भीष्म उवाच
विश्वास-प्रस्तुतिः
सोमवंशः कथं जातः कथयात्र विशारद
तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः॥ १ ॥
मूलम्
सोमवंशः कथं जातः कथयात्र विशारद
तद्वंशे केतुराजानो बभूवुः कीर्तिवर्द्धनाः॥ १ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा
अनन्तरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः ॥ २ ॥
मूलम्
पुलस्त्य उवाच
आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा
अनन्तरं नाम तपः सृष्ट्यर्थं तप्तवान्विभुः ॥ २ ॥
विश्वास-प्रस्तुतिः
यदानन्दकरं ब्रह्म भगवन्क्लेशनाशनं
ब्रह्मरुद्रेन्द्रसूर्याणामभ्यन्तरमतीन्द्रियं॥ ३ ॥
मूलम्
यदानन्दकरं ब्रह्म भगवन्क्लेशनाशनं
ब्रह्मरुद्रेन्द्रसूर्याणामभ्यन्तरमतीन्द्रियं॥ ३ ॥
विश्वास-प्रस्तुतिः
शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः
माहात्म्यं तपसो वापि परमानन्दकारकं ॥ ४ ॥
मूलम्
शान्तिं कृत्वात्ममनसा तदत्रिः संयमे स्थितः
माहात्म्यं तपसो वापि परमानन्दकारकं ॥ ४ ॥
विश्वास-प्रस्तुतिः
यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः
तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः ॥ ५ ॥
मूलम्
यस्माद्वंशपतिः सार्द्धं समये तदधिष्ठितः
तं दृष्ट्वाचष्ट सोमेन तस्मात्सोमोभवद्विभुः ॥ ५ ॥
विश्वास-प्रस्तुतिः
अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसम्भवम्
द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम् ॥ ६ ॥
मूलम्
अथ सुस्राव नेत्राभ्यां जलं तत्रात्रिसम्भवम्
द्योतयद्विश्वमखिलं ज्योत्स्नया सचराचरम् ॥ ६ ॥
विश्वास-प्रस्तुतिः
तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः
गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसम्भवः॥ ७ ॥
मूलम्
तद्दिशो जगृहुस्तत्र स्त्रीरूपेणासहृच्छयाः
गर्भो भूत्वोदरे तासां स्थितः सोप्यत्रिसम्भवः॥ ७ ॥
विश्वास-प्रस्तुतिः
आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ॥ ८ ॥
मूलम्
आशाश्च मुमुचुर्गर्भमशक्ता धारणे ततः
समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ॥ ८ ॥
विश्वास-प्रस्तुतिः
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्
स्यन्दनेथ सहस्तेन वेदशक्तिमये प्रभुः॥ ९ ॥
मूलम्
युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम्
स्यन्दनेथ सहस्तेन वेदशक्तिमये प्रभुः॥ ९ ॥
विश्वास-प्रस्तुतिः
आरोप्य लोकमनयदात्मीयं स पितामहः
ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्॥ १० ॥
मूलम्
आरोप्य लोकमनयदात्मीयं स पितामहः
ततो ब्रह्मर्षिभिः प्रोक्तं ह्यस्मत्स्वामीभवत्वयम्॥ १० ॥
विश्वास-प्रस्तुतिः
ऋषिभिर्देवगन्धर्वैरप्सरोभिस्तथैव च
स्तूयमानस्य तस्याभूदधिकं महदन्तरम्॥ ११ ॥
मूलम्
ऋषिभिर्देवगन्धर्वैरप्सरोभिस्तथैव च
स्तूयमानस्य तस्याभूदधिकं महदन्तरम्॥ ११ ॥
विश्वास-प्रस्तुतिः
तेजोवितानादभवद्भुवि दिव्यौषधीगणः
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा॥ १२ ॥
मूलम्
तेजोवितानादभवद्भुवि दिव्यौषधीगणः
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा॥ १२ ॥
विश्वास-प्रस्तुतिः
तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते
वेदधामा रसश्चायं यदिदं मण्डलं शुभम्॥ १३ ॥
मूलम्
तेनौषधीशः सोमोभूद्द्विजेष्वपि हि गण्यते
वेदधामा रसश्चायं यदिदं मण्डलं शुभम्॥ १३ ॥
विश्वास-प्रस्तुतिः
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ॥ १४ ॥
मूलम्
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्वदा
विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ॥ १४ ॥
विश्वास-प्रस्तुतिः
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः
ततः शक्तिसहस्राणां सहस्राणि दशैव तु॥ १५ ॥
मूलम्
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः
ततः शक्तिसहस्राणां सहस्राणि दशैव तु॥ १५ ॥
विश्वास-प्रस्तुतिः
तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः
ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः॥ १६ ॥
मूलम्
तपश्चकार शीतांशुर्विष्णुध्यानैकतत्परः
ततस्तुष्टश्च भगवांस्तस्मै नारायणो हरिः॥ १६ ॥
विश्वास-प्रस्तुतिः
वरं वृणीष्व चोवाच परमात्मा जनार्दनः
ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्॥ १७ ॥
मूलम्
वरं वृणीष्व चोवाच परमात्मा जनार्दनः
ततो वव्रे वरं सोमः शक्रलोके यजाम्यहम्॥ १७ ॥
विश्वास-प्रस्तुतिः
प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे
राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः॥ १८ ॥
मूलम्
प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे
राजसूये सुरगणा ब्रह्माद्या ये चतुर्विधाः॥ १८ ॥
विश्वास-प्रस्तुतिः
रक्षपालः सुरोस्माकमास्तां शूलधरो हरः
तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना॥ १९ ॥
मूलम्
रक्षपालः सुरोस्माकमास्तां शूलधरो हरः
तथेत्युक्तः समाजह्रे राजसूयं तु विष्णुना॥ १९ ॥
विश्वास-प्रस्तुतिः
होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्॥ २० ॥
मूलम्
होतात्रिर्भृगुरध्वर्युरुद्गाता च चतुर्मुखः
ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम्॥ २० ॥
विश्वास-प्रस्तुतिः
सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः
वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च॥ २१ ॥
मूलम्
सदस्याः सर्वदेवास्तु राजसूयविधिः स्मृतः
वसवोध्वर्यवस्तद्वद्विश्वेदेवास्तथैव च॥ २१ ॥
विश्वास-प्रस्तुतिः
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता
सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं॥ २२ ॥
मूलम्
त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादिता
सोमः प्राप्याथदुष्प्राप्यमैश्वर्यं सृष्टिसत्कृतं॥ २२ ॥
विश्वास-प्रस्तुतिः
सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्॥ २३ ॥
मूलम्
सप्तलोकैकनाथत्वं प्राप्तस्स्वतपसा तदा
कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणोपशोभाम्॥ २३ ॥
विश्वास-प्रस्तुतिः
बृहन्नितम्बस्तनभारखेदां पुष्पावभङ्गेप्यतिदुर्बलाङ्गीं
भार्यां च तां देवगुरोरनङ्गबाणाभिरामायत चारुनेत्रां॥ २४ ॥
मूलम्
बृहन्नितम्बस्तनभारखेदां पुष्पावभङ्गेप्यतिदुर्बलाङ्गीं
भार्यां च तां देवगुरोरनङ्गबाणाभिरामायत चारुनेत्रां॥ २४ ॥
विश्वास-प्रस्तुतिः
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ
सापि स्मरार्ता सहते न रेमे तद्रूपकान्त्याहृतमानसैव॥ २५ ॥
मूलम्
तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ
सापि स्मरार्ता सहते न रेमे तद्रूपकान्त्याहृतमानसैव॥ २५ ॥
विश्वास-प्रस्तुतिः
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि
न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु॥ २६ ॥
मूलम्
चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोपि
न तृप्तिरासीत्स्वगृहेपि तस्य तारानुरक्तस्य सुखागमेषु॥ २६ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव
शशाक शापं न च दातुमस्मै न मन्त्रशस्त्राग्निविषैरनेकैः॥ २७ ॥
मूलम्
बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव
शशाक शापं न च दातुमस्मै न मन्त्रशस्त्राग्निविषैरनेकैः॥ २७ ॥
विश्वास-प्रस्तुतिः
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः
स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनङ्गतप्तः॥ २८ ॥
मूलम्
तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः
स याचयामास ततस्तु देवं सोमं स्वभार्यार्थमनङ्गतप्तः॥ २८ ॥
विश्वास-प्रस्तुतिः
स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः॥ २९ ॥
मूलम्
स याच्यमानोपि ददौ न भार्यां बृहस्पतेः कामवशेन मोहितः
महेश्वरेणाथ चतुर्मुखेन साध्यैर्मरुद्भिः सह लोकपालैः॥ २९ ॥
विश्वास-प्रस्तुतिः
ददौ यदा तां न कथञ्चिदिन्दुस्तदा शिवः क्रोधपरो बभूव
यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः॥ ३० ॥
मूलम्
ददौ यदा तां न कथञ्चिदिन्दुस्तदा शिवः क्रोधपरो बभूव
यो वामदेवप्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः॥ ३० ॥
विश्वास-प्रस्तुतिः
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः॥ ३१ ॥
मूलम्
ततः सशिष्यो गिरिशः पिनाकी बृहस्पतेः स्नेहवशानुबद्धः
धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः॥ ३१ ॥
विश्वास-प्रस्तुतिः
युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः
सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः॥ ३२ ॥
मूलम्
युद्धाय सोमेन विशेषदीप्तस्तृतीयनेत्रानलभीमवक्त्रः
सहैव जग्मुश्च गणेश्वराणां विंशाधिका षष्टिरथोग्रमूर्तिः॥ ३२ ॥
विश्वास-प्रस्तुतिः
यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यन्दनसंस्थितानां
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्॥ ३३ ॥
मूलम्
यक्षेश्वराणां सगणैरनेकैर्युतोन्वगात्स्यन्दनसंस्थितानां
वेतालयक्षोरगकिन्नराणां पद्मेन चैकेन तथार्बुदानाम्॥ ३३ ॥
विश्वास-प्रस्तुतिः
लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः
शनैश्चराङ्गारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः॥ ३४ ॥
मूलम्
लक्षैस्त्रिभिर्द्वा दशभी रथानां सोमोप्यगात्तत्र विवृद्धमन्युः
शनैश्चराङ्गारकवृद्धतेजा नक्षत्रदैत्यासुरसैन्ययुक्तः॥ ३४ ॥
विश्वास-प्रस्तुतिः
जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः
ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः॥ ३५ ॥
मूलम्
जग्मुर्भयं सप्त तथैव लोका धरावनद्वीपसमुद्रगर्भाः
ससोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः॥ ३५ ॥
विश्वास-प्रस्तुतिः
अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः॥ ३६ ॥
मूलम्
अथाभवद्भीषण भीम सोम सैन्यद्वयस्याथ महाहवोसौ
अशेषसत्वक्षयकृत्प्रवृद्धस्तीक्ष्णप्रधानो ज्वलनैकरूपः॥ ३६ ॥
विश्वास-प्रस्तुतिः
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः
पतन्ति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहन्ति॥ ३७ ॥
मूलम्
शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगामक्षयमुग्रतीक्ष्णैः
पतन्ति शस्त्राणि तथोज्वलानि स्वर्भूमिपातालमलं दहन्ति॥ ३७ ॥
विश्वास-प्रस्तुतिः
रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं
तयोर्निपातेन समुद्रभूम्योरथान्तरिक्षस्य च भीतिरासीत्॥ ३८ ॥
मूलम्
रुद्रः क्रोधाद्ब्रह्मशिरो मुमोच सोमोपि सोमास्त्रममोघवीर्यं
तयोर्निपातेन समुद्रभूम्योरथान्तरिक्षस्य च भीतिरासीत्॥ ३८ ॥
विश्वास-प्रस्तुतिः
तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि
ततः प्रविश्याथ कथञ्चिदेव निवारयामास सुरैः सहैव॥ ३९ ॥
मूलम्
तदा सुयुद्धं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोपि
ततः प्रविश्याथ कथञ्चिदेव निवारयामास सुरैः सहैव॥ ३९ ॥
विश्वास-प्रस्तुतिः
अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं
यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्॥ ४० ॥
मूलम्
अकारणं किं क्षयकृज्जनानां सोम त्वयापीदमकार्यकार्यं
यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम्॥ ४० ॥
विश्वास-प्रस्तुतिः
पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं
भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्॥ ४१ ॥
मूलम्
पापग्रहस्त्वं भविता जनेषु पापोस्यलं वह्निमुखाशिनां त्वं
भार्यामिमामर्पय वाक्पतेस्त्वं प्रमाणयन्नेव मदीय वाचम्॥ ४१ ॥
विश्वास-प्रस्तुतिः
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशान्तः
बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः ॥ ४२ ॥
मूलम्
तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशान्तः
बृहस्पतिस्तामथ गृह्य तारां हृष्टो जगाम स्वगृहं च रुद्रः ॥ ४२ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः
दिव्यपीताम्बरधरो दिव्याभरणभूषितः॥ ४३ ॥
मूलम्
पुलस्त्य उवाच
ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः
दिव्यपीताम्बरधरो दिव्याभरणभूषितः॥ ४३ ॥
विश्वास-प्रस्तुतिः
तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः
सर्वार्थशास्त्रविद्विद्वान्हस्तिशास्त्रप्रवर्त्तकः॥ ४४ ॥
मूलम्
तारोदरविनिष्क्रान्तः कुमारस्सूर्यसन्निभः
सर्वार्थशास्त्रविद्विद्वान्हस्तिशास्त्रप्रवर्त्तकः॥ ४४ ॥
विश्वास-प्रस्तुतिः
नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः॥ ४५ ॥
मूलम्
नामयद्राजपुत्रोयं विश्रुतो राजवैद्यकः
राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः॥ ४५ ॥
विश्वास-प्रस्तुतिः
जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली
ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह॥ ४६ ॥
मूलम्
जनानां तु स तेजांसि सर्वाण्येवाक्षिपद्बली
ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह॥ ४६ ॥
विश्वास-प्रस्तुतिः
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा
पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः॥ ४७ ॥
मूलम्
बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा
पप्रच्छुस्ते सुरास्तारां केन जातः कुमारकः॥ ४७ ॥
विश्वास-प्रस्तुतिः
ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना॥ ४८ ॥
मूलम्
ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना॥ ४८ ॥
विश्वास-प्रस्तुतिः
सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं
बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले॥ ४९ ॥
मूलम्
सोमस्येति चिरादाह ततो गृह्णाद्विधुः सुतं
बुध इत्यकरोन्नाम प्रादाद्राज्यं च भूतले॥ ४९ ॥
विश्वास-प्रस्तुतिः
अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः
ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.50
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्॥ ५१ ॥
मूलम्
अभिषेकं ततः कृत्वा प्रदानमकरोद्विभुः
ग्रहमध्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिभिर्युतः५० 1.12.50
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत
इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत्॥ ५१ ॥
विश्वास-प्रस्तुतिः
अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः॥ ५२ ॥
मूलम्
अश्वमेधशतंसाग्रमकरोद्यस्स्वतेजसा
पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः॥ ५२ ॥
विश्वास-प्रस्तुतिः
हिमवच्छिखरे रम्ये समाराध्य पितामहं
लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा॥ ५३ ॥
मूलम्
हिमवच्छिखरे रम्ये समाराध्य पितामहं
लोकैश्वर्यमगाद्राजन्सप्तद्वीपपतिस्तदा॥ ५३ ॥
विश्वास-प्रस्तुतिः
केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता॥ ५४ ॥
मूलम्
केशिप्रभृतयो दैत्यास्तद्भृत्यत्वं समागताः
उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता॥ ५४ ॥
विश्वास-प्रस्तुतिः
सप्तद्वीपावसुमती सशैलवनकानना
धर्मेण पालिता तेन सर्वलोकहितैषिणा॥ ५५ ॥
मूलम्
सप्तद्वीपावसुमती सशैलवनकानना
धर्मेण पालिता तेन सर्वलोकहितैषिणा॥ ५५ ॥
विश्वास-प्रस्तुतिः
चामरग्रहणाकीर्तिः स्वयं चैवाङ्गवाहिका
ब्रह्मप्रसादाद्देवेन्द्रो ददावर्द्धासनं तदा॥ ५६ ॥
मूलम्
चामरग्रहणाकीर्तिः स्वयं चैवाङ्गवाहिका
ब्रह्मप्रसादाद्देवेन्द्रो ददावर्द्धासनं तदा॥ ५६ ॥
विश्वास-प्रस्तुतिः
धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत्
धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः॥ ५७ ॥
मूलम्
धर्मार्थकामान्धर्मेण समवेतोभ्यपालयत्
धर्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकान्विताः॥ ५७ ॥
विश्वास-प्रस्तुतिः
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्
भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः॥ ५८ ॥
मूलम्
जिज्ञासवस्तच्चरितं कथं पश्यति नः समम्
भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं ततः॥ ५८ ॥
विश्वास-प्रस्तुतिः
आसनत्रयमानीय दिव्यं कनकभूषणम्
निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः॥ ५९ ॥
मूलम्
आसनत्रयमानीय दिव्यं कनकभूषणम्
निवेश्याथाकरोत्पूजामीषद्धर्मेधिकां पुनः॥ ५९ ॥
विश्वास-प्रस्तुतिः
जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति
अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि॥ ६० ॥
मूलम्
जग्मतुस्तौ च कामार्थावतिकोपं नृपं प्रति
अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि॥ ६० ॥
विश्वास-प्रस्तुतिः
कामोप्याह तवोन्मादो भविता गन्धमादने
कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्॥ ६१ ॥
मूलम्
कामोप्याह तवोन्मादो भविता गन्धमादने
कुमारवनमाश्रित्य वियोगाच्चोर्वशीभवात्॥ ६१ ॥
विश्वास-प्रस्तुतिः
धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि
सन्ततिस्तव राजेन्द्र यावदाचन्द्रतारकम्॥ ६२ ॥
मूलम्
धर्मोप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि
सन्ततिस्तव राजेन्द्र यावदाचन्द्रतारकम्॥ ६२ ॥
विश्वास-प्रस्तुतिः
शतशो वृद्धिमायाति न नाशं भुवि यास्यति
षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसम्भवः॥ ६३ ॥
मूलम्
शतशो वृद्धिमायाति न नाशं भुवि यास्यति
षष्टिं वर्षाणि चोन्माद ऊर्वशीकामसम्भवः॥ ६३ ॥
विश्वास-प्रस्तुतिः
अचिरादेव भार्यापि वशमेष्यति चाप्सराः
इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदान्वभूत्॥ ६४ ॥
मूलम्
अचिरादेव भार्यापि वशमेष्यति चाप्सराः
इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदान्वभूत्॥ ६४ ॥
विश्वास-प्रस्तुतिः
अहन्यहनि देवेन्द्रं द्रष्टुं याति पुरूरवाः
कदाचिदारुह्य रथं दक्षिणाम्बरचारिणा॥ ६५ ॥
मूलम्
अहन्यहनि देवेन्द्रं द्रष्टुं याति पुरूरवाः
कदाचिदारुह्य रथं दक्षिणाम्बरचारिणा॥ ६५ ॥
विश्वास-प्रस्तुतिः
सार्धं शक्रेण सोऽपश्यन्नीयमानामथाम्बरे
केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम्॥ ६६ ॥
मूलम्
सार्धं शक्रेण सोऽपश्यन्नीयमानामथाम्बरे
केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम्॥ ६६ ॥
विश्वास-प्रस्तुतिः
तं विनिर्जित्य समरे विविधायुधपातनैः
पुरा शक्रोपि समरे येन वज्री विनिर्जितः॥ ६७ ॥
मूलम्
तं विनिर्जित्य समरे विविधायुधपातनैः
पुरा शक्रोपि समरे येन वज्री विनिर्जितः॥ ६७ ॥
विश्वास-प्रस्तुतिः
मित्रत्वमगमत्तेन प्रादादिन्द्राय चोर्वशीं
ततःप्रभृति मित्रत्वमगमत्पाकशासनः॥ ६८ ॥
मूलम्
मित्रत्वमगमत्तेन प्रादादिन्द्राय चोर्वशीं
ततःप्रभृति मित्रत्वमगमत्पाकशासनः॥ ६८ ॥
विश्वास-प्रस्तुतिः
सर्वलोकेतिशयितं पुरूरवसमेव तम्
प्राह वज्री तु सन्तुष्टो नीयतामियमेव च॥ ६९ ॥
मूलम्
सर्वलोकेतिशयितं पुरूरवसमेव तम्
प्राह वज्री तु सन्तुष्टो नीयतामियमेव च॥ ६९ ॥
विश्वास-प्रस्तुतिः
सा पुरूरवसः प्रीत्यै चागायच्चरितं महत्
लक्ष्मीस्वयंवरन्नाम भरतेन प्रवर्तितम्॥ ७० ॥
मूलम्
सा पुरूरवसः प्रीत्यै चागायच्चरितं महत्
लक्ष्मीस्वयंवरन्नाम भरतेन प्रवर्तितम्॥ ७० ॥
विश्वास-प्रस्तुतिः
मेनकां चोर्वशीं रम्भां नृत्यध्वमिति चादिशत्
ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी॥ ७१ ॥
मूलम्
मेनकां चोर्वशीं रम्भां नृत्यध्वमिति चादिशत्
ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी॥ ७१ ॥
विश्वास-प्रस्तुतिः
सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता
विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्॥ ७२ ॥
मूलम्
सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता
विस्मृताभिनयं सर्वं यत्पुरातनचोदितम्॥ ७२ ॥
विश्वास-प्रस्तुतिः
शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले
पञ्चपञ्चाशदब्दानि लताभूता भविष्यसि॥ ७३ ॥
मूलम्
शशाप भरतः क्रोधाद्वियोगात्तस्य भूतले
पञ्चपञ्चाशदब्दानि लताभूता भविष्यसि॥ ७३ ॥
विश्वास-प्रस्तुतिः
ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं
शापानुभवनान्ते च उर्वशी बुधसूनुना॥ ७४ ॥
मूलम्
ततस्तमुर्वशी गत्वा भर्त्तारमकरोच्चिरं
शापानुभवनान्ते च उर्वशी बुधसूनुना॥ ७४ ॥
विश्वास-प्रस्तुतिः
अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे
आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्वसुः॥ ७५ ॥
मूलम्
अजीजनत्सुतानष्टौ नामतस्तान्निबोध मे
आयुर्दृढायुर्वश्यायुर्बलायुर्धृतिमान्वसुः॥ ७५ ॥
विश्वास-प्रस्तुतिः
दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च॥ ७६ ॥
मूलम्
दिव्यजायुः शतायुश्च सर्वे दिव्यबलौजसः
आयुषो नहुषः पुत्रो वृद्धशर्मा तथैव च॥ ७६ ॥
विश्वास-प्रस्तुतिः
रजिर्दण्डो विशाखश्च वीराः पञ्चमहारथाः
रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं॥ ७७ ॥
मूलम्
रजिर्दण्डो विशाखश्च वीराः पञ्चमहारथाः
रजेः पुत्रशतं जज्ञे राजेया इति विश्रुतं॥ ७७ ॥
विश्वास-प्रस्तुतिः
रजिराराधयामास नारायणमकल्मषं
तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः॥ ७८ ॥
मूलम्
रजिराराधयामास नारायणमकल्मषं
तपसा तोषितो विष्णुर्वरं प्रादान्महीपतेः॥ ७८ ॥
विश्वास-प्रस्तुतिः
देवासुरमनुष्याणामभूत्स विजयी तदा
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्॥ ७९ ॥
मूलम्
देवासुरमनुष्याणामभूत्स विजयी तदा
अथ देवासुरं युद्धमभूद्वर्षशतत्रयम्॥ ७९ ॥
विश्वास-प्रस्तुतिः
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः
ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः॥ ८० ॥
मूलम्
प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः
ततो देवासुरैः पृष्टः पृथग्देवश्चतुर्मुखः॥ ८० ॥
विश्वास-प्रस्तुतिः
अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत्
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः॥ ८१ ॥
मूलम्
अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोब्रवीत्
जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः॥ ८१ ॥
विश्वास-प्रस्तुतिः
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्
नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा॥ ८२ ॥
मूलम्
दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम्
नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तदा॥ ८२ ॥
विश्वास-प्रस्तुतिः
स्वामी भव त्वमस्माकं बलनाशय विद्विषः
ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः॥ ८३ ॥
मूलम्
स्वामी भव त्वमस्माकं बलनाशय विद्विषः
ततो विनाशिताः सर्वे ये वध्या वज्रपाणिनः॥ ८३ ॥
विश्वास-प्रस्तुतिः
पुत्रत्वमगमत्तुष्टस्तस्येन्द्रः कर्मणा ततः
दत्त्वेन्द्राय पुरा राज्यं जगाम तपसे रजिः॥ ८४ ॥
मूलम्
पुत्रत्वमगमत्तुष्टस्तस्येन्द्रः कर्मणा ततः
दत्त्वेन्द्राय पुरा राज्यं जगाम तपसे रजिः॥ ८४ ॥
विश्वास-प्रस्तुतिः
रजिपुत्रैस्तदाछिन्नं बलादिन्द्रस्य वैयदा
यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः॥ ८५ ॥
मूलम्
रजिपुत्रैस्तदाछिन्नं बलादिन्द्रस्य वैयदा
यज्ञभागश्च राज्यं च तपोबलगुणान्वितैः॥ ८५ ॥
विश्वास-प्रस्तुतिः
राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः
प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः॥ ८६ ॥
मूलम्
राज्यभ्रष्टस्ततः शक्रो रजिपुत्रनिपीडितः
प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः॥ ८६ ॥
विश्वास-प्रस्तुतिः
न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप॥ ८७ ॥
मूलम्
न यज्ञभागो राज्यं मे पीडितस्य बृहस्पते
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप॥ ८७ ॥
विश्वास-प्रस्तुतिः
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्
ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा॥ ८८ ॥
मूलम्
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम्
ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा॥ ८८ ॥
विश्वास-प्रस्तुतिः
गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः
जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्॥ ८९ ॥
मूलम्
गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः
जिनधर्मं समास्थाय वेदबाह्यं स धर्मवित्॥ ८९ ॥
विश्वास-प्रस्तुतिः
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः
वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्॥ ९० ॥
मूलम्
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः
वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान्॥ ९० ॥
विश्वास-प्रस्तुतिः
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्॥ ९१ ॥
मूलम्
जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान्
नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान्॥ ९१ ॥
विश्वास-प्रस्तुतिः
यतिर्ययातिश्शर्यातिरुत्तरः पर एव च
अयतिर्वियतिश्चैव सप्तैते वंशवर्द्धनाः॥ ९२ ॥
मूलम्
यतिर्ययातिश्शर्यातिरुत्तरः पर एव च
अयतिर्वियतिश्चैव सप्तैते वंशवर्द्धनाः॥ ९२ ॥
विश्वास-प्रस्तुतिः
यतिः कुमारभावेपि योगी वैखानसोभवत्
ययातिरकरोद्राज्यं धर्मैकशरणः सदा॥ ९३ ॥
मूलम्
यतिः कुमारभावेपि योगी वैखानसोभवत्
ययातिरकरोद्राज्यं धर्मैकशरणः सदा॥ ९३ ॥
विश्वास-प्रस्तुतिः
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः
भार्गवस्यात्मजा चैव देवयानी च सुव्रता॥ ९४ ॥
मूलम्
शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः
भार्गवस्यात्मजा चैव देवयानी च सुव्रता॥ ९४ ॥
विश्वास-प्रस्तुतिः
ययातेः पञ्चदायादास्तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्॥ ९५ ॥
मूलम्
ययातेः पञ्चदायादास्तान्प्रवक्ष्यामि नामतः
देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत्॥ ९५ ॥
विश्वास-प्रस्तुतिः
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः॥ ९६ ॥
मूलम्
तथा द्रुह्यमणं पूरुं शर्मिष्ठाजनयत्सुतान्
यदुः पूरूश्च भरतस्ते वै वंशविवर्द्धनाः॥ ९६ ॥
विश्वास-प्रस्तुतिः
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ॥ ९७ ॥
मूलम्
पूरोर्वंशं प्रवक्ष्यामि यत्र जातोसि पार्थिव
यदोस्तु यादवा जाता यत्र तौ बलकेशवौ॥ ९७ ॥
विश्वास-प्रस्तुतिः
भारावतारणार्थाय पाण्डवानां हिताय च
यदोः पुत्रा बभूवुश्च पञ्च देवसुतोपमाः॥ ९८ ॥
मूलम्
भारावतारणार्थाय पाण्डवानां हिताय च
यदोः पुत्रा बभूवुश्च पञ्च देवसुतोपमाः॥ ९८ ॥
विश्वास-प्रस्तुतिः
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः
सहस्रजितो दायादः शतजिन्नाम पार्थिवः॥ ९९ ॥
मूलम्
सहस्रजित्तथा ज्येष्ठः क्रोष्टा नीलोञ्जिको रघुः
सहस्रजितो दायादः शतजिन्नाम पार्थिवः॥ ९९ ॥
विश्वास-प्रस्तुतिः
शतजितश्च दायादास्त्रयः परमधार्मिकाः
हैहयश्च हयश्चैव तथा तालहयश्च यः१०० 1.12.100
हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः
धर्मनेत्रस्य कुन्तिस्तु संहतस्तस्य चात्मजः१०१
संहतस्य तु दायादो महिष्मान्नाम पार्थिवः
आसीन्महिष्मतः पुत्रो भद्रसेनः प्रतापवान्१०२
वाराणस्यामभूद्राजा कथितः पूर्वमेव हि
भद्रसेनस्य पुत्रस्तु दुर्दमो नाम धार्मिकः१०३
दुर्दमस्य सुतो भीमो धनको नाम वीर्यवान्
धनकस्य सुता ह्यासन्चत्वारो लोकविश्रुताः१०४
कृताग्निः कृतवीर्यश्च कृतधर्मा तथैव च
कृतौजाश्च चतुर्थोभूत्कृतवीर्याच्च सोर्जुनः१०५
जातो बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः
वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः१०६
दत्तमाराधयामास कार्त्तवीर्योत्रिसम्भवम्
तस्मै दत्तो वरान्प्रादाच्चतुरः पुरुषोत्तमः१०७
पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः
अधर्मं ध्यायमानस्य भीतिश्चापि निवारणम्१०८
युद्धेन पृथिवीं जित्वा धर्मेणावाप्य वै बलम्
सङ्ग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत्१०९
एतेनेयं वसुमती सप्तद्वीपा सपत्तना
सप्तोदधि परिक्षिप्ता क्षात्रेण विधिना जिता११०
जज्ञे बाहुसहस्रं च इच्छतस्तस्य धीमतः
सर्वे यज्ञा महाबाहोस्तस्यासन्भूरिदक्षिणाः१११
सर्वे काञ्चनयूपास्ते सर्वे काञ्चनवेदिकाः
सर्वे देवैश्च सम्प्राप्ता विमानस्थैरलङ्कृतैः११२
गन्धर्वैरप्सरोभिश्च नित्यमेवापि सेविताः
यस्य यज्ञे जगौ गाथा गन्धंर्वो नारदस्तथा११३
कार्त्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः
न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः॥ १४ ॥

यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च
सप्तद्वीपाननुचरन्वेगेन पवनोपमः११५
पञ्चाशीतिसहस्राणि वर्षाणां च नराधिपः
सप्तद्वीपपृथिव्याश्च चक्रवर्ती बभूव ह११६
स एव पशुपालोभूत्क्षेत्रपालः स एव हि
स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोभवत्११७
योसौ बाहुसहस्रेण ज्याघातकठिनत्वचा
भाति रश्मिसहस्रेण शारदेनेव भास्करः११८
एष नाम मनुष्येषु माहिष्मत्यां महाद्युतिः
एष वेगं समुद्रस्य प्रावृट्काले भजेत वै११९
क्रीडते स्वसुखा ये विप्रतिस्रोतो महीपतिः
ललनाः क्रीडता तेन प्रतिबद्धोर्मिमालिनी१२०
ऊर्मिभ्रुकुटिमाला सा शङ्किताभ्येति नर्मदा
एष एव मनोर्वंशे त्ववगाहेन्महार्णवम्१२१
करेणोद्धृत्य वेगं तु कामिनीप्रीणनेन तु
तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ१२२
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः
तदूरुक्षोभचकिता अमृतोत्पादशङ्किताः१२३
नता निश्चलमूर्द्धानो भवन्ति च महोरगाः
एष धन्वी च चिक्षेप रावणं प्रति सायकान्१२४
एष धन्वी धनुर्गृह्य उत्सिक्तं पञ्चभिः शरैः
लङ्केशं मोहयित्वा तु सबलं रावणं बलात्१२५
निर्जित्य बद्ध्वा त्वानीय माहिष्मत्याम्बबन्ध तम्
ततो गतोहं तस्याग्रे अर्जुनं सम्प्रसादयन्१२६
मुमोच राजन्पौत्रं मे सख्यं कृत्वा च पार्थिवः
तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः१२७
युगान्ताग्नेः प्रवृत्तस्य यथा ज्यातलनिःस्वनः
अहो बलं विधेर्वीर्यं भार्गवः स यदाच्छिनत्१२८
मृधे सहस्रं बाहूनां हेमतालवनं यथा
यं वसिष्ठस्तु सङ्क्रुद्धो ह्यर्जुनं शप्तवान्विभुः१२९
यस्माद्वनं प्रदग्धं ते विश्रुतं मम हैहय
तस्मात्ते दुष्कृतं कर्म कृतमन्यो हनिष्यति१३०
छित्वा बाहुसहस्रं ते प्रमथ्य तरसा बली
तपस्वी ब्राह्मणस्त्वां वै वधिष्यति स भार्गवः१३१
तस्य रामोथ हन्तासीन्मुनिशापेन धीमतः
तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः१३२
कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबल
शूरसेनश्च शूरश्च धृष्टो वै कृष्ण एव च१३३
जयद्ध्वजः स वै कर्ता अवन्तिश्च रसापतिः
जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः१३४
तस्य पुत्राश्शतान्येव तालजङ्घा इति स्मृताः
तेषां पञ्चकुलान्यासन्हैहयानां महात्मनाम्१३५
वीतिहोत्राश्च सञ्जाता भोजाश्चावन्तयस्तथा
तुण्डकेराश्च विक्रान्तास्तालजङ्घाः प्रकीर्तिताः१३६
वीतिहोत्रसुतश्चापि अनन्तो नाम वीर्यवान्
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्षणः१३७
सद्भावेन महाराजः प्रजाधर्मेण पालयन्
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रधृत्१३८
येन सागरपर्यन्ता धनुषा निर्जिता मही
यस्तस्यकीर्तयेन्नाम कल्यमुत्थाय मानवः१३९
न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः
यथा यष्टा यथा दाता स्वर्गलोके महीयते१४०