भीष्म उवाच
विश्वास-प्रस्तुतिः
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि॥ १ ॥
मूलम्
देवानां दानवानां च गन्धर्वोरगरक्षसाम्
उत्पत्तिं विस्तरेणेमां गुरो ब्रूहि यथाविधि॥ १ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा॥ २ ॥
मूलम्
पुलस्त्य उवाच
सङ्कल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा॥ २ ॥
विश्वास-प्रस्तुतिः
यथा ससर्ज चैवासौ तथैव शृणु कौरव
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्॥ ३ ॥
मूलम्
यथा ससर्ज चैवासौ तथैव शृणु कौरव
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्॥ ३ ॥
विश्वास-प्रस्तुतिः
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्॥ ४ ॥
मूलम्
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः
दक्षः पुत्रसहस्राणि तदासिक्न्यामजीजनत्॥ ४ ॥
विश्वास-प्रस्तुतिः
तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्॥ ५ ॥
मूलम्
तांस्तु दृष्ट्वा महाभागान्सिसृक्षून्विविधाः प्रजाः
नारदः प्राह हर्यश्वान्दक्षपुत्रान्समागतान्॥ ५ ॥
विश्वास-प्रस्तुतिः
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः॥ ६ ॥
मूलम्
भुवः प्रमाणं सर्वं तु ज्ञात्वोर्द्धमध एव वा
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः॥ ६ ॥
विश्वास-प्रस्तुतिः
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः॥ ७ ॥
मूलम्
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतोदिशम्
अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः॥ ७ ॥
विश्वास-प्रस्तुतिः
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः॥ ८ ॥
मूलम्
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः॥ ८ ॥
विश्वास-प्रस्तुतिः
शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि
नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः॥ ९ ॥
मूलम्
शबलाश्वा नाम ते च समेताः सृष्टिकर्मणि
नारदोनुगतान्प्राह पुनस्तान्पूर्ववन्मुनिः॥ ९ ॥
विश्वास-प्रस्तुतिः
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः
आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः॥ १० ॥
मूलम्
भुवः प्रमाणं सर्वं तु ज्ञात्वा भ्रातॄनथो पुनः
आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः॥ १० ॥
विश्वास-प्रस्तुतिः
तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति॥ ११ ॥
मूलम्
तेपि तेनैव मार्गेण जग्मुर्भ्रात्रनुगास्तदा
ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति॥ ११ ॥
विश्वास-प्रस्तुतिः
अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्
ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः॥ १२ ॥
मूलम्
अन्वेष्टा दुःखमाप्नोति तेन तत्परिवर्जयेत्
ततस्तेष्वपि नष्टेषु(यु) षष्टिं कन्याः प्रजापतिः॥ १२ ॥
विश्वास-प्रस्तुतिः
वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दश धर्माय कश्यपाय त्रयोदश॥ १३ ॥
मूलम्
वीरिण्यां जनयामास दक्षः प्राचेतसस्तदा
प्रादात्स दश धर्माय कश्यपाय त्रयोदश॥ १३ ॥
विश्वास-प्रस्तुतिः
विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते॥ १४ ॥
मूलम्
विंशतिसप्त सोमाय चतस्रोरिष्टनेमिने
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते॥ १४ ॥
विश्वास-प्रस्तुतिः
द्वे चैवाङ्गिरसे प्रादात्तासां नामानि विस्तरात्
शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः॥ १५ ॥
मूलम्
द्वे चैवाङ्गिरसे प्रादात्तासां नामानि विस्तरात्
शृणु त्वं देवमातॄणां प्रजाविस्तारमादितः॥ १५ ॥
विश्वास-प्रस्तुतिः
अरुन्धती वसुर्जामिर्लम्बा भानुर्मरुत्वती
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी॥ १६ ॥
मूलम्
अरुन्धती वसुर्जामिर्लम्बा भानुर्मरुत्वती
सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी॥ १६ ॥
विश्वास-प्रस्तुतिः
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्॥ १७ ॥
मूलम्
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत्॥ १७ ॥
विश्वास-प्रस्तुतिः
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा
भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः॥ १८ ॥
मूलम्
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा
भानोस्तु भानवो जाता मूहूर्त्ताया मुहूर्तजाः॥ १८ ॥
विश्वास-प्रस्तुतिः
लम्बायां घोषनामानो नागवीथी तु जामिजा
पृथिवीतलसम्भूतमरुन्धत्यामजायत॥ १९ ॥
मूलम्
लम्बायां घोषनामानो नागवीथी तु जामिजा
पृथिवीतलसम्भूतमरुन्धत्यामजायत॥ १९ ॥
विश्वास-प्रस्तुतिः
सङ्कल्पायास्तु सङ्कल्पा वसु सृष्टिं निधारय
ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम्॥ २० ॥
मूलम्
सङ्कल्पायास्तु सङ्कल्पा वसु सृष्टिं निधारय
ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतोदिशम्॥ २० ॥
विश्वास-प्रस्तुतिः
वसवस्ते समाख्यातास्तेषां नामानि मे शृणु
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः॥ २१ ॥
मूलम्
वसवस्ते समाख्यातास्तेषां नामानि मे शृणु
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोनलः॥ २१ ॥
विश्वास-प्रस्तुतिः
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः
आपस्य पुत्राश्चत्वारः श्रान्तो वैतण्ड एव च॥ २२ ॥
मूलम्
प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः
आपस्य पुत्राश्चत्वारः श्रान्तो वैतण्ड एव च॥ २२ ॥
विश्वास-प्रस्तुतिः
अपि शान्तो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत॥ २३ ॥
मूलम्
अपि शान्तो मुनिर्वभ्रुर्यज्ञरक्षाधिकारिणः
ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत॥ २३ ॥
विश्वास-प्रस्तुतिः
द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ
कल्पान्तस्थस्ततः प्राणो रमणः शिशिरोपि च॥ २४ ॥
मूलम्
द्रविणो हव्यवाहश्च धर पुत्राविमौ स्मृतौ
कल्पान्तस्थस्ततः प्राणो रमणः शिशिरोपि च॥ २४ ॥
विश्वास-प्रस्तुतिः
मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः
शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम्॥ २५ ॥
मूलम्
मनोहरो धवश्चाथ शिवो वाथ हरेः सुताः
शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम्॥ २५ ॥
विश्वास-प्रस्तुतिः
अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः
तत्र शाखो विशाखश्च निगमेषु स्वयम्भुवः॥ २६ ॥
मूलम्
अवाप चानलः पुत्रानग्निप्रायगुणांस्ततः
तत्र शाखो विशाखश्च निगमेषु स्वयम्भुवः॥ २६ ॥
विश्वास-प्रस्तुतिः
अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः
प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः॥ २७ ॥
मूलम्
अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः
प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः॥ २७ ॥
विश्वास-प्रस्तुतिः
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यान प्रतिमा भूषणादिषु॥ २८ ॥
मूलम्
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः
प्रासादभवनोद्यान प्रतिमा भूषणादिषु॥ २८ ॥
विश्वास-प्रस्तुतिः
तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः
अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः॥ २९ ॥
मूलम्
तटाकारामकूपेषु त्रिदशानां च वर्द्धकिः
अजैकपादहिर्बुध्न्यो विरूपाक्षोथ रैवतः॥ २९ ॥
विश्वास-प्रस्तुतिः
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्त्रश्च जयन्तश्च पिनाकी चापराजितः॥ ३० ॥
मूलम्
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्त्रश्च जयन्तश्च पिनाकी चापराजितः॥ ३० ॥
विश्वास-प्रस्तुतिः
एते रुद्रास्समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम्॥ ३१ ॥
मूलम्
एते रुद्रास्समाख्याता एकादश गणेश्वराः
एतेषां मानसानां तु त्रिशूलवरधारिणाम्॥ ३१ ॥
विश्वास-प्रस्तुतिः
कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः॥ ३२ ॥
मूलम्
कोट्यश्चतुरशीतिस्तु तत्पुत्राश्चाक्षया मताः
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः॥ ३२ ॥
विश्वास-प्रस्तुतिः
एते वै पुत्रपौत्राश्च सुरभीगर्भसम्भवाः
कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु॥ ३३ ॥
मूलम्
एते वै पुत्रपौत्राश्च सुरभीगर्भसम्भवाः
कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादि पत्निषु॥ ३३ ॥
विश्वास-प्रस्तुतिः
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा॥ ३४ ॥
मूलम्
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा॥ ३४ ॥
विश्वास-प्रस्तुतिः
कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः॥ ३५ ॥
मूलम्
कद्रू खसा मुनिस्तद्वत्तासु पुत्रान्निबोध मे
तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः॥ ३५ ॥
विश्वास-प्रस्तुतिः
वैवस्वतेन्तरे चैव आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा॥ ३६ ॥
मूलम्
वैवस्वतेन्तरे चैव आदित्या द्वादश स्मृताः
इन्द्रो धाता भगस्त्वष्टा मित्त्रोऽथ वरुणोऽर्यमा॥ ३६ ॥
विश्वास-प्रस्तुतिः
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च
एते सहस्रकिरणा आदित्या दाद्वश स्मृताः॥ ३७ ॥
मूलम्
विवस्वान्सविता पूषा अंशुमान्विष्णुरेव च
एते सहस्रकिरणा आदित्या दाद्वश स्मृताः॥ ३७ ॥
विश्वास-प्रस्तुतिः
मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनन्दनाः
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः॥ ३८ ॥
मूलम्
मारीचात्कश्यपाज्जाताः पुत्त्रास्तेऽदितिनन्दनाः
कृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः॥ ३८ ॥
विश्वास-प्रस्तुतिः
एते देवगणास्तात प्रतिमन्वन्तरेषु च
उत्पद्यन्ते विलीयन्ते कल्पेकल्पे तथैव च॥ ३९ ॥
मूलम्
एते देवगणास्तात प्रतिमन्वन्तरेषु च
उत्पद्यन्ते विलीयन्ते कल्पेकल्पे तथैव च॥ ३९ ॥
विश्वास-प्रस्तुतिः
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च॥ ४० ॥
मूलम्
दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम्
हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च॥ ४० ॥
विश्वास-प्रस्तुतिः
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च॥ ४१ ॥
मूलम्
हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम्
प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च॥ ४१ ॥
विश्वास-प्रस्तुतिः
प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च
विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्॥ ४२ ॥
मूलम्
प्रह्लादपुत्रा आयुष्मान्शिबिर्बाष्कलिरेव च
विरोचनश्चतुर्थस्तु स बलिं पुत्रमाप्तवान्॥ ४२ ॥
विश्वास-प्रस्तुतिः
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप
धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः॥ ४३ ॥
मूलम्
बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो नृप
धृतराष्ट्रस्तथासूर्य्यो विवस्वानंशुतापनः॥ ४३ ॥
विश्वास-प्रस्तुतिः
निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः
एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः॥ ४४ ॥
मूलम्
निकुम्भनामा गुर्वक्षः कुक्षिर्भौमोथ भीषणः
एवमन्ये तु बहवो बाणोज्येष्ठो गुणाधिकः॥ ४४ ॥
विश्वास-प्रस्तुतिः
बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलधृत्॥ ४५ ॥
मूलम्
बाणस्सहस्रबाहुस्तु सर्वास्त्रगुणसंयुतः
तपसा तोषितो यस्य पुरे वसति शूलधृत्॥ ४५ ॥
विश्वास-प्रस्तुतिः
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः
हिरण्याक्षस्य पुत्रोभूदन्धको नामनामतः॥ ४६ ॥
मूलम्
महाकालत्वमगमत्सार्थ्यं यस्य पिनाकिनः
हिरण्याक्षस्य पुत्रोभूदन्धको नामनामतः॥ ४६ ॥
विश्वास-प्रस्तुतिः
भूतसन्तापनश्चैव महानागस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः॥ ४७ ॥
मूलम्
भूतसन्तापनश्चैव महानागस्तथैव च
एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः॥ ४७ ॥
विश्वास-प्रस्तुतिः
महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्॥ ४८ ॥
मूलम्
महाबला महाकाया नानारूपा महौजसः
दनुः पुत्रशतं लेभे कश्यपाद्वरदर्पितम्॥ ४८ ॥
विश्वास-प्रस्तुतिः
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः
द्विरष्टमूर्द्धा शकुनिस्तथा शङ्कुशिरोधरः॥ ४९ ॥
मूलम्
विप्रचित्तिः प्रधानोभूदेषां मध्ये महाबलः
द्विरष्टमूर्द्धा शकुनिस्तथा शङ्कुशिरोधरः॥ ४९ ॥
विश्वास-प्रस्तुतिः
अयोमुखः शम्बरश्च कपिलो वामनस्तथा
मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.50
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः
इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च॥ ५१ ॥
मूलम्
अयोमुखः शम्बरश्च कपिलो वामनस्तथा
मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा५० 1.6.50
निद्राधरश्च केतुश्च केतुवीर्यः शतक्रतुः
इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च॥ ५१ ॥
विश्वास-प्रस्तुतिः
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा
असिलोमा पुलोमा च विकुर्वाणो महासुरः॥ ५२ ॥
मूलम्
एकवस्त्रो महाबाहुर्वज्राक्षस्तारकस्तथा
असिलोमा पुलोमा च विकुर्वाणो महासुरः॥ ५२ ॥
विश्वास-प्रस्तुतिः
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः
स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा॥ ५३ ॥
मूलम्
स्वर्भानुर्वृषपर्वा च एवमाद्या दनोस्सुताः
स्वर्भानोः सुप्रभा कन्या शची चैव पुलोमजा॥ ५३ ॥
विश्वास-प्रस्तुतिः
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः
शर्मिष्ठा सुन्दरी चैव चण्डा च वृषपर्वणः॥ ५४ ॥
मूलम्
उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः
शर्मिष्ठा सुन्दरी चैव चण्डा च वृषपर्वणः॥ ५४ ॥
विश्वास-प्रस्तुतिः
पुलोमा कालका चैव वैश्वनरसुते उभे
बह्वपत्यो महासत्वो मारीचस्य परिग्रहः॥ ५५ ॥
मूलम्
पुलोमा कालका चैव वैश्वनरसुते उभे
बह्वपत्यो महासत्वो मारीचस्य परिग्रहः॥ ५५ ॥
विश्वास-प्रस्तुतिः
तयोः षष्टिसहस्राणि दानवानां पुराभवन्
पौलोमान्कालखञ्जांश्च मारीचोजनयत्पुरा॥ ५६ ॥
मूलम्
तयोः षष्टिसहस्राणि दानवानां पुराभवन्
पौलोमान्कालखञ्जांश्च मारीचोजनयत्पुरा॥ ५६ ॥
विश्वास-प्रस्तुतिः
अवध्या ये नराणां वै हिरण्यपुरवासिनः
चतुर्मुखाल्लब्धवरा ये हता विजयेन तु॥ ५७ ॥
मूलम्
अवध्या ये नराणां वै हिरण्यपुरवासिनः
चतुर्मुखाल्लब्धवरा ये हता विजयेन तु॥ ५७ ॥
विश्वास-प्रस्तुतिः
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्
हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश॥ ५८ ॥
मूलम्
विप्रचित्तिः सिंहिकायां नव पुत्रानजीजनत्
हिरण्यकशिपोर्येवै भागिनेयास्त्रयोदश॥ ५८ ॥
विश्वास-प्रस्तुतिः
कंसः शङ्खश्च राजेन्द्र नलो वातापिरेव च
इल्वलो नमुचिश्चैव खसृमश्चाञ्जनस्तथा॥ ५९ ॥
मूलम्
कंसः शङ्खश्च राजेन्द्र नलो वातापिरेव च
इल्वलो नमुचिश्चैव खसृमश्चाञ्जनस्तथा॥ ५९ ॥
विश्वास-प्रस्तुतिः
नरकः कालनाभश्च परमाणुस्तथैव च
कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः॥ ६० ॥
मूलम्
नरकः कालनाभश्च परमाणुस्तथैव च
कल्पवीर्यश्च विख्यातो दनुवंशविवर्द्धनः॥ ६० ॥
विश्वास-प्रस्तुतिः
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले
अवध्याः सर्वदेवानां गन्धर्वोरगराक्षसाम्॥ ६१ ॥
मूलम्
संह्लादस्य तु दैत्यस्य निवातकवचाः कुले
अवध्याः सर्वदेवानां गन्धर्वोरगराक्षसाम्॥ ६१ ॥
विश्वास-प्रस्तुतिः
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे
षट्कन्या जनयामास ताम्रा मारीचवीर्यतः॥ ६२ ॥
मूलम्
ये हता बलमाश्रित्य अर्जुनेन रणाजिरे
षट्कन्या जनयामास ताम्रा मारीचवीर्यतः॥ ६२ ॥
विश्वास-प्रस्तुतिः
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्
शुकी शुकानुलूकांश्च जनयामास धर्मतः॥ ६३ ॥
मूलम्
शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिम्
शुकी शुकानुलूकांश्च जनयामास धर्मतः॥ ६३ ॥
विश्वास-प्रस्तुतिः
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्
गृध्री गृध्रान्सुगृध्री च पारावतविहङ्गमान्॥ ६४ ॥
मूलम्
श्येनी श्येनांश्च भासी च कुररानप्यजीजनत्
गृध्री गृध्रान्सुगृध्री च पारावतविहङ्गमान्॥ ६४ ॥
विश्वास-प्रस्तुतिः
हंस सारस कारण्ड प्लवान्शुचिरजीजनत्
एते ताम्रासुताः प्रोक्ता विनताया निशामय॥ ६५ ॥
मूलम्
हंस सारस कारण्ड प्लवान्शुचिरजीजनत्
एते ताम्रासुताः प्रोक्ता विनताया निशामय॥ ६५ ॥
विश्वास-प्रस्तुतिः
गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्
सौदामिनी तथा कन्या येयं नभसि विश्रुता॥ ६६ ॥
मूलम्
गरुडः पतगश्रेष्ठोऽरुणश्चेशः पतत्रिणाम्
सौदामिनी तथा कन्या येयं नभसि विश्रुता॥ ६६ ॥
विश्वास-प्रस्तुतिः
सम्पातिश्च जटायुश्च अरुणस्य सुतावुभौ
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः॥ ६७ ॥
मूलम्
सम्पातिश्च जटायुश्च अरुणस्य सुतावुभौ
सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चातिविश्रुतः॥ ६७ ॥
विश्वास-प्रस्तुतिः
जटायोः कर्णिकारश्च शतगामी च विश्रुतौ
तेषामसङ्ख्यमभवत्पक्षिणां पुत्रपौत्रकम्॥ ६८ ॥
मूलम्
जटायोः कर्णिकारश्च शतगामी च विश्रुतौ
तेषामसङ्ख्यमभवत्पक्षिणां पुत्रपौत्रकम्॥ ६८ ॥
विश्वास-प्रस्तुतिः
सुरसायां सहस्रं तु सर्पाणामभवत्पुरा
सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता॥ ६९ ॥
मूलम्
सुरसायां सहस्रं तु सर्पाणामभवत्पुरा
सहस्रशिरसां कद्रूः सहस्रं प्राप सुव्रता॥ ६९ ॥
विश्वास-प्रस्तुतिः
प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः॥ ७० ॥
मूलम्
प्रधानास्तेषु विख्याता ष्षड्विंशतिररिन्दम
शेषवासुकिकर्कोट शङ्खैरावतकम्बलाः॥ ७० ॥
विश्वास-प्रस्तुतिः
धनञ्जय महानील पद्माश्वतर तक्षकाः
एलापत्र महापद्म धृतराष्ट्र बलाहकाः॥ ७१ ॥
मूलम्
धनञ्जय महानील पद्माश्वतर तक्षकाः
एलापत्र महापद्म धृतराष्ट्र बलाहकाः॥ ७१ ॥
विश्वास-प्रस्तुतिः
शङ्खपाल महाशङ्ख पुष्पदंष्ट्रं शुभाननाः
शङ्खरोमा च नहुषो रमणः पणिनस्तथा॥ ७२ ॥
मूलम्
शङ्खपाल महाशङ्ख पुष्पदंष्ट्रं शुभाननाः
शङ्खरोमा च नहुषो रमणः पणिनस्तथा॥ ७२ ॥
विश्वास-प्रस्तुतिः
कपिलो दुर्मुखश्चापि पतञ्जलिमुखास्तथा
एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम्॥ ७३ ॥
मूलम्
कपिलो दुर्मुखश्चापि पतञ्जलिमुखास्तथा
एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम्॥ ७३ ॥
विश्वास-प्रस्तुतिः
प्रायशो यत्पुरादग्धं जनमेजयमन्दिरे
रक्षोगणं क्रोधवशा सुनामानमजीजनत्॥ ७४ ॥
मूलम्
प्रायशो यत्पुरादग्धं जनमेजयमन्दिरे
रक्षोगणं क्रोधवशा सुनामानमजीजनत्॥ ७४ ॥
विश्वास-प्रस्तुतिः
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्
दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः॥ ७५ ॥
मूलम्
दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम्
दंष्ट्रि गोमायु काकादीन्महिषीर्गोवराङ्गनाः॥ ७५ ॥
विश्वास-प्रस्तुतिः
सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा
मुनिर्मुनीनां च गणं गणमप्सरसां तथा॥ ७६ ॥
मूलम्
सुरभिर्जनयामास कश्यपात्त्त्रितयं पुरा
मुनिर्मुनीनां च गणं गणमप्सरसां तथा॥ ७६ ॥
विश्वास-प्रस्तुतिः
तथा किन्नरगन्धर्वानरिष्टा जनयद्बहून्
तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्॥ ७७ ॥
मूलम्
तथा किन्नरगन्धर्वानरिष्टा जनयद्बहून्
तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत्॥ ७७ ॥
विश्वास-प्रस्तुतिः
खसा तु यक्षरक्षांसि जनयामास कोटिशः
एते कश्यपदायादाः शतशोथ सहस्रशः॥ ७८ ॥
मूलम्
खसा तु यक्षरक्षांसि जनयामास कोटिशः
एते कश्यपदायादाः शतशोथ सहस्रशः॥ ७८ ॥
एष मन्वन्तरे भीष्म सर्गः स्वारोचिषे स्मृतः
ततस्त्वेकोनपञ्चाशन्मरुतः कश्यपाद्दितिः
जनयामास धर्मज्ञ सर्वानमरवल्लभान्७९