पुलस्त्य उवाच
विश्वास-प्रस्तुतिः
क्रोष्टोः शृणु त्वं राजेन्द्र वंशमुत्तमपूरुषम्
यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः॥ १ ॥
मूलम्
क्रोष्टोः शृणु त्वं राजेन्द्र वंशमुत्तमपूरुषम्
यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः॥ १ ॥
विश्वास-प्रस्तुतिः
क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः
तस्य पुत्रोभवत्स्वातिः कुशङ्कुस्तत्सुतोभवत्॥ २ ॥
मूलम्
क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महायशाः
तस्य पुत्रोभवत्स्वातिः कुशङ्कुस्तत्सुतोभवत्॥ २ ॥
विश्वास-प्रस्तुतिः
कुशङ्कोरभवत्पुत्रो नाम्ना चित्ररथोस्य तु
शशबिन्दुरिति ख्यातश्चक्रवर्ती बभूव ह॥ ३ ॥
मूलम्
कुशङ्कोरभवत्पुत्रो नाम्ना चित्ररथोस्य तु
शशबिन्दुरिति ख्यातश्चक्रवर्ती बभूव ह॥ ३ ॥
विश्वास-प्रस्तुतिः
अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत्
शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम्॥ ४ ॥
मूलम्
अत्रानुवंशश्लोकोयं गीतस्तस्य पुराभवत्
शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम्॥ ४ ॥
विश्वास-प्रस्तुतिः
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्
तेषां शतप्रधानानां पृथुसाह्वा महाबलाः॥ ५ ॥
मूलम्
धीमतां चारुरूपाणां भूरिद्रविणतेजसाम्
तेषां शतप्रधानानां पृथुसाह्वा महाबलाः॥ ५ ॥
विश्वास-प्रस्तुतिः
पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवः
पृथुकीर्तिः पृथुमतो राजानः शशबिन्दवः॥ ६ ॥
मूलम्
पृथुश्रवाः पृथुयशाः पृथुतेजाः पृथूद्भवः
पृथुकीर्तिः पृथुमतो राजानः शशबिन्दवः॥ ६ ॥
विश्वास-प्रस्तुतिः
शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्
ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः॥ ७ ॥
मूलम्
शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम्
ततश्चास्याभवन्पुत्राः उशना शत्रुतापनः॥ ७ ॥
विश्वास-प्रस्तुतिः
पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः
आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः॥ ८ ॥
मूलम्
पुत्रश्चोशनसस्तस्य शिनेयुर्नामसत्तमः
आसीत्शिनेयोः पुत्रो यः स रुक्मकवचो मतः॥ ८ ॥
विश्वास-प्रस्तुतिः
निहत्य रुक्मकवचो युद्धे युद्धविशारदः
धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्॥ ९ ॥
मूलम्
निहत्य रुक्मकवचो युद्धे युद्धविशारदः
धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम्॥ ९ ॥
विश्वास-प्रस्तुतिः
अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां
जज्ञे तु रुक्मकवचात्परावृत्परवीरहा॥ १० ॥
मूलम्
अश्वमेधे ऽददाद्राजा ब्राह्मणेभ्यश्च दक्षिणां
जज्ञे तु रुक्मकवचात्परावृत्परवीरहा॥ १० ॥
विश्वास-प्रस्तुतिः
तत्पुत्रा जज्ञिरे पञ्च महावीर्यपराक्रमाः
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः॥ ११ ॥
मूलम्
तत्पुत्रा जज्ञिरे पञ्च महावीर्यपराक्रमाः
रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः॥ ११ ॥
विश्वास-प्रस्तुतिः
परिघं च हरिं चैव विदेहे स्थापयत्पिता
रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः॥ १२ ॥
मूलम्
परिघं च हरिं चैव विदेहे स्थापयत्पिता
रुक्मेषुरभवद्राजा पृथुरुक्मस्तथाश्रयः॥ १२ ॥
विश्वास-प्रस्तुतिः
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे
प्रशान्तश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः॥ १३ ॥
मूलम्
ताभ्यां प्रव्राजितो राज्याज्ज्यामघोवसदाश्रमे
प्रशान्तश्चाश्रमस्थस्तु ब्राह्मणेन विबोधितः॥ १३ ॥
विश्वास-प्रस्तुतिः
जगाम धनुरादाय देशमन्यं ध्वजी रथी
नर्मदातट एकाकी केवलं वृत्तिकर्शितः॥ १४ ॥
मूलम्
जगाम धनुरादाय देशमन्यं ध्वजी रथी
नर्मदातट एकाकी केवलं वृत्तिकर्शितः॥ १४ ॥
विश्वास-प्रस्तुतिः
ऋक्षवन्तं गिरिं गत्वा मुक्तमन्यैरुपाविशत्
ज्यामघस्याभवद्भार्या शैब्या परिणता सती॥ १५ ॥
मूलम्
ऋक्षवन्तं गिरिं गत्वा मुक्तमन्यैरुपाविशत्
ज्यामघस्याभवद्भार्या शैब्या परिणता सती॥ १५ ॥
विश्वास-प्रस्तुतिः
अपुत्रोप्यभवद्राजा भार्यामन्यामचिन्तयन्
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः॥ १६ ॥
मूलम्
अपुत्रोप्यभवद्राजा भार्यामन्यामचिन्तयन्
तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः॥ १६ ॥
विश्वास-प्रस्तुतिः
भार्यामुवाच सन्त्रासात्स्नुषेयं ते शुचिस्मिते
एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै॥ १७ ॥
मूलम्
भार्यामुवाच सन्त्रासात्स्नुषेयं ते शुचिस्मिते
एवमुक्त्वाब्रवीदेनं कस्य केयं स्नुषेति वै॥ १७ ॥
विश्वास-प्रस्तुतिः
राजोवाच
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति
तस्याः सा तपसोग्रेण कन्यायाः सम्प्रसूयत॥ १८ ॥
मूलम्
राजोवाच
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति
तस्याः सा तपसोग्रेण कन्यायाः सम्प्रसूयत॥ १८ ॥
विश्वास-प्रस्तुतिः
पुत्रं विदर्भं सुभगं शैब्या परिणता सती
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ॥ १९ ॥
मूलम्
पुत्रं विदर्भं सुभगं शैब्या परिणता सती
राजपुत्र्यां तु विद्वांसौ स्नुषायां क्रथकौशिकौ॥ १९ ॥
विश्वास-प्रस्तुतिः
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्
पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्॥ २० ॥
मूलम्
लोमपादं तृतीयं तु पुत्रं परमधार्मिकम्
पश्चाद्विदर्भो जनयच्छूरं रणविशारदम्॥ २० ॥
विश्वास-प्रस्तुतिः
लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः
कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः॥ २१ ॥
मूलम्
लोमपादात्मजो बभ्रुर्धृतिस्तस्य तु चात्मजः
कौशिकस्यात्मजश्चेदिस्तस्माच्चैद्यनृपाः स्मृताः॥ २१ ॥
विश्वास-प्रस्तुतिः
क्रथो विदर्भपुत्रो यः कुन्तिस्तस्यात्मजोभवत्
कुन्तेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्॥ २२ ॥
मूलम्
क्रथो विदर्भपुत्रो यः कुन्तिस्तस्यात्मजोभवत्
कुन्तेर्धृष्टस्ततो जज्ञे धृष्टात्सृष्टः प्रतापवान्॥ २२ ॥
विश्वास-प्रस्तुतिः
सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा
निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः॥ २३ ॥
मूलम्
सृष्टस्य पुत्रो धर्मात्मा निवृत्तिः परवीरहा
निवृत्तिपुत्रो दाशार्हो नाम्ना स तु विदूरथः॥ २३ ॥
विश्वास-प्रस्तुतिः
दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते
जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः॥ २४ ॥
मूलम्
दाशार्हपुत्रो भीमस्तु भीमाज्जीमूत उच्यते
जीमूतपुत्रो विकृतिस्तस्यभीमरथः सुतः॥ २४ ॥
विश्वास-प्रस्तुतिः
अथ भीमरथस्यापि पुत्रो नवरथः किल
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः॥ २५ ॥
मूलम्
अथ भीमरथस्यापि पुत्रो नवरथः किल
तस्य चासीद्दशरथः शकुनिस्तस्य चात्मजः॥ २५ ॥
विश्वास-प्रस्तुतिः
तस्मात्करम्भस्तस्माच्च देवरातो बभूव ह
देवक्षत्रोभवद्राजा देवरातान्महायशाः॥ २६ ॥
मूलम्
तस्मात्करम्भस्तस्माच्च देवरातो बभूव ह
देवक्षत्रोभवद्राजा देवरातान्महायशाः॥ २६ ॥
विश्वास-प्रस्तुतिः
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः
मधुर्नाममहातेजा मधोः कुरुवशः स्मृतः॥ २७ ॥
मूलम्
देवगर्भसमो जज्ञे देवक्षत्रस्य नन्दनः
मधुर्नाममहातेजा मधोः कुरुवशः स्मृतः॥ २७ ॥
विश्वास-प्रस्तुतिः
आसीत्कुरुवशात्पुत्रः पुरुहोत्रः प्रतापवान्
अंशुर्जज्ञेथ वैदर्भ्यां द्रवन्त्यां पुरुहोत्रतः॥ २८ ॥
मूलम्
आसीत्कुरुवशात्पुत्रः पुरुहोत्रः प्रतापवान्
अंशुर्जज्ञेथ वैदर्भ्यां द्रवन्त्यां पुरुहोत्रतः॥ २८ ॥
विश्वास-प्रस्तुतिः
वेत्रकी त्वभवद्भार्या अंशोस्तस्यां व्यजायत
सात्वतः सत्वसम्पन्नः सात्वतान्कीर्तिवर्द्धनः॥ २९ ॥
मूलम्
वेत्रकी त्वभवद्भार्या अंशोस्तस्यां व्यजायत
सात्वतः सत्वसम्पन्नः सात्वतान्कीर्तिवर्द्धनः॥ २९ ॥
विश्वास-प्रस्तुतिः
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः॥ ३० ॥
मूलम्
इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः॥ ३० ॥
विश्वास-प्रस्तुतिः
सात्वतान्सत्वसम्पन्ना कौसल्या सुषुवे सुतान्
तेषां सर्गाश्च चत्वारो विस्तरेणैव तान्शृणु॥ ३१ ॥
मूलम्
सात्वतान्सत्वसम्पन्ना कौसल्या सुषुवे सुतान्
तेषां सर्गाश्च चत्वारो विस्तरेणैव तान्शृणु॥ ३१ ॥
विश्वास-प्रस्तुतिः
भजमानस्य सृञ्जय्यां भाजनामा सुतोभवत्
सृञ्जयस्य सुतायां तु भाजकास्तु ततोभवन्॥ ३२ ॥
मूलम्
भजमानस्य सृञ्जय्यां भाजनामा सुतोभवत्
सृञ्जयस्य सुतायां तु भाजकास्तु ततोभवन्॥ ३२ ॥
विश्वास-प्रस्तुतिः
तस्य भाजस्य भार्ये द्वे सुषुवाते सुतान्बहून्
नेमिं चकृकणं चैव वृष्णिं परपुरञ्जयं॥ ३३ ॥
मूलम्
तस्य भाजस्य भार्ये द्वे सुषुवाते सुतान्बहून्
नेमिं चकृकणं चैव वृष्णिं परपुरञ्जयं॥ ३३ ॥
विश्वास-प्रस्तुतिः
ते भाजकाः स्मृता यस्माद्भजमानाद्वि जज्ञिरे
देवावृधः पृथुर्नाम मधूनां मित्रवर्द्धनः॥ ३४ ॥
मूलम्
ते भाजकाः स्मृता यस्माद्भजमानाद्वि जज्ञिरे
देवावृधः पृथुर्नाम मधूनां मित्रवर्द्धनः॥ ३४ ॥
विश्वास-प्रस्तुतिः
अपुत्रस्त्वभवद्राजा चचार परमं तपः
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्॥ ३५ ॥
मूलम्
अपुत्रस्त्वभवद्राजा चचार परमं तपः
पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन्॥ ३५ ॥
विश्वास-प्रस्तुतिः
संयोज्य कृष्णमेवाथ पर्णाशाया जलं स्पृशन्
सा तोयस्पर्शनात्तस्य सान्निध्यं निम्नगा ह्यगात्॥ ३६ ॥
मूलम्
संयोज्य कृष्णमेवाथ पर्णाशाया जलं स्पृशन्
सा तोयस्पर्शनात्तस्य सान्निध्यं निम्नगा ह्यगात्॥ ३६ ॥
विश्वास-प्रस्तुतिः
कल्याणं चरतस्तस्य शुशोच निम्नगाततः
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्॥ ३७ ॥
मूलम्
कल्याणं चरतस्तस्य शुशोच निम्नगाततः
चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम्॥ ३७ ॥
विश्वास-प्रस्तुतिः
भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः
जायेत तस्मादद्याहं भवाम्यस्य सुतप्रदा॥ ३८ ॥
मूलम्
भूत्वा गच्छाम्यहं नारी यस्यामेवं विधः सुतः
जायेत तस्मादद्याहं भवाम्यस्य सुतप्रदा॥ ३८ ॥
विश्वास-प्रस्तुतिः
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः
ज्ञापयामास राजानं तामियेष नृपस्ततः॥ ३९ ॥
मूलम्
अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः
ज्ञापयामास राजानं तामियेष नृपस्ततः॥ ३९ ॥
विश्वास-प्रस्तुतिः
अथसानवमेमासिसुषुवेसरितांवरा
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधात्परम्॥ ४० ॥
मूलम्
अथसानवमेमासिसुषुवेसरितांवरा
पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधात्परम्॥ ४० ॥
विश्वास-प्रस्तुतिः
अत्र वंशे पुराणज्ञा ब्रुवन्तीति परिश्रुतम्
गुणान्देवावृधस्याथ कीर्त्तयन्तो महात्मनः॥ ४१ ॥
मूलम्
अत्र वंशे पुराणज्ञा ब्रुवन्तीति परिश्रुतम्
गुणान्देवावृधस्याथ कीर्त्तयन्तो महात्मनः॥ ४१ ॥
विश्वास-प्रस्तुतिः
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः
षष्टिः शतं च पुत्राणां सहस्राणि च सप्ततिः॥ ४२ ॥
मूलम्
बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः
षष्टिः शतं च पुत्राणां सहस्राणि च सप्ततिः॥ ४२ ॥
विश्वास-प्रस्तुतिः
एतेमृतत्वं सम्प्राप्ता बभ्रोर्देवावृधादपि
यज्ञदानतपोधीमान्ब्रह्मण्यस्सुदृढव्रतः॥ ४३ ॥
मूलम्
एतेमृतत्वं सम्प्राप्ता बभ्रोर्देवावृधादपि
यज्ञदानतपोधीमान्ब्रह्मण्यस्सुदृढव्रतः॥ ४३ ॥
विश्वास-प्रस्तुतिः
रूपवांश्च महातेजा भोजोतोमृतकावतीम्
शरकान्तस्य दुहिता सुषुवे चतुरः सुतान्॥ ४४ ॥
मूलम्
रूपवांश्च महातेजा भोजोतोमृतकावतीम्
शरकान्तस्य दुहिता सुषुवे चतुरः सुतान्॥ ४४ ॥
विश्वास-प्रस्तुतिः
कुकुरं भजमानं च श्यामं कम्बलबर्हिषम्
कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः॥ ४५ ॥
मूलम्
कुकुरं भजमानं च श्यामं कम्बलबर्हिषम्
कुकुरस्यात्मजो वृष्टिर्वृष्टेस्तु तनयो धृतिः॥ ४५ ॥
विश्वास-प्रस्तुतिः
कपोतरोमा तस्यापि तित्तिरिस्तस्य चात्मजः
तस्यासीद्बहुपुत्रस्तु विद्वान्पुत्रो नरिः किल॥ ४६ ॥
मूलम्
कपोतरोमा तस्यापि तित्तिरिस्तस्य चात्मजः
तस्यासीद्बहुपुत्रस्तु विद्वान्पुत्रो नरिः किल॥ ४६ ॥
विश्वास-प्रस्तुतिः
ख्यायते तस्य नामान्यच्चन्दनोदकदुन्दुभिः
अस्यासीदभिजित्पुत्रस्ततो जातः पुनर्वसुः॥ ४७ ॥
मूलम्
ख्यायते तस्य नामान्यच्चन्दनोदकदुन्दुभिः
अस्यासीदभिजित्पुत्रस्ततो जातः पुनर्वसुः॥ ४७ ॥
विश्वास-प्रस्तुतिः
अपुत्रोह्यभिजित्पूर्वमृषिभिः प्रेरितो मुदा
अश्वमेधन्तुपुत्रार्थमाजुहावनरोत्तमः॥ ४८ ॥
मूलम्
अपुत्रोह्यभिजित्पूर्वमृषिभिः प्रेरितो मुदा
अश्वमेधन्तुपुत्रार्थमाजुहावनरोत्तमः॥ ४८ ॥
विश्वास-प्रस्तुतिः
तस्य मध्ये विचरतः सभामध्यात्समुत्थितः
अन्धस्तु विद्वान्धर्मज्ञो यज्ञदाता पुनर्वसुः॥ ४९ ॥
मूलम्
तस्य मध्ये विचरतः सभामध्यात्समुत्थितः
अन्धस्तु विद्वान्धर्मज्ञो यज्ञदाता पुनर्वसुः॥ ४९ ॥
विश्वास-प्रस्तुतिः
तस्यासीत्पुत्रमिथुनं वसोश्चारिजितः किल
आहुकश्चाहुकी चैव ख्याता मतिमतां वर५० 1.13.50
इमांश्चोदाहरन्त्यत्र श्लोकांश्चातिरसात्मकान्
सोपासङ्गानुकर्षाणां तनुत्राणां वरूथिनाम्॥ ५१ ॥
मूलम्
तस्यासीत्पुत्रमिथुनं वसोश्चारिजितः किल
आहुकश्चाहुकी चैव ख्याता मतिमतां वर५० 1.13.50
इमांश्चोदाहरन्त्यत्र श्लोकांश्चातिरसात्मकान्
सोपासङ्गानुकर्षाणां तनुत्राणां वरूथिनाम्॥ ५१ ॥
विश्वास-प्रस्तुतिः
रथानां मेघघोषाणां सहस्राणि दशैव तु
नासत्यवादिनो भोजा नायज्ञा नासहस्रदाः॥ ५२ ॥
मूलम्
रथानां मेघघोषाणां सहस्राणि दशैव तु
नासत्यवादिनो भोजा नायज्ञा नासहस्रदाः॥ ५२ ॥
विश्वास-प्रस्तुतिः
नाशुचिर्नाप्यविद्वांसो न भोजादधिकोभवत्
आहुकां तमनुप्राप्त इत्येषोन्वय उच्यते॥ ५३ ॥
मूलम्
नाशुचिर्नाप्यविद्वांसो न भोजादधिकोभवत्
आहुकां तमनुप्राप्त इत्येषोन्वय उच्यते॥ ५३ ॥
विश्वास-प्रस्तुतिः
आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ
आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत॥ ५४ ॥
मूलम्
आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ
आहुकस्यैव दुहिता पुत्रौ द्वौ समसूयत॥ ५४ ॥
विश्वास-प्रस्तुतिः
देवकं चोग्रसेनं च देवगर्भसमावुभौ
देवकस्य सुताश्चैव जज्ञिरे त्रिदशोपमाः॥ ५५ ॥
मूलम्
देवकं चोग्रसेनं च देवगर्भसमावुभौ
देवकस्य सुताश्चैव जज्ञिरे त्रिदशोपमाः॥ ५५ ॥
विश्वास-प्रस्तुतिः
देववानुपदेवश्च सुदेवो देवरक्षितः
तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ॥ ५६ ॥
मूलम्
देववानुपदेवश्च सुदेवो देवरक्षितः
तेषां स्वसारः सप्तैव वसुदेवाय ता ददौ॥ ५६ ॥
विश्वास-प्रस्तुतिः
देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा
श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी॥ ५७ ॥
मूलम्
देवकी श्रुतदेवा च यशोदा च श्रुतिश्रवा
श्रीदेवा चोपदेवा च सुरूपा चेति सप्तमी॥ ५७ ॥
विश्वास-प्रस्तुतिः
नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः
न्यग्रोधस्तु सुनामा च कङ्कः शङ्कुः सुभूश्च यः॥ ५८ ॥
मूलम्
नवोग्रसेनस्य सुताः कंसस्तेषां च पूर्वजः
न्यग्रोधस्तु सुनामा च कङ्कः शङ्कुः सुभूश्च यः॥ ५८ ॥
विश्वास-प्रस्तुतिः
अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः
तेषां स्वसारः पञ्चासन्कंसा कंसवती तथा॥ ५९ ॥
मूलम्
अन्यस्तु राष्ट्रपालश्च बद्धमुष्टिः समुष्टिकः
तेषां स्वसारः पञ्चासन्कंसा कंसवती तथा॥ ५९ ॥
विश्वास-प्रस्तुतिः
सुरभी राष्ट्रपाली च कङ्का चेति वराङ्गनाः
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः॥ ६० ॥
मूलम्
सुरभी राष्ट्रपाली च कङ्का चेति वराङ्गनाः
उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः॥ ६० ॥
विश्वास-प्रस्तुतिः
भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः
राजाधिदेवः शूरश्च विदूरथसुतोभवत्॥ ६१ ॥
मूलम्
भजमानस्य पुत्रोभूद्रथिमुख्यो विदूरथः
राजाधिदेवः शूरश्च विदूरथसुतोभवत्॥ ६१ ॥
विश्वास-प्रस्तुतिः
राजाधिदेवस्य सुतौ जज्ञाते वीरसम्मतौ
क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः॥ ६२ ॥
मूलम्
राजाधिदेवस्य सुतौ जज्ञाते वीरसम्मतौ
क्षत्रव्रतेतिनिरतौ शोणाश्वः श्वेतवाहनः॥ ६२ ॥
विश्वास-प्रस्तुतिः
शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः
शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः॥ ६३ ॥
मूलम्
शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः
शमी च राजशर्मा च निमूर्त्तः शत्रुजिच्छुचिः॥ ६३ ॥
विश्वास-प्रस्तुतिः
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः
प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः
हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः॥ ६४ ॥
मूलम्
शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः
प्रतिक्षत्रसुतो भोजो हृदीकस्तस्य चात्मजः
हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः॥ ६४ ॥
विश्वास-प्रस्तुतिः
कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः
देवार्हश्च सुभानुश्च भीषणश्च महाबलः॥ ६५ ॥
मूलम्
कृतवर्माग्रजस्तेषां शतधन्वा च सत्तमः
देवार्हश्च सुभानुश्च भीषणश्च महाबलः॥ ६५ ॥
विश्वास-प्रस्तुतिः
अजातश्च विजातश्च करकश्च करन्धमः
देवार्हस्य सुतो विद्वान्जज्ञे कम्बलबर्हिषः॥ ६६ ॥
मूलम्
अजातश्च विजातश्च करकश्च करन्धमः
देवार्हस्य सुतो विद्वान्जज्ञे कम्बलबर्हिषः॥ ६६ ॥
विश्वास-प्रस्तुतिः
असमौजास्ततस्तस्य समौजाश्च सुतावुभौ
अजातपुत्रस्य सुतौ प्रजायेते समौजसौ॥ ६७ ॥
मूलम्
असमौजास्ततस्तस्य समौजाश्च सुतावुभौ
अजातपुत्रस्य सुतौ प्रजायेते समौजसौ॥ ६७ ॥
विश्वास-प्रस्तुतिः
समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः
सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः॥ ६८ ॥
मूलम्
समौजः पुत्रा विख्यातास्त्रयः परमधार्मिकाः
सुदंशश्च सुवंशश्च कृष्ण इत्यनुनामतः॥ ६८ ॥
विश्वास-प्रस्तुतिः
अन्धकानामिमं वंशं यः कीर्तयति नित्यशः
आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः॥ ६९ ॥
मूलम्
अन्धकानामिमं वंशं यः कीर्तयति नित्यशः
आत्मनो विपुलं वंशं प्रजामाप्नोत्ययं ततः॥ ६९ ॥
विश्वास-प्रस्तुतिः
गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः
गान्धारी जनयामास सुनित्रं मित्रवत्सलम्॥ ७० ॥
मूलम्
गान्धारी चैव माद्री च क्रोष्टोर्भार्ये बभूवतुः
गान्धारी जनयामास सुनित्रं मित्रवत्सलम्॥ ७० ॥
विश्वास-प्रस्तुतिः
माद्री युधाजितं पुत्रं ततो वै देवमीढुषं
अनमित्रं शिनिं चैव पञ्चात्र कृतलक्षणाः॥ ७१ ॥
मूलम्
माद्री युधाजितं पुत्रं ततो वै देवमीढुषं
अनमित्रं शिनिं चैव पञ्चात्र कृतलक्षणाः॥ ७१ ॥
विश्वास-प्रस्तुतिः
अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ
प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ॥ ७२ ॥
मूलम्
अनमित्रसुतो निघ्नो निघ्नस्यापि च द्वौ सुतौ
प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ॥ ७२ ॥
विश्वास-प्रस्तुतिः
स्यमन्तकं प्रसेनस्य मणिरत्नमनुत्तमं
पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्॥ ७३ ॥
मूलम्
स्यमन्तकं प्रसेनस्य मणिरत्नमनुत्तमं
पृथिव्यां मणिरत्नानां राजेति समुदाहृतम्॥ ७३ ॥
विश्वास-प्रस्तुतिः
हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत
मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्॥ ७४ ॥
मूलम्
हृदि कृत्वा सुबहुशो मणिं तं स व्यराजत
मणिरत्नं ययाचेथ राजार्थं शौरिरुत्तमम्॥ ७४ ॥
विश्वास-प्रस्तुतिः
गोविन्दश्च न तं लेभे शक्तोपि न जहार सः
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः॥ ७५ ॥
मूलम्
गोविन्दश्च न तं लेभे शक्तोपि न जहार सः
कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः॥ ७५ ॥
विश्वास-प्रस्तुतिः
बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्
ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्॥ ७६ ॥
मूलम्
बिले शब्दं स शुश्राव कृतं सत्त्वेन केनचित्
ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमासदत्॥ ७६ ॥
विश्वास-प्रस्तुतिः
ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्
आसाद्य युयुधाते तौ परस्परजयेच्छया॥ ७७ ॥
मूलम्
ऋक्षः प्रसेनं च तथा ऋक्षं चापि प्रसेनजित्
आसाद्य युयुधाते तौ परस्परजयेच्छया॥ ७७ ॥
विश्वास-प्रस्तुतिः
हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्
प्रसेनं तु हतं श्रुत्वा गोविन्दः परिशङ्कितः॥ ७८ ॥
मूलम्
हत्वा ऋक्षः प्रसेनं च ततस्तं मणिमाददात्
प्रसेनं तु हतं श्रुत्वा गोविन्दः परिशङ्कितः॥ ७८ ॥
विश्वास-प्रस्तुतिः
सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः
गोविन्देन हतो नूनं प्रसेनो मणिकारणात्॥ ७९ ॥
मूलम्
सत्राजित्रा तु तद्भ्रात्रा यादवैश्च तथापरैः
गोविन्देन हतो नूनं प्रसेनो मणिकारणात्॥ ७९ ॥
विश्वास-प्रस्तुतिः
प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः
तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमन्तकम्॥ ८० ॥
मूलम्
प्रसेनस्तु गतोरण्यं मणिरत्नेन भूषितः
तं दृष्ट्वा निजघानाथ न त्यजन्तं स्यमन्तकम्॥ ८० ॥
विश्वास-प्रस्तुतिः
जघानैवाप्रदानेन शत्रुभूतं च केशवः
इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः॥ ८१ ॥
मूलम्
जघानैवाप्रदानेन शत्रुभूतं च केशवः
इति प्रवादस्सर्वत्र ख्यातस्सत्राजिता कृतः॥ ८१ ॥
विश्वास-प्रस्तुतिः
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः
यदृच्छया च गोविन्दो बिलाभ्याशमथागमत्॥ ८२ ॥
मूलम्
अथ दीर्घेण कालेन मृगयां निर्गतः पुनः
यदृच्छया च गोविन्दो बिलाभ्याशमथागमत्॥ ८२ ॥
विश्वास-प्रस्तुतिः
ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली
शब्दं श्रुत्वा तु गोविन्दः खङ्गपाणिः प्रविश्य च॥ ८३ ॥
मूलम्
ततश्शब्दं यथापूर्वं स चक्रे ऋक्षराड्बली
शब्दं श्रुत्वा तु गोविन्दः खङ्गपाणिः प्रविश्य च॥ ८३ ॥
विश्वास-प्रस्तुतिः
अपश्यज्जाम्बवन्तं च ऋक्षराजं महाबलं
ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा॥ ८४ ॥
मूलम्
अपश्यज्जाम्बवन्तं च ऋक्षराजं महाबलं
ततस्तूर्णं हृषीकेशस्तमृक्षमतिरंहसा॥ ८४ ॥
विश्वास-प्रस्तुतिः
जाम्बवन्तं स जग्राह क्रोधसंरक्तलोचनः
दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं॥ ८५ ॥
मूलम्
जाम्बवन्तं स जग्राह क्रोधसंरक्तलोचनः
दृष्ट्वा चैनं तथा विष्णुं कर्मभिर्वैष्णवीं तनुं॥ ८५ ॥
विश्वास-प्रस्तुतिः
तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं
ततस्तु भगवांस्तुष्टो वरेण समरोचयत्॥ ८६ ॥
मूलम्
तुष्टाव ऋक्षराजोपि विष्णुसूक्तेन सत्वरं
ततस्तु भगवांस्तुष्टो वरेण समरोचयत्॥ ८६ ॥
विश्वास-प्रस्तुतिः
जाम्बवानुवाच
इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम्
कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्॥ ८७ ॥
मूलम्
जाम्बवानुवाच
इष्टं चक्रप्रहारेण त्वत्तो मे मरणं शुभम्
कन्या चेयं मम सुता भर्त्तारं त्वामवाप्नुयात्॥ ८७ ॥
विश्वास-प्रस्तुतिः
योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम्
स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते॥ ८८ ॥
मूलम्
योयं मणिः प्रसेनात्तु हत्वा चैवाप्तवानहम्
स त्वया गृह्यतां नाथ मणिरेषोऽत्र वर्त्तते॥ ८८ ॥
विश्वास-प्रस्तुतिः
इत्युक्तो जाम्बवन्तं वै हत्वा चक्रेण केशवः
कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा॥ ८९ ॥
मूलम्
इत्युक्तो जाम्बवन्तं वै हत्वा चक्रेण केशवः
कृतकार्यो महाबाहुः कन्यां चैवाददौ तदा॥ ८९ ॥
विश्वास-प्रस्तुतिः
ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ
यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ॥ ९० ॥
मूलम्
ततः सत्राजिते चैतन्मणिरत्नं स वै ददौ
यल्लब्धमृक्षराजाच्च सर्वयादवसन्निधौ॥ ९० ॥
विश्वास-प्रस्तुतिः
तेन मिथ्याप्रवादेन सन्तप्तोयं जनार्दनः
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्॥ ९१ ॥
मूलम्
तेन मिथ्याप्रवादेन सन्तप्तोयं जनार्दनः
ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन्॥ ९१ ॥
विश्वास-प्रस्तुतिः
अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः
एकैकस्यास्तु सुन्दर्यो दश सत्राजितः सुताः॥ ९२ ॥
मूलम्
अस्माकं मनसि ह्यासीत्प्रसेनस्तु त्वया हतः
एकैकस्यास्तु सुन्दर्यो दश सत्राजितः सुताः॥ ९२ ॥
विश्वास-प्रस्तुतिः
सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः
विख्याताश्च महावीर्या भङ्गकारश्च पूर्वजः॥ ९३ ॥
मूलम्
सत्योत्पन्नास्सुतास्तस्य शतमेकं च विश्रुताः
विख्याताश्च महावीर्या भङ्गकारश्च पूर्वजः॥ ९३ ॥
विश्वास-प्रस्तुतिः
सत्या व्रतवती स्वप्ना भङ्गकारस्य पूर्वजा
सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्॥ ९४ ॥
मूलम्
सत्या व्रतवती स्वप्ना भङ्गकारस्य पूर्वजा
सुषुवुस्ताः कुमारांश्च शिनीवालः प्रतापवान्॥ ९४ ॥
विश्वास-प्रस्तुतिः
अभङ्गो युयुधानश्च शिनिस्तस्यात्मजोभवत्
तस्माद्युगन्धरः पुत्राश्शतं तस्य प्रकीर्तिताः॥ ९५ ॥
मूलम्
अभङ्गो युयुधानश्च शिनिस्तस्यात्मजोभवत्
तस्माद्युगन्धरः पुत्राश्शतं तस्य प्रकीर्तिताः॥ ९५ ॥
विश्वास-प्रस्तुतिः
अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः
अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनन्दनः॥ ९६ ॥
मूलम्
अनमित्राह्वयो यो वै विख्यातो वृष्णिवंशजः
अनमित्रात्शिनिर्जज्ञे कनिष्ठो वृष्णिनन्दनः॥ ९६ ॥
विश्वास-प्रस्तुतिः
अनमित्राच्च सञ्जज्ञे वृष्णिवीरो युधाजितः
अन्यौ च तनयौ वीरा वृषभश्चित्र एव च॥ ९७ ॥
मूलम्
अनमित्राच्च सञ्जज्ञे वृष्णिवीरो युधाजितः
अन्यौ च तनयौ वीरा वृषभश्चित्र एव च॥ ९७ ॥
विश्वास-प्रस्तुतिः
ऋषभः काशिराजस्य सुतां भार्यामनिन्दितां
जयन्तश्च जयन्तीं च शुभां भार्यामविन्दत॥ ९८ ॥
मूलम्
ऋषभः काशिराजस्य सुतां भार्यामनिन्दितां
जयन्तश्च जयन्तीं च शुभां भार्यामविन्दत॥ ९८ ॥
विश्वास-प्रस्तुतिः
जयन्तस्य जयन्त्यां वै पुत्रः समभवत्ततः
सदा यज्वातिधीरश्च श्रुतवानतिथिप्रियः॥ ९९ ॥
मूलम्
जयन्तस्य जयन्त्यां वै पुत्रः समभवत्ततः
सदा यज्वातिधीरश्च श्रुतवानतिथिप्रियः॥ ९९ ॥
अक्रूरः सुषुवे तस्मात्सुदक्षो भूरिदक्षिणः
रत्नकन्या च शैब्या च अक्रूरस्तामवाप्तवान्१०० 1.13.100
पुत्रानुत्पादयामास एकादशमहाबलान्
उपलम्भं सदालम्भमुत्कलं चार्य्यशैशवं१०१
सुधीरं च सदायक्षं शत्रुघ्नं वारिमेजयं
धर्मदृष्टिं च धर्मं च सृष्टिमौलिं तथैव च१०२
सर्वे च प्रतिहर्तारो रत्नानां जज्ञिरे च ते
अक्रूराच्छूरसेनायां सुतौ द्वौ कुलनन्दनौ१०३
देववानुपदेवश्च जज्ञाते देवसम्मतौ
अश्विन्यां त्रिचतुः पुत्राः पृथुर्विपृथुरेव च१०४
अश्वग्रीवो श्वबाहुश्च सुपार्श्वक गवेषणौ
रिष्टनेमिः सुवर्चा च सुधर्मा मृदुरेव च१०५
अभूमिर्बहुभूमिश्च श्रविष्ठा श्रवणे स्त्रियौ
इमां मिथ्याभिशप्तिं यो वेद कृष्णस्य बुद्धिमान्१०६
न स मिथ्याभिशापेन अभिगम्यश्च केनचित्
एक्ष्वाकी सुषुवे पुत्रं शूरमद्भुतमीढुषम्१०७
मीढुषा जज्ञिरे शूरा भोजायां पुरुषा दश
वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः१०८
देवभागस्तथा जज्ञे तथा देवश्रवाः पुनः
अनावृष्टिं कुनिश्चैव नन्दिश्चैव सकृद्यशाः१०९
श्यामः शमीकः सप्ताख्यः पञ्च चास्य वराङ्गनाः
श्रुतकीर्तिः पृथा चैव श्रुतदेवी श्रुतश्रवाः११०
राजाधिदेवी च तथा पञ्चैता वीरमातरः
वृद्धस्य श्रुतदेवी तु कारूषं सुषुवे नृपम्१११
कैकेयाच्छ्रुतकीर्तेस्तु जज्ञे सन्तर्दनो नृपः
श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत११२
राजाधिदेव्याः सम्भूतो धर्माद्भयविवर्जितः
शूरः सख्येन बद्धोसौ कुन्तिभोजे पृथां ददौ११३
एवं कुन्ती समाख्या च वसुदेवस्वसा पृथा
कुन्तिभोजोददात्तां तु पाण्डोर्भार्यामनिन्दिताम्११४
पाण्ड्वर्थेसूत देवी सा देवपुत्रान्महारथान्
धर्माद्युधिष्ठिरो जज्ञे वाताज्जज्ञे वृकोदरः११५
इन्द्राद्धनञ्जयश्चैव शक्रतुल्यपराक्रमः
योऽसौ त्रिपुरुषाज्जातस्त्रिभिरंशैर्महारथः११६
देवकार्यकरश्चैव सर्वदानवसूदनः
अवध्याश्चापि शक्रस्य दानवा येन घातिताः११७
स्थापितस्स तु शक्रेण लब्धवर्चास्त्रिविष्टपे
माद्रवत्यां तु जनितावश्विनाविति नः श्रुतम्११८
नकुलः सहदेवश्च रूपसत्वगुणान्वितौ
रोहिणी पौरवी नाम भार्या चानकदुन्दुभेः११९
लेभे चेष्टं सुतं रामं सारणं च रणप्रियम्
दुर्धरं दमनं चैव पिण्डारकमहाहनुं१२०
अथ मायात्वमावास्या देवकी या भविष्यति
तस्यां जज्ञे महाबाहुः पूर्वं तु स प्रजापतिः१२१
अनुजाताभवत्कृष्णा सुभद्रा भद्रभाषिणी
विजयो रोचमानस्तु वर्धमानश्च देवलः१२२
एते सर्वे महात्मान उपदेव्यां प्रजज्ञिरे
अगावहं महात्मानं बृहद्देवी व्यजायत१२३
बृहद्देव्यां स्वयं जज्ञे मन्दको नाम नामतः
सप्तमं देवकी पुत्रं रेमन्तं सषुवे सुतम्१२४
गवेषणं महाभागं सङ्ग्रामेष्वपराजितम्
श्रुतदेव्या विहारे तु वने विचरता पुरा१२५
वैश्यायां समधाच्छौरिः पुत्रं कौशिकमग्रजम्
श्रुतन्धरा तु राज्ञी तु सौरगन्धपरिग्रहः१२६
पुत्रं च कपिलं चैव वसुदेवात्मजो बली
जनानां च विषादोभूत्प्रथमः स धनुर्द्धरः१२७
सौभद्रश्चाभवश्चैव महासत्वौ बभूवतुः
देवभागसुतश्चापि प्रस्तावः स बुधः स्मृतः१२८
पण्डितं प्रथमं बाहु देवश्रवसमुत्तमम्
इक्ष्वाकुकुलतो यस्य मनस्विन्या यशस्विनी१२९
निवृत्तशत्रुः शत्रुघ्नः श्रद्धा तस्मादजायत
गण्डूषायामपत्यानि कृष्णस्तुष्टः शतं ददौ१३०
स चन्द्रं तु महाभागं वीर्यवन्तं महाबलम्
रन्तिपालश्च रन्तिश्च नन्दनस्य सुतावुभौ१३१
शमीकपुत्राश्चत्वारो विक्रान्ताः सुमहाबलाः
विरजश्च धनुश्चैव व्योमस्तस्य स सृञ्जयः१३२
अनपत्योभवद्व्योमः सृञ्जयस्य धनञ्जयः
यो जायमानो भोजत्वं राजर्षित्वमवाप्तवान्१३३
कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः
शृणोति वा नरो नित्यं सर्वपापैः प्रमुच्यते१३४
अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः
विहारार्थं स देवोसौ मानुषेष्वप्यजायत१३५
देवक्यां वसुदेवेन तपसा पुष्करेक्षणः
चतुर्बाहुस्तु सञ्जातो दिव्यरूपो जनाश्रयः१३६
श्रीवत्सलक्षणं देवं दृष्ट्वा देवैः सलक्षणम्
उवाच वसुदेवस्तं रूपं संहर वै प्रभो१३७
भीतोहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते
मम पुत्रा हतास्तेन श्रेष्ठाः षड्भीमविक्रमाः१३८
वसुदेववचः श्रुत्वा रूपं संहरदच्युतः
अनुज्ञाप्य तु तं शौरिर्नन्दगोपगृहेनयत्१३९
दत्वा तं नन्दगोपाय रक्ष्यतामिति चाब्रवीत्
अतस्तुसर्वकल्याणं यादवानां भविष्यति१४०
अयं तु गर्भो देवक्या यावत्कंसं हनिष्यति
तावत्पृथिव्यां भविता क्षेमो भारावहः परम्१४१
ये वै दुष्टास्तु राजानस्तांस्तु सर्वान्हनिष्यति
कौरवाणां रणे भूते सर्वक्षत्रसमागमे१४२
सारथ्यमर्जुनस्यायं स्वयं देवः करिष्यति
निःक्षत्रियां धरां कृत्वा भोक्ष्यते शेषतां गताम्१४३
सर्वं यदुकुलं चैव देवलोकं नयिष्यति
भीष्म उवाच
क एष वसुदेवस्तु देवकी का यशस्विनी१४४
नन्दगोपश्च कश्चैव यशोदा का महाव्रता
या विष्णुं पोषितवती यां स मातेत्यभाषत१४५
या गर्भं जनयामास या चैनं समवर्द्धयत्
पुलस्त्य उवाच
पुरुषः कश्यपश्चासावदितिस्तत्प्रिया स्मृता१४६
कश्यपो ब्रह्मणोंशस्तु पृथिव्या अदितिस्तथा
नन्दो द्रोणस्समाख्यातो यशोदाथ धराभवत्१४७
अथकामान्महाबाहुर्देवक्याः समपूरयत्
ये तया काङ्क्षिताः पूर्वमजात्तस्मान्महात्मनः१४८
अचिरं स महादेवः प्रविष्टो मानुषीं तनुं
मोहयन्सर्वभूतानि योगाद्योगी समाययौ१४९
नष्टे धर्मे तथा यज्ञे विष्णुर्वृष्णिकुले विभुः
कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम्१५० 1.13.150
रुक्मिणी सत्यभामा च सत्या नाग्निजिती तथा
सुमित्रा च तथा शैब्या गान्धारी लक्ष्मणा तथा१५१
सुभीमा च तथा माद्री कौशल्या विजया तथा
एवमादीनि देवीनां सहस्राणि च षोडश१५२
रुक्मिणी जनयामास पुत्रान्शृणु विशारदान्
चारुदेष्णं रणेशूरं प्रद्युम्नञ्च महाबलम्१५३
सुचारुं चारुभद्रञ्च सदश्वं ह्रस्वमेव च
सप्तमञ्चारुगुप्तञ्च चारुभद्रञ्च चारुकं१५४
चारुहासं कनिष्ठञ्च कन्याञ्चारुमतीं तथा
जज्ञिरे सत्यभामाया भानुर्भीमरथः क्षणः१५५
रोहितो दीप्तिमांश्चैव ताम्रबन्धो जलन्धमः
चतस्रो जज्ञिरे तेषां स्वसारश्च यवीयसीः१५६
जाम्बवत्याः सुतो जज्ञे साम्बश्चैवातिशोभनः
सौरशास्त्रस्य कर्त्ता वै प्रतिमा मन्दिरस्य च१५७
मूलस्थाने निवेशश्च कृतस्तेन महात्मना
तुष्टेन देवदेवेन कुष्ठरोगो विनाशितः१५८
सुमित्रं चारुमित्रं च मित्रविन्दा व्यजायत
मित्रबाहुः सुनीथश्च नाग्नजित्यां बभूवतुः१५९
एवमादीनि पुत्राणांसहस्राणि निशामय
अशीतिश्च सहस्राणां वासुदेवसुतास्तथा१६०
प्रद्युम्नस्य च दायादो वैदर्भ्यां बुद्धिसत्तमः
अनिरुद्धो रणे योद्धा जज्ञेस्य मृगकेतनः१६१
काम्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनम्
सत्त्वप्रकृतयो देवाः पराः पञ्च प्रकीर्तिताः१६२
तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनां
षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः१६३
देवांशाः सर्व एवेह उत्पन्नास्ते महौजसः
दैवासुरे हता ये वा असुरास्तु महाबलाः१६४
इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान्
तेषामुद्धरणार्थाय उत्पन्ना यादवे कुले१६५
कुलानां शतमेकं च यादवानां महात्मनाम्
विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः१६६
निदेशस्थायिनस्तस्य ऋद्ध्यन्ते सर्वयादवाः
भीष्म उवाच
सप्तर्षयः कुबेरश्च यक्षो मणिधरस्तथा१६७
सात्यकिर्नारदश्चैव शिवो धन्वन्तरिस्तथा
आदिदेवस्तथाविष्णुरेभिस्तु सह दैवतैः१६८
किमर्थं सहसम्भूताः सुरसम्भूतयः क्षितौ
भविष्याः कति वा चास्य प्रादुर्भावा महात्मनः१६९
सर्वक्षेत्रेषु सर्वेषु किमर्थमिह जायते
यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धके कुले१७०
पुनःपुनर्मनुष्येषु तन्मे त्वं ब्रूहि पृच्छतः
पुलस्त्य उवाच
शृणु भूप प्रवक्ष्यामि रहस्यातिरहस्यकम्
यथा दिव्यतनुर्विष्णुर्मानुषेष्विह जायते१७१
युगान्ते तु परावृत्ते काले प्रशिथिले प्रभुः
देवासुरमनुष्येषु जायते हरिरीश्वरः१७२
हिरण्यकशिपुर्दैत्यस्त्रैलोक्यस्य प्रशासिता
बलिनाधिष्ठिते चैव पुनर्लोकत्रये क्रमात्१७३
सख्यमासीत्परमकं देवानामसुरैः सह
युगाख्या दश सम्पूर्णा आसीदव्याकुलं जगत्१७४
निदेशस्थायिनश्चापि तयोर्देवासुरा स्वयं
बद्धो बलिर्विमर्दोयं सुसंवृत्तः सुदारुणः१७५
देवानामसुराणां च घोरः क्षयकरो महान्
कर्तुं धर्मव्यवस्थां च जायते मानुषेष्विह१७६
भृगोः शापनिमित्तं तु देवासुरकृते तदा
भीष्म उवाच
कथं देवासुरकृते हरिर्देहमवाप्तवान्१७७
दैवासुरं यथावृत्तं तन्मे कथय सुव्रत
पुलस्त्य उवाच
तेषां जयनिमित्तं वै सङ्ग्रामा स्युः सुदारुणाः१७८
अवतारा दशद्वौ च शुद्धा मन्वन्तरे स्मृताः
नामधेयं समासेन शृणु तेषां विवक्षितम्१७९
प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः
तृतीयस्तु वराहश्च चतुर्थोऽमृतमन्थनः१८०
सङ्ग्रामः पञ्चमश्चैव सुघोरस्तारकामयः
षष्ठो ह्याडीबकाख्यश्च सप्तमस्त्रैपुरस्तथा१८१
अष्टमश्चान्धकवधो नवमो वृत्रघातनः
ध्वजश्च दशमस्तेषां हालाहलस्ततः परं१८२
प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा
हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः१८३
वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा
हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे तु दैवतैः१८४
दंष्ट्रया तु वराहेण समुद्रस्थो द्विधा कृतः
प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने१८५
विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः
इन्द्रेणैव च विक्रम्य निहतस्तारकामये१८६
अशक्नुवत्सु देवेषु त्रिपुरं सोढुमासुरम्
मोहयित्वाऽमृते पीते गोरूपेणासुरारिणा१८७
नासन्जीवयितुं शक्या भूयो भूयोमृतासुराः
निहता दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु१८८
असुराश्च पिशाचाश्च दानवाश्चान्धके वधे
हता देवमनुष्यैस्ते पितृभिश्चैव सर्वशः१८९
सम्पृक्तो दानवैर्वृत्रो घोरे कोलाहले हतः
तदा विष्णुसहायेन महेन्द्रेण निपातितः१९०
हतस्ततो महेन्द्रेण मायाछन्नस्तु योगवित्
वज्रेण क्षणमाविश्य विप्रचित्तिः सहानुगः१९१
दैत्याश्च दानवाश्चैव संयुताः कृत्स्नशस्तु ते
एते दैवाऽसुरावृत्ताः सङ्ग्रामाद्वा दशैव तु१९२
देवासुरक्षयकराः प्रजानां च हिताय वै
हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ१९३
द्विसप्ततिं तथान्यानि नियुतान्यधिकानि तु
अशीति च सहस्राणि त्रैलोक्यैश्वर्यवानभूत्१९४
पर्यायेण तु राजाभूद्बलिर्वर्षार्बुदं पुनः
षष्ठिं चैव सहस्राणि नियुतानि च विंशतिं१९५
बलिराज्याधिकारे तु यावत्कालश्च कीर्तितः
तावत्कालं तु प्रह्लादो निर्वृतो ह्यसुरैः सह१९६
जयार्थमेते विज्ञेया असुराणां महौजसः
त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते१९७
असम्पन्नमिदं सर्वं यावद्वर्षायुतं पुनः
पर्यायेणैव सम्प्राप्ते त्रैलोक्यं पाकशासने१९८
ततोऽसुरान्परित्यज्य यज्ञो देवानगच्छत
यज्ञे देवानथ गते दितिजाः काव्यमब्रुवन्१९९
दैत्या ऊचुः-
हृतं मघवता राज्यं त्यक्त्वा यज्ञः सुरान्गतः
स्थातुं न शुक्नुमो ह्यत्र प्रविशामो रसातलम्२०० 1.13.200
एवमुक्तोब्रवीदेतान्विषण्णान्सान्त्वयन्गिरा
मा भैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुराः२०१
मन्त्राश्चौषधयश्चैव धरायां यत्तु वर्तते
मयि तिष्ठति तत्सर्वं पादमात्रं सुरेषु वै२०२
तत्सर्वं च प्रदास्यामि युष्मदर्थे धृतं मया
ततो देवास्तुतान्दृष्ट्वा धृतान्काव्येन धीमता२०३
अमन्त्रयन्त देवा वै संविग्नास्तज्जिघृक्षया
काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात्२०४
साधु गच्छामहे तूर्णं यावन्न च्यावयेत वै
प्रसह्य जित्वा शिष्टांस्तु पातालं प्रापयामहे२०५
ततो देवास्तु संरब्धा दानवानुपसृत्य ह
ततस्ते वध्यमानास्तैः काव्यमेवाभिदुद्रुवुः२०६
ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान्
रक्षाकार्येण संहृत्य देवेभ्यस्तान्सुरार्दितान्२०७
काव्यं दृष्ट्वा स्थितं देवा निर्विशङ्कास्तु ते जहुः
ततः काव्योनुचिन्त्याथ ब्रह्मणो वचनं हितम्२०८
तानुवाच ततः काव्यः पूर्ववृत्तमनुस्मरन्
त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः२०९
बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः
महासुरा द्वादशसु सङ्ग्रामेषु सुरैर्हताः२१०
तैस्तैरुपायैर्भूयिष्ठा निहतास्तु प्रधानतः
केचिच्छिष्टाश्च यूयं वै युद्धं नास्तीति मे मतम्२११
नीतयो वो विधातव्या उपासे कालपर्ययात्
यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम्२१२
अप्रतीपांस्ततो देवान्मन्त्रान्प्राप्य महेश्वरात्
योत्स्यामहे पुनर्देवैस्ततः प्राप्स्यथ वै जयम्२१३
ततस्ते कृतसंवादा देवानूचुस्तदासुराः
न्यस्तशस्त्रा वयं सर्वे निःस्सन्नाहा रथैर्विना२१४
वयं तपश्चरिष्यामः संवृता वल्कलैस्तथा
देवास्तेषां वचः श्रुत्वा सत्याभिव्याहृतं ततः२१५
ततोन्यवर्तयन्सर्वे विज्वरा मुदिताश्च ते
न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः२१६
ततस्तानब्रवीत्काव्य उपाध्वं तपसि स्थिताः
निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम्२१७
पितुराश्रमसंस्था वै मां प्रतीक्षथ दानवाः
तानुद्दिश्यासुरान्काव्यो महादेवं प्रपद्यत२१८
शुक्र उवाच
मन्त्रानिच्छाम्यहं देव येन सन्ति बृहस्पतौ
पराभवाय देवानामसुराणां जयाय च२१९
एवमुक्तोब्रवीद्देवो व्रतं त्वं चर भार्गव
पूर्णं वर्षसहस्रं तु कणधूममधः शिराः२२०
यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि
तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः२२१
पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः
व्रतं चराम्यहं देव त्वयादिष्टोद्य वै प्रभो२२२
आदिष्टो देवदेवेन कृतवान्भार्गवो मुनिः
तदा तस्मिन्गते शुक्रे असुराणां हिताय वै२२३
मन्त्रार्थे तनुते काव्यो ब्रह्मचर्यं महेश्वरात्
तद्बुद्ध्वा नीतिपूर्वं वै राजन्यास्तु तदा सुखं२२४
अस्मिंश्छिद्रे तदामर्षाद्देवास्तानभिदुद्रुवुः
दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः२२५
दृष्ट्वा सुरगणा देवान्प्रगृहीतायुधान्पुनः
उत्पेतुस्सहसा सर्वे सन्त्रस्तास्तान्वचोब्रुवत्२२६
दैत्या ऊचुः
न्यस्तशस्त्रा वयं देवा आचार्ये व्रतमास्थिते
दत्वा भवन्तस्त्वभयं सम्प्राप्ता नो जिघांसया२२७
अनमर्षा वयं सर्वे त्यक्तशस्त्राश्च संस्थिताः
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः२२८
रणे विजेतुं देवांश्च न शक्ष्यामः कथञ्चन
अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम्२२९
ज्ञापयामः कृच्छ्रमिदं यावन्नाभ्येति नो गुरुः
निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः२३०
एवमुक्त्वा च तेन्योन्यं शरणं काव्यमातरम्
प्रापद्यन्त ततो भीतास्तेभ्योऽदादभयं तु सा२३१
न भेतव्यं न भेतव्यं भयं त्यजत दानवाः
मत्सन्निधौ वर्त्ततां वो न भीर्भवितुर्महति२३२
तयाभिरक्षितांस्तांश्च दृष्ट्वा देवास्तदाऽसुरान्
अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम्२३३
ततस्तान्बध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा
देवी क्रुद्धाब्रवीद्देवान्निद्रया मोहयाम्यहम्२३४
सम्भृत्य सर्वसम्भारान्निद्रां सा व्यसृजत्तदा
तस्तम्भ देवी च बलाद्योगयुक्ता तपोधना२३५
ततस्तं स्तभितं दृष्ट्वा इन्द्रं देवाश्च मूढवत्
प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम्२३६
गतेषु सुरसङ्घेषु विष्णुरिन्द्रमभाषत
विष्णुरुवाच
मां त्वं प्रविश भद्रं ते रक्षिष्ये त्वां सुरोत्तम२३७
एवमुक्तस्ततो विष्णुं प्रविवेश पुरन्दरः
विष्णुसंरक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत्२३८
एष त्वां विष्णुना सार्धं दहामि मघवन्बलात्
मिषतां सर्वभूतानां दृश्यतां मे तपोबलम्२३९
तयाभिभूतौ तौ देवाविन्द्रविष्णू बभूवतुः
कथं मुच्येय सहितो विष्णुरिन्द्रमभाषत२४०
इन्द्रोब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो
विशेषेणाभिभूतोस्मि जहीमां जहि मा चिरम्२४१
ततः समीक्ष्य विष्णुस्तांस्त्रीवधे कृच्छ्रमास्थितः
अभिध्याय ततः शक्रमापन्नं सत्वरं प्रभुः२४२
ततः स त्वरयायुक्तः शीघ्रकारी भयान्वितः
ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्याश्चिकीर्षितम्२४३
क्रुद्धश्च चक्रमादाय शिरश्चिच्छेद वै भयात्
तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः२४४
ततो हि शप्तो भृगुणा विष्णुर्भार्यावधे कृते
भृगुरुवाच
यत्त्वया जानता धर्ममवध्या स्त्री निषूदिता२४५
तस्मात्त्वं सप्तकृत्वो हि मानुषेषूपयास्यसि
ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः२४६
लोकस्य च हितार्थाय जायते मानुषेष्विह
अथ व्याहृत्य विष्णुं स तदादाय शिरः स्वयम्२४७
समानीय ततः कायं पाणौ गृह्येदमब्रवीत्
भृगुरुवाच
एषा त्वं विष्णुना देवि हता सञ्जीवयाम्यहं२४८
यदि कृत्स्नो मया धर्मो ज्ञायते चरितोपि वा
तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम्२४९
ततस्तां प्रोक्ष्य शीताद्भिर्जीवजीवेति सोब्रवीत्
ततोभिव्याहृते तस्मिन्देवी सञ्जीविता तदा२५० 1.13.250
ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव
साधुसाध्विति दृष्ट्वैव वचस्तां सर्वतोब्रुवन्२५१
एवं प्रत्याहृता तेन देवी सा भृगुणा तदा
मिषतां दैवतानां हि तदद्भुतमिवाभवत्२५२
असम्भ्रान्तेन भृगुणा पत्नी सञ्जीविता पुनः
दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः२५३
प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत्
सन्धिकामोभ्यधाद्वाक्यं स्वां कन्यां पाकशासनः२५४
इन्द्र उवाच
एष काव्यो ह्यनिन्द्राय व्रतं चरति दारुणम्
तेनाहं व्याकुलः पुत्रि कृतो मतिमता दृढम्२५५
तैस्तैर्मनोनुकूलैश्च उपचारैरतन्द्रिता
आराधय तथा पुत्रि यथा तुष्येत स द्विजः२५६
गच्छ त्वं तस्य दत्तासि प्रयत्नं कुरु मत्कृते
एवमुक्ता जयन्ती सा वचः सङ्गृह्य वै पितुः२५७
अगच्छद्यत्र घोरं स तपो ह्यारभ्य तिष्ठति
तं दृष्ट्वा च पिबन्तं सा कणधूममधोमुखम्२५८
यक्षेण पात्यमानं च कुण्डधारेण पावनम्
दृष्ट्वा तं यतमानं तु देवी काव्यमवस्थितम्२५९
शत्रूपघाते श्राम्यन्न्तं दुर्बलस्थितिमास्थितम्
पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा२६०
गीर्भिश्चैवानुकूलाभिः स्तुवन्ती वल्गुभाषिणी
गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः२६१
व्रतचर्यानुकूलाभिरुपास्य बहुलाः समाः
पूर्णे धूमव्रते तस्मिन्घोरे वर्षसहस्रके२६२
वरेण छन्दयामास शिवः प्रीतोभवत्तदा
महेश्वर उवाच
एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित्२६३
तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च
तेजसा च सुरान्सर्वांस्त्वमेकोभिभविष्यसि२६४
यच्च किञ्चिन्मयि ब्रह्मन्विद्यते भृगुनन्दन
प्रतिदास्यामि तत्सर्वं त्वया वाच्यं न कस्यचित्२६५
किं भाषितेन बहुना अवध्यस्त्वं भविष्यसि
तान्दत्वा तु वरांस्तस्मै भार्गवाय पुनः पुनः२६६
प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ
एतान्लब्ध्वा वरान्काव्यः सम्प्रहृष्टतनूरुहः२६७
एवमाभाष्य देवेशमीश्वरं नीललोहितम्
प्रज्ञान्वितस्ततस्तस्मै प्राञ्जलि प्रणतो ऽभवत्२६८
ततः सोंऽतर्हिते देवे जयन्तीमिदमब्रवीत्
कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता२६९
महता तपसा युक्ता किमर्थं मां जिगीषसि
अनया संस्थिता भक्त्या प्रश्रयेण दमेन च२७०
स्नेहेन चैव सुश्रोणि प्रीतोस्मि वरवर्णिनि
किमिच्छसि वरारोहे कस्ते कामः समुद्यतः२७१
तं ते सम्पादयाम्यद्य यद्यपि स्यात्सुदुष्करम्
एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि२७२
चिकीर्षितं हि मे ब्रह्मंस्त्वं वै वद यथातथम्
एवमुक्तोब्रवीदेनं दृष्ट्वा दिव्येन चक्षुषा२७३
मया सह त्वं सुश्रोणि शतवर्षाणि भामिनि
सर्वभूतैरदृश्यान्तः सम्प्रयोगमिहेच्छसि२७४
देवि इन्दीवरश्यामे वरार्हे वामलोचने
एवं वृणोषि कामांस्त्वं ददे वै वल्गुभाषिते२७५
एवं भवतु गच्छाव गृहं मे मत्तकाशिनि
ततः स गृहमागम्य जयन्त्या सह चोशना२७६
तया सहावसद्देव्या शतवर्षाणि भार्गवः
अदृश्यः सर्वभूतानां मायया संशितव्रतः२७७
कृतार्थमागतं ज्ञात्वा शुक्रं सर्वे दितेस्सुताः
अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः२७८
गता यदा न पश्यन्ति मायया संवृतं गुरुम्
लक्षणं तस्य चाबुद्ध्वा नाद्यागच्छति नो गुरुः२७९
एवं ते स्वानि धिष्ण्यानि गताः सर्वे यथागताः
ततो देवगणास्सर्वे गत्वाङ्गिरसमब्रुवन्२८०
दानवालये तु भगवान्गत्वा तत्र च तां चमूम्
मोहयित्वात्मवशगां क्षिप्रमेव तथा कुरु२८१
धिषणस्तान्सुरानाह एवमेव व्रजाम्यहम्
तेन गत्वा दानवेन्द्रः प्रह्लादो वै वशीकृतः२८२
शुक्रो भूत्वा स्थितस्तत्र पौरोहित्यं चकार सः
स्थितो वर्षशतं साग्रमुशना तावदागतः२८३
दनुपुत्रैस्ततो दृष्टः सभायां तु बृहस्पतिः
उशना एक एवात्र द्वितीयः किमिहागतः२८४
सुमहत्कौतुकं चात्र भविता विग्रहो दृढम्
किं वदिष्यति लोकोयं द्वारि योयं व्यवस्थितः२८५
सभायामास्थितो योयं गुरुः किं नो वदिष्यति
एवं प्रजल्पतां तेषां दनूनां कविरागतः२८६
स्वरूपधारिणं तत्र दृष्ट्वासीनं बृहस्पतिम्
उवाच वचनं क्रुद्धः किमर्थं त्वमिहागतः२८७
शिष्यान्मोहयसे मे त्वं युक्तं सुरगुरोस्तव
मूढास्ते त्वां न जानन्ति त्वन्मायामोहिता ध्रुवम्२८८
तन्न युक्तं तव ब्रह्मन्परशिष्यप्रधर्षणम्
व्रज त्वं देवलोकं स्वं तिष्ठ धर्ममवाप्स्यसि२८९
शिष्यो हि मे कचः पूर्वं हतो दानवपुङ्गवैः
विद्यार्थी तनयो ब्रह्मंस्तवायोग्या गतिस्त्विह२९०
श्रुत्वा तु तस्य तद्वाक्यं स्मितं कृत्वावदद्गुरुः
सन्ति चोराः पृथिव्यां येपरद्रव्यापहारिणः२९१
एवं विधानदृष्टाश्च रूपदेहापहारिणः
वृत्रघातेन चेन्द्रस्य ब्रह्महहत्या पुराभवत्२९२
लोकायतिक शास्त्रेण भवता सा तिरस्कृता
जानामि त्वामाङ्गिरसं देवाचार्यं बृहस्पतिम्२९३
मद्रूपधारिणं प्राप्तं सर्वे पश्यत दानवाः
एष वो मोहनायालं प्राप्तो विष्णुविचेष्टितैः२९४
तदेनं शृङ्खलैर्बद्ध्वा क्षिपेत लवणार्णवे
पुनरेवाब्रवीच्छुक्रः पुरोधायं दिवौकसाम्२९५
मोहितानूनमेतेन क्षयं यास्यथ दानवाः
भो अहं दानवेन्द्रेह वञ्चितोऽस्मि दुरात्मना२९६
किमर्थं भवता त्यक्तः कृतश्चान्यः पुरोहितः
देवाचार्यॐगिरःपुत्रएषएवबृहस्पतिः२९७
वञ्चितोसि न सन्देहो हितार्थं तु दिवौकसाम्
त्यजस्वैनं महाभाग शत्रुपक्षजयावहम्२९८
अनुशिष्यभयाद्यातः पूर्वमेवमहं प्रभो
जलमध्येस्थितः पीतो महादेवेन शम्भुना२९९
उदरस्थस्य मे जातं साग्रं वर्षशतं किल
उदराच्छुक्ररूपेण शिश्नेनाहं विसर्जितः३०० 1.13.300
वरदः प्राह मां देवश्शुक्रेष्टं त्वं वरं वृणु
मयावृतो वरं राजन्देवदेवः पिनाकधृत्३०१
मनसा चिन्तिता ह्यर्था मानसे ये स्थिता वराः
भवन्तु मयि ते सर्वे प्रसादात्तव शङ्कर३०२
एवमस्त्विति देवेन प्रेषितोऽस्मि तवान्तिकम्
तावदत्राभवच्चायं पुरोधास्ते बृहस्पतिः३०३
दृष्टः सत्यं दानवेन्द्र मयोक्तं त्वं निशामय
बृहस्पतिस्तदा वाक्यं प्रह्लादं प्रत्यभाषत३०४
नाहमेतं प्रजानामि देवं वा दानवं नरम्
मद्रूपधारिणं राजन्वञ्चनार्थं तवागतम्३०५
ततस्ते दानवाः सर्वे साधुसाध्विति वादिनः
पुरोधाः पौर्विको नोस्तु यो वा को वा भवत्विति३०६
नानेन कार्यमस्माकं या तु ह्येष यथागतः
सक्रोधमशपत्काव्यो दानवेन्द्रान्समागतान्३०७
त्यक्तो यथाहं युष्माभिस्तथा सर्वांश्चिरादिव
गतश्रीकान्गतप्राणान्पश्येयं दुःखजीविकान्३०८
सुघोरामापदं प्राप्तानचिरादेव सर्वशः
एवमुक्त्वा गतः काव्यो यदृच्छातस्तपोवनम्३०९
तस्मिन्गते ततः शुक्रे स्थितस्तत्र बृहस्पतिः
पालयन्दानवांस्तत्र किञ्चित्कालमतिष्ठत३१०
ततो बहुतिथे काले अतिक्रान्ते नरेश्वर
सम्भूय दानवाः सर्वे पर्यपृछंस्तदा गुरुम्३११
संसारेस्मिन्नसारे तु किञ्चिज्ज्ञानं प्रयच्छ नः
येन मोक्षं व्रजामश्च प्रसादात्तव सुव्रत३१२
ततः सुरगुरुः प्राह काव्यरूपी तदा गुरुः
ममाप्येषा मतिः पूर्वं या युष्माभिरुदाहृता३१३
क्षणं कुर्वन्तु सहिताश्शुचीभूय समाहिताः
ज्ञानं वक्ष्यामि वो दैत्या अहं वै मोक्षदायि यत्३१४
एषा श्रुतिर्वैदिकी या ऋग्यजुःसामसञ्ज्ञिता
वैश्वानरप्रसादात्तु दुःखदा प्राणिनामिह३१५
यज्ञश्राद्धं कृतं क्षुद्रैरैहिकस्वार्थतत्परैः
ये त्वमी वैष्णवा धर्मा ये च रुद्रकृतास्तथा३१६
कुधर्मा दारसहितैर्हिंसाप्रायाः कृताहितैः
अर्द्धनारीश्वरो रुद्र कथं मोक्षं गमिष्यति३१७
वृतो भूतगणैर्भूरिभूषितश्चास्थिभिस्तथा
न स्वर्गो नैव मोक्षोत्र लोकाः क्लिश्यन्ति वै तथा३१८
हिंसायामास्थितो विष्णुः कथं मोक्षं गमिष्यति
रजोगुणात्मको ब्रह्मा स्वां सृष्टिमुपजीवति३१९
देवर्षयोथ ये चान्ये वैदिकं पक्षमाश्रिताः
हिंसाप्रायाः सदा क्रूरा मांसादाः पापकारिणः३२०
सुरास्तु मद्यपानेन मांसादा ब्राह्मणास्त्वमी
धर्मेणानेन कः स्वर्गं कथं मोक्षं गमिष्यति३२१
यच्च यज्ञादिकं कर्म स्मार्तं श्राद्धादिकं तथा
तत्र नैवापवर्गोस्ति यत्रैषा श्रूयते श्रुतिः३२२
यज्ञं कृत्वा पशुं हत्वा कृत्वा रुधिरकर्दमम्
यद्येवं गम्यते स्वर्गो नरकः केन गम्यते३२३
यदि भुक्तमिहान्येन तृप्तिरन्यस्य जायते
दद्यात्प्रवसतः श्राद्धं न स भोजनमाहरेत्३२४
आकाशगामिनो विप्राः पतिता मांसभक्षणात्
तेषां न विद्यते स्वर्गो मोक्षो नैवेह दानवाः३२५
जातस्य जीवितं जन्तोरिष्टं सर्वस्य जायते
आत्ममांसोपमं मांसं कथं खादेत पण्डितः३२६
योनिजास्तु कथं योनिं सेवन्ते जन्तवस्त्वमी
मैथुनेन कथं स्वर्गं यास्यन्ते दानवेश्वर
मृद्भस्मना यत्रशुद्धिस्तत्र शुद्धिस्तु का भवेत्३२७
विपरीततमं लोकं पश्य दानव यादृशम्
विण्मूत्रस्य कृतोत्सर्गे शिश्नापाने तु शोधनम्३२८
भुक्ते वा भोजने राजन्कथं नापानशिश्नयोः३२९
क्रियते शोधनं तद्वद्विपरीता स्थितिस्त्वियम्
यत्र प्रक्षालनं प्रोक्तं तत्र तेनैव कुर्वते३३०
तारां बृंहस्पतेर्भार्यां हृत्वा सोमः पुरा गतः
तस्यां जातो बुधः पुत्रो गुरुर्जग्राह तां पुनः३३१
गौतमस्य मुनेः पत्नीमहल्यां नाम नामतः
अगृह्णात्तां स्वयं शक्रः पश्य धर्मो यथाविधः३३२
एतदन्यच्च जगति दृश्यते पापदायकम्
एवंविधो यत्र धर्मः परमार्थो मतस्तु कः३३३
वदस्व त्वं दानवेन्द्र वद भूयो वदामि ते
गुरोस्तु गदितं श्रुत्वा परमार्थान्वितं वचः३३४
जातकौतूहलास्तत्र विविक्तास्तु भवार्णवात्
दानवा ऊचुः
दीक्षयस्व गुरो सर्वान्प्रपन्नान्भक्तितः स्थितान्३३५
येन वै न पुनर्मोहं व्रजामस्तव शासनात्
सुविरक्ताः स्म संसारे शोकमोहप्रदायिनि३३६
उद्धरस्व गुरो सर्वान्केशाकर्षेण कूपतः
कस्य देवस्य शरणं गच्छामो ब्राह्मणोत्तम३३७
दैवतं च प्रपन्नानां प्रकाशय महामते
स्मरणेनोपवासेन ध्यानधारणया तथा३३८
पूजोपहारे च कृते अपवर्गस्तु लभ्यते
विरक्तास्स्म कुटुम्बे तु भूयो नात्र यतामहे३३९
एवं चैव गुरुश्छन्नस्तैरुक्तो दनुपुङ्गवैः
चिन्तयामास तत्कार्यं कथमेतत्करोम्यहम्३४०
कथमेते मया पापाः कर्तव्या नरकौकसः
विडम्बनाच्छ्रुतेर्बाह्यास्त्रैलोक्ये हास्यकारिणः३४१
इत्युक्त्वा धिषणो राजंश्चिन्तयामास केशवम्
तस्य तच्चिन्तितं ज्ञात्वा मायामोहं जनार्दनः३४२
समुत्पाद्य ददौ तस्य प्राह चेदं बृहस्पतिम्
मायामोहोयमखिलांस्तान्दैत्यान्मोहयिष्यति३४३
भवता सहितः सर्वान्वेदमार्गबहिष्कृतान्
एवमादिश्य भगवानन्तर्द्धानं जगाम ह३४४
तपस्यभिरतान्सोथ मायामोहो गतोऽसुरान्
तेषां समीपमागत्य बृहस्पतिरुवाच ह३४५
अनुग्रहार्थं युष्माकं भक्त्या प्रीतस्त्विहागतः
योगी दिगम्बरो मुण्डो बर्हिपत्रधरो ह्ययम्३४६
इत्युक्ते गुरुणा पश्चान्मायामोहोब्रवीद्वचः
भो भो दैत्याधिपतयः प्रब्रूत तपसि स्थिताः३४७
एहिकार्थं तु पारक्यं तपसः फलमिच्छथ
दानवा ऊचुः
पारक्यधर्मलाभाय तपश्चर्या हि नो मता३४८
अस्माभिरियमारब्धा किं वा तत्र विवक्षितम्
दिगम्बर उवाच
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ३४९
आर्हतं सर्वमेतच्च मुक्तिद्वारमसंवृतम्
धर्माद्विमुक्तेरर्होयं नैतस्मादपरः परः३५० 1.13.350
अत्रैवावस्थिताः स्वर्गं मुक्तिं चापि गमिष्यथ
एवम्प्रकारैर्बहुभिर्मुक्तिदर्शनवर्जितैः३५१
मायामोहेन ते दैत्याः वेदमार्गबहिष्कृताः
धर्मायैतदधर्माय सदेतदसदित्यपि३५२
विमुक्तये त्विदं नैतद्विमुक्तिं सम्प्रयच्छति
परमार्थोयमत्यर्थं परमार्थो न चाप्ययम्३५३
कार्यमेतदकार्यं हि नैतदेतत्स्फुटं त्विदम्
दिग्वाससामयं धर्मो धर्मोयं बहुवाससाम्३५४
इत्यनेकार्थवादांस्तु मायामोहेन ते यतः
उक्तास्ततोऽखिला दैत्याः स्वधर्मांस्त्याजिता नृप३५५
अर्हध्वं मामकं धर्मं मायामोहेन ते यतः
उक्तास्तमाश्रिता धर्ममार्हतास्तेन तेभवन्३५६
त्रयीमार्गं समुत्सृज्य मायामोहेन तेसुराः
कारितास्तन्मया ह्यासंस्तथान्ये तत्प्रबोधिताः३५७
तैरप्यन्ये परे तैश्च तैरन्योन्यैस्तथापरे
नमोऽर्हते चेति सर्वे सङ्गमे स्थिरवादिनः३५८
अल्पैरहोभिः सन्त्यक्ता तैर्दैत्यैः प्रायशस्त्रयी
पुनश्च रक्ताम्बरधृन्मायामोहो जितेक्षणः३५९
सोन्यानप्यसुरान्गत्वा ऊचेन्यन्मधुराक्षरम्
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थाय वा पुनः३६०
तदलं पशुघातादि दुष्टधर्मैर्निबोधत
विज्ञानमयमेतद्वै त्वशेषमधिगच्छत३६१
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम्
जगदेतदनाधारं भ्रान्तिज्ञानानुतत्परम्३६२
रागादिदुष्टमत्यर्थं भ्राम्यते भवसङ्कटे
नानाप्रकारं वचनं स तेषां मुक्तियोजितम्३६३
तथा तथावदद्धर्मं तत्यजुस्ते यथायथा
केचिद्विनिन्दां वेदानां देवानामपरे नृप३६४
यज्ञकर्मकलापस्य तथा चान्ये द्विजन्मनाम्
नैतद्युक्तिसहं वाक्यं हिंसा धर्माय जायते३६५
हवींष्यनलदग्धानि फलान्यर्हन्ति कोविदाः
निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते३६६
स्वपिता यजमानेन किं वा तत्र न हन्यते
तृप्तये जायते पुंसो भुक्तमन्येन चेद्यदि३६७
दद्याच्छ्राद्धं प्रवसतो न वहेयुः प्रवासिनः
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते३६८
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशुः
जना श्रद्धेयमित्येतदवगम्य तु तद्वचः३६९
उपेक्ष्य श्रेयसे वाक्यं रोचतां यन्मयेरितम्
न ह्याप्तवादा नभसो निपतन्ति महासुराः३७०
युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः
दानवा ऊचुः
तत्ववादे वयं सर्वे प्रपन्नास्तव भक्तितः३७१
कुरुष्वानुग्रहं चाद्य प्रसन्नोसि यदि प्रभो
सम्भारानाहरामोद्य दीक्षायोग्यांश्च सर्वशः३७२
प्रसादात्तव येनाशु मोक्षो हस्तगतो भवेत्
ततस्तानब्रवीत्सर्वान्मायामोहोसुरांस्तदा३७३
प्रपन्नः शासनं ह्येष मदीयो गुरुरग्र्यधीः
दीक्षां दास्यति युष्माकं निदेशान्मम सत्तमः३७४
एतान्दीक्षय भो ब्रह्मन्वचनान्मम पुत्रकान्
गते मोहे दानवास्ते भार्गवं वाक्यमब्रुवन्३७५
देहि दीक्षां महाभाग सर्वसंसारमोचनीम्
तथेत्याहोशना दैत्यान्गच्छामो नर्मदामनु३७६
भोभोस्त्यजत वासांसि दीक्षां कारयितास्मि वः
एवं ते दानवा भीष्म भृगुरूपेण धीमता३७७
आङ्गिरसेन ते तत्र कृता दिग्वाससोसुराः
बर्हिपिच्छध्वजं तेषां गुञ्जिका चारुमालिकां३७८
दत्वा चकार तेषां तु शिरसो लुञ्चनं ततः
केशस्योत्पाटनं चैव परमं धर्मसाधनम्३७९
धनानामीश्वरो देवो धनदः केशलुञ्चनात्
सिद्धिं परमिकां प्राप्ताः सदा वेषस्य धारणात्३८०
नित्यत्वं लभ्यते ह्येवं पुरा प्राहार्हतः स्वयम्
वालोत्पाटेन देवत्वं मानुषैर्लभ्यते त्विह३८१
किं न कुर्वीत तत्तस्मान्महापुण्यप्रदं यतः
मनोरथो हि देवानां लोके वै मानुषे कदा३८२
अस्मिन्स्याद्भारते वर्षे जन्मनः श्रावके कुले
तपसा युञ्ज्महेस्मान्वै केशोत्पाटनपूर्वकम्३८३
तीर्थङ्कराश्चतुर्विंशत्तथा तैस्तु पुरस्कृताः
छायाकृतं फणीन्द्रेण ध्यानमार्गप्रदर्शकम्३८४
स्तुवन्तं मन्त्रवादेन स्वर्गो हस्तगतोर्हतं
मोक्षो वा भविता नूनं विचारः कोत्र कथ्यते३८५
कदा स्यामर्षयो भूत्वा सूर्याग्निसमतेजसः
जप्त्वा विरागिणश्चैवमनुपञ्चाङ्गकं तथा३८६
तथा तपस्यतां मृत्युं गतानां कालपर्ययात्
पाषाणेन शिरोभग्नं भवते पुण्यकर्मणाम्३८७
अरण्ये निर्जने वासःकदा वै भविता हि नः
कर्णजप्यं श्रावकाश्च करिष्यन्ति समाहिताः३८८
भोभो ऋषे न गन्तव्यं मोक्षमार्गी यतो भवान्
लब्धानि यानि स्थानानि भूयोवृत्तिकराणि च३८९
त्याज्यानि तेन चैतानि सत्यमेव वचो हि नः
अस्मदीयेन तपसा नियमैर्विविधैस्तथा३९०
व्रजध्वं चोत्तमं स्थानं मोक्षमार्गं च यं बुधाः
विन्दन्ति भक्तिभावेन तपोयुक्तास्तपस्विनः३९१
अक्षेषु निग्रहो यत्र दयाभूतेषु सर्वदा
तत्तपोधर्ममित्युक्तं सर्वा चान्या विडम्बना३९२
ज्ञात्वैतद्भवता साध्यं गन्तव्यं परमं पदम्
यां वै तीर्थङ्करा याता यां गतिं योगिनो गताः३९३
एवं वै देवताः पूर्वं विद्याधरमहोरगाः
मनोरथाभिलाषांस्ते चिन्तयन्तो दिवानिशम्३९४
यद्येषणा वै युष्माकं संसारविरतौ कृता
परित्यजध्वं दाराणि स्वर्गमार्गार्गलानि च३९५
यस्यां योनौ पिता यातस्तां योनिं सेवसे कथम्
आत्ममांसोपमं मांसं कथं खादन्ति जन्तवः३९६
ततस्ते दानवा भीष्मा ऊचुः सर्वे गुरुं वचः
दीक्षस्व नो महाभाग भ्रूणकानग्रतः स्थितान्३९७
तथा कृत्वा स तानाह समयेन पुरोहितः
प्रणामो नान्यदेवेषु कर्तव्यो वः कदाचन३९८
एकस्थाने यदा भक्तं भोक्तव्यं करसम्पुटे
तत्रस्थाने स्थितं तोयं केशकीटविवर्जितम्३९९
तुल्यं प्रियाप्रियं कार्यं नान्यदृष्टिहतं क्वचित्
भोक्तव्यमेतेन विभो आचारेण तथा कुरु४०० 1.13.400
भवध्वं सहिता यूयं ते तथा मोक्षभागिनः
एवमुक्त्वा स नियमान्कृत्वा तान्दनुपुङ्गवान्४०१
जगाम धिषणो राजन्देवलोकं दिवौकसाम्
आचचक्षे स तत्सर्वं दानवानां च कारितम्४०२
ततस्ते त्वसुरा जग्मुर्नर्मदामभितो वसन्
दृष्ट्वा तान्दानवांस्तत्र प्रह्लादेन विना कृतान्४०३
देवराजस्ततो हृष्टो नमुचिं प्राह वै वचः
हिरण्याक्षं यज्ञहनं धर्मघ्नं वेदनिन्दकम्४०४
राक्षसं क्रूरकर्माणं प्रघसं विघसं तथा
मुचिं चैव तथा बाणं विरोचनमथापि वा४०५
महिषाक्षं बाष्कलं च प्रचण्डं चण्डकं तथा
रोचमानं तथात्युग्रं सुषेणं दानवोत्तमम्४०६
एतान्दृष्ट्वा तथा चान्यान्दानवेन्द्रानथाब्रवीत्
इन्द्र उवाच
दानवेन्द्राः पुरा जाताः कृतं राज्यं त्रिविष्टपे४०७
इदानीं कथमेवेदं व्रतं वेदविलोपकम्
भवद्भिः कर्तुमारब्धं नग्नमुण्डिकमण्डलु४०८
मयूरध्वजधारित्वं कथं चैवेह तिष्ठथ
दानवा ऊचुः
त्यक्तः सर्वासुरभाव ऋषिधर्मे वयं स्थिताः४०९
धर्मवृद्धिकरं कर्म चरामः सर्वजन्तुषु
त्रैलोक्यराज्यमखिलं भुङ्क्ष्व शक्र व्रजस्व च४१०
तथेति चोक्त्वा मघवा पुनर्यातस्त्रिविष्टपम्
एवं ते मोहिताः सर्वे भीष्म देवपुरोधसा४११
नर्मदा सरितं प्राप्य स्थिता दानवसत्तमाः
ज्ञात्वा शुक्रेण ते सर्वे वृत्तान्तमनुबोधिताः४१२
तदा त्रैलोक्यहरणे चक्रुः क्रूरां पुनर्मतिम्४१३