भीष्म उवाच
विश्वास-प्रस्तुतिः
कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा
कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते॥ १ ॥
मूलम्
कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा
कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते॥ १ ॥
विश्वास-प्रस्तुतिः
वरं तयोः कथं भूतं निसर्गादेव तद्वद
बृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति॥ २ ॥
मूलम्
वरं तयोः कथं भूतं निसर्गादेव तद्वद
बृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति॥ २ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतः
ललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि॥ ३ ॥
मूलम्
पुलस्त्य उवाच
छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतः
ललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि॥ ३ ॥
विश्वास-प्रस्तुतिः
स्वेदतः कुण्डली जज्ञे सधनुष्को महेषुधिः
सहस्रकवची वीरः किङ्करोमीत्युवाच ह॥ ४ ॥
मूलम्
स्वेदतः कुण्डली जज्ञे सधनुष्को महेषुधिः
सहस्रकवची वीरः किङ्करोमीत्युवाच ह॥ ४ ॥
विश्वास-प्रस्तुतिः
तमुवाच विरिञ्चस्तु दर्शयन्रुद्रमोजसा
हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः॥ ५ ॥
मूलम्
तमुवाच विरिञ्चस्तु दर्शयन्रुद्रमोजसा
हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः॥ ५ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः
सम्प्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक्॥ ६ ॥
मूलम्
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः
सम्प्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक्॥ ६ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनः
अपक्रान्तस्ततो वेगाद्विष्णोराश्रममभ्यगात्॥ ७ ॥
मूलम्
दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनः
अपक्रान्तस्ततो वेगाद्विष्णोराश्रममभ्यगात्॥ ७ ॥
विश्वास-प्रस्तुतिः
त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन्
ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयङ्करः॥ ८ ॥
मूलम्
त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन्
ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयङ्करः॥ ८ ॥
विश्वास-प्रस्तुतिः
यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पते
हुङ्कारध्वनिना विष्णुर्मोहयित्वा तु तं नरम्॥ ९ ॥
मूलम्
यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पते
हुङ्कारध्वनिना विष्णुर्मोहयित्वा तु तं नरम्॥ ९ ॥
विश्वास-प्रस्तुतिः
अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः
तत्र प्राप्तं विरूपाक्षं सान्त्वयामास केशवः॥ १० ॥
मूलम्
अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः
तत्र प्राप्तं विरूपाक्षं सान्त्वयामास केशवः॥ १० ॥
विश्वास-प्रस्तुतिः
ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुना
विष्णुरुवाच
पौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम्॥ ११ ॥
मूलम्
ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुना
विष्णुरुवाच
पौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम्॥ ११ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह
कपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम्॥ १२ ॥
मूलम्
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह
कपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम्॥ १२ ॥
विश्वास-प्रस्तुतिः
कपालपाणिं सम्प्रेक्ष्य रुद्रं विष्णुरचिन्तयत्
कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य साम्प्रतम्॥ १३ ॥
मूलम्
कपालपाणिं सम्प्रेक्ष्य रुद्रं विष्णुरचिन्तयत्
कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य साम्प्रतम्॥ १३ ॥
विश्वास-प्रस्तुतिः
योग्योऽयमिति सङ्कल्प्य दक्षिणं भुजमर्पयत्
तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः॥ १४ ॥
मूलम्
योग्योऽयमिति सङ्कल्प्य दक्षिणं भुजमर्पयत्
तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः॥ १४ ॥
विश्वास-प्रस्तुतिः
प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात्
जाम्बूनदरसाकारा वह्निज्वालेव निर्मिता॥ १५ ॥
मूलम्
प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात्
जाम्बूनदरसाकारा वह्निज्वालेव निर्मिता॥ १५ ॥
विश्वास-प्रस्तुतिः
निपपात कपालान्तश्शम्भुना सा प्रभिक्षिता
ऋज्वी वेगवती तीव्रा स्पृशन्ती त्वाम्बरं जवात्॥ १६ ॥
मूलम्
निपपात कपालान्तश्शम्भुना सा प्रभिक्षिता
ऋज्वी वेगवती तीव्रा स्पृशन्ती त्वाम्बरं जवात्॥ १६ ॥
विश्वास-प्रस्तुतिः
पञ्चाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजना
दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात्॥ १७ ॥
मूलम्
पञ्चाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजना
दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात्॥ १७ ॥
विश्वास-प्रस्तुतिः
इयन्तं कालमीशोसौ भिक्षां जग्राह भिक्षुकः
दत्ता नारायणेनाथ कापाले पात्र उत्तमे॥ १८ ॥
मूलम्
इयन्तं कालमीशोसौ भिक्षां जग्राह भिक्षुकः
दत्ता नारायणेनाथ कापाले पात्र उत्तमे॥ १८ ॥
विश्वास-प्रस्तुतिः
ततो नारायणः प्राह शम्भुं परमिदं वचः
सम्पूर्णं वा न वा पात्रं ततो वै परमीश्वरः॥ १९ ॥
मूलम्
ततो नारायणः प्राह शम्भुं परमिदं वचः
सम्पूर्णं वा न वा पात्रं ततो वै परमीश्वरः॥ १९ ॥
विश्वास-प्रस्तुतिः
सतोयाम्बुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः
शशिसूर्याग्निनयनः शशिशेखरशोभितः॥ २० ॥
मूलम्
सतोयाम्बुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः
शशिसूर्याग्निनयनः शशिशेखरशोभितः॥ २० ॥
विश्वास-प्रस्तुतिः
कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम्
अङ्गुल्या घटयन्प्राह कपालं परिपूरितम्॥ २१ ॥
मूलम्
कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम्
अङ्गुल्या घटयन्प्राह कपालं परिपूरितम्॥ २१ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत्
पश्तोऽथ हरेरीशः स्वाङ्गुल्या रुधिरं तदा॥ २२ ॥
मूलम्
श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत्
पश्तोऽथ हरेरीशः स्वाङ्गुल्या रुधिरं तदा॥ २२ ॥
विश्वास-प्रस्तुतिः
दिव्यवर्षसहस्रं च दृष्टिपातैर्ममन्थ सः
मथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात्॥ २३ ॥
मूलम्
दिव्यवर्षसहस्रं च दृष्टिपातैर्ममन्थ सः
मथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात्॥ २३ ॥
विश्वास-प्रस्तुतिः
बभूव च ततः पश्चात्किरीटी सशरासनः
बद्धतूणीरयुगलो वृषस्कन्धोङ्गुलित्रवान्॥ २४ ॥
मूलम्
बभूव च ततः पश्चात्किरीटी सशरासनः
बद्धतूणीरयुगलो वृषस्कन्धोङ्गुलित्रवान्॥ २४ ॥
विश्वास-प्रस्तुतिः
पुरुषो वह्निसङ्काशः कपाले सम्प्रदृश्यते
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः॥ २५ ॥
मूलम्
पुरुषो वह्निसङ्काशः कपाले सम्प्रदृश्यते
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः॥ २५ ॥
विश्वास-प्रस्तुतिः
कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरः
वचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु॥ २६ ॥
मूलम्
कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरः
वचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु॥ २६ ॥
विश्वास-प्रस्तुतिः
नरो नामैष पुरुषः परमास्त्रविदां वरः
भवतोक्तो नर इति नरस्तस्माद्भविष्यति॥ २७ ॥
मूलम्
नरो नामैष पुरुषः परमास्त्रविदां वरः
भवतोक्तो नर इति नरस्तस्माद्भविष्यति॥ २७ ॥
विश्वास-प्रस्तुतिः
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः
सङ्ग्रामे देवकार्येषु लोकानां परिपालने॥ २८ ॥
मूलम्
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः
सङ्ग्रामे देवकार्येषु लोकानां परिपालने॥ २८ ॥
विश्वास-प्रस्तुतिः
एष नारायणसखो नरस्तस्माद्भविष्यति
अथासुरवधे साह्यं तव कर्ता महाद्युतिः॥ २९ ॥
मूलम्
एष नारायणसखो नरस्तस्माद्भविष्यति
अथासुरवधे साह्यं तव कर्ता महाद्युतिः॥ २९ ॥
विश्वास-प्रस्तुतिः
मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यति
तेजोधिकमिदं दिव्यं ब्रह्मणः पञ्चमं शिरः॥ ३० ॥
मूलम्
मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यति
तेजोधिकमिदं दिव्यं ब्रह्मणः पञ्चमं शिरः॥ ३० ॥
विश्वास-प्रस्तुतिः
तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात्
मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु॥ ३१ ॥
मूलम्
तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात्
मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु॥ ३१ ॥
विश्वास-प्रस्तुतिः
तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यति
अवध्या ये भविष्यन्ति दुर्जया अपि चापरे॥ ३२ ॥
मूलम्
तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यति
अवध्या ये भविष्यन्ति दुर्जया अपि चापरे॥ ३२ ॥
विश्वास-प्रस्तुतिः
शक्रस्य चामराणां च तेषामेष भयङ्करः
एवमुक्त्वा स्थितः शम्भुर्विस्मितश्च हरिस्तदा॥ ३३ ॥
मूलम्
शक्रस्य चामराणां च तेषामेष भयङ्करः
एवमुक्त्वा स्थितः शम्भुर्विस्मितश्च हरिस्तदा॥ ३३ ॥
विश्वास-प्रस्तुतिः
कपालस्थः स तत्रैव तुष्टाव हरकेशवौ
शिरस्यञ्जलिमाधाय तदा वीर उदारधीः॥ ३४ ॥
मूलम्
कपालस्थः स तत्रैव तुष्टाव हरकेशवौ
शिरस्यञ्जलिमाधाय तदा वीर उदारधीः॥ ३४ ॥
विश्वास-प्रस्तुतिः
किङ्करोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितः
तमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा॥ ३५ ॥
मूलम्
किङ्करोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितः
तमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा॥ ३५ ॥
विश्वास-प्रस्तुतिः
सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय
इत्थमुक्त्वाञ्जलिधरं स्तुवन्तं शङ्करो नरम्॥ ३६ ॥
मूलम्
सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय
इत्थमुक्त्वाञ्जलिधरं स्तुवन्तं शङ्करो नरम्॥ ३६ ॥
विश्वास-प्रस्तुतिः
तथैवाञ्जलिसम्बद्धं गृहीत्वा च करद्वयम्
उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत्॥ ३७ ॥
मूलम्
तथैवाञ्जलिसम्बद्धं गृहीत्वा च करद्वयम्
उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत्॥ ३७ ॥
विश्वास-प्रस्तुतिः
स एष पुरुषो रौद्रो यो मया वेदितस्तव
विष्णुहुङ्काररचितमोहनिद्रां प्रवेशितः॥ ३८ ॥
मूलम्
स एष पुरुषो रौद्रो यो मया वेदितस्तव
विष्णुहुङ्काररचितमोहनिद्रां प्रवेशितः॥ ३८ ॥
विश्वास-प्रस्तुतिः
विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः
नारायणस्य प्रत्यक्षं नरेणानेन वै तदा॥ ३९ ॥
मूलम्
विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः
नारायणस्य प्रत्यक्षं नरेणानेन वै तदा॥ ३९ ॥
विश्वास-प्रस्तुतिः
वामपादहतः सोपि समुत्तस्थौ महाबलः
ततो युद्धं समभवत्स्वेदरक्तजयोर्महत्॥ ४० ॥
मूलम्
वामपादहतः सोपि समुत्तस्थौ महाबलः
ततो युद्धं समभवत्स्वेदरक्तजयोर्महत्॥ ४० ॥
विश्वास-प्रस्तुतिः
विस्फारितधनुः शब्दं नादिताशेषभूतलम्
कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम्॥ ४१ ॥
मूलम्
विस्फारितधनुः शब्दं नादिताशेषभूतलम्
कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम्॥ ४१ ॥
विश्वास-प्रस्तुतिः
एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः
युध्यतोः समतीतं च स्वेदरक्तजयोर्नृप॥ ४२ ॥
मूलम्
एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः
युध्यतोः समतीतं च स्वेदरक्तजयोर्नृप॥ ४२ ॥
विश्वास-प्रस्तुतिः
रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव सङ्गतौ
विचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम्॥ ४३ ॥
मूलम्
रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव सङ्गतौ
विचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम्॥ ४३ ॥
विश्वास-प्रस्तुतिः
ससम्भ्रममुवाचेदं ब्रह्माणं मधुसूदनः
रक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः॥ ४४ ॥
मूलम्
ससम्भ्रममुवाचेदं ब्रह्माणं मधुसूदनः
रक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः॥ ४४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम्
हरे द्यजन्मनि नरो मदीयो जीवतादयम्॥ ४५ ॥
मूलम्
श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम्
हरे द्यजन्मनि नरो मदीयो जीवतादयम्॥ ४५ ॥
विश्वास-प्रस्तुतिः
तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति
गत्वा तयो रणमपि निवार्याऽऽह च तावुभौ॥ ४६ ॥
मूलम्
तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति
गत्वा तयो रणमपि निवार्याऽऽह च तावुभौ॥ ४६ ॥
विश्वास-प्रस्तुतिः
अन्यजन्मनि भविता कलिद्वापरयोर्मिथः
सन्धौ महारणे जाते तत्राहं योजयामि वां॥ ४७ ॥
मूलम्
अन्यजन्मनि भविता कलिद्वापरयोर्मिथः
सन्धौ महारणे जाते तत्राहं योजयामि वां॥ ४७ ॥
विश्वास-प्रस्तुतिः
विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौ
उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया॥ ४८ ॥
मूलम्
विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौ
उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया॥ ४८ ॥
विश्वास-प्रस्तुतिः
सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातले
द्वापरान्तेवतार्योयं देवानां कार्यसिद्धये॥ ४९ ॥
मूलम्
सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातले
द्वापरान्तेवतार्योयं देवानां कार्यसिद्धये॥ ४९ ॥
विश्वास-प्रस्तुतिः
यदूनां तु कुले भावी शूरोनाम महाबलः
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि५० 1.14.50
उत्पत्स्यति महाभागा देवानां कार्यसिद्धये
दुर्वासास्तु वरं तस्यै मन्त्रग्रामं प्रदास्यति॥ ५१ ॥
मूलम्
यदूनां तु कुले भावी शूरोनाम महाबलः
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि५० 1.14.50
उत्पत्स्यति महाभागा देवानां कार्यसिद्धये
दुर्वासास्तु वरं तस्यै मन्त्रग्रामं प्रदास्यति॥ ५१ ॥
विश्वास-प्रस्तुतिः
मन्त्रेणानेन यं देवं भक्त्या आवाहयिष्यति
देवि तस्य प्रसादात्तु तव पुत्रो भविष्यति॥ ५२ ॥
मूलम्
मन्त्रेणानेन यं देवं भक्त्या आवाहयिष्यति
देवि तस्य प्रसादात्तु तव पुत्रो भविष्यति॥ ५२ ॥
विश्वास-प्रस्तुतिः
सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला
चिन्ताभिपन्ना तिष्ठन्ती भजितव्या विभावसो॥ ५३ ॥
मूलम्
सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला
चिन्ताभिपन्ना तिष्ठन्ती भजितव्या विभावसो॥ ५३ ॥
विश्वास-प्रस्तुतिः
तस्या गर्भे त्वयं भावी कानीनः कुन्तिनन्दनः
भविष्यति सुतो देवदेवकार्यार्थसिद्धये॥ ५४ ॥
मूलम्
तस्या गर्भे त्वयं भावी कानीनः कुन्तिनन्दनः
भविष्यति सुतो देवदेवकार्यार्थसिद्धये॥ ५४ ॥
विश्वास-प्रस्तुतिः
तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः
पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम्॥ ५५ ॥
मूलम्
तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः
पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम्॥ ५५ ॥
विश्वास-प्रस्तुतिः
यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यति
मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः॥ ५६ ॥
मूलम्
यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यति
मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः॥ ५६ ॥
विश्वास-प्रस्तुतिः
अदेयं नास्ति वै लोके वस्तु किञ्चिच्च केशव
एवं प्रभावं चैवैनं जनये वचनात्तव॥ ५७ ॥
मूलम्
अदेयं नास्ति वै लोके वस्तु किञ्चिच्च केशव
एवं प्रभावं चैवैनं जनये वचनात्तव॥ ५७ ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम्
नारायणं महात्मानं तत्रैवान्तर्दधे रविः॥ ५८ ॥
मूलम्
एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम्
नारायणं महात्मानं तत्रैवान्तर्दधे रविः॥ ५८ ॥
विश्वास-प्रस्तुतिः
अदर्शनं गते देवे भास्करे वारितस्करे
वृद्धश्रवसमप्येवमुवाच प्रीतमानसः॥ ५९ ॥
मूलम्
अदर्शनं गते देवे भास्करे वारितस्करे
वृद्धश्रवसमप्येवमुवाच प्रीतमानसः॥ ५९ ॥
विश्वास-प्रस्तुतिः
सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात्
स्वांशभूतो द्वापरान्ते योक्तव्यो भूतले त्वया॥ ६० ॥
मूलम्
सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात्
स्वांशभूतो द्वापरान्ते योक्तव्यो भूतले त्वया॥ ६० ॥
विश्वास-प्रस्तुतिः
यदा पाण्डुर्महाभागः पृथां भार्यामवाप्स्यति
माद्रीं चापि महाभाग तदारण्यं गमिष्यति॥ ६१ ॥
मूलम्
यदा पाण्डुर्महाभागः पृथां भार्यामवाप्स्यति
माद्रीं चापि महाभाग तदारण्यं गमिष्यति॥ ६१ ॥
विश्वास-प्रस्तुतिः
तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यति
तेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति॥ ६२ ॥
मूलम्
तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यति
तेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति॥ ६२ ॥
विश्वास-प्रस्तुतिः
पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यति
अनीप्सन्ती तदा कुन्ती भर्त्तारं सा वदिष्यति॥ ६३ ॥
मूलम्
पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यति
अनीप्सन्ती तदा कुन्ती भर्त्तारं सा वदिष्यति॥ ६३ ॥
विश्वास-प्रस्तुतिः
नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथञ्चन
दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप॥ ६४ ॥
मूलम्
नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथञ्चन
दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप॥ ६४ ॥
विश्वास-प्रस्तुतिः
प्रार्थयन्त्यै त्वया शक्र कुन्त्यै देयो नरस्ततः
वचसा च मदीयेन एवं कुरु शचीपते॥ ६५ ॥
मूलम्
प्रार्थयन्त्यै त्वया शक्र कुन्त्यै देयो नरस्ततः
वचसा च मदीयेन एवं कुरु शचीपते॥ ६५ ॥
विश्वास-प्रस्तुतिः
अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः
अस्मिन्मन्वन्तरेऽतीते चतुर्विंशतिके युगे॥ ६६ ॥
मूलम्
अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः
अस्मिन्मन्वन्तरेऽतीते चतुर्विंशतिके युगे॥ ६६ ॥
विश्वास-प्रस्तुतिः
अवतीर्य रघुकुले गृहे दशरथस्य च
रावणस्य वधार्थाय शान्त्यर्थं च दिवौकसाम्॥ ६७ ॥
मूलम्
अवतीर्य रघुकुले गृहे दशरथस्य च
रावणस्य वधार्थाय शान्त्यर्थं च दिवौकसाम्॥ ६७ ॥
विश्वास-प्रस्तुतिः
रामरूपेण भवता सीतार्थमटता वने
मत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना॥ ६८ ॥
मूलम्
रामरूपेण भवता सीतार्थमटता वने
मत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना॥ ६८ ॥
विश्वास-प्रस्तुतिः
वालिनाम प्लवङ्गेन्द्रः सुग्रीवार्थे त्वया यतः
दुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम्॥ ६९ ॥
मूलम्
वालिनाम प्लवङ्गेन्द्रः सुग्रीवार्थे त्वया यतः
दुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम्॥ ६९ ॥
विश्वास-प्रस्तुतिः
अगृह्णमानं देवेन्द्रं कारणान्तरवादिनम्
हरिः प्रोचे शुनासीरं भुवो भारावतारणे॥ ७० ॥
मूलम्
अगृह्णमानं देवेन्द्रं कारणान्तरवादिनम्
हरिः प्रोचे शुनासीरं भुवो भारावतारणे॥ ७० ॥
विश्वास-प्रस्तुतिः
अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो
सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते॥ ७१ ॥
मूलम्
अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो
सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते॥ ७१ ॥
विश्वास-प्रस्तुतिः
सारथ्यं च करिष्यामि नाशं कुरुकुलस्य च
ततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह॥ ७२ ॥
मूलम्
सारथ्यं च करिष्यामि नाशं कुरुकुलस्य च
ततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह॥ ७२ ॥
विश्वास-प्रस्तुतिः
प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव
एवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम्॥ ७३ ॥
मूलम्
प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव
एवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम्॥ ७३ ॥
विश्वास-प्रस्तुतिः
गत्वा तु पुण्डरीकाक्षो ब्रह्माणं प्राह वै पुनः
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्॥ ७४ ॥
मूलम्
गत्वा तु पुण्डरीकाक्षो ब्रह्माणं प्राह वै पुनः
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्॥ ७४ ॥
विश्वास-प्रस्तुतिः
आवां कार्यस्य करणे सहायौ च तव प्रभो
स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे॥ ७५ ॥
मूलम्
आवां कार्यस्य करणे सहायौ च तव प्रभो
स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे॥ ७५ ॥
विश्वास-प्रस्तुतिः
कृतं जुगुप्सितं कर्म शम्भुमेतं जिघांसता
त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्॥ ७६ ॥
मूलम्
कृतं जुगुप्सितं कर्म शम्भुमेतं जिघांसता
त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्॥ ७६ ॥
विश्वास-प्रस्तुतिः
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु
गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर॥ ७७ ॥
मूलम्
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु
गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर॥ ७७ ॥
विश्वास-प्रस्तुतिः
पुण्यतीर्थे तथा देशे वने वापि पितामह
स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्॥ ७८ ॥
मूलम्
पुण्यतीर्थे तथा देशे वने वापि पितामह
स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्॥ ७८ ॥
विश्वास-प्रस्तुतिः
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते
आदेशं ते करिष्यन्ति यतोस्माकं भवान्प्रभुः॥ ७९ ॥
मूलम्
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते
आदेशं ते करिष्यन्ति यतोस्माकं भवान्प्रभुः॥ ७९ ॥
विश्वास-प्रस्तुतिः
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः
आहवनीयस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय॥ ८० ॥
मूलम्
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः
आहवनीयस्तृतीयस्तु त्रिकुण्डेषु प्रकल्पय॥ ८० ॥
विश्वास-प्रस्तुतिः
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ
चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः॥ ८१ ॥
मूलम्
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ
चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः॥ ८१ ॥
विश्वास-प्रस्तुतिः
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च
दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि॥ ८२ ॥
मूलम्
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च
दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि॥ ८२ ॥
विश्वास-प्रस्तुतिः
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते
सुकृतेनाग्निहोत्रेण प्रशुद्ध्यन्ति भुवि द्विजाः॥ ८३ ॥
मूलम्
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते
सुकृतेनाग्निहोत्रेण प्रशुद्ध्यन्ति भुवि द्विजाः॥ ८३ ॥
विश्वास-प्रस्तुतिः
पन्थानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी
एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना॥ ८४ ॥
मूलम्
पन्थानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी
एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना॥ ८४ ॥
विश्वास-प्रस्तुतिः
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते
भीष्म उवाच
योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः॥ ८५ ॥
मूलम्
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते
भीष्म उवाच
योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः॥ ८५ ॥
विश्वास-प्रस्तुतिः
किमेष माधवाज्जात उताहो स्वेन कर्मणा
उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्॥ ८६ ॥
मूलम्
किमेष माधवाज्जात उताहो स्वेन कर्मणा
उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्॥ ८६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मन्हिरण्यगर्भोऽयमण्डजातश्चतुर्मुखः
अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्॥ ८७ ॥
मूलम्
ब्रह्मन्हिरण्यगर्भोऽयमण्डजातश्चतुर्मुखः
अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्॥ ८७ ॥
विश्वास-प्रस्तुतिः
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्
सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्॥ ८८ ॥
मूलम्
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्
सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्॥ ८८ ॥
विश्वास-प्रस्तुतिः
मूढात्मना नरो येन हन्तुं हि प्रहितो हरं
पुलस्त्य उवाच
महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ॥ ८९ ॥
मूलम्
मूढात्मना नरो येन हन्तुं हि प्रहितो हरं
पुलस्त्य उवाच
महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः
ब्रह्मणः पञ्चमं वक्त्रमूर्द्ध्वमासीन्महात्मनः॥ ९० ॥
मूलम्
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः
ब्रह्मणः पञ्चमं वक्त्रमूर्द्ध्वमासीन्महात्मनः॥ ९० ॥
विश्वास-प्रस्तुतिः
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः
ततोऽयं तेजसा सृष्टिममन्यत मया कृता॥ ९१ ॥
मूलम्
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः
ततोऽयं तेजसा सृष्टिममन्यत मया कृता॥ ९१ ॥
विश्वास-प्रस्तुतिः
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता
सह देवाः सगन्धर्वाः पशुपक्षिमृगाकुलाः॥ ९२ ॥
मूलम्
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता
सह देवाः सगन्धर्वाः पशुपक्षिमृगाकुलाः॥ ९२ ॥
विश्वास-प्रस्तुतिः
एवं मूढः स पञ्चास्यो विरिञ्चिरभवत्पुनः
प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्॥ ९३ ॥
मूलम्
एवं मूढः स पञ्चास्यो विरिञ्चिरभवत्पुनः
प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्॥ ९३ ॥
विश्वास-प्रस्तुतिः
द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम्
तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम्॥ ९४ ॥
मूलम्
द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम्
तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम्॥ ९४ ॥
विश्वास-प्रस्तुतिः
साङ्गोपाङ्गेतिहासांश्च सरहस्यान्ससङ्ग्रहान्
वेदानधीते वक्त्रेण पञ्चमेनोर्द्ध्वचक्षुषा॥ ९५ ॥
मूलम्
साङ्गोपाङ्गेतिहासांश्च सरहस्यान्ससङ्ग्रहान्
वेदानधीते वक्त्रेण पञ्चमेनोर्द्ध्वचक्षुषा॥ ९५ ॥
विश्वास-प्रस्तुतिः
तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसः
तेजसा न प्रकाशन्ते दीपाः सूर्योदये यथा॥ ९६ ॥
मूलम्
तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसः
तेजसा न प्रकाशन्ते दीपाः सूर्योदये यथा॥ ९६ ॥
विश्वास-प्रस्तुतिः
स्वपुरेष्वपि सोद्वेगा ह्यवर्तन्त विचेतसः
न कञ्चिद्गणयेच्चान्यं तेजसा क्षिपते परान्॥ ९७ ॥
मूलम्
स्वपुरेष्वपि सोद्वेगा ह्यवर्तन्त विचेतसः
न कञ्चिद्गणयेच्चान्यं तेजसा क्षिपते परान्॥ ९७ ॥
विश्वास-प्रस्तुतिः
नाभिगन्तु न च द्रष्टुं पुरस्तान्नोपसर्पितुम्
शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम्॥ ९८ ॥
मूलम्
नाभिगन्तु न च द्रष्टुं पुरस्तान्नोपसर्पितुम्
शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम्॥ ९८ ॥
विश्वास-प्रस्तुतिः
अभिभूतमिवात्मानं मन्यमाना हतत्विषः
सर्वे ते मन्त्रयामासुर्दैवता हितमात्मनः॥ ९९ ॥
मूलम्
अभिभूतमिवात्मानं मन्यमाना हतत्विषः
सर्वे ते मन्त्रयामासुर्दैवता हितमात्मनः॥ ९९ ॥
गच्छामः शरणं शम्भुं निस्तेजसोऽस्य तेजसा
देवा ऊचुः
नमस्तेसर्वसत्वेश महेश्वर नमोनमः१०० 1.14.100
जगद्योने परम्ब्रह्म भूतानां त्वं सनातनः
प्रतिष्ठा सर्वजगतां त्वं हेतुर्विष्णुना सह१०१
एवं संस्तूयमानोसौ देवर्षिपितृदानवैः
अन्तर्हित उवाचेदं देवाः प्रार्थयतेप्सितम्१०२
देवा ऊचुः
प्रत्यक्षदर्शनं दत्वा देहि देव यथेप्सितम्
कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम्१०३
यदस्माकं महद्वीर्यं तेज ओजः पराक्रमः
तत्सर्वं ब्रह्मणा ग्रस्तं पञ्चमास्यस्य तेजसा१०४
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो
जायते तु यथापूर्वं तथा कुरु महेश्वर१०५
ततः प्रसन्नवदनो देवैश्चापि नमस्कृतः
जगाम यत्र ब्रह्माऽसौ रजोहङ्कारमूढधीः१०६
स्तुवन्तो देवदेवेशं परिवार्य समाविशन्
ब्रह्मा तमागतं रुद्रं न जज्ञे रजसावृतः१०७
सूर्यकोटिसहस्राणां तेजसा रञ्जयन्जगत्
तदादृश्यत विश्वात्मा विश्वसृग्विश्वभावनः१०८
सपितामहमासीनं सकलं देवमण्डलम्
अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम्१०९
अहोतितेजसा वक्त्रमधिकं देव राजते
एवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः११०
वामाङ्गुष्ठनखाग्रेण ब्रह्मणः पञ्चमं शिरः
चकर्त कदलीगर्भं नरः कररुहैरिव१११
विच्छिन्नं तु शिरः पश्चाद्भवहस्ते स्थितं तदा
ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः११२
करोत्क्षिप्तकपालेन ननर्त च महेश्वरः
शिखरस्थेन सूर्येण कैलास इव पर्वतः११३
छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम्
तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम्११४
देवा ऊचुः
नमः कपालिने नित्यं महाकालस्य कालिने
ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने११५
नमो हर्षविलासाय सर्वदेवमयाय च
कलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि११६
भक्तानामार्तिनाशस्त्वं दुःखान्तस्तेन चोच्यसे
शङ्करोष्याशुभक्तानां तेन त्वं शङ्करः स्मृतः११७
छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि च
तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः११८
एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शङ्करः
स्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः११९
विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म च
शिरो नीरस्य वाक्यात्तु लोकानां कोपशान्तये१२०
शिरस्यञ्जलिमाधाय तुष्टावाथ प्रणम्य तम्
तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम्१२१
निरुक्तसूक्तरहस्यैर्ऋग्यजुः सामभाषितैः
रुद्र उवाच
अप्रमेय नमस्तेस्तु परमस्य परात्मने१२२
अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः
विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते१२३
ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मक
जलशायिन्जलोत्पन्न जलालय नमोस्तु ते१२४
जलजोत्फुल्लपत्राक्ष जय देव पितामह
त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर१२५
यज्ञाहुतिसदाहार यज्ञाङ्गेश नमोऽस्तु ते
स्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते१२६
त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसम्भव
वचनेन तु देवानां शिरश्छिन्नं मया प्रभो१२७
ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पते
इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्१२८
ब्रह्मोवाच
सखा नाराणो देवः स त्वां पूतं करिष्यति
कीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः१२९
अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना
येन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता१३०
शिरश्छेदात्कपाली त्वं सोमसिद्धान्तकारकः
कोटीः शतं च विप्राणामुद्धर्तासि महाद्युते१३१
ब्रह्महत्याव्रतं कुर्या नान्यत्किञ्चन विद्यते
अभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः१३२
वैतानिका विकर्मस्था न ते भाष्याः कथञ्चन
तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम्१३३
अङ्गस्पर्शे कृते रुद्र सचैलो जलमाविशेत्
एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः१३४
स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर
चीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून्१३५
एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान्
अचिन्तयत्तदाविष्णुं ध्यानगत्या ततः स्वयं१३६
लक्ष्मीसहायं वरदं देवदेवं सनातनम्
अष्टाङ्गप्रणिपातेन देवदेवस्त्रिलोचनः१३७
तुष्टाव प्रणतो भूत्वा शङ्खचक्रगदाधरम्
रुद्र उवाच
परं पराणाममृतं पुराणं परात्परं विष्णुमनन्तवीर्यं१३८
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम्
परात्परं पूर्वजमुग्रवेगं गम्भीरगम्भीरधियां प्रधानम्१३९
नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धाम
परापरं तत्परमं च धाम परापरेशं पुरुषं विशालम्१४०
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज
सदास्थितत्वात्पुरुषप्रधानं शान्तं प्रधानं शरणं ममास्तु१४१
नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम्
पुरातनं नीतिमतां प्रधानं धृतिक्षमाशान्तिपरं क्षितीशम्१४२
शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम्
अनन्तबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम्१४३
नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यम्
त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्वलक्ष्यं त्रिलयं त्रिनेत्रम्१४४
नमामि नारायणमप्रमेयं कृते सितं द्वापरतश्च रक्तम्
कलौ च कृष्णं तमथो नमामि ससर्ज यो वक्त्रत एव विप्रान्१४५
भुजान्तरात्क्षत्रमथोरुयुग्माद्विशः पदाग्राच्च तथैव शूद्रान्
नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयम्१४६
सूक्ष्ममूर्त्तिं महामूर्त्तिं विद्यामूर्त्तिममूर्तिकम्
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम्१४७
सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजम्
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम्१४८
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम्
नीलमेघप्रतीकाशं नमस्ये शार्ङ्गपाणिनम्१४९
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम्
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम्१५० 1.14.150
न चात्र किञ्चित्पश्यामि व्यतिरिक्तं तवाच्युत
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम्१५१
एवं तु वदतस्तस्य रुद्रस्य परमेष्ठिनः
इतीरितेस्तेन सनातन स्वयं परात्परस्तस्य बभूव दर्शने१५२
रथाङ्गपाणिर्गरुडासनो गिरिं विदीपयन्भास्करवत्समुत्थितः
वरं वृणीष्वेति सनातनोब्रवीद्वरस्तवाहं वरदः समागतः१५३
इतीरिते रुद्रवरो जगाद ममातिशुद्धिर्भविता सुरेश
न चास्य पापस्य हरं हि चान्यत्सन्दृश्यतेग्र्यं च ऋते भवं तम्१५४
ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गता
शवगन्धश्च मे गात्रे लोहस्याभरणानि मे१५५
कथं मे न भवेदेवमेतद्रूपं जनार्दनम्
किं करोमि महादेव येन मे पूर्विका तनूः१५६
त्वत्प्रसादेन भविता तन्मे कथय चाच्युत
विष्णुरुवाच
ब्रह्मवध्या परा चोग्रा सर्वकष्टप्रदा परा१५७
मनसापि न कुर्वीत पापस्यास्य तु भावनाम्
भवता देववाक्येन निष्ठा चैषा निबोधिता१५८
इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचर
भस्मसर्वाणि गात्राणि त्रिकालं घर्षयेस्तनौ१५९
शिखायां कर्णयोश्चैव करे चास्थीनि धारय
एवं च कुर्वतो रुद्र कष्टं नैव भविष्यति१६०
सन्दिश्यैवं स भगवांस्ततोंऽतर्द्धानमीश्वरः
लक्ष्मीसहायो गतवान्रुद्रस्तं नाभिजज्ञिवान्१६१
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम्
हिमवन्तं समैनाकं मेरुणा च सहैव तु१६२
कैलासं सकलं विन्ध्यं नीलं चैव महागिरिम्
काञ्चीं काशीं ताम्रलिप्तां मगधामाविलां तथा१६३
वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान्कुरून्
भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा१६४
कामरूपं प्रभासं च महेन्द्रं चैव पर्वतम्
ब्रह्महत्याभिभूतोसौ भ्रमंस्त्राणं न विन्दति१६५
त्रपान्वितः कपालं तु पश्यन्हस्तगतं सदा
करौ विधुन्वन्बहुशो विक्षिप्तश्च मुहुर्मुहुः१६६
यदास्य धुन्वतो हस्तौ कपालं पतते न तु
तदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम्१६७
मदीयेनैव मार्गेण द्विजा यास्यन्ति सर्वतः
ध्यात्वैवं सुचिरं देवो वसुधां विचचार ह१६८
पुष्करं तु समासाद्य प्रविष्टोऽरण्यमुत्तमम्
नानाद्रुमलताकीर्णं नानामृगरवाकुलम्१६९
द्रुमपुष्पभरामोद वासितं यत्सुवायुना
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्१७०
नानागधंरसैरन्यैः पक्वापक्वैः फलैस्तथा
विवेश तरुवृन्देन पुष्पामोदाभिनन्दितः१७१
अत्राराधयतो भक्त्या ब्रह्मा दास्यति मे वरम्
ब्रह्मप्रसादात्सम्प्राप्तं पौष्करं ज्ञानमीप्सितम्१७२
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्
एवं वै ध्यायतस्तस्य रुद्रस्यामिततेजसः१७३
आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कञ्जजः
उवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः१७४
दिव्यव्रतोपचारेण सोहमाराधितस्त्वया
भवता श्रद्धयात्यर्थं ममदर्शनकाङ्क्षया१७५
व्रतस्था मां हि पश्यन्ति मनुष्या देवतास्तथा
तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम्१७६
सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम्
मनोवाक्कायभावैश्च सन्तुष्टेनान्तरात्मना१७७
कं ददामि च वै कामं वद भोस्ते यथेप्सितम्
रुद्र उवाच
एष एवाद्य भगवन्सुपर्याप्तो महा वरः१७८
यद्दृष्टोसि जगद्वन्द्य जगत्कर्तर्नमोस्तुते
महता यज्ञसाध्येन बहुकालार्जितेन च१७९
प्राणव्ययकरेण त्वं तपसा देव दृश्यते
इदं कपालं देवेश न करात्पतितं विभो१८०
त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो
त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत्१८१
सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम्
पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे१८२
पूतो भवामि येनाहं मुनीनां भावितात्मनाम्
ब्रह्मोवाच
अविमुक्तं भगवतः स्थानमस्ति पुरातनम्१८३
कपालमोचनं तीर्थं तव तत्र भविष्यति
अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति१८४
दर्शने भवतस्तत्र महापातकिनोपि ये
तेपि भोगान्समश्नन्ति विशुद्धा भवने मम१८५
वरणापि असीचापि द्वे नद्यौ सुरवल्लभे
अन्तराले तयोः क्षेत्रे वध्या न विशति क्वचित्१८६
तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव
आदेहपतनाद्ये तु क्षेत्रं सेवन्ति मानवाः१८७
ते मृता हंसयानेन दिवं यान्त्यकुतोभयाः
पञ्चक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव१८८
क्षेत्रमध्याद्यदा गङ्गा गमिष्यति सरित्पतिम्
तदा सा महती पुण्या पुरी रुद्र भविष्यति१८९
पुण्या चोदङ्मुखी गङ्गा प्राची चापि सरस्वती
उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी१९०
तत्र वै विबुधाः सर्वे मया सह सवासवाः
आगता वासमेष्यन्ति कपालं तत्र मोचय१९१
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन्
श्राद्धैस्तु प्रीणयिष्यन्ति तेषां लोकोऽक्षयो दिवि१९२
वाराणस्यां महातीर्थे नरः स्नातो विमुच्यते
सप्तजन्मकृतात्पापाद्गमनादेव मुच्यते१९३
तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितम्
त्यजन्ति तत्र ये प्राणान्प्राणिनः प्रणतास्तव१९४
रुद्रत्वं ते समासाद्य मोदन्ते भवता सह
तत्रापि हि तु यद्दत्तं दानं रुद्र यतात्मना१९५
स्यान्महच्च फलं तस्य भविता भावितात्मनः
स्वाङ्गस्फुटित संस्कारं तत्र कुर्वन्ति ये नराः१९६
ते रुद्रलोकमासाद्य मोदन्ते सुखिनः सदा
तत्र पूजा जपो होमः कृतो भवति देहिनां१९७
अनन्तफलदः स्वर्गो रुद्रभक्तियुतात्मनः
तत्र दीपप्रदाने तु ज्ञानचक्षुर्भवेन्नरः१९८
अव्यङ्गं तरुणं सौम्यं रूपवन्तं तु गोसुतम्
योङ्कयित्वा मोचयति स याति परमं पदम्१९९
पितृभिः सहितो मोक्षं गच्छते नात्र संशयः
अथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः२०० 1.14.200
कर्मधर्मं समुद्दिश्य तदनन्तफलं भवेत्
स्वर्गापवर्गयोर्हेतुस्तद्धि तीर्थम्मतं भुवि२०१
स्नानाज्जपात्तथा होमादनन्तफलसाधनम्
गत्वा वाराणसीतीर्थं भक्त्या रुद्रपरायणाः२०२
ये तत्र पञ्चतां प्राप्ता भक्तास्ते नात्र संशयः
वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः२०३
प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः
त्रिविधः पिण्डदानाय विधिरुक्तो मयानघ२०४
मानुषैः पिण्डादानं तु कार्यमत्रागतैस्सदा
पिण्डदानं च तत्रैव स्वपुत्रैः कार्यमादरात्२०५
सुपुत्रास्ते पितॄणां तु भवन्ति सुखदायकाः
प्रोक्तं तीर्थं मया तुभ्यं दर्शनादपि मुक्तिदम्२०६
स्नात्वा तु सलिले तत्र मुच्यते जन्मबन्धनात्
विमुक्तो ब्रह्महत्यायास्तत्र रुद्र यथासुखम्२०७
अविमुक्ते मया दत्ते तिष्ठ त्वं भार्यया सह
रुद्र उवाच
पृथिव्यां यानि तीर्थानि तेष्वहं विष्णुना सह२०८
तिष्ठामि भवतोक्तेन वर एष वृतो मया
अहं देवो महादेव आराध्यो भवता सदा२०९
वरं दास्यामि ते चाहं सन्तुष्टेनान्तरात्मना
विष्णोश्चाहं प्रदास्यामि वरांश्च मनसीप्सितान्२१०
सुराणां चैव सर्वेषां मुनीनां भवितात्मनाम्
अहं दाता अहं याच्यो नान्यो भाव्यः कथञ्चन२११
ब्रह्मोवाच
एवं करिष्येहं रुद्र यत्वयोक्तं वचः शुभम्
नारायणश्च ते वाक्यं कर्ता सर्वं न संशयः२१२
विसृज्यैवं तदा रुद्रं ब्रह्मा चान्तरधीयत
वाराणस्यां महादेवो गत्वा तीर्थं न्यवेशयत्२१३
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे रुद्रस्य ब्रह्मवध्यानाशश्चतुर्दशोऽध्यायः१४