०११

भीष्म उवाच

विश्वास-प्रस्तुतिः

कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्
तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज॥ १ ॥

मूलम्

कस्मिन्वासरभागे तु श्राद्धी श्राद्धं समाचरेत्
तीर्थेषु केषु वै श्राद्धं कृतं बहुफलं द्विज॥ १ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्
सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्॥ २ ॥

मूलम्

पुलस्त्य उवाच
तीर्थं तु पुष्करं नाम यत्तु श्रेष्ठतमं स्मृतम्
सर्वेषां द्विजमुख्यानां मनोरथमिव स्थितम्॥ २ ॥

विश्वास-प्रस्तुतिः

तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्
पितॄणां वल्लभं नित्यमृषीणां परमं मतम्॥ ३ ॥

मूलम्

तत्र दत्तं हुतं जप्तमनन्तं भवति ध्रुवम्
पितॄणां वल्लभं नित्यमृषीणां परमं मतम्॥ ३ ॥

विश्वास-प्रस्तुतिः

नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा
तथा मित्रपदं राजंस्ततः केदारमुत्तमम्॥ ४ ॥

मूलम्

नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा
तथा मित्रपदं राजंस्ततः केदारमुत्तमम्॥ ४ ॥

विश्वास-प्रस्तुतिः

गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम्
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्॥ ५ ॥

मूलम्

गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम्
तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिलं शुभम्॥ ५ ॥

विश्वास-प्रस्तुतिः

तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः॥ ६ ॥

मूलम्

तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम्
गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः॥ ६ ॥

विश्वास-प्रस्तुतिः

तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्
यत्र तत्काञ्चनं दानमष्टादशभुजो हरः॥ ७ ॥

मूलम्

तथा यज्ञवराहस्तु देवदेवश्च शूलधृक्
यत्र तत्काञ्चनं दानमष्टादशभुजो हरः॥ ७ ॥

विश्वास-प्रस्तुतिः

नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा
तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्॥ ८ ॥

मूलम्

नेमिस्तु धर्मचक्रस्य शीर्णा यत्राभवत्पुरा
तदेतन्नैमिशारण्यं सर्वतीर्थनिषेवितम्॥ ८ ॥

विश्वास-प्रस्तुतिः

देवदेवस्य तत्रापि वराहस्य च दर्शनम्
यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्॥ ९ ॥

मूलम्

देवदेवस्य तत्रापि वराहस्य च दर्शनम्
यः प्रयाति स पूतात्मा नारायणपुरं व्रजेत्॥ ९ ॥

विश्वास-प्रस्तुतिः

कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते
अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः॥ १० ॥

मूलम्

कोकामुखं परं तीर्थमिन्द्रमार्गोपि लक्ष्यते
अथापि पितृतीर्थं तु ब्रह्मणोव्यक्तजन्मनः॥ १० ॥

विश्वास-प्रस्तुतिः

पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः
विरिञ्चिदर्शनं श्रेष्ठमपवर्गफलप्रदम्॥ ११ ॥

मूलम्

पुष्करारण्यसंस्थोसौ यत्र देवः पितामहः
विरिञ्चिदर्शनं श्रेष्ठमपवर्गफलप्रदम्॥ ११ ॥

विश्वास-प्रस्तुतिः

कृतं नाम महापुण्यं सर्वपापनिषूदनम्
यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः॥ १२ ॥

मूलम्

कृतं नाम महापुण्यं सर्वपापनिषूदनम्
यत्राद्यो नारसिंहस्तु स्वयमेव जनार्दनः॥ १२ ॥

विश्वास-प्रस्तुतिः

तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा
तुष्यन्ति पितरो नित्यं गङ्गायमुनसङ्गमे॥ १३ ॥

मूलम्

तीर्थमिक्षुमतीनाम पितॄणां च शुभावहा
तुष्यन्ति पितरो नित्यं गङ्गायमुनसङ्गमे॥ १३ ॥

विश्वास-प्रस्तुतिः

कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते
अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्॥ १४ ॥

मूलम्

कुरुक्षेत्रं महापुण्यं यत्र मार्गोपि लक्ष्यते
अद्यापि पितृतीर्थं तु सर्वकामफलप्रदम्॥ १४ ॥

विश्वास-प्रस्तुतिः

नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप
तथा भद्रसरः पुण्यं सरो मानसमेव च॥ १५ ॥

मूलम्

नीलकण्ठमिति ख्यातं पितृतीर्थं नराधिप
तथा भद्रसरः पुण्यं सरो मानसमेव च॥ १५ ॥

विश्वास-प्रस्तुतिः

मन्दाकिनी तथाऽच्छोदा विपाशा च सरस्वती
सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्॥ १६ ॥

मूलम्

मन्दाकिनी तथाऽच्छोदा विपाशा च सरस्वती
सर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम्॥ १६ ॥

विश्वास-प्रस्तुतिः

क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम्
तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्॥ १७ ॥

मूलम्

क्षिप्रा नदी तथा पुण्या तथा कालञ्जरं शुभम्
तीर्थोद्भेदं हरोद्भेदं गर्भभेदं महालयम्॥ १७ ॥

विश्वास-प्रस्तुतिः

भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च
गयापिण्डप्रदानेन समान्याहुर्महर्षयः॥ १८ ॥

मूलम्

भद्रेश्वरं विष्णुपदं नर्मदा द्वारमेव च
गयापिण्डप्रदानेन समान्याहुर्महर्षयः॥ १८ ॥

विश्वास-प्रस्तुतिः

एतानि पितृतीर्थानि सर्वपापहराणि च
स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्॥ १९ ॥

मूलम्

एतानि पितृतीर्थानि सर्वपापहराणि च
स्मरणादपि लोकानां किमु श्राद्धप्रदायिनाम्॥ १९ ॥

विश्वास-प्रस्तुतिः

ॐकारं पितृतीर्थं तु कावेरीकपिलोदकम्
सम्भेदश्चण्डवेगायां तथैवामरकण्टकम्॥ २० ॥

मूलम्

ॐकारं पितृतीर्थं तु कावेरीकपिलोदकम्
सम्भेदश्चण्डवेगायां तथैवामरकण्टकम्॥ २० ॥

विश्वास-प्रस्तुतिः

कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत्
शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्॥ २१ ॥

मूलम्

कुरुक्षेत्राच्चद्विगुणं तस्मिन्स्नानादिकं भवेत्
शुक्लतीर्थं तु विख्यातं तीर्थं सोमेश्वरं परम्॥ २१ ॥

विश्वास-प्रस्तुतिः

सर्वव्याधिहरम्पुण्यम्फलङ्कोटिगुणाधिकम्
श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ॥ २२ ॥

मूलम्

सर्वव्याधिहरम्पुण्यम्फलङ्कोटिगुणाधिकम्
श्राद्धेदानेतथाहोमेस्वाध्यायेचापिसन्निधौ॥ २२ ॥

विश्वास-प्रस्तुतिः

कायावारोहणं नाम देवदेवस्य शूलिनः
अवतारं रोचमानं ब्राह्मणावसथे शुभे॥ २३ ॥

मूलम्

कायावारोहणं नाम देवदेवस्य शूलिनः
अवतारं रोचमानं ब्राह्मणावसथे शुभे॥ २३ ॥

विश्वास-प्रस्तुतिः

जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी
शूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा॥ २४ ॥

मूलम्

जातं तत्सुमहापुण्यं तथा चर्मण्वती नदी
शूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा॥ २४ ॥

विश्वास-प्रस्तुतिः

महौषधी चारणा च नागतीर्थप्रवर्त्तिनी
महावेणा नदी पुण्या महाशालस्तथैव च॥ २५ ॥

मूलम्

महौषधी चारणा च नागतीर्थप्रवर्त्तिनी
महावेणा नदी पुण्या महाशालस्तथैव च॥ २५ ॥

विश्वास-प्रस्तुतिः

गोमती वरुणा तद्वत्तीर्थं हौताशनं परम्
भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम्॥ २६ ॥

मूलम्

गोमती वरुणा तद्वत्तीर्थं हौताशनं परम्
भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम्॥ २६ ॥

विश्वास-प्रस्तुतिः

तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम्
तथा पापहरं नाम पुण्या वेत्रवती नदी॥ २७ ॥

मूलम्

तीर्थं वैनायकं नाम वस्त्रेश्वरमनुत्तमम्
तथा पापहरं नाम पुण्या वेत्रवती नदी॥ २७ ॥

विश्वास-प्रस्तुतिः

महारुद्रं महालिङ्गं दशार्णा च महानदी
शतरुद्रा शताह्वा च तथा पितृपदं पुरम्॥ २८ ॥

मूलम्

महारुद्रं महालिङ्गं दशार्णा च महानदी
शतरुद्रा शताह्वा च तथा पितृपदं पुरम्॥ २८ ॥

विश्वास-प्रस्तुतिः

अङ्गारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ
कालिका च नदी पुण्या पितरा च नदी शुभा॥ २९ ॥

मूलम्

अङ्गारवाहिका तद्वन्नदौ द्वौ शोणघर्घरौ
कालिका च नदी पुण्या पितरा च नदी शुभा॥ २९ ॥

विश्वास-प्रस्तुतिः

एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः
श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम्॥ ३० ॥

मूलम्

एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः
श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम्॥ ३० ॥

विश्वास-प्रस्तुतिः

शतावटा नदी ज्वाला शरद्वी च नदी तथा
द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती॥ ३१ ॥

मूलम्

शतावटा नदी ज्वाला शरद्वी च नदी तथा
द्वारका कृष्णतीर्थं च तथा ह्युदक्सरस्वती॥ ३१ ॥

विश्वास-प्रस्तुतिः

नदी मालवती नाम तथा च गिरिकर्णिका
धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा॥ ३२ ॥

मूलम्

नदी मालवती नाम तथा च गिरिकर्णिका
धूतपापं तथा तीर्थं समुद्रे दक्षिणे तथा॥ ३२ ॥

विश्वास-प्रस्तुतिः

गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा
श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्॥ ३३ ॥

मूलम्

गोकर्णो गजकर्णश्च तथा चक्रनदी शुभा
श्रीशैलं शाकतीर्थं च नारसिंहमतः परम्॥ ३३ ॥

विश्वास-प्रस्तुतिः

महेन्द्रं च तथा पुण्या पुण्या चापि महानदी
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्॥ ३४ ॥

मूलम्

महेन्द्रं च तथा पुण्या पुण्या चापि महानदी
एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम्॥ ३४ ॥

विश्वास-प्रस्तुतिः

दर्शनादपि पुण्यानि सद्यः पापहराणि वै
तुङ्गभद्रा नदी पुण्या तथा चक्ररथीति च॥ ३५ ॥

मूलम्

दर्शनादपि पुण्यानि सद्यः पापहराणि वै
तुङ्गभद्रा नदी पुण्या तथा चक्ररथीति च॥ ३५ ॥

विश्वास-प्रस्तुतिः

भीमेश्वरं कृष्णवेणा कावेरी चाञ्जना नदी
नदी गोदावरी पुण्या त्रिसन्ध्या पूर्णमुत्तमम्॥ ३६ ॥

मूलम्

भीमेश्वरं कृष्णवेणा कावेरी चाञ्जना नदी
नदी गोदावरी पुण्या त्रिसन्ध्या पूर्णमुत्तमम्॥ ३६ ॥

विश्वास-प्रस्तुतिः

तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम्
यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः॥ ३७ ॥

मूलम्

तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम्
यत्रास्ते भगवान्भीमः स्वयमेव त्रिलोचनः॥ ३७ ॥

विश्वास-प्रस्तुतिः

श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत्
स्मरणादपि पापानि व्रजन्ति शतधा नृप॥ ३८ ॥

मूलम्

श्राद्धमेतेषु सर्वेषु दत्तं कोटिगुणं भवेत्
स्मरणादपि पापानि व्रजन्ति शतधा नृप॥ ३८ ॥

विश्वास-प्रस्तुतिः

श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम्
तथा मत्स्यनदी कारा शिवधारा तथैव च॥ ३९ ॥

मूलम्

श्रीपर्णा च नदी पुण्या व्यासतीर्थमनुत्तमम्
तथा मत्स्यनदी कारा शिवधारा तथैव च॥ ३९ ॥

विश्वास-प्रस्तुतिः

भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम्
पुण्यं रामेश्वरं तद्वद्वेणापुरमलम्पुरम्॥ ४० ॥

मूलम्

भवतीर्थं च विख्यातं पुण्यतीर्थं च शाश्वतम्
पुण्यं रामेश्वरं तद्वद्वेणापुरमलम्पुरम्॥ ४० ॥

विश्वास-प्रस्तुतिः

अङ्गारकं च विख्यातमात्मदर्शमलम्बुषम्
वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्॥ ४१ ॥

मूलम्

अङ्गारकं च विख्यातमात्मदर्शमलम्बुषम्
वत्सव्रातेश्वरं तद्वत्तथागोकामुखं परम्॥ ४१ ॥

विश्वास-प्रस्तुतिः

गोवर्द्धनं हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकम्
सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी॥ ४२ ॥

मूलम्

गोवर्द्धनं हरिश्चन्द्रं पुरश्चन्द्रं पृथूदकम्
सहस्राक्षं हिरण्याक्षं तथा च कदलीनदी॥ ४२ ॥

विश्वास-प्रस्तुतिः

नामधेयानि च तथा तथा सौमित्रिसङ्गतम्
इन्द्रनीलं महानादं तथा च प्रियमेलकम्॥ ४३ ॥

मूलम्

नामधेयानि च तथा तथा सौमित्रिसङ्गतम्
इन्द्रनीलं महानादं तथा च प्रियमेलकम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च
एतेषु सर्वदेवानां सान्निध्यं पठ्यते यतः॥ ४४ ॥

मूलम्

एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च
एतेषु सर्वदेवानां सान्निध्यं पठ्यते यतः॥ ४४ ॥

विश्वास-प्रस्तुतिः

दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम्
बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्॥ ४५ ॥

मूलम्

दानमेतेषु सर्वेषु भवेत्कोटिशताधिकम्
बाहुदा च नदी पुण्या तथा सिद्धवटं शुभम्॥ ४५ ॥

विश्वास-प्रस्तुतिः

तीर्थं पाशुपतं चैव नदी पर्यटिका तथा
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्॥ ४६ ॥

मूलम्

तीर्थं पाशुपतं चैव नदी पर्यटिका तथा
श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम्॥ ४६ ॥

विश्वास-प्रस्तुतिः

तथैव पञ्चतीर्थं च यत्र गोदावरी नदी
युता लिङ्गसहस्रेण सव्येतर जलावहा॥ ४७ ॥

मूलम्

तथैव पञ्चतीर्थं च यत्र गोदावरी नदी
युता लिङ्गसहस्रेण सव्येतर जलावहा॥ ४७ ॥

विश्वास-प्रस्तुतिः

जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम्
प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी॥ ४८ ॥

मूलम्

जामदग्न्यस्य तत्तीर्थं मोदायतनमुत्तमम्
प्रतीकस्य भयात्सिद्धा यत्र गोदावरी नदी॥ ४८ ॥

विश्वास-प्रस्तुतिः

तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्
श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्॥ ४९ ॥

मूलम्

तीर्थं तद्धव्यकव्यानामप्सरोगणसंयुतम्
श्राद्धाग्नि दानकार्यं च तत्र कोटिशताधिकम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम्
सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा५० 1.11.50
निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥ ५१ ॥

मूलम्

तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम्
सेन्द्रकाला नदी पुण्या तत्र शक्रो गतः पुरा५० 1.11.50
निहत्य नमुचिं मित्रं तपसा स्वर्गमाप्तवान्
तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥ ५१ ॥

विश्वास-प्रस्तुतिः

पुष्करं नाम वै तीर्थं शालग्रामं तथैव च
शोणपातश्च विख्यातो यत्र वैश्वानराशयः ॥ ५२ ॥

मूलम्

पुष्करं नाम वै तीर्थं शालग्रामं तथैव च
शोणपातश्च विख्यातो यत्र वैश्वानराशयः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च
मलन्दरा नदी पुण्या कौशिकी चन्द्रका तथा ॥ ५३ ॥

मूलम्

तीर्थं सारस्वतं चैव स्वामितीर्थं तथैव च
मलन्दरा नदी पुण्या कौशिकी चन्द्रका तथा ॥ ५३ ॥

विश्वास-प्रस्तुतिः

विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा
कावेरी चोत्तराङ्गा च तथा जालन्धरो गिरिः ॥ ५४ ॥

मूलम्

विदर्भा चाथ वेगा च पयोष्णी प्राङ्मुखा परा
कावेरी चोत्तराङ्गा च तथा जालन्धरो गिरिः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥ ५५ ॥

मूलम्

एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते
लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥ ५५ ॥

विश्वास-प्रस्तुतिः

दिव्यं सर्वत्र गङ्गायास्तथा नद्यास्तटं शुभम्
कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा ॥ ५६ ॥

मूलम्

दिव्यं सर्वत्र गङ्गायास्तथा नद्यास्तटं शुभम्
कुब्जाम्रकं तथा तीर्थमुर्वशीपुलिनं तथा ॥ ५६ ॥

विश्वास-प्रस्तुतिः

संसारमोचनं तीर्थं तथैव ऋणमोचनम्
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ॥ ५७ ॥

मूलम्

संसारमोचनं तीर्थं तथैव ऋणमोचनम्
एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ॥ ५७ ॥

विश्वास-प्रस्तुतिः

अट्टहासं तथा तीर्थं गौतमेश्वरमेव च
तथा वसिष्ठतीर्थं च भारतं च ततः परम् ॥ ५८ ॥

मूलम्

अट्टहासं तथा तीर्थं गौतमेश्वरमेव च
तथा वसिष्ठतीर्थं च भारतं च ततः परम् ॥ ५८ ॥

विश्वास-प्रस्तुतिः

ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च
पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥ ५९ ॥

मूलम्

ब्रह्मावर्तं कुशावर्तं हंसतीर्थं तथैव च
पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥ ५९ ॥

विश्वास-प्रस्तुतिः

भाण्डेश्वरं बिल्वकं च नीलपर्वतमेव च
तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम् ॥ ६० ॥

मूलम्

भाण्डेश्वरं बिल्वकं च नीलपर्वतमेव च
तथा च बदरीतीर्थं सर्वतीर्थेश्वरेश्वरम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च
जयन्ती विजया चैव शुक्लतीर्थं तथैव च ॥ ६१ ॥

मूलम्

वसुधाराह्वयं तीर्थं रामतीर्थं तथैव च
जयन्ती विजया चैव शुक्लतीर्थं तथैव च ॥ ६१ ॥

विश्वास-प्रस्तुतिः

एषु श्राद्धप्रदातारः प्रयान्ति परमं पदम्
तीर्थं मातृगृहं नाम करवीरपुरं तथा ॥ ६२ ॥

मूलम्

एषु श्राद्धप्रदातारः प्रयान्ति परमं पदम्
तीर्थं मातृगृहं नाम करवीरपुरं तथा ॥ ६२ ॥

विश्वास-प्रस्तुतिः

सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम्
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥ ६३ ॥

मूलम्

सप्तगोदावरीनाम सर्वतीर्थेश्वरेश्वरम्
तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥ ६३ ॥

विश्वास-प्रस्तुतिः

कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ॥ ६४ ॥

मूलम्

कीकटेषु गया पुण्या पुण्यं राजगृहं वनम्
च्यवनस्याश्रमं पुण्यं नदी पुण्या पुनःपुना ॥ ६४ ॥

विश्वास-प्रस्तुतिः

विषयाराधनं पुण्यं नदी या तु पुनःपुना
यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता ॥ ६५ ॥

मूलम्

विषयाराधनं पुण्यं नदी या तु पुनःपुना
यत्र गाथा विचरति ब्रह्मणा परिकीर्तिता ॥ ६५ ॥

विश्वास-प्रस्तुतिः

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ६६ ॥

मूलम्

एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत्
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

एषा गाथा विचरति तीर्थेष्वायतनेषु च
सर्वे मनुष्या राजेन्द्र कीर्त्तयन्तः समागताः ॥ ६७ ॥

मूलम्

एषा गाथा विचरति तीर्थेष्वायतनेषु च
सर्वे मनुष्या राजेन्द्र कीर्त्तयन्तः समागताः ॥ ६७ ॥

विश्वास-प्रस्तुतिः

किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः
प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान् ॥ ६८ ॥

मूलम्

किमस्माकं कुले कश्चिद्गयां यास्यति यः सुतः
प्रीणयिष्यति तान्गत्वा सप्तपूर्वांस्तथापरान् ॥ ६८ ॥

विश्वास-प्रस्तुतिः

मातामहानामप्येवं श्रुतिरेषा चिरन्तनी
गङ्गायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः ॥ ६९ ॥

मूलम्

मातामहानामप्येवं श्रुतिरेषा चिरन्तनी
गङ्गायामस्थिनिचयं गत्वा क्षेप्स्यति यः सुतः ॥ ६९ ॥

विश्वास-प्रस्तुतिः

तिलैः सप्ताष्टभिर्वापि दास्यते च जलाञ्जलिम्
अरण्यत्रितये वापि पिण्डदानं करिष्यति ॥ ७० ॥

मूलम्

तिलैः सप्ताष्टभिर्वापि दास्यते च जलाञ्जलिम्
अरण्यत्रितये वापि पिण्डदानं करिष्यति ॥ ७० ॥

विश्वास-प्रस्तुतिः

प्रथमं पुष्करारण्ये नैमिषे तदनन्तरं
धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति ॥ ७१ ॥

मूलम्

प्रथमं पुष्करारण्ये नैमिषे तदनन्तरं
धर्मारण्यं पुनः प्राप्य श्राद्धं भक्त्या प्रदास्यति ॥ ७१ ॥

विश्वास-प्रस्तुतिः

गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा
गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम् ॥ ७२ ॥

मूलम्

गयायां धर्मपृष्ठे वा सरसि ब्रह्मणस्तथा
गयाशीर्षवटे चैव पितॄणां दत्तमक्षयम् ॥ ७२ ॥

विश्वास-प्रस्तुतिः

व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति
नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं ॥ ७३ ॥

मूलम्

व्रजन्कृत्वा निवापं यस्त्वध्वानं परिसर्पति
नरकस्थान्पितॄन्सोपि स्वर्गं नयति सत्वरं ॥ ७३ ॥

विश्वास-प्रस्तुतिः

कुले तस्य न राजेन्द्र प्रेतो भवति कश्चन
प्रेतत्वं मोक्षभावं च पिण्डदानाच्च गच्छति ॥ ७४ ॥

मूलम्

कुले तस्य न राजेन्द्र प्रेतो भवति कश्चन
प्रेतत्वं मोक्षभावं च पिण्डदानाच्च गच्छति ॥ ७४ ॥

विश्वास-प्रस्तुतिः

एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ ७५ ॥

मूलम्

एको मुनिस्ताम्रकराग्रहस्तो ह्याम्रेषु मूले सलिलं ददाति
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥ ७५ ॥

विश्वास-प्रस्तुतिः

गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते
एकेन पिण्डदानेन तृप्तास्ते मोक्षगामिनः ॥ ७६ ॥

मूलम्

गयायां पिण्डदानस्य नान्यद्दानं विशिष्यते
एकेन पिण्डदानेन तृप्तास्ते मोक्षगामिनः ॥ ७६ ॥

विश्वास-प्रस्तुतिः

धान्यप्रदानं प्रवरं वदन्ति वसुप्रदानं च तथामुनीन्द्राः
गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदन्ति ॥ ७७ ॥

मूलम्

धान्यप्रदानं प्रवरं वदन्ति वसुप्रदानं च तथामुनीन्द्राः
गया सुतीर्थेषु नरैः प्रदत्तं तद्धर्महेतुं प्रवरं वदन्ति ॥ ७७ ॥

विश्वास-प्रस्तुतिः

सर्वात्मना सुरुचिना महाचल महानदी
ये तु पश्यन्ति तां गत्वा मानसे दक्षिणोत्तरे ॥ ७८ ॥

मूलम्

सर्वात्मना सुरुचिना महाचल महानदी
ये तु पश्यन्ति तां गत्वा मानसे दक्षिणोत्तरे ॥ ७८ ॥

विश्वास-प्रस्तुतिः

प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं
यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम् ॥ ७९ ॥

मूलम्

प्रणम्य द्विजमुख्येभ्यः प्राप्तं तैर्जन्मनः फलं
यद्यदिच्छति वै मर्त्यस्तत्तदाप्नोत्यसंशयम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया
वागीशोपि न शक्नोति विस्तरात्किमु मानुषः ॥ ८० ॥

मूलम्

एष तूद्देशतः प्रोक्तस्तीर्थानां सग्रहो मया
वागीशोपि न शक्नोति विस्तरात्किमु मानुषः ॥ ८० ॥

विश्वास-प्रस्तुतिः

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः
वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम् ॥ ८१ ॥

मूलम्

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः
वर्णाश्रमाणां गेहेपि तीर्थं शम उदाहृतम् ॥ ८१ ॥

विश्वास-प्रस्तुतिः

येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते
गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम् ॥ ८२ ॥

मूलम्

येषु तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते
गयायां यत्तु वै श्राद्धं तच्छ्राद्धमपवर्गदम् ॥ ८२ ॥

विश्वास-प्रस्तुतिः

यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते
प्रातःकालो मुहूर्तांस्त्रीन्सङ्गवस्तावदेव तु ॥ ८३ ॥

मूलम्

यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं विधीयते
प्रातःकालो मुहूर्तांस्त्रीन्सङ्गवस्तावदेव तु ॥ ८३ ॥

विश्वास-प्रस्तुतिः

मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥ ८४ ॥

मूलम्

मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम्
सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥ ८४ ॥

विश्वास-प्रस्तुतिः

राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु
अह्नो मुहूर्ता व्याख्याता दशपञ्च च सर्वदा ॥ ८५ ॥

मूलम्

राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु
अह्नो मुहूर्ता व्याख्याता दशपञ्च च सर्वदा ॥ ८५ ॥

विश्वास-प्रस्तुतिः

तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः
मध्याह्नात्सर्वदा यस्मान्मन्दी भवति भास्करः ॥ ८६ ॥

मूलम्

तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः
मध्याह्नात्सर्वदा यस्मान्मन्दी भवति भास्करः ॥ ८६ ॥

विश्वास-प्रस्तुतिः

तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते
खड्गपात्रं च कुतपस्तथा नैपालकम्बलम् ॥ ८७ ॥

मूलम्

तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते
खड्गपात्रं च कुतपस्तथा नैपालकम्बलम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः
पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः ॥ ८८ ॥

मूलम्

रुक्मं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः
पापं कुत्सितमित्याहुस्तस्य तत्तापकारिणः ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः
ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम् ॥ ८९ ॥

मूलम्

अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः
ऊर्ध्वं मुहुर्त्तात्कुतपान्महूर्त्तं च चतुष्टयम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

मुहूर्त्तपञ्चकं चैव स्वधावाचनमिष्यते
विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा ॥ ९० ॥

मूलम्

मुहूर्त्तपञ्चकं चैव स्वधावाचनमिष्यते
विष्णुदेहसमुद्भूताः कुशाः कृष्णतिलास्तथा ॥ ९० ॥

विश्वास-प्रस्तुतिः

श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः
तिलोदकाञ्जलिर्देयो जलान्ते तीर्थवासिभिः ॥ ९१ ॥

मूलम्

श्राद्धस्य लक्षणं कालमिति प्राहुर्मनीषिणः
तिलोदकाञ्जलिर्देयो जलान्ते तीर्थवासिभिः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् ॥ ९२ ॥

मूलम्

सदर्भहस्तेनैकेन गृहे श्राद्धं गमिष्यति
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् ॥ ९२ ॥

विश्वास-प्रस्तुतिः

ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम्
शृणोति यः पठेद्वापि श्रीमान्सञ्जायते नरः ॥ ९३ ॥

मूलम्

ब्रह्मणा चैव कथितं तीर्थश्राद्धानुकीर्तनम्
शृणोति यः पठेद्वापि श्रीमान्सञ्जायते नरः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः
सर्वपापोपशान्न्त्यर्थमलक्ष्मीनाशनं मतं ॥ ९४ ॥

मूलम्

श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः
सर्वपापोपशान्न्त्यर्थमलक्ष्मीनाशनं मतं ॥ ९४ ॥

इदं पवित्रं यशसो निधानमिदं महापातकनाशनं च
ब्रह्मार्करुद्रैरभिपूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः ९५