०१०

पुलस्त्य उवाच

विश्वास-प्रस्तुतिः

एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा
मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि॥ १ ॥

मूलम्

एकोद्दिष्टं ततो वक्ष्ये यदुक्तं ब्रह्मणा पुरा
मृते पुत्रैर्यथाकार्यमाशौचं च पितुर्यदि॥ १ ॥

विश्वास-प्रस्तुतिः

दशाहं शावमाशौचं ब्राह्मणस्य विधीयते
क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि॥ २ ॥

मूलम्

दशाहं शावमाशौचं ब्राह्मणस्य विधीयते
क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि॥ २ ॥

विश्वास-प्रस्तुतिः

शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते
नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्॥ ३ ॥

मूलम्

शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते
नैशमाचूडमाशौचं त्रिरात्रं परतः स्मृतम्॥ ३ ॥

विश्वास-प्रस्तुतिः

जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते॥ ४ ॥

मूलम्

जननेप्येवमेव स्यात्सर्ववर्णेषु सर्वदा
अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते॥ ४ ॥

विश्वास-प्रस्तुतिः

प्रेताय पिण्डदानं तु द्वादशाहं समाचरेत्
पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्॥ ५ ॥

मूलम्

प्रेताय पिण्डदानं तु द्वादशाहं समाचरेत्
पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत्॥ ५ ॥

विश्वास-प्रस्तुतिः

यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते
गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति॥ ६ ॥

मूलम्

यस्मात्प्रेतपुरं प्रेतो द्वादशाहेन नीयते
गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा
सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम्॥ ७ ॥

मूलम्

तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा
सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम्॥ ७ ॥

विश्वास-प्रस्तुतिः

ततस्त्वेकादशाहेपि द्विजानेकादशैव तु
गोत्रादिसूतकान्ते च भोजयेन्मनुजो द्विजान्॥ ८ ॥

मूलम्

ततस्त्वेकादशाहेपि द्विजानेकादशैव तु
गोत्रादिसूतकान्ते च भोजयेन्मनुजो द्विजान्॥ ८ ॥

विश्वास-प्रस्तुतिः

द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्
नावाहनाग्नौकरणं दैवहीनं विधानतः॥ ९ ॥

मूलम्

द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्
नावाहनाग्नौकरणं दैवहीनं विधानतः॥ ९ ॥

विश्वास-प्रस्तुतिः

एकं पवित्रमेकोर्घ एकः पिण्डो विधीयते
उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं॥ १० ॥

मूलम्

एकं पवित्रमेकोर्घ एकः पिण्डो विधीयते
उपतिष्ठतामिति वदेद्देयं पश्चात्तिलोदकं॥ १० ॥

विश्वास-प्रस्तुतिः

स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम्
शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः॥ ११ ॥

मूलम्

स्वास्ति ब्रूयाद्विप्रकरे विसर्गे चाभिरम्यताम्
शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः॥ ११ ॥

विश्वास-प्रस्तुतिः

अनेन विधिना सर्वमनुमासं समाचरेत्
सूतकान्ते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्॥ १२ ॥

मूलम्

अनेन विधिना सर्वमनुमासं समाचरेत्
सूतकान्ते द्वितीयेह्नि शय्यां दद्याद्विलक्षणाम्॥ १२ ॥

विश्वास-प्रस्तुतिः

काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्
प्रपूज्य द्विजदाम्पत्यं नानाभरणभूषितम्॥ १३ ॥

मूलम्

काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्वितम्
प्रपूज्य द्विजदाम्पत्यं नानाभरणभूषितम्॥ १३ ॥

विश्वास-प्रस्तुतिः

उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्
रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्॥ १४ ॥

मूलम्

उपवेश्य तु शय्यायां मधुपर्कं ततो ददेत्
रजतस्य तु पात्रेण दधिदुग्धसमन्वितम्॥ १४ ॥

विश्वास-प्रस्तुतिः

अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत्
पाययेदिद्वजदाम्पत्यं पितृभक्त्या समन्वितः॥ १५ ॥

मूलम्

अस्थिलालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत्
पाययेदिद्वजदाम्पत्यं पितृभक्त्या समन्वितः॥ १५ ॥

विश्वास-प्रस्तुतिः

एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः
तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः॥ १६ ॥

मूलम्

एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोतमैः
तेन दुष्टा तु सा शय्या न ग्राह्या द्विजसत्तमैः॥ १६ ॥

विश्वास-प्रस्तुतिः

गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति
वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता॥ १७ ॥

मूलम्

गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति
वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता॥ १७ ॥

विश्वास-प्रस्तुतिः

ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः
ग्रथितां वसुजालेन शय्यां दाम्पत्यसेविताम्॥ १८ ॥

मूलम्

ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः
ग्रथितां वसुजालेन शय्यां दाम्पत्यसेविताम्॥ १८ ॥

विश्वास-प्रस्तुतिः

ये स्पृशन्ति न जानन्तः सर्वे नरकगामिनः
नवश्राद्धेन भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत्॥ १९ ॥

मूलम्

ये स्पृशन्ति न जानन्तः सर्वे नरकगामिनः
नवश्राद्धेन भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत्॥ १९ ॥

विश्वास-प्रस्तुतिः

पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेत्
वृषोत्सर्गं च कुर्वीत देया च कपिला शुभा॥ २० ॥

मूलम्

पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेत्
वृषोत्सर्गं च कुर्वीत देया च कपिला शुभा॥ २० ॥

विश्वास-प्रस्तुतिः

उदकुम्भश्च दातव्यो भक्ष्यभोज्यफलान्वितः
यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्॥ २१ ॥

मूलम्

उदकुम्भश्च दातव्यो भक्ष्यभोज्यफलान्वितः
यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम्॥ २१ ॥

विश्वास-प्रस्तुतिः

ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत्
सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्वणभुग्यतः॥ २२ ॥

मूलम्

ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत्
सपिण्डीकरणादूर्द्ध्वं प्रेतः पार्वणभुग्यतः॥ २२ ॥

विश्वास-प्रस्तुतिः

वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्ततः
सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत्॥ २३ ॥

मूलम्

वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्ततः
सपिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत्॥ २३ ॥

विश्वास-प्रस्तुतिः

पितॄनावाहयेत्तत्र पृथक्प्रेतं विनिर्दिशेत्
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्॥ २४ ॥

मूलम्

पितॄनावाहयेत्तत्र पृथक्प्रेतं विनिर्दिशेत्
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्॥ २४ ॥

विश्वास-प्रस्तुतिः

अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
तद्वत्सङ्कल्प्य चतुरः पिण्डान्पितृपरस्तदा॥ २५ ॥

मूलम्

अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्
तद्वत्सङ्कल्प्य चतुरः पिण्डान्पितृपरस्तदा॥ २५ ॥

विश्वास-प्रस्तुतिः

ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा
अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेत्॥ २६ ॥

मूलम्

ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा
अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेत्॥ २६ ॥

विश्वास-प्रस्तुतिः

ततः पितृत्वमापन्नस्स चतुर्थस्तदा त्वनु
अग्निष्वात्तादि मध्ये तु प्राप्नोत्यमृतमुत्तमम्॥ २७ ॥

मूलम्

ततः पितृत्वमापन्नस्स चतुर्थस्तदा त्वनु
अग्निष्वात्तादि मध्ये तु प्राप्नोत्यमृतमुत्तमम्॥ २७ ॥

विश्वास-प्रस्तुतिः

सपिण्डीकरणादूर्ध्वं पृथक्तस्मै न दीयते
पितृष्वेव च दातव्यं तत्पिण्डं येषु संस्थितम्॥ २८ ॥

मूलम्

सपिण्डीकरणादूर्ध्वं पृथक्तस्मै न दीयते
पितृष्वेव च दातव्यं तत्पिण्डं येषु संस्थितम्॥ २८ ॥

विश्वास-प्रस्तुतिः

ततः प्रभृति सङ्क्रान्तावुपरागादि पर्वसु
त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेहनि॥ २९ ॥

मूलम्

ततः प्रभृति सङ्क्रान्तावुपरागादि पर्वसु
त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृतेहनि॥ २९ ॥

विश्वास-प्रस्तुतिः

एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्
स दैवं पितृहा स स्यात्तथा भ्रातृविनाशकः॥ ३० ॥

मूलम्

एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्
स दैवं पितृहा स स्यात्तथा भ्रातृविनाशकः॥ ३० ॥

विश्वास-प्रस्तुतिः

मृताहे पार्वणं कुर्वन्नधो याति स मानवः
सम्पृक्ते स्वर्गती भावे प्रेतमोक्षो यतो भवेत्॥ ३१ ॥

मूलम्

मृताहे पार्वणं कुर्वन्नधो याति स मानवः
सम्पृक्ते स्वर्गती भावे प्रेतमोक्षो यतो भवेत्॥ ३१ ॥

विश्वास-प्रस्तुतिः

आमश्राद्धं तदा कुर्याद्विधिज्ञः श्राद्धदस्ततः
तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत्॥ ३२ ॥

मूलम्

आमश्राद्धं तदा कुर्याद्विधिज्ञः श्राद्धदस्ततः
तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत्॥ ३२ ॥

विश्वास-प्रस्तुतिः

त्रिभिः सपिण्डीकरणं मासैक्ये त्रितये तथा
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात्॥ ३३ ॥

मूलम्

त्रिभिः सपिण्डीकरणं मासैक्ये त्रितये तथा
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात्॥ ३३ ॥

विश्वास-प्रस्तुतिः

मुक्तोपि लेपभागित्वं प्राप्नोति कुशमार्जनात्
लेपभाजश्चतुर्थाद्यास्त्रयः स्युः पिण्डभागिनः॥ ३४ ॥

मूलम्

मुक्तोपि लेपभागित्वं प्राप्नोति कुशमार्जनात्
लेपभाजश्चतुर्थाद्यास्त्रयः स्युः पिण्डभागिनः॥ ३४ ॥

विश्वास-प्रस्तुतिः

पिण्डदः सप्तमस्तेषां सपिण्डाः सप्तपूरुषाः
भीष्म उवाच
कथं हव्यानि देयानि कव्यानि च जनैरिह॥ ३५ ॥

मूलम्

पिण्डदः सप्तमस्तेषां सपिण्डाः सप्तपूरुषाः
भीष्म उवाच
कथं हव्यानि देयानि कव्यानि च जनैरिह॥ ३५ ॥

विश्वास-प्रस्तुतिः

गृह्णन्ति पितृलोके वा प्रायः के कैर्निगद्यते
यदि मर्त्ये द्विजो भुङ्क्ते हूयते यदि वानले॥ ३६ ॥

मूलम्

गृह्णन्ति पितृलोके वा प्रायः के कैर्निगद्यते
यदि मर्त्ये द्विजो भुङ्क्ते हूयते यदि वानले॥ ३६ ॥

विश्वास-प्रस्तुतिः

शुभाशुभात्मकाः प्रेतास्तदन्नं भुञ्जते कथम्
पुलस्त्य उवाच
वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः॥ ३७ ॥

मूलम्

शुभाशुभात्मकाः प्रेतास्तदन्नं भुञ्जते कथम्
पुलस्त्य उवाच
वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः॥ ३७ ॥

विश्वास-प्रस्तुतिः

प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः
नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः॥ ३८ ॥

मूलम्

प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः
नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः॥ ३८ ॥

विश्वास-प्रस्तुतिः

श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः
अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः॥ ३९ ॥

मूलम्

श्राद्धस्य मन्त्रतस्तत्वमुपलभ्येत भक्तितः
अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः॥ ३९ ॥

विश्वास-प्रस्तुतिः

नामगोत्रास्तदा देशा भवन्त्युद्भवतामपि
प्राणिनः प्रीणयत्येतदर्हणं समुपागतं॥ ४० ॥

मूलम्

नामगोत्रास्तदा देशा भवन्त्युद्भवतामपि
प्राणिनः प्रीणयत्येतदर्हणं समुपागतं॥ ४० ॥

विश्वास-प्रस्तुतिः

दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः
तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति॥ ४१ ॥

मूलम्

दिव्यो यदि पिता माता गुरुः कर्मानुयोगतः
तस्यान्नममृतं भूत्वा दिव्यत्त्वेप्यनुगच्छति॥ ४१ ॥

विश्वास-प्रस्तुतिः

दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत्
श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति॥ ४२ ॥

मूलम्

दैत्यत्वे भोगरूपेण पशुत्वेपि तृणं भवेत्
श्राद्धान्नं वायुरूपेण नागत्वेप्युपतिष्ठति॥ ४२ ॥

विश्वास-प्रस्तुतिः

पानं भवति यक्षत्वे राक्षसत्वे तथामिषं
दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्॥ ४३ ॥

मूलम्

पानं भवति यक्षत्वे राक्षसत्वे तथामिषं
दानवत्वे तथा पानं प्रेतत्वे रुधिरोदकम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत्
रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता॥ ४४ ॥

मूलम्

मनुष्यत्वेन्नपानादि नानाभोगवतां भवेत्
रतिशक्तिस्त्रियः कान्तेऽन्येषां भोजनशक्तिता॥ ४४ ॥

विश्वास-प्रस्तुतिः

दानशक्तिः स विभवा रूपमारोग्यमेव च
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः॥ ४५ ॥

मूलम्

दानशक्तिः स विभवा रूपमारोग्यमेव च
श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः॥ ४५ ॥

विश्वास-प्रस्तुतिः

आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप॥ ४६ ॥

मूलम्

आयुः पुत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च
प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप॥ ४६ ॥

विश्वास-प्रस्तुतिः

श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः
पञ्चभिर्जन्मसम्बन्धैः प्राप्ता ब्रह्मपरं पदम्॥ ४७ ॥

मूलम्

श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः
पञ्चभिर्जन्मसम्बन्धैः प्राप्ता ब्रह्मपरं पदम्॥ ४७ ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच
कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्
पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत्॥ ४८ ॥

मूलम्

भीष्म उवाच
कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्
पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत्॥ ४८ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः
नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे॥ ४९ ॥

मूलम्

पुलस्त्य उवाच
कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः
नामतः कर्मतस्तस्य पुत्राणां तन्निबोध मे॥ ४९ ॥

विश्वास-प्रस्तुतिः

स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च
वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्५० 1.10.50
पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं
अनावृष्टिश्च महती सर्वलोकभयङ्करी॥ ५१ ॥

मूलम्

स्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च
वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन्५० 1.10.50
पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणं
अनावृष्टिश्च महती सर्वलोकभयङ्करी॥ ५१ ॥

विश्वास-प्रस्तुतिः

गर्गादेशाद्वने दोग्ध्रीं रक्षन्ति च तपोधनाः
खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं॥ ५२ ॥

मूलम्

गर्गादेशाद्वने दोग्ध्रीं रक्षन्ति च तपोधनाः
खादामः कपिलामेतां वयं क्षुत्पीडिता भृशं॥ ५२ ॥

विश्वास-प्रस्तुतिः

इति चिन्तयतां पापं लघुः प्राह तदानुजः
यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां॥ ५३ ॥

मूलम्

इति चिन्तयतां पापं लघुः प्राह तदानुजः
यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां॥ ५३ ॥

विश्वास-प्रस्तुतिः

श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः॥ ५४ ॥

मूलम्

श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवं
एवं कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः॥ ५४ ॥

विश्वास-प्रस्तुतिः

चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः
द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्॥ ५५ ॥

मूलम्

चक्रे समाहितः श्राद्धमुपयुज्याथ तां पुनः
द्वौ दैवे भ्रातरो कृत्वा पित्र्ये त्रींश्चापरान्क्रमात्॥ ५५ ॥

विश्वास-प्रस्तुतिः

तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु
चकार मन्त्रवच्छ्राद्धं स्मरन्पितृपरायणः॥ ५६ ॥

मूलम्

तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु
चकार मन्त्रवच्छ्राद्धं स्मरन्पितृपरायणः॥ ५६ ॥

विश्वास-प्रस्तुतिः

तदा गत्वा विशङ्कास्ते गुरवे च न्यवेदयन्
व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां॥ ५७ ॥

मूलम्

तदा गत्वा विशङ्कास्ते गुरवे च न्यवेदयन्
व्याघ्रेण निहता धेनुर्वत्सोयं प्रतिगृह्यतां॥ ५७ ॥

विश्वास-प्रस्तुतिः

एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः॥ ५८ ॥

मूलम्

एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः
वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः॥ ५८ ॥

विश्वास-प्रस्तुतिः

ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन्
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः॥ ५९ ॥

मूलम्

ततः काले प्रणष्टास्ते व्याधा दश पुरेभवन्
जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः॥ ५९ ॥

विश्वास-प्रस्तुतिः

तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः
लोकैरवीक्ष्यमाणास्ते तीर्थान्तेनशनेन तु॥ ६० ॥

मूलम्

तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः
लोकैरवीक्ष्यमाणास्ते तीर्थान्तेनशनेन तु॥ ६० ॥

विश्वास-प्रस्तुतिः

सञ्जाता मृगरूपास्ते सप्त कालञ्जरे गिरौ
प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्॥ ६१ ॥

मूलम्

सञ्जाता मृगरूपास्ते सप्त कालञ्जरे गिरौ
प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुम्॥ ६१ ॥

विश्वास-प्रस्तुतिः

मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः
मानसे चक्रव्राकास्ते सञ्जाताः सप्तयोगिनः॥ ६२ ॥

मूलम्

मम्रुः प्रपतनेनाथ जातवैराग्यमानसाः
मानसे चक्रव्राकास्ते सञ्जाताः सप्तयोगिनः॥ ६२ ॥

विश्वास-प्रस्तुतिः

नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः
चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः॥ ६३ ॥

मूलम्

नामतः कर्मतः सर्वे सुमनाः कुसुमोवसुः
चित्तदर्शी सुदर्शी च ज्ञाता ज्ञानस्य पारगः॥ ६३ ॥

विश्वास-प्रस्तुतिः

ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः
योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः॥ ६४ ॥

मूलम्

ज्येष्ठानुरक्ताः श्रेष्ठास्ते सप्तैते योगपावनाः
योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः॥ ६४ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम्
क्रीडन्तं विविधैर्भोगैर्महाबलपराक्रमम्॥ ६५ ॥

मूलम्

दृष्ट्वा विभ्राजमानं तमणुहं स्त्रीभिरन्वितम्
क्रीडन्तं विविधैर्भोगैर्महाबलपराक्रमम्॥ ६५ ॥

विश्वास-प्रस्तुतिः

पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम्
राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्॥ ६६ ॥

मूलम्

पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम्
राज्यकामोभवत्त्वेकस्तेषां मध्ये जलौकसाम्॥ ६६ ॥

विश्वास-प्रस्तुतिः

पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः
अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ॥ ६७ ॥

मूलम्

पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः
अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ॥ ६७ ॥

विश्वास-प्रस्तुतिः

मन्त्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ
विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः॥ ६८ ॥

मूलम्

मन्त्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्यौ द्विजोत्तमौ
विभ्राजपुत्रस्त्वेकोभूद्ब्रह्मदत्त इति स्मृतः॥ ६८ ॥

विश्वास-प्रस्तुतिः

मन्त्रिपुत्रौ तथा चैव पुण्डरीकसुबालकौ
ब्रह्मदत्तोभिषिक्तस्तु काम्पिल्ये नगरोत्तमे॥ ६९ ॥

मूलम्

मन्त्रिपुत्रौ तथा चैव पुण्डरीकसुबालकौ
ब्रह्मदत्तोभिषिक्तस्तु काम्पिल्ये नगरोत्तमे॥ ६९ ॥

विश्वास-प्रस्तुतिः

पञ्चालराजो विक्रान्तः श्राद्धकृत्पितृवत्सलः
योगवित्सर्वजन्तूनां चित्तवेत्ताभवत्तदा॥ ७० ॥

मूलम्

पञ्चालराजो विक्रान्तः श्राद्धकृत्पितृवत्सलः
योगवित्सर्वजन्तूनां चित्तवेत्ताभवत्तदा॥ ७० ॥

विश्वास-प्रस्तुतिः

तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा
सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा॥ ७१ ॥

मूलम्

तस्य राज्ञोभवद्भार्या सुदेवस्यात्मजा तदा
सन्नतिर्नाम विख्याता कपिलायाभवत्पुरा॥ ७१ ॥

विश्वास-प्रस्तुतिः

पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी
तया चकार सहितः स राज्यं राजनन्दनः॥ ७२ ॥

मूलम्

पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी
तया चकार सहितः स राज्यं राजनन्दनः॥ ७२ ॥

विश्वास-प्रस्तुतिः

कदाचिद्गतउद्यानं तया सह स पार्थिवः
ददर्श कीटमिथुनमनङ्गकलहान्वितम्॥ ७३ ॥

मूलम्

कदाचिद्गतउद्यानं तया सह स पार्थिवः
ददर्श कीटमिथुनमनङ्गकलहान्वितम्॥ ७३ ॥

विश्वास-प्रस्तुतिः

पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः
पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह॥ ७४ ॥

मूलम्

पिपीलिकामधोवक्त्रां पुरतः कीटकामुकः
पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह॥ ७४ ॥

विश्वास-प्रस्तुतिः

न त्वया सदृशी लोके कामिनी विद्यते क्वचित्
मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी॥ ७५ ॥

मूलम्

न त्वया सदृशी लोके कामिनी विद्यते क्वचित्
मध्ये क्षीणातिजघना बृहद्वक्त्रातिगामिनी॥ ७५ ॥

विश्वास-प्रस्तुतिः

सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी
आलक्ष्यते च वदनं गुडशर्करवत्सलं॥ ७६ ॥

मूलम्

सुवर्णवर्णसदृशी सद्वक्त्रा चारुहासिनी
आलक्ष्यते च वदनं गुडशर्करवत्सलं॥ ७६ ॥

विश्वास-प्रस्तुतिः

भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि
प्रोषिते मयि दीना त्वं क्रुद्धे च भयचञ्चला॥ ७७ ॥

मूलम्

भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि
प्रोषिते मयि दीना त्वं क्रुद्धे च भयचञ्चला॥ ७७ ॥

विश्वास-प्रस्तुतिः

किमर्थं वद कल्याणि सदाधोवदनास्थिता
सा तमाह ज्वलत्कोपा किमालपसि रे शठ॥ ७८ ॥

मूलम्

किमर्थं वद कल्याणि सदाधोवदनास्थिता
सा तमाह ज्वलत्कोपा किमालपसि रे शठ॥ ७८ ॥

विश्वास-प्रस्तुतिः

त्वया मोदकचूर्णं तु मां विहायापि भक्षितम्
प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः॥ ७९ ॥

मूलम्

त्वया मोदकचूर्णं तु मां विहायापि भक्षितम्
प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः॥ ७९ ॥

विश्वास-प्रस्तुतिः

पिपीलक उवाच
त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि
तदेकमपराधं मे क्षन्तुमर्हसि भामिनि॥ ८० ॥

मूलम्

पिपीलक उवाच
त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि
तदेकमपराधं मे क्षन्तुमर्हसि भामिनि॥ ८० ॥

विश्वास-प्रस्तुतिः

नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि
स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे॥ ८१ ॥

मूलम्

नैवं पुनः करिष्यामि त्यज कोपं च सुस्तनि
स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे॥ ८१ ॥

विश्वास-प्रस्तुतिः

रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत्
तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः॥ ८२ ॥

मूलम्

रुष्टायां त्वयि सुश्रोणि मृत्युर्मे पुरतो भवेत्
तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः॥ ८२ ॥

विश्वास-प्रस्तुतिः

पूर्णचन्द्रोपमं वक्त्रं स्वादेमृतरसोपमम्
निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा॥ ८३ ॥

मूलम्

पूर्णचन्द्रोपमं वक्त्रं स्वादेमृतरसोपमम्
निर्भरं पिब सुश्रोणि कामासक्तस्य मे सदा॥ ८३ ॥

विश्वास-प्रस्तुतिः

एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि
इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः॥ ८४ ॥

मूलम्

एतन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि
इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः॥ ८४ ॥

विश्वास-प्रस्तुतिः

आत्मानमर्पयामास मोहनाय पिपीलिका
ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्॥ ८५ ॥

मूलम्

आत्मानमर्पयामास मोहनाय पिपीलिका
ब्रह्मदत्तोपि तत्सर्वं ज्ञात्वा सस्मयमाहसत्॥ ८५ ॥

विश्वास-प्रस्तुतिः

सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः
भीष्म उवाच
कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः॥ ८६ ॥

मूलम्

सर्वसत्वरुतज्ञानी प्रभावात्पूर्वकर्मणः
भीष्म उवाच
कथं सर्वरुतज्ञोभूद्ब्रह्मदत्तो नराधिपः॥ ८६ ॥

विश्वास-प्रस्तुतिः

तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं
तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्॥ ८७ ॥

मूलम्

तच्चापि चाभवत्कुत्र चक्रवाकचतुष्टयं
तन्मे कथय सर्वज्ञ कुले कस्य च सुव्रतम्॥ ८७ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप॥ ८८ ॥

मूलम्

पुलस्त्य उवाच
तस्मिन्नेव पुरे जाताश्चक्रवाका अथो नृप॥ ८८ ॥

विश्वास-प्रस्तुतिः

वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः
धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः॥ ८९ ॥

मूलम्

वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः
धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोधिकः॥ ८९ ॥

विश्वास-प्रस्तुतिः

नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः
तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां॥ ९० ॥

मूलम्

नामतः कर्मतश्चैव सुदरिद्रस्य ते सुताः
तपसे बुद्धिरभवत्तेषां वै द्विजजन्मनां॥ ९० ॥

विश्वास-प्रस्तुतिः

यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः
तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः॥ ९१ ॥

मूलम्

यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः
तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः॥ ९१ ॥

विश्वास-प्रस्तुतिः

उवाच दीनया वाचा किमेतदिति पुत्रकाः
अधर्म एष वः पुत्रा पिता तानित्युवाच ह॥ ९२ ॥

मूलम्

उवाच दीनया वाचा किमेतदिति पुत्रकाः
अधर्म एष वः पुत्रा पिता तानित्युवाच ह॥ ९२ ॥

विश्वास-प्रस्तुतिः

वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम्
क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च॥ ९३ ॥

मूलम्

वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनम्
क्व नु धर्मोत्र भविता मां त्यक्त्वा गतिमेव च॥ ९३ ॥

विश्वास-प्रस्तुतिः

ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु
व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं॥ ९४ ॥

मूलम्

ऊचुस्ते कल्पिता वृत्तिस्तव तात वचश्शृणु
व्रतमेतत्पुरा राज्ञः स ते दास्यति पुष्कलं॥ ९४ ॥

विश्वास-प्रस्तुतिः

धनं ग्राम सहस्राणि प्रभाते पठतस्तव
कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये॥ ९५ ॥

मूलम्

धनं ग्राम सहस्राणि प्रभाते पठतस्तव
कुरुक्षेत्रे तु ये विप्रा व्याधा दशपुरे तु ये॥ ९५ ॥

विश्वास-प्रस्तुतिः

कालञ्जरे मृगा भूताश्चक्रवाकास्तु मानसे
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः॥ ९६ ॥

मूलम्

कालञ्जरे मृगा भूताश्चक्रवाकास्तु मानसे
इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः॥ ९६ ॥

विश्वास-प्रस्तुतिः

वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये
अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा॥ ९७ ॥

मूलम्

वृद्धोपि स द्विजो राजन्जगाम स्वार्थसिद्धये
अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा॥ ९७ ॥

विश्वास-प्रस्तुतिः

पुत्रार्थी देवदेवेशं पद्मयोनिं पितामहम्
आराधयामास विभुं तीव्रव्रतपरायणः॥ ९८ ॥

मूलम्

पुत्रार्थी देवदेवेशं पद्मयोनिं पितामहम्
आराधयामास विभुं तीव्रव्रतपरायणः॥ ९८ ॥

विश्वास-प्रस्तुतिः

ततः कालेन महता तुष्टस्तस्य पितामहः
वरं वरय भद्रं ते हृदयेभीप्सितं नृप॥ ९९ ॥

मूलम्

ततः कालेन महता तुष्टस्तस्य पितामहः
वरं वरय भद्रं ते हृदयेभीप्सितं नृप॥ ९९ ॥

अणुह उवाच
पुत्रं मे देहि देवेश महाबलपराक्रमम्
पारगं सर्वविद्यानां धार्मिकं योगिनां वरम्१०० 1.10.100
सर्वसत्वरुतज्ञं मे देहि योगिनमात्मजम्
एवमस्त्विति विश्वात्मा तमाह परमेश्वरः१०१
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत
ततः स तस्य पुत्रोभूद्ब्रह्मदत्तः प्रतापवान्१०२
सर्वसत्वानुकम्पी च सर्वसत्वबलाधिकः
सर्वसत्वरुतज्ञश्च सर्वसत्वेश्वरेश्वरः१०३
अथ सत्वेन योगात्मा स पिपीलकमागतः
यत्र तत्कीटमिथुनं रममाणमवस्थितम्१०४
ततः सा सन्नतिर्दृष्ट्वा प्रहसन्तं सुविस्मितं
किमप्याशङ्कमाना सा तमपृच्छन्नरेश्वरम्१०५
सन्नतिरुवाच
अकस्मादतिहासोयं किमर्थमभवन्नृप
हास्यहेतुं न जानामि यदकाले कृतं त्वया१०६
अवदद्राजपुत्रोसौ तं पिपीलिकभाषितम्
रागवद्विरसोत्पन्नमेतद्धास्यं वरानने१०७
न चान्यत्कारणं किञ्चिद्धास्यहेतुः शुचिस्मिते
न सामन्यततं देवी प्राहालीकमिदं तव१०८
अहमेवेह हसिता न जीविष्ये त्वयाधुना
कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते१०९
तस्मात्त्वयाहमेवाद्य हसिता किमतः परम्
ततो निरुत्तरो राजा जिज्ञासुस्तद्वचो हरेः११०
आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः
स्वप्नान्ते प्राह तं ब्रह्मा प्रभाते पर्यटन्पुरम्१११
वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यति ते प्रिया
इत्युक्त्वान्तर्दधे ब्रह्मा प्रभाते च नृपः पुरात्११२
निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः
गदन्तं विप्रमायान्तं वृद्धं च स ददर्श ह११३
ब्राह्मण उवाच
ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च
कालञ्जरे सप्त च चक्रवाका ये मानसे तेत्र वसन्ति सिद्धाः११४
इत्याकर्ण्य वचस्तस्य स पपात शुचान्वितः
जातिस्मरत्वमगमत्तौ च मन्त्रिवरात्मजौ११५
कामशास्त्रप्रणेता तु बाभ्रव्यः स तु बालकः
पञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित्११६
पुण्डरीकोपि धर्मात्मा वेदशास्त्रप्रवर्तकः
भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तथा११७
हा वयं कर्मविभ्रष्टाः कामतः कर्मबन्धनात्
एवं विलप्य बहुशस्त्रयस्ते योगपारगाः११८
विस्मयाच्छ्राद्धमाहाम्यमभिनन्द्य पुनः पुनः
स तु तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम्११९
विसृज्य ब्राह्मणं तं च वृद्धं धनमदान्वितम्
आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम्१२०
विष्वक्सेनाभिधानं च राजाराज्येभ्यषेचयत्
मानसे सलिले सर्वे ततस्ते योगिनां वराः१२१
ब्रह्मदत्तादयस्तस्मिन्पितृभक्ता विमत्सराः
सन्नतिश्चाभवद्धृष्टा मयैव तव दर्शितम्१२२
राजन्योगफलं सर्वं यदेतदभिलक्ष्यते
तथेति प्राह राजापि पुरस्तादभिनन्दयन्१२३
त्वत्प्रसादादिदं सर्वं मयैवं प्राप्यते फलम्१२४
ततस्ते योगमास्थाय सर्व एव वनौकसः
ब्रह्मरन्ध्रेण परमं पदमापुस्तपोबलात्१२५
एवमायुर्धनं विद्यां स्वर्गमोक्षसुखानि च
प्रयच्छन्ति सुतं राज्यं नृणां तुष्टाः पितामहाः१२६
इदं च पितृमाहात्म्यं ब्रह्मदत्तस्य वै नृप
द्विजेभ्यः श्रावयेद्विद्वान्शृणोति पठतेपि वा
कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते१२७
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे पितृमाहात्म्यकथनन्नाम दशमोऽध्यायः१०