
फलं सम्प्राप्यते लोके क्षेत्रेस्मिंस्तीर्थवासिभिः
इत्येवं देवदेवेन पुरोक्तं ब्रह्मणा मम२७९
नातः परतरं किञ्चित्क्षेत्रमस्तीह भूतले
तस्मात्सर्वप्रयत्नेनारण्यमेतत्समाश्रयेत्२८०
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम्२८१
एकस्मिन्नाश्रमे धर्मं योऽनुतिष्ठेद्यथाविधि
अकामद्वेषसंयुक्तः स परत्र महीयते२८२
चतुष्पथाहि निःश्रेणी ब्रह्मणेह प्रतिष्ठिता
एतामाश्रित्य निश्रेणीं ब्रह्मलोके महीयते२८३
आयुषोऽपि चतुर्भागं ब्रह्मचार्यनसूयकः
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः२८४
कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता
दक्षिणानां प्रदापी स्यादाहूतो गुरुमाश्रयेत्२८५
जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि
यच्च शिष्येण कर्त्तव्यं कार्यमासेवनादिकम्२८६
कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत्तु पार्श्वतः
किङ्करः सर्वकारी च सर्वकर्मसुकोविदः२८७
शुचिर्दक्षो गुणोपेतो ब्रूयादिष्टमथोत्तरम्
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः२८८
नाऽभुक्तवति चाश्नीयादपीतवति नो पिबेत्
न तिष्ठति तथासीत न सुप्तेनैव संविशेत्२८९
उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्२९०
अभिवाद्य गुरुं ब्रूयादभिधां स्वां ब्रुवन्निति
इदं करिष्ये भगवन्निदं चापि मया कृतम्२९१
इति सर्वं च विज्ञाप्य निवेद्य गुरवे धनम्
कुर्यात्कृतं च तत्सर्वमाख्येयं गुरवे पुनः२९२
यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते
सेवेत तान्समावृत्य इति धर्मेषु निश्चयः२९३
ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः
तान्सर्वाननुगृह्णीयाद्भक्तश्शिष्यश्च वै गुरोः२९४
स एव गुरवे प्रीतिमुपकृत्य यथाबलम्
अग्राम्येष्वाश्रमेष्वेव शिष्यो वर्तेत कर्मणा२९५
वेदवेदौ तथा वेदान्वेदार्थांश्च तथा द्विजः
भिक्षाभुगप्यधःशायी समधीत्य गुरोर्मुखात्२९६
वेदव्रतोपयोगी च चतुर्थांशेन योगतः
गुरवे दक्षिणां दत्वा समावर्तेद्यथाविधि२९७
धर्मान्वितैर्युतो दारैरग्नीनावाह्य पूजयेत्
द्वितीयमायुषो भागं गृहमेधी समाचरेत्२९८
गृहस्थवृत्तयः पूर्वं चतस्रो मुनिभिः कृताः
कुसूलधान्या प्रथमा कुम्भीधान्या द्वितीयका२९९
अश्वस्तनी तृतीयोक्ता कापोत्यथ चतुर्थिका
तासां परापरा श्रेष्ठा धर्मतो लोकजित्तमा३०० 1.15.300
षट्कर्मवर्त्तकस्त्वेकस्त्रिभिरन्यः प्रसर्पते
द्वाभ्यां चैव चतुर्थस्तु द्विजः स ब्रह्मणि स्थितः३०१
गृहमेधिव्रतादन्यन्महत्तीर्थं न चक्षते
नात्मार्थे पाचयेदन्नं न वृथा घातयेत्पशुम्३०२
प्राणी वा यदि वाप्राणी संस्काराद्यज्ञमर्हति
न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः३०३
न भुञ्जीतान्तराकाले नानृतं तु वदेदिह
न चाप्यश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः३०४
तथास्यातिथयः पूज्या हव्यकव्यवहाः स्मृताः
वेदविद्याव्रतस्नाता श्रोत्रिया वेदपारगाः३०५
स्वकर्मजीविनोदान्ताः क्रियावन्तस्तपस्विनः
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते३०६
नश्वरैस्सम्प्रयातस्य स्वधर्मापगतस्य च
अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः३०७
असत्याभिनिवेशस्य नाधिकारोस्ति कर्मणोः
संविभागोत्र भूतानां सर्वेषामेव शिष्यते३०८
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः३०९
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम्
सम्भुक्तशेषं योश्नाति तमाहुर्विघसाशिनम्३१०
स्वदारनिरतो दान्तो दक्षोत्यर्थं जितेन्द्रियः
ऋत्विक्पुरोहिताचार्यमातुलातिथिसंहतैः३११
वृद्धबालातुरैर्वैद्यैर्ज्ञातिसम्बन्धि बान्धवैः
मात्रा पित्रा च जामात्रा भ्रात्रा पुत्रेण भार्यया३१२
दुहित्रा दासवर्गेण विवादं न समाचरेत्
एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते३१३
एतैर्जितैस्तु जयति सर्वलोकान्न संशयः
आचार्यो ब्रह्मलोकेशः प्राजापत्य प्रभुः पिता३१४
अतिथिः सर्वलोकेश ऋत्विग्वेदाश्रयः प्रभुः
जामाताप्सरसांलोके ज्ञातयो वैश्वदेविकाः३१५
सम्बन्धि बान्धवा दिक्षु पृथिव्यां मातृमातुलौ
वृद्धबालातुराश्चैव आकाशे प्रभविष्णवः३१६
पुरोधा ऋषिलोकेशः संश्रितास्साध्यलोकपाः
अश्विलोकपतिर्वैद्यो भ्राता तु वसुलोकपः३१७
चन्द्रलोकेश्वरी भार्या दुहिताप्सरसां गृहे
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्र स्वकातनुः३१८
कायस्था दासवर्गाश्च दुहिता कृपणं परम्
तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसञ्ज्वरः३१९
गृहधर्मरतो विद्वान्धर्मनिष्ठो जितक्लमः
नारभेद्बहुकार्याणि धर्मवान्किञ्चिदारभेत्३२०
गृहस्थवृत्तयस्तिस्रस्तासां निश्रेयसं परं
परस्परं तथैवाहुश्चातुराश्रम्यमेव च३२१
ये चोक्तानि यमास्तेषां सर्वं कार्यं बुभूषुणा
कुम्भधान्यैरुञ्च्छशिलैः कापोतीं वृत्तिमाश्रितैः३२२
यस्मिंश्चैते वसन्त्यर्थास्तद्राष्ट्रमभिवर्धते
पूर्वापरान्दशपरान्पुनाति च पितामहान्३२३
गृहस्थवृत्तिमप्येतां वर्तयेद्यो गतव्यथः
स चक्रधरलोकानां समानाम्प्राप्नुयाद्गतिम्३२४
जितेन्द्रियाणामथवा गतिरेषा विधीयते
स्वर्गलोको गृहस्थानां प्रतिष्ठा नियतात्मनां३२५
ब्रह्मणाभिहता श्रेणी ह्येषा यस्याः प्रमुच्यते
द्वितीयां क्रमशः प्राप्य स्वर्गलोके महीयते३२६
तृतीयामपि वक्ष्यामि वानप्रस्थाश्रमं शृणु
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः३२७
अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत्
गृहस्थव्रतखिन्नानां वानप्रस्थाश्रमौकसां३२८
श्रूयतां भीष्म भद्रं ते सर्वलोकाश्रयात्मनां
दीक्षापूर्वं निवृत्तानां पुण्यदेशनिवासिनां३२९
प्रज्ञाबलयुजां पुंसां सत्यशौचक्षमावतां
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसन्३३०
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः
नियतो नियताहारो विष्णुभक्तिप्रसक्तिमान्३३१
तदाग्निहोत्रमात्राणि यज्ञाङ्गानि च सर्वशः
अकृष्टं वै व्रीहियवं नीवारं विघसानि च३३२
ग्रीष्मे हविष्यं प्रायच्छेत्स माघेष्वपि पञ्चसु
वानप्रस्थाश्रमेप्येताश्चतस्रो वृत्तयः स्मृताः३३३
सद्यः प्रभक्षकाः केचित्केचिन्मासिकसञ्चयान्
वार्षिकान्सञ्चयान्केचित्केचिद्द्वादशवार्षिकान्३३४
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव च
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः३३५
ग्रीष्मे पञ्चाग्नितपसः शरद्यमृतभोजनाः
भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि३३६
स्थानासने च वर्तन्ते वसनेष्वपि संस्थिते
दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे३३७
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां क्वचित्
कृष्णपक्षे पिबन्त्येके भुञ्जते च यथागमम्३३८
मूलैरेके फलैरेके जलैरेके दृढव्रताः
वर्त्तयन्ति यथान्यायं वैखानस धृतव्रताः३३९
एताश्चान्याश्च विविधा दीक्षास्तेषां मनस्विनां
चतुर्थश्चौपनिषदो धर्मः साधारणो मतः३४०
वानप्रस्थो गृहस्थश्च सततोन्यः प्रवर्त्तते
तस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः३४१
अगस्त्यश्च सप्तर्षयो मधुच्छन्दो गवेषणः
साङ्कृतिः सदिवो भाण्डिर्यवप्रोथो ह्यथर्वणः३४२
अहोवीर्यस्तथा काम्यः स्थाणुर्मेधातिथिर्बुधः
मनोवाकः शिनीवाकः शून्यपालो कृतव्रणः३४३
एते कर्मसु विद्वांसस्ततः स्वर्गमुपागमन्
एते प्रत्यक्षधर्माणस्तथा यायावरागणाः३४४
ऋषीणामुग्रतपसां धर्मनैपुण्यदर्शिनाम्
सुरेश्वरं समाराध्य ब्राह्मणा वनमाश्रिताः३४५
अपास्योपरता मायां ब्राह्मणा वनमाश्रिताः
अनक्षत्रास्तथा धृष्या दृश्यन्ते प्रोषिता गणाः३४६
जरया तु परिद्यूना व्याधिना परिपीडिताः
चतुर्थं त्वाश्रमं शेषं वानप्रस्थाश्रमाद्ययुः३४७
सद्यस्कारी सुनिर्वाप्य सर्ववेदसदक्षिणाम्
आत्मयाजी सौम्यमतिरात्मक्रीडात्मसंश्रयः३४८
आत्मन्यग्निं समाधाय त्यक्त्वासर्वपरिग्रहम्
सद्यस्कश्च यजेद्यज्ञानिष्टिं चैवेह सर्वदा३४९
सदैव याजिनां यज्ञानात्मनीज्या प्रवर्त्तते
त्रीनेवाग्नींस्त्यजेत्सम्यगात्मन्येवात्मना क्षणात्३५० 1.15.350
प्राप्नुयाद्येन वा यच्च तत्प्राश्नीयादकुत्सयन्
केशलोमनखान्न्यस्येद्वानप्रस्थाश्रमे रतः३५१
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः
अभयं सर्वभूतेभ्यो यो दत्वा प्रव्रजेद्द्विजः३५२
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते
सुशीलवृत्तो व्यपनीतकल्मषो न चेह नामुत्र चरन्तुमीहते३५३
अरोषमोहो गतसन्धिविग्रहः स चेदुदासीनवदात्मचिन्तया
यमेषु चैवान्यगतेषु न व्यथः स्वशास्त्रशून्यो हृदिनात्मविभ्रमः३५४
भवेद्यथेष्टागतिरात्मयाजिनी निस्संशये धर्मपरे जितेन्द्रिये
अतःपरं श्रेष्ठमतीवसद्गुणैरधिष्ठितं त्रीनतिवर्त्य चाश्रमान्३५५
चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्
प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्३५६
यत्कार्यं परमात्मार्थं तत्त्वमेकमनाः शृणु
काषायं धारयित्वा तु श्रेणीस्थानेषु च त्रिषु३५७
यो व्रजेच्च परं स्थानं पारिव्राज्यमनुत्तमम्
तद्भावनेन सन्न्यस्य वर्तनं श्रूयतां तथा३५८
एक एव चरेद्धर्मं सिध्यर्थमसहायवान्
एकश्चरति यः पश्यन्न जहाति न हीयते३५९
अनग्निरनिकेतस्तु ग्रामं भिक्षार्थमाश्रयेत्
अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः३६०
लघ्वाशी नियताहारः सकृदन्नं निषेवयेत्
कपालं वृक्षमूलानि कुचेलमसहायता३६१
उपेक्षा सर्वभूतानामेतावद्भिक्षु लक्षणम्
यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ता मृता इव३६२
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्
नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्३६३
ब्राह्मणानां विशेषेण नैतद्भूयात्कथञ्चन
यद्ब्राह्मणस्यानुकूलं तदेव सततं वदेत्३६४
तूष्णीमासीत निन्दायां कुर्वन्भैषज्यमात्मनः
येन पूर्णमिवाकाशं भवत्येकेन सर्वदा३६५
शून्यं येन समाकीर्णं तं देवा ब्राह्मणं विदुः३६६
येनकेन चिदाछिन्नो येनकेन चिदाशितः
यत्र क्वचन शायी च तं देवा ब्राह्मणं विदुः३६७
अहेरिव जनाद्भीतः सुहृदो नरकादिव
कृपणादिव नारीभ्यस्तं देवा ब्राह्मणं विदुः३६८
न हृष्येत विषीदेत मानितो मानितस्तथा
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः३६९
नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालमेव निरीक्षेत निर्देशं कृषको यथा३७०
अनभ्याहतचित्तश्च दान्तश्चाहतधीस्तथा
विमुक्तः सर्वपापेभ्यो नरो गच्छेत्ततो दिवम्३७१
अभयं सर्वभूतेभ्यो भूतानामभयं यतः
तस्य देहविमुक्तस्य भयं नास्ति कुतश्चन३७२
यथा नागपदेऽन्यानि पदानि पदगामिनाम्
सर्वाण्येवावलीयन्ते तथा ज्ञानानि चेतसि३७३
एवं सर्वमहिंसायां धर्मोऽर्थश्च महीयते
मृतः स नित्यं भवति यो हिंसां प्रतिपद्यते३७४
अहिंसकस्ततः सम्यग्धृतिमान्नियतेन्द्रियः
शरण्यस्सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्३७५
एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः
न मृत्युरधिकोभावः सोमृतत्वं च गच्छति३७६
विमुक्तः सर्वसङ्गेभ्यो मुनिराकाशवत्स्थितः
विष्णुप्रियकरः शान्तस्तं देवा ब्राह्मणं विदुः३७७
जीवितं यस्य धर्मार्थं धर्मोरत्यर्थमेव च
अहोरात्रादि पुण्यार्थं तं देवा ब्राह्मणं विदुः३७८
निवारितसमारम्भं निर्नमस्कारमस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः३७९
सर्वाणि भूतानि सुखं रमन्ते सर्वाणि दुःखानि भृशं भवन्ति
तेषां भवोत्पादनजातखेदः कुर्यात्तु कर्माणि च श्रद्दधानः३८०
दानं हि भूताभयदक्षिणायाः सर्वाणि दानान्यधितिष्ठतीह
तीक्ष्णे तनुं यः प्रथमं जुहोति सोनन्तमाप्नोत्यभयं प्रजाभ्यः३८१
उत्तानमास्येन हविर्जुहोति अनन्तमाप्नोत्यभितः प्रतिष्ठाम्
तस्याङ्गसङ्गादभिनिष्कृतं च वैश्वानरं सर्वमिदं प्रपेदे३८२
प्रादेशमात्रं हृदभिस्रुतं यत्तस्मिन्प्राणेनात्मयाजी जुहोति
तस्याग्निहोत्रे हुतमात्मसंस्थं सर्वेषु लोकेषु सदैव तेषु३८३
देवं विधातुं त्रिवृतं सुवर्णं ये वै विदुस्तं परमार्थभूतम्
ते सर्वभूतेषु महीयमाना देवाः समर्था अमृतं व्रजन्ति३८४
वेदांश्च वेद्यं च विधिं च कृत्स्नमथो निरुक्तं परमार्थतां च
सर्वं शरीरात्मनि यः प्रवेद तस्याभिसर्वे प्रचरन्ति नित्यम्३८५
भूमावसक्तं दिवि चाप्रमेयं हिरण्मयं तं च समण्डलान्ते
प्रदक्षिणं दक्षिणमन्तरिक्षे यो वेदनाप्यात्मनि दीप्तरश्मिः३८६
आवर्तमानं च विवर्तमानं षण्नेमि यद्द्वादशारं त्रिपर्व
यस्येदमास्यं परिपाति विश्वं तत्कालचक्रं निहितं गुहायाम्३८७
यतः प्रसादं जगतः शरीरं सर्वांश्च लोकानधिगच्छतीह
तस्मिन्हि सन्तर्पयतीह देवान्स वै विमुक्तो भवतीह नित्यम्३८८
तेजोमयो नित्यमतः पुराणो लोके भवत्यर्थभयादुपैति
भूतानि यस्मान्नभयं व्रजन्ति भूतेभ्यो यो नो द्विजते कदाचित्३८९
अगर्हणीयो न च गर्हतेन्यान्स वै विप्रः प्रवरं स्वात्मनीक्षेत्
विनीतमोहोप्यपनीतकल्मषो न चेह नामुत्र च योर्थमृच्छति३९०
अरोषमोहः समलोष्टकाञ्चनः प्रहीणशोको गतसन्धिविग्रहः
अपेतनिन्दास्तुतिरप्रियाप्रियश्चरन्नुदासीनवदेव भिक्षुः३९१