भीष्म उवाच
विश्वास-प्रस्तुतिः
बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा
पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः॥ १ ॥
मूलम्
बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा
पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः॥ १ ॥
विश्वास-प्रस्तुतिः
किमर्थं च कृता सञ्ज्ञा भूमेस्सा पारिभाषिकी
गौरितीयं च सञ्ज्ञा वा भुवः कस्माद्ब्रवीहि मे॥ २ ॥
मूलम्
किमर्थं च कृता सञ्ज्ञा भूमेस्सा पारिभाषिकी
गौरितीयं च सञ्ज्ञा वा भुवः कस्माद्ब्रवीहि मे॥ २ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
पुरा कृतयुगस्यासीदङ्गो नाम प्रजापतिः
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी॥ ३ ॥
मूलम्
पुलस्त्य उवाच
पुरा कृतयुगस्यासीदङ्गो नाम प्रजापतिः
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी॥ ३ ॥
विश्वास-प्रस्तुतिः
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा
अधर्मनिरतः कामी बलवान्वसुधाधिपः॥ ४ ॥
मूलम्
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा
अधर्मनिरतः कामी बलवान्वसुधाधिपः॥ ४ ॥
विश्वास-प्रस्तुतिः
लोकस्याधर्मकृच्चापि परभार्यापहारकः
अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः॥ ५ ॥
मूलम्
लोकस्याधर्मकृच्चापि परभार्यापहारकः
अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः॥ ५ ॥
विश्वास-प्रस्तुतिः
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः
शापेन मारयित्वैनमराजकभयार्दिताः॥ ६ ॥
मूलम्
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः
शापेन मारयित्वैनमराजकभयार्दिताः॥ ६ ॥
विश्वास-प्रस्तुतिः
ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः
तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः॥ ७ ॥
मूलम्
ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः
तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः॥ ७ ॥
विश्वास-प्रस्तुतिः
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः
पितुरंशस्य सङ्गेन धार्मिको धर्मकारकः॥ ८ ॥
मूलम्
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः
पितुरंशस्य सङ्गेन धार्मिको धर्मकारकः॥ ८ ॥
विश्वास-प्रस्तुतिः
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी
दिव्यतेजोमयः पुत्रस्सरत्नकवचाङ्गदः॥ ९ ॥
मूलम्
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी
दिव्यतेजोमयः पुत्रस्सरत्नकवचाङ्गदः॥ ९ ॥
विश्वास-प्रस्तुतिः
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत
स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं॥ १० ॥
मूलम्
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत
स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं॥ १० ॥
विश्वास-प्रस्तुतिः
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः
निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं॥ ११ ॥
मूलम्
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः
निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं॥ ११ ॥
विश्वास-प्रस्तुतिः
वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः
ततो गोरूपमास्थाय भूः पलायितुमुद्यता॥ १२ ॥
मूलम्
वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः
ततो गोरूपमास्थाय भूः पलायितुमुद्यता॥ १२ ॥
विश्वास-प्रस्तुतिः
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्॥ १३ ॥
मूलम्
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्॥ १३ ॥
विश्वास-प्रस्तुतिः
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च॥ १४ ॥
मूलम्
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च॥ १४ ॥
विश्वास-प्रस्तुतिः
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुं॥ १५ ॥
मूलम्
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुं॥ १५ ॥
विश्वास-प्रस्तुतिः
तदन्नमभवद्दुग्धं प्रजा जीवन्ति येन तु
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्॥ १६ ॥
मूलम्
तदन्नमभवद्दुग्धं प्रजा जीवन्ति येन तु
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्॥ १६ ॥
विश्वास-प्रस्तुतिः
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः
देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्॥ १७ ॥
मूलम्
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः
देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्॥ १७ ॥
विश्वास-प्रस्तुतिः
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं
देवानां काञ्चनं पात्रं पितृणां राजतं तथा॥ १८ ॥
मूलम्
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं
देवानां काञ्चनं पात्रं पितृणां राजतं तथा॥ १८ ॥
विश्वास-प्रस्तुतिः
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः
बिलं च पात्रं नागानां तक्षको वत्सकोभवत्॥ १९ ॥
मूलम्
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः
बिलं च पात्रं नागानां तक्षको वत्सकोभवत्॥ १९ ॥
विश्वास-प्रस्तुतिः
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः
असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्॥ २० ॥
मूलम्
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः
असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्॥ २० ॥
विश्वास-प्रस्तुतिः
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः
दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता॥ २१ ॥
मूलम्
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः
दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता॥ २१ ॥
विश्वास-प्रस्तुतिः
यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः
कृत्वा विश्वावसुं वत्सं मणिमन्तं महीपते॥ २२ ॥
मूलम्
यक्षैश्च वसुधा दुग्धा पुरान्तर्द्धानमीप्सुभिः
कृत्वा विश्वावसुं वत्सं मणिमन्तं महीपते॥ २२ ॥
विश्वास-प्रस्तुतिः
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं
रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च॥ २३ ॥
मूलम्
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं
रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च॥ २३ ॥
विश्वास-प्रस्तुतिः
गन्धर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः
वत्सं चित्ररथं कृत्वा गन्धान्पद्मदले तथा॥ २४ ॥
मूलम्
गन्धर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः
वत्सं चित्ररथं कृत्वा गन्धान्पद्मदले तथा॥ २४ ॥
विश्वास-प्रस्तुतिः
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च॥ २५ ॥
मूलम्
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च॥ २५ ॥
विश्वास-प्रस्तुतिः
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः
वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः॥ २६ ॥
मूलम्
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः
वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः॥ २६ ॥
विश्वास-प्रस्तुतिः
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं
पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः॥ २७ ॥
मूलम्
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं
पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः॥ २७ ॥
विश्वास-प्रस्तुतिः
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः
एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः॥ २८ ॥
मूलम्
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः
एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः॥ २८ ॥
विश्वास-प्रस्तुतिः
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति
न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्॥ २९ ॥
मूलम्
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति
न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्॥ २९ ॥
विश्वास-प्रस्तुतिः
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति
नित्यम्प्रमुदितालोका दुःखशोकविवर्जिताः॥ ३० ॥
मूलम्
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति
नित्यम्प्रमुदितालोका दुःखशोकविवर्जिताः॥ ३० ॥
विश्वास-प्रस्तुतिः
धनुः कोट्या च शैलेन्द्रानुत्सार्य स महाबलः
भूमण्डलं समं चक्रे लोकानां हितकाम्यया॥ ३१ ॥
मूलम्
धनुः कोट्या च शैलेन्द्रानुत्सार्य स महाबलः
भूमण्डलं समं चक्रे लोकानां हितकाम्यया॥ ३१ ॥
विश्वास-प्रस्तुतिः
न पुरग्रामदुर्गाणि न चायुधधरा नराः
म्रियन्ते यत्र दुःखं च नार्थशास्त्रस्य चादरः॥ ३२ ॥
मूलम्
न पुरग्रामदुर्गाणि न चायुधधरा नराः
म्रियन्ते यत्र दुःखं च नार्थशास्त्रस्य चादरः॥ ३२ ॥
विश्वास-प्रस्तुतिः
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति
कथितानि च पात्राणि यत्क्षीरं च यथा तव॥ ३३ ॥
मूलम्
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति
कथितानि च पात्राणि यत्क्षीरं च यथा तव॥ ३३ ॥
विश्वास-प्रस्तुतिः
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता
यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं॥ ३४ ॥
मूलम्
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता
यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं॥ ३४ ॥
विश्वास-प्रस्तुतिः
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते
तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः॥ ३५ ॥
मूलम्
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते
तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः॥ ३५ ॥
विश्वास-प्रस्तुतिः
भीष्म उवाच
आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि॥ ३६ ॥
मूलम्
भीष्म उवाच
आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि॥ ३६ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा
तस्य पत्नीत्रयं तद्वत्सञ्ज्ञा राज्ञी प्रभा तथा॥ ३७ ॥
मूलम्
पुलस्त्य उवाच
विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा
तस्य पत्नीत्रयं तद्वत्सञ्ज्ञा राज्ञी प्रभा तथा॥ ३७ ॥
विश्वास-प्रस्तुतिः
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं
प्रभा प्रभातं सुषुवे त्वाष्ट्रं सञ्ज्ञा तथा मनुं॥ ३८ ॥
मूलम्
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं
प्रभा प्रभातं सुषुवे त्वाष्ट्रं सञ्ज्ञा तथा मनुं॥ ३८ ॥
विश्वास-प्रस्तुतिः
यमश्च यमुना चैव यमलौ च बभूवतुः
ततस्तेजोमयं रूपमसहन्ती विवस्वतः॥ ३९ ॥
मूलम्
यमश्च यमुना चैव यमलौ च बभूवतुः
ततस्तेजोमयं रूपमसहन्ती विवस्वतः॥ ३९ ॥
विश्वास-प्रस्तुतिः
नारीमुत्पादयामास स्वशरीरादनिन्दितां
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी॥ ४० ॥
मूलम्
नारीमुत्पादयामास स्वशरीरादनिन्दितां
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी॥ ४० ॥
विश्वास-प्रस्तुतिः
किङ्करोमीति पुरतः संस्थितां तामभाषत
छाये त्वं भज भर्तारं मदीयं तं वरानने॥ ४१ ॥
मूलम्
किङ्करोमीति पुरतः संस्थितां तामभाषत
छाये त्वं भज भर्तारं मदीयं तं वरानने॥ ४१ ॥
विश्वास-प्रस्तुतिः
अपत्यानि मदीयानि मातृस्नेहेन पालय
तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता॥ ४२ ॥
मूलम्
अपत्यानि मदीयानि मातृस्नेहेन पालय
तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता॥ ४२ ॥
विश्वास-प्रस्तुतिः
कामयामास देवोपि सञ्ज्ञेयमिति चादरात्
जनयामास सावर्णिं मनुं मनुस्वरूपिणम्॥ ४३ ॥
मूलम्
कामयामास देवोपि सञ्ज्ञेयमिति चादरात्
जनयामास सावर्णिं मनुं मनुस्वरूपिणम्॥ ४३ ॥
विश्वास-प्रस्तुतिः
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु
ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु॥ ४४ ॥
मूलम्
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु
ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु॥ ४४ ॥
विश्वास-प्रस्तुतिः
छायायां जनयामास सञ्ज्ञेयमिति भास्करः
छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा॥ ४५ ॥
मूलम्
छायायां जनयामास सञ्ज्ञेयमिति भास्करः
छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा॥ ४५ ॥
विश्वास-प्रस्तुतिः
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः
सन्तर्जयामास तदा पादमुत्क्षिप्य दक्षिणं॥ ४६ ॥
मूलम्
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः
सन्तर्जयामास तदा पादमुत्क्षिप्य दक्षिणं॥ ४६ ॥
विश्वास-प्रस्तुतिः
शशाप च यमं छाया भवतु क्रिमिसंयुतः
पादोयमेको भविता पूयशोणितविस्रवः॥ ४७ ॥
मूलम्
शशाप च यमं छाया भवतु क्रिमिसंयुतः
पादोयमेको भविता पूयशोणितविस्रवः॥ ४७ ॥
विश्वास-प्रस्तुतिः
निवेदयामास पितुर्यमः शापेन धर्षितः
निःकारणमहं शप्तो मात्रा देव सकोपया॥ ४८ ॥
मूलम्
निवेदयामास पितुर्यमः शापेन धर्षितः
निःकारणमहं शप्तो मात्रा देव सकोपया॥ ४८ ॥
विश्वास-प्रस्तुतिः
बालभावान्मया किञ्चिदुद्यतश्चरणः सकृत्
मनुना वार्यमाणापि मम शापमदाद्विभो॥ ४९ ॥
मूलम्
बालभावान्मया किञ्चिदुद्यतश्चरणः सकृत्
मनुना वार्यमाणापि मम शापमदाद्विभो॥ ४९ ॥
विश्वास-प्रस्तुतिः
प्रायो न माता सास्माकमसमा स्नेहतो यतः
देवोप्याह यमं भूयः किं करोमि महामते५० 1.8.50
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसन्ततिः
अनिवार्या भवस्यापि का कथान्येषु जन्तुषु॥ ५१ ॥
मूलम्
प्रायो न माता सास्माकमसमा स्नेहतो यतः
देवोप्याह यमं भूयः किं करोमि महामते५० 1.8.50
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसन्ततिः
अनिवार्या भवस्यापि का कथान्येषु जन्तुषु॥ ५१ ॥
विश्वास-प्रस्तुतिः
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति
खञ्जं च रुचिरं चैव पादमेतद्भविष्यति॥ ५२ ॥
मूलम्
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति
खञ्जं च रुचिरं चैव पादमेतद्भविष्यति॥ ५२ ॥
विश्वास-प्रस्तुतिः
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह
वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः॥ ५३ ॥
मूलम्
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह
वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः॥ ५३ ॥
विश्वास-प्रस्तुतिः
पितामहं समाराध्य यावद्वर्षायुतं पुनः
तपःप्रभावाद्देवेशः सन्तुष्टः पद्मसम्भवः॥ ५४ ॥
मूलम्
पितामहं समाराध्य यावद्वर्षायुतं पुनः
तपःप्रभावाद्देवेशः सन्तुष्टः पद्मसम्भवः॥ ५४ ॥
विश्वास-प्रस्तुतिः
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं
धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्॥ ५५ ॥
मूलम्
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं
धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्॥ ५५ ॥
विश्वास-प्रस्तुतिः
एवं स लोकपालत्वमगमत्पद्मसम्भवात्
पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ॥ ५६ ॥
मूलम्
एवं स लोकपालत्वमगमत्पद्मसम्भवात्
पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ॥ ५६ ॥
विश्वास-प्रस्तुतिः
विवस्वानथ तज्ज्ञात्वा सञ्ज्ञायाः कर्मचेष्टितं
त्वष्टुः समीपमगमदाचचक्षे सरोषवान्॥ ५७ ॥
मूलम्
विवस्वानथ तज्ज्ञात्वा सञ्ज्ञायाः कर्मचेष्टितं
त्वष्टुः समीपमगमदाचचक्षे सरोषवान्॥ ५७ ॥
विश्वास-प्रस्तुतिः
तमुवाच ततस्त्वष्टा सान्त्वपूर्वमिदं वचः
तवासहन्ती भगवंस्तेजस्तीव्रं तमोनुद॥ ५८ ॥
मूलम्
तमुवाच ततस्त्वष्टा सान्त्वपूर्वमिदं वचः
तवासहन्ती भगवंस्तेजस्तीव्रं तमोनुद॥ ५८ ॥
विश्वास-प्रस्तुतिः
बडवारूपमास्थाय मत्सकाशमिहागता
निवारिता मया सा च त्वद्भयेन दिवस्पते॥ ५९ ॥
मूलम्
बडवारूपमास्थाय मत्सकाशमिहागता
निवारिता मया सा च त्वद्भयेन दिवस्पते॥ ५९ ॥
विश्वास-प्रस्तुतिः
यस्मादविज्ञातमना मत्सकाशमिहागता
तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति॥ ६० ॥
मूलम्
यस्मादविज्ञातमना मत्सकाशमिहागता
तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति॥ ६० ॥
विश्वास-प्रस्तुतिः
एवमुक्ता जगामाशु मरुदेशमनिन्दिता
बडवारूपमास्थाय भूतले सम्प्रतिष्ठिता॥ ६१ ॥
मूलम्
एवमुक्ता जगामाशु मरुदेशमनिन्दिता
बडवारूपमास्थाय भूतले सम्प्रतिष्ठिता॥ ६१ ॥
विश्वास-प्रस्तुतिः
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्
अपनेष्यामि ते तेजः कृत्वा यन्त्रे दिवाकरम्॥ ६२ ॥
मूलम्
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्
अपनेष्यामि ते तेजः कृत्वा यन्त्रे दिवाकरम्॥ ६२ ॥
विश्वास-प्रस्तुतिः
रूपं तव करिष्यामि लोकानन्दकरं प्रभो
तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं॥ ६३ ॥
मूलम्
रूपं तव करिष्यामि लोकानन्दकरं प्रभो
तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं॥ ६३ ॥
विश्वास-प्रस्तुतिः
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्
त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चापरं॥ ६४ ॥
मूलम्
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्
त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चापरं॥ ६४ ॥
विश्वास-प्रस्तुतिः
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्॥ ६५ ॥
मूलम्
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्॥ ६५ ॥
विश्वास-प्रस्तुतिः
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः
अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्॥ ६६ ॥
मूलम्
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः
अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्॥ ६६ ॥
विश्वास-प्रस्तुतिः
यः करोति स पापिष्ठो गतिमाप्नोति निन्दितां
कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसञ्ज्ञितं॥ ६७ ॥
मूलम्
यः करोति स पापिष्ठो गतिमाप्नोति निन्दितां
कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसञ्ज्ञितं॥ ६७ ॥
विश्वास-प्रस्तुतिः
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः॥ ६८ ॥
मूलम्
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः॥ ६८ ॥
विश्वास-प्रस्तुतिः
ततः स भगवान्गत्वा भूर्लोकममराधिपः
कामयामास कामार्तो मुख एव दिवाकरः॥ ६९ ॥
मूलम्
ततः स भगवान्गत्वा भूर्लोकममराधिपः
कामयामास कामार्तो मुख एव दिवाकरः॥ ६९ ॥
विश्वास-प्रस्तुतिः
अश्वरूपेण महता तेजसा च समन्वितः
सञ्ज्ञा च मनसा क्षोभमगमद्भयविह्वला॥ ७० ॥
मूलम्
अश्वरूपेण महता तेजसा च समन्वितः
सञ्ज्ञा च मनसा क्षोभमगमद्भयविह्वला॥ ७० ॥
विश्वास-प्रस्तुतिः
नासापुटाभ्यामुत्सृष्टं परोयमिति शङ्कया
तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्॥ ७१ ॥
मूलम्
नासापुटाभ्यामुत्सृष्टं परोयमिति शङ्कया
तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्॥ ७१ ॥
विश्वास-प्रस्तुतिः
दस्रौ श्रुतित्वात्सञ्जातौ नासत्यौ नासिकाग्रतः
ज्ञात्वा चिराच्च तं देवं सन्तोषमगमत्परं॥ ७२ ॥
मूलम्
दस्रौ श्रुतित्वात्सञ्जातौ नासत्यौ नासिकाग्रतः
ज्ञात्वा चिराच्च तं देवं सन्तोषमगमत्परं॥ ७२ ॥
विश्वास-प्रस्तुतिः
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः
सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः॥ ७३ ॥
मूलम्
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः
सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः॥ ७३ ॥
विश्वास-प्रस्तुतिः
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः
यमुना तपती चैव पुनर्नद्यौ बभूवतुः॥ ७४ ॥
मूलम्
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः
यमुना तपती चैव पुनर्नद्यौ बभूवतुः॥ ७४ ॥
विश्वास-प्रस्तुतिः
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता
मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः॥ ७५ ॥
मूलम्
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता
मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः॥ ७५ ॥
विश्वास-प्रस्तुतिः
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च॥ ७६ ॥
मूलम्
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च॥ ७६ ॥
विश्वास-प्रस्तुतिः
नरिष्यन्तः करूषश्च शर्यातिश्च महाबलः
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः॥ ७७ ॥
मूलम्
नरिष्यन्तः करूषश्च शर्यातिश्च महाबलः
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः॥ ७७ ॥
विश्वास-प्रस्तुतिः
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्
जगाम तपसे भूयः पुष्करं स तपोवनं॥ ७८ ॥
मूलम्
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्
जगाम तपसे भूयः पुष्करं स तपोवनं॥ ७८ ॥
विश्वास-प्रस्तुतिः
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः
वरं वरय भद्रं ते मानवेय यथेप्सितं॥ ७९ ॥
मूलम्
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः
वरं वरय भद्रं ते मानवेय यथेप्सितं॥ ७९ ॥
विश्वास-प्रस्तुतिः
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं
वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः॥ ८० ॥
मूलम्
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं
वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः॥ ८० ॥
विश्वास-प्रस्तुतिः
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कञ्जज
तथेत्युक्त्वा तु देवेशस्तत्रैवान्तरधीयत॥ ८१ ॥
मूलम्
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कञ्जज
तथेत्युक्त्वा तु देवेशस्तत्रैवान्तरधीयत॥ ८१ ॥
विश्वास-प्रस्तुतिः
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा
अथैकदा रथारूढ इलो निज सुतो मनोः॥ ८२ ॥
मूलम्
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा
अथैकदा रथारूढ इलो निज सुतो मनोः॥ ८२ ॥
विश्वास-प्रस्तुतिः
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रसाधयन्॥ ८३ ॥
मूलम्
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रसाधयन्॥ ८३ ॥
विश्वास-प्रस्तुतिः
जगामोपवनं शम्भोरथाकृष्टः प्रतापवान्
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्॥ ८४ ॥
मूलम्
जगामोपवनं शम्भोरथाकृष्टः प्रतापवान्
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्॥ ८४ ॥
विश्वास-प्रस्तुतिः
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः
उमया समयस्तत्र पुरा शरवणे कृतः॥ ८५ ॥
मूलम्
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः
उमया समयस्तत्र पुरा शरवणे कृतः॥ ८५ ॥
विश्वास-प्रस्तुतिः
पुन्नामसञ्ज्ञं यत्किञ्चिदागमिष्यति नो वनं
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले॥ ८६ ॥
मूलम्
पुन्नामसञ्ज्ञं यत्किञ्चिदागमिष्यति नो वनं
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले॥ ८६ ॥
विश्वास-प्रस्तुतिः
अज्ञातसमयो राजा इलः शरवणं गतः
स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्॥ ८७ ॥
मूलम्
अज्ञातसमयो राजा इलः शरवणं गतः
स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्॥ ८७ ॥
विश्वास-प्रस्तुतिः
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः
इलेति साभवन्नारी पीनोन्नतघनस्तनी॥ ८८ ॥
मूलम्
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः
इलेति साभवन्नारी पीनोन्नतघनस्तनी॥ ८८ ॥
विश्वास-प्रस्तुतिः
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा
पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा॥ ८९ ॥
मूलम्
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा
पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा॥ ८९ ॥
विश्वास-प्रस्तुतिः
पीनोन्नतायतभुजा नीलकुञ्चितमूर्द्धजा
तनुलोमा सुवदना मृदुगद्गदभाषिणी॥ ९० ॥
मूलम्
पीनोन्नतायतभुजा नीलकुञ्चितमूर्द्धजा
तनुलोमा सुवदना मृदुगद्गदभाषिणी॥ ९० ॥
विश्वास-प्रस्तुतिः
श्यामागौरेण वर्णेन तनुताम्रनखाङ्कुरा
कार्मुकभ्रूयुगोपेता हंसावरणगामिनी॥ ९१ ॥
मूलम्
श्यामागौरेण वर्णेन तनुताम्रनखाङ्कुरा
कार्मुकभ्रूयुगोपेता हंसावरणगामिनी॥ ९१ ॥
विश्वास-प्रस्तुतिः
भ्रममाणा वने तस्मिन्चिन्तयामास भामिनी
को मे पिता वा भ्राता वा को मे त्राता भवेदिह॥ ९२ ॥
मूलम्
भ्रममाणा वने तस्मिन्चिन्तयामास भामिनी
को मे पिता वा भ्राता वा को मे त्राता भवेदिह॥ ९२ ॥
विश्वास-प्रस्तुतिः
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले
चिन्तयन्ती च ददृशे सोमपुत्रेण साङ्गना॥ ९३ ॥
मूलम्
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले
चिन्तयन्ती च ददृशे सोमपुत्रेण साङ्गना॥ ९३ ॥
विश्वास-प्रस्तुतिः
इलारूप समाक्षिप्त मनसा वरवर्णिनी
बुधस्तदाप्तये यत्नमकरोत्कामपीडितः॥ ९४ ॥
मूलम्
इलारूप समाक्षिप्त मनसा वरवर्णिनी
बुधस्तदाप्तये यत्नमकरोत्कामपीडितः॥ ९४ ॥
विश्वास-प्रस्तुतिः
विशिष्टाकारवान्मुण्डी स कमण्डलुपुस्तकः
वेणुदण्डकृतावेशः पवित्रक खनित्रकः॥ ९५ ॥
मूलम्
विशिष्टाकारवान्मुण्डी स कमण्डलुपुस्तकः
वेणुदण्डकृतावेशः पवित्रक खनित्रकः॥ ९५ ॥
विश्वास-प्रस्तुतिः
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुण्डली
वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः॥ ९६ ॥
मूलम्
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुण्डली
वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः॥ ९६ ॥
विश्वास-प्रस्तुतिः
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्
बहिर्वनस्यान्तरितः किल पादपमण्डपे॥ ९७ ॥
मूलम्
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्
बहिर्वनस्यान्तरितः किल पादपमण्डपे॥ ९७ ॥
विश्वास-प्रस्तुतिः
ससम्भ्रममकस्माच्च सोपालम्भमिवाभवत्
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम॥ ९८ ॥
मूलम्
ससम्भ्रममकस्माच्च सोपालम्भमिवाभवत्
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम॥ ९८ ॥
विश्वास-प्रस्तुतिः
इयं विहारवेला ते अतिक्रामति साम्प्रतम्
एह्येहि पृथुसुश्रोणि सम्भ्रान्ता केन हेतुना॥ ९९ ॥
मूलम्
इयं विहारवेला ते अतिक्रामति साम्प्रतम्
एह्येहि पृथुसुश्रोणि सम्भ्रान्ता केन हेतुना॥ ९९ ॥
इयं सायन्तनी वेला विहारस्येह वर्त्तते
कृत्वोपलेपनं पुष्पैरलङ्कुरु गृहं मम१०० 1.8.100
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन
आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ१०१
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी
अहं च कामुको नाम बहुविद्यो बुधः स्मृतः१०२
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः
इति सा तस्यवचनात्प्रविष्टा बुधमन्दिरम्१०३
रत्नस्तम्भसमाकीर्णं दिव्यमायाविनिर्मितम्
इला कृतार्थमात्मानं मेने तद्भवने स्थिता१०४
अहो वृत्तमहोरूपमहो धनमहोकुलम्
मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम्१०५
रेमे च सा तेन सममतिकालमिला वने
सर्वभोगमये गेहे यथेन्द्रभवने तथा१०६
अथान्विष्यन्तो राजानं भ्रातरस्तस्य मानवाः
इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणान्तिकम्१०७
ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्
रत्नपर्यन्तकिरणदीप्यमानामनुत्तमाम्१०८
सम्प्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः
अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः१०९
अगमद्वडवारूपमुत्तमं केन हेतुना
ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम्११०
किमेतदित्यभूच्चित्रं वद योगविदां वर
वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा१११
समयः शम्भुदयिता कृतः शरवणे पुरा
यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति११२
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु
इलः पुरुषतामेति यथासौ धनदोपमः११३
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः११४
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ
तावूचतुरलं चैष समयः किं नु साम्प्रतं११५
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः
दत्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम्११६
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः
इष्ट्वाश्वमेधेन तत इला किम्पुरुषोभवत्११७
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः
बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्११८
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्
बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः११९
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा
सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः१२०
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः
इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः१२१
इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते
पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम्१२२
उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्
उत्कलस्योत्कला नाम गयस्य तु गयापुरी१२३
हरिताश्वस्य दिग्याम्या सञ्ज्ञाता कुरुभिः सह
प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम्१२४
जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्१२५
नरिष्यन्तस्य पुत्रोभूच्छुको नाम महाबलः
नाभागादम्बरीषस्तु धृष्टस्य तु सुतत्रयम्१२६
धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्
आनर्तो नाम शर्यातेः सुकन्या चैव दारिका१२७
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्
आनर्तो नाम देशोभून्नगरी च कुशस्थली१२८
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च
ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च१२९
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता
करूषाच्चैव कारूषा बहवः प्रथिता भुवि१३०
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत
इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदण्डकाः१३१
श्रेष्ठाः पुत्रशतस्यासन्पञ्चाशच्चाथ तत्सुताः
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः१३२
चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्
मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः१३३
ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः
तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः१३४
आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्
युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान्१३५
निर्मिता येन शावस्ती ह्यङ्गदेशे नराधिप
शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत्१३६
धुन्धुमारत्वमगमद्धुन्धुं हत्वाऽसुरं पुरा
तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च१३७
कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान्
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः१३८
हर्यश्वस्य निकुम्भोभूत्संहताश्वस्ततोभवत्
अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ१३९
युवनाश्वो रणाश्वस्य मान्धाता च ततोभवत्
मान्धातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः१४०
मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्
पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः१४१
सम्भूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्
त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः१४२
तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः
तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः१४३
रोहताच्च वृको जातो वृकाद्बाहुरजायत
सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः१४४
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा
ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया१४५
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्
एका षष्टिसहस्राणि सुतमेकं तथापरा१४६
अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्
एकं भानुमती पुत्रमगृह्णादसमञ्जसं१४७
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा
खनन्तः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे१४८
असमञ्जस्तु तनयो ह्यंशुमान्नाम विश्रुतः
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः१४९
येन भागीरथी गङ्गा तपः कृत्वावतारिता
भगीरथस्य तनयो नाभाग इति विश्रुतः१५० 1.8.150
नाभागस्याम्बरीषोभूत्सिन्धुद्वीपस्ततोभवत्
तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत्१५१
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः
तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत्१५२
निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ
अनमित्रो वनमगादरिनाशकृते नृप१५३
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा
दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत्१५४
ततो दशरथो जातस्तस्य पुत्रचतुष्टयं
नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत्१५५
रावणान्तकरस्तद्वद्रघूणां वंशवर्द्धनः
वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः१५६
तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः
अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः१५७
नलस्तु निषधाज्जातो नभास्तस्मादजायत
नभसः पुण्डरीकोभूत्क्षेमधन्वा ततः परम्१५८
तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः१५९
ततश्चन्द्रावलोकस्तु तारापीडस्ततोभवत्
तस्यात्मजश्चन्द्रगिरिश्चन्द्रस्तस्य सुतोभवत्१६०
श्रुतायुरभवत्तस्माद्भारते यो निपातितः
नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः१६१
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः
एते विवस्वतो वंशे राजानो भूरिदक्षिणाः१६२
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः१६३