००७

भीष्म उवाच

विश्वास-प्रस्तुतिः

दितेः पुत्राः कथं जाता मरुतो देववल्लभाः
देवैर्जग्मुश्च सापत्नैः कस्मात्सख्यमनुत्तमम्॥ १ ॥

मूलम्

पुलस्त्य उवाच
पुरा दैवासुरे युद्धे हतेषु हरिणा सुरैः
पुत्रपौत्रेषु शोकार्ता गता भूलोकमुत्तमम्॥ २ ॥

पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे
भर्त्तुराराधनपरा तप उग्रं चचार ह॥ ३ ॥

मूलम्

पुष्करेषु महातीर्थे सरस्वत्यास्तटे शुभे
भर्त्तुराराधनपरा तप उग्रं चचार ह॥ ३ ॥

विश्वास-प्रस्तुतिः

दितिर्वै दैत्यमाता तु ऋषिकार्येण सुव्रता
फलाहारा तपस्तेपे कृच्छ्रचान्द्रायणादिभिः॥ ४ ॥

यावद्वर्षशतं साग्रं जराशोकसमाकुला
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत॥ ५ ॥

मूलम्

यावद्वर्षशतं साग्रं जराशोकसमाकुला
ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत॥ ५ ॥

विश्वास-प्रस्तुतिः

कथयन्तु भवन्तो मे पुत्रशोकविनाशनम्
व्रतं सौभाग्यफलदमिहलोके परत्र च॥ ६ ॥

मूलम्

कथयन्तु भवन्तो मे पुत्रशोकविनाशनम्
व्रतं सौभाग्यफलदमिहलोके परत्र च॥ ६ ॥

विश्वास-प्रस्तुतिः

ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्
यस्य प्रसादादभवत्सुतशोकविवर्जिता॥ ७ ॥

मूलम्

ऊचुर्वसिष्ठप्रमुखा ज्येष्ठस्य पूर्णिमाव्रतम्
यस्य प्रसादादभवत्सुतशोकविवर्जिता॥ ७ ॥

विश्वास-प्रस्तुतिः

भीष्म उवाच
श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्
सुतानेकोनपञ्चाशद्येन लेभे पुनर्दितिः॥ ८ ॥

मूलम्

भीष्म उवाच
श्रोतुमिच्छाम्यहं ब्रह्मन्ज्येष्ठस्य पूर्णिमाव्रतम्
सुतानेकोनपञ्चाशद्येन लेभे पुनर्दितिः॥ ८ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
यद्वसिष्ठादिभिः पूर्वं दित्यै सङ्कथितं व्रतम्
विस्तरेण तदेवेदं मत्सकाशान्निशामय॥ ९ ॥

ज्येष्ठे मासि सिते पक्षे पौर्णमास्यां यतव्रता
स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम्॥ १० ॥

नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम्
सितवस्त्रयुगच्छन्नंसितचन्दनचर्चितम्॥ ११ ॥

नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः
ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत्॥ १२ ॥

तस्मादुपरि ब्रह्माणं सौवर्णं पद्मकोटरे
कुर्यात्शर्करयोपेतां सावित्रीं तस्य वामतः॥ १३ ॥

गन्धन्धूपं तयोर्दद्याद्गीतं वाद्यं च कारयेत्
तदभावे कथं कुर्याद्यथा पद्मे पितामहः॥ १४ ॥

ब्रह्माह्वयां च प्रतिमां कृत्वा गुडमयीं शुभाम्
शुक्लपुष्पाक्षततिलैरर्चयेत्पद्मसम्भवम्॥ १५ ॥

ब्राह्माय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च
विरिञ्चायोरुयुग्मं च मन्मथायेति वै कटिम्॥ १६ ॥

स्वच्छोदरायेत्युदरमतन्द्रायेत्युरो विधेः
मुखं पद्ममुखायेति बाहू वै वेदपाणये॥ १७ ॥

नमः सर्वात्मने मौलिमर्च्चयेच्चापि पङ्कजम्
ततः प्रभाते तत्कुम्भं ब्राह्मणाय निवेदयेत्॥ १८ ॥

ब्राह्मणं भोजयेद्भक्त्या स्वयं तु लवणं विना
भक्त्या प्रदक्षिणं दद्यादिमं मन्त्रमुदीरयेत्॥ १९ ॥

प्रीयतामत्र भगवान्सर्वलोकपितामहः
हृदये सर्वलोकानां यस्त्वानन्दोभिधीयते॥ २० ॥

अनेन विधिना सर्वं मासिमासि समाचरेत्
उपवासी पौर्णमास्यामर्चयेद्ब्राह्ममव्ययम्॥ २१ ॥

फलमेकं च सम्प्राश्य शर्वर्यां भूतले स्वपेत्
ततस्त्रयोदशे मासि घृतधेनुसमन्विताम्॥ २२ ॥

शय्यां दद्याद्विरिञ्चाय सर्वोपस्करसंयुताम्
ब्रह्माणं काञ्चनं कृत्वा सावित्रीं रजतैस्तथा॥ २३ ॥

पद्मात्मकः सृष्टिकर्त्ता सावित्रीमुपलभ्यतु
वस्त्रैर्द्विजं सपत्नीकं पूज्य भक्त्या विभूषणैः॥ २४ ॥

शक्त्या गवादिकं दद्यात्प्रीयतामित्युदीरयेत्
होमं शुक्लैस्तिलैः कुर्याद्ब्रह्मनामानि कीर्तयेत्॥ २५ ॥

गव्येन सर्पिषा तद्वत्पायसेन च धर्मवित्
विप्रेभ्योथ धनं दद्यात्पुष्पमालां च शक्तितः॥ २६ ॥

यः कुर्याद्विधिनानेन पौर्णमास्यां स्त्रियोपि वा
सर्वपापविनिर्मुक्तः प्राप्नोति ब्रह्मसात्म्यताम्॥ २७ ॥

इहलोके वरान्पुत्रान्सौभाग्यं ध्रुवमश्नुते
यो ब्रह्मा स स्मृतो विष्णुरानन्दात्मा महेश्वरः॥ २८ ॥

सुखार्थी कामरूपेण स्मरेद्देवं पितामहम्
एवं श्रुत्वा चकारासौ दितिः सर्वमशेषतः॥ २९ ॥

कश्यपो व्रतमाहात्म्यादागत्य परया मुदा
चकार कर्कशां भूयो रूपलावण्यसंयुताम्॥ ३० ॥

वरैराछन्दयामास सा तु वव्रे वरंवरम्
पुत्रं शक्रवधार्थाय समर्थं च महौजसम्॥ ३१ ॥

वरयामि महात्मानं सर्वामरनिषूदनम्
उवाच कश्यपो वाक्यमिन्द्रहन्तारमूर्जितम्॥ ३२ ॥

प्रदास्याम्यहमेतेन किन्त्वेतत्क्रियतां शुभे
आपस्तम्बीं तु कृत्वेष्टिं पुत्रीयामद्य सुस्तनि॥ ३३ ॥

विधास्यामि ततो गर्भं स्पृष्ट्वाहं ते स्तनौ शुभे
भविष्यति शुभो गर्भो देवि शक्रनिषूदनः॥ ३४ ॥

आपस्तम्बीं ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम्
इन्द्रशत्रोभवस्वेति जुहाव च हविस्त्वरन्॥ ३५ ॥

देवाश्च मुमुर्हुर्दैत्या विमुखाश्चैव दानवाः
दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः॥ ३६ ॥

मुखं ते चन्द्रप्रतिमं स्तनौ बिल्वफलोपमौ
अधरौ विद्रुमाकारौ वर्णश्चातीव शोभनः॥ ३७ ॥

त्वां दृष्ट्वाहं विशालाक्षि विस्मरामि स्विकां तनुम्
तदेवं गर्भः सुश्रोणि हस्तेनोप्तस्तनौ तव॥ ३८ ॥

त्वया यत्ने विधातव्यो ह्यस्मिन्गर्भे वरानने
संवत्सरशतं त्वेकमस्मिन्नेव तपोवने॥ ३९ ॥

सन्ध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि
न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा॥ ४० ॥

नोपस्करेषु निविशेन्मुसलोलूखलादिषु
जलं च नावगाहेत शून्यागारं च वर्जयेत्॥ ४१ ॥

वल्मीकेषु न तिष्ठेत न चोद्विग्नमना भवेत्
न नखेन लिखेद्भूमौ नाङ्गारे न च भस्मनि॥ ४२ ॥

न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत्
न तुषाङ्गारभस्मास्थि कपालेषु समाविशेत्॥ ४३ ॥

वर्जयेत्कलहं लोके गात्राभ्यङ्गं तथैव च
न मुक्तकेशी तिष्ठेत नाशुचिः स्यात्कथञ्चन॥ ४४ ॥

न शयीतोत्तरशिराः न चैवाधः शिराः क्वचित्
न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती॥ ४५ ॥

नामङ्गल्यां वदेद्वाचं न च हास्याधिकाभवेत्
कुर्याच्च गुरुभिर्नित्यं पूजां माङ्गल्यतत्परा॥ ४६ ॥

सर्वौषधीभिः सृष्टेन वारिणा स्नानमाचरेत्
तिष्ठेत्प्रसन्नवदना भर्तृप्रियहिते रता
न गर्हयेच्च भर्ता रंसर्वावस्थमपि क्वचित्॥ ४८ ॥

कृशाहं दुर्बला चैव वार्द्धक्यं मम चागतम्
स्तनौ मे चलितौ स्थानान्मुखं च वलिभङ्गुरम्॥ ४९ ॥

एवंविधा त्वया चाहं कृतेति न वदेत्क्वचित्
स्वस्त्यस्तुते गमिष्यामि तथेत्युक्तस्तया पुनः५० 1.7.50
पश्यतां सर्वभूतानां तत्रैवान्तरधीयत
ततः सा भर्तृवाचोक्तविधिना समतिष्ठत॥ ५१ ॥

अथ ज्ञात्वा तथेन्द्रोपि दितेः पार्श्वमुपागतः
विहाय देवसदनं तां शुश्रूषुरवस्थितः॥ ५२ ॥

दितेश्छिद्रान्तरप्रेप्सुरभवत्पाकशासनः
विपरीतोन्तरव्यग्रः प्रसन्नवदतो बहिः॥ ५३ ॥

अजानन्निव तत्त्कार्यमात्मनश्शुभमाचरन्
ततो वर्षशतान्ते सा न्यूने तु दिवसैस्त्रिभिः॥ ५४ ॥

मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा
अकृत्वा पादयोः शौचं शयाना मुक्तमूर्धजा॥ ५५ ॥

निद्राभरसमाक्रान्ता दिवा परशिराः क्वचित्
ततस्तदन्तरं लब्ध्वा प्रविश्यान्तः शचीपतिः॥ ५६ ॥

वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः
ततः सप्त च ते जाताः कुमाराः सूर्यवर्चसः॥ ५७ ॥

रुदन्तः सप्त ते बाला निषिद्धा दानवारिणा
भूयोपि रुदमानांस्तानेकैकान्सप्तधा हरिः॥ ५८ ॥

चिच्छेद वज्रहस्तो वै पुनः स्तूदरसंस्थितान्
एवमेकोनपञ्चाशद्भूत्वा तेरुरुदुर्भृशम्॥ ५९ ॥

इन्द्रो निवारयामास मा रुदध्वं पुनःपुनः
ततः स चिन्तयामास वितर्कमिति वृत्रहा॥ ६० ॥

कर्मणः कस्य माहात्म्यात्पुनः सञ्जीवितास्त्वमी
विदित्वा पुण्ययोगेन पौर्णमासीफलं त्विदम्॥ ६१ ॥

नूनमेतत्परिणतमथवा ब्रह्मपूजनात्
वज्रेणाभिहताः सन्तो न विनाशमुपाययुः॥ ६२ ॥

एकोप्यनेकतामाप यस्मादुदरगोपनम्
अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति॥ ६३ ॥

यस्मान्मा रुद इत्युक्ता रुदन्तो गर्भसम्भवाः
मरुतो नाम ते नाम्ना भवन्तु सुखभागिनः॥ ६४ ॥

ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः
अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम्॥ ६५ ॥

कृत्वा मरुद्गणं देवैः समानममराधिपः
दितिं विमानमारोप्य ससुतामगमद्दिवम्॥ ६६ ॥

यज्ञभागभुजः सर्वे मरुतस्ते ततोभवन्
न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः॥ ६७ ॥

आदिसर्गस्त्वया ब्रह्मन्कथितो विस्तरेण मे
प्रतिसर्गश्च यो येषामधिपांस्तान्वदस्व मे॥ ६८ ॥

यदाभिषिक्तः सकलेपि राज्ये पृथुर्द्धरित्र्यामधिपो बभूव
तथौषधीनामधिपं चकार यज्ञव्रतानां तपसां च सोमम्॥ ६९ ॥

नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भम्
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत्॥ ७० ॥

विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिं चकार
प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम्॥ ७१ ॥

दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम्
पिशाचरक्षःपशुभूतयक्षवेतालराजं ह्यथ शूलपाणिम्॥ ७२ ॥

प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं सरितामधीशम्
गन्धर्वविद्याधरकिन्नराणामीशं पुनश्चित्ररथं चकार॥ ७३ ॥

नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश
दिग्वारणानामधिपं चकार गजेन्द्रमैरावणनामधेयम्॥ ७४ ॥

सुपर्णमीशं पततामथार्वतां राजानमुच्चैःश्रवसं चकार
सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम्॥ ७५ ॥

पितामहः पूर्वमथाभ्यषिञ्चदेतान्पुनः सर्वदिशाधिनाथान्
पूर्वेश दिक्पालमथाभ्यषिञ्चन्नाम्ना सुवर्माणमरातिकेतुं॥ ७६ ॥

ततोधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम्
सकेतुमन्तं दिगधीशमीशं चकार पश्चाद्भुवनाण्डगर्भः॥ ७७ ॥

हिरण्यरोमाणमुदग्दिगीशं प्रजापतिं मेघसुतं चकार
अद्यापि कुर्वन्ति दिशामधीशाः सदा वहन्तस्तु भुवोभिरक्षाम्॥ ७८ ॥

चतुर्भिरेतैः पृथुनामधेयो नृपोभिषिक्तः प्रथमः पृथिव्याम्
गतेन्तरे चाक्षुषनामधेये वैवस्वतं चक्रुरिमं पृथिव्यां॥ ७९ ॥

गतेन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते
प्रजापतिः सोस्य चराचरस्य बभूव सूर्यान्वयजः सचिह्नः॥ ८० ॥

मन्वन्तराणि सर्वाणि मनूनां चरितानि यत्
प्रमाणं चैव कल्पस्य तत्सृष्टिं च समासतः॥ ८१ ॥

एकचित्तः प्रसन्नात्मा शृणु कौरवनन्दन
यामा नाम पुरा देवा आसन्स्वायम्भुवान्तरे॥ ८२ ॥

सप्तैव ऋषयः पूर्वं ये मरीच्यादयः स्मृताः
आग्नीध्रश्चाग्निबाहुश्च विभुः सवन एव च॥ ८३ ॥

ज्योतिष्मान्द्युतिमान्भव्यो मेधा मेधातिथिर्वसुः
स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्द्धनाः॥ ८४ ॥

प्रतिसर्गममी कृत्वा जग्मुस्ते परमं पदम्
एवं स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम्॥ ८५ ॥

स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः
नभोनभस्य प्रभृतिर्भावनः कीर्तिवर्द्धनः॥ ८६ ॥

दत्तोग्निश्च्यवनस्तम्भः प्राणः कश्यप एव च
अर्वा बृहस्पतिश्चैव सप्त सप्तर्षयोभवन्॥ ८७ ॥

तदा देवाश्च तुषिताः स्मृता स्वारोचिषेन्तरे
हवीन्द्रसुःकृतो मूर्तिरापो ज्योतिरथः स्मृतः॥ ८८ ॥

वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा
द्वितीयमेतत्कथितं मन्वन्तरमतः परं॥ ८९ ॥

मूलम्

वसिष्ठस्य सुताः सप्त ये प्रजापतयस्तदा
द्वितीयमेतत्कथितं मन्वन्तरमतः परं॥ ८९ ॥

विश्वास-प्रस्तुतिः

अन्यच्चैव प्रवक्ष्यामि तथा मन्वन्तरं शुभं
मनुर्नामौत्तमिस्तत्र दश पुत्रानजीजनत्॥ ९० ॥

इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च
मधुश्च माधवश्चैव नभस्योथ नभस्तथा॥ ९१ ॥

मूलम्

इषऊर्जस्तनूजश्च शुचिः शुक्रस्तथैव च
मधुश्च माधवश्चैव नभस्योथ नभस्तथा॥ ९१ ॥

विश्वास-प्रस्तुतिः

सहः सहस्य एतेषामुत्तमः कीर्तिवर्द्धनः
भानवस्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः॥ ९२ ॥

कौकभिण्डिः कुतुण्डश्च दाल्भ्यः शङ्खः प्रवाहितः
मितिश्च सम्मितिश्चैव सप्तैते योगवर्द्धनाः॥ ९३ ॥

मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतं
कपिः पृथुस्तथैवाग्निरकपिः कविरेव च॥ ९४ ॥

तथैव जन्यधामानौ मुनयः सप्त नामतः
साध्या देवगणा ये च कथितास्तामसेन्तरे॥ ९५ ॥

अकल्मषस्तपोधन्वी तपोमूलस्तपोधनः
तपोराशिस्तपस्यश्च सुतपस्यः परन्तपः॥ ९६ ॥

तामसस्य सुताः सर्वे दशवंशविवर्द्धनाः
पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं शृणु॥ ९७ ॥

देवबाहुः सुबाहुश्च पर्ज्यन्यः समयोमुनिः
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः॥ ९८ ॥

देवाश्च भूतरजसस्तथा प्रकृतयः स्मृताः
अवशस्तत्वदर्शी च वीतिमान्हव्यपः कपिः॥ ९९ ॥

मुक्तो निरुत्सुकः सत्वो निर्मोहोथ प्रकाशकः
धर्मवीर्यबलोपेता दशैते रेवतात्मजाः१०० 1.7.100
भृगुः सुधामा विरजः सहिष्णुर्नारदस्तथा
विवस्वान्कृतिनामा च सप्त सप्तर्षयोपरे१०१
चाक्षुषस्यान्तरे देवा लेखानामपरिश्रुताः
विभवोथ पृथक्चानु कीर्तितास्त्रिदिवौकसः१०२
चाक्षुषस्यान्तरे प्राप्ते देवानां पञ्चमो जनः
रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश१०३
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव ते
अन्तरं चाक्षुषं चैव मया ते परिकीर्तितं१०४
सप्तमं च प्रवक्ष्यामि यद्वैवस्वतमुच्यते
अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा१०५
भारद्वाजस्तथा योगी विश्वामित्रः प्रतापवान्
जमदग्निश्च सप्तैते साम्प्रतं ते महर्षयः१०६
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदं
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरं१०७
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा
शतानन्दः काश्यपश्च रामश्च ऋषय स्मृताः१०८
धृतिर्वरीयान्यवसुः सुवर्णो धृतिरेव च
वरिष्णुवीर्यः सुमतिर्वसुश्शुक्रश्च वीर्यवान्१०९
भविष्यस्यार्कसावर्णेर्मनोः पुत्राः प्रकीर्तिताः
रौच्यादयस्तथान्येपि मनवः सम्प्रकीर्तिताः११०
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति
मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति१११
ततस्तु मेरुसावर्णिर्ब्रह्मसुनुर्मनुः स्मृतः
ऋभुश्च ॠतुधामा च विष्वक्सेनो मनुस्तथा११२
अतीतानागताश्चैव मनवः परिकीर्तिताः
वर्षाणां युगसाहस्रमेभिर्व्याप्तं नराधिप११३
स्वेस्वेन्तरे सर्वमिदं समुत्पाद्य चराचरं
कल्पक्षये निवृत्ते तु मुच्यन्ते ब्रह्मणा सह११४
अमीयुगसहस्रान्ते विनश्यन्ति पुनःपुनः
ब्रह्माद्या विष्णुसायुज्यं ततो यास्यन्ति वै नृप११५