००५

भीष्म उवाच

विश्वास-प्रस्तुतिः

कथं सती दक्षसुता देहं त्यक्तवती शुभा
दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना॥ १ ॥

मूलम्

कथं सती दक्षसुता देहं त्यक्तवती शुभा
दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना॥ १ ॥

विश्वास-प्रस्तुतिः

एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः
जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः॥ २ ॥

मूलम्

एतन्मे कौतुकं ब्रह्मन्कथं देवो महेश्वरः
जगामाथ क्रोधवशं त्रिपुरारिर्महायशाः॥ २ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
गङ्गाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्
तत्र देवासुरगणाः पितरोथ महर्षयः॥ ३ ॥

मूलम्

पुलस्त्य उवाच
गङ्गाद्वारे पुरा भीष्म दक्षो यज्ञमथारभत्
तत्र देवासुरगणाः पितरोथ महर्षयः॥ ३ ॥

विश्वास-प्रस्तुतिः

समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः
नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा॥ ४ ॥

मूलम्

समाजग्मुर्मुदायुक्ताः सर्वे देवाः सवासवाः
नागा यक्षाः सुपर्णाश्च वीरुदोषधयस्तथा॥ ४ ॥

विश्वास-प्रस्तुतिः

कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः
प्रचेतसोङ्गिराश्चैव वसिष्ठश्च महातपाः॥ ५ ॥

मूलम्

कश्यपो भगवानत्रिः पुलस्त्यः पुलहः क्रतुः
प्रचेतसोङ्गिराश्चैव वसिष्ठश्च महातपाः॥ ५ ॥

विश्वास-प्रस्तुतिः

तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्
होता वसिष्ठस्तत्रासीदङ्गिराध्वर्युसत्तमः॥ ६ ॥

मूलम्

तत्र वेदीं समां कृत्वा चातुर्होत्रं न्यवेशयत्
होता वसिष्ठस्तत्रासीदङ्गिराध्वर्युसत्तमः॥ ६ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा
यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु॥ ७ ॥

मूलम्

बृहस्पतिरथोद्गाता ब्रह्मा वै नारदस्तथा
यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु॥ ७ ॥

विश्वास-प्रस्तुतिः

आगता वसवः सर्व आदित्या द्वादशैव तु
अश्विनौ मरुतश्चैव मनवश्च चतुर्दश॥ ८ ॥

मूलम्

आगता वसवः सर्व आदित्या द्वादशैव तु
अश्विनौ मरुतश्चैव मनवश्च चतुर्दश॥ ८ ॥

विश्वास-प्रस्तुतिः

एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु
विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्॥ ९ ॥

मूलम्

एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु
विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम्॥ ९ ॥

विश्वास-प्रस्तुतिः

आलोक्य सर्वतो भूमिं समन्ताद्दशयोजनम्
महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः॥ १० ॥

मूलम्

आलोक्य सर्वतो भूमिं समन्ताद्दशयोजनम्
महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः॥ १० ॥

विश्वास-प्रस्तुतिः

सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा
तदासानुनयं वाक्यं प्रजापतिमभाषत॥ ११ ॥

मूलम्

सर्वान्देवान्शक्रमुख्यान्यज्ञे दृष्ट्वा सती शुभा
तदासानुनयं वाक्यं प्रजापतिमभाषत॥ ११ ॥

विश्वास-प्रस्तुतिः

सत्युवाच
ऐरावतं समारूढो देवराजः शतक्रतुः
पत्न्या शच्या सहायातः कृतावासः शतक्रतुः॥ १२ ॥

मूलम्

सत्युवाच
ऐरावतं समारूढो देवराजः शतक्रतुः
पत्न्या शच्या सहायातः कृतावासः शतक्रतुः॥ १२ ॥

विश्वास-प्रस्तुतिः

पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः
पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते॥ १३ ॥

मूलम्

पापानां यो यमयिता धर्मेणाधर्मिणां प्रभुः
पत्न्या धूमोर्णया सार्द्धमिहायातः स दृश्यते॥ १३ ॥

विश्वास-प्रस्तुतिः

यादसां च पतिर्द्देवो वरुणो लोकभावनः
गौर्य्या पत्न्या सहायातः प्रचेता मण्डपे त्विह॥ १४ ॥

मूलम्

यादसां च पतिर्द्देवो वरुणो लोकभावनः
गौर्य्या पत्न्या सहायातः प्रचेता मण्डपे त्विह॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः
पत्न्या त्विह समायातः सह देव्या धनाधिपः॥ १५ ॥

मूलम्

सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः
पत्न्या त्विह समायातः सह देव्या धनाधिपः॥ १५ ॥

विश्वास-प्रस्तुतिः

मुखं यः सर्वदेवानां जन्तूनामुदरे स्थितः
वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः॥ १६ ॥

मूलम्

मुखं यः सर्वदेवानां जन्तूनामुदरे स्थितः
वेदा यदर्थमुत्पन्नास्सोयं यज्ञमुपागतः॥ १६ ॥

विश्वास-प्रस्तुतिः

निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः
स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह॥ १७ ॥

मूलम्

निऋती राक्षसेन्द्रोऽसौ दिक्पतित्वे नियोजितः
स च त्विहागतस्तात पत्न्या सार्द्धं क्रताविह॥ १७ ॥

विश्वास-प्रस्तुतिः

आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा
प्राणोपानोव्यानउदानस्समानाह्वयस्तथा॥ १८ ॥

मूलम्

आयुःप्रदो जगत्यस्मिन्ब्रह्मणा निर्मितः पुरा
प्राणोपानोव्यानउदानस्समानाह्वयस्तथा॥ १८ ॥

विश्वास-प्रस्तुतिः

एकोनपञ्चाशत्केन गणेन परिवारितः
यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः॥ १९ ॥

मूलम्

एकोनपञ्चाशत्केन गणेन परिवारितः
यज्ञे प्रजापतिश्चासौ वायुर्देवःसमागतः॥ १९ ॥

विश्वास-प्रस्तुतिः

द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह
पाति वै भुवनं सर्वं देवानां यः परायणः॥ २० ॥

मूलम्

द्वादशात्मा ग्रहाध्यक्षःचक्षुषी जगतस्त्विह
पाति वै भुवनं सर्वं देवानां यः परायणः॥ २० ॥

विश्वास-प्रस्तुतिः

आयुषश्च वनानां च दिवसानां पतिर्हि यः
सञ्ज्ञा पतिरिहायातो भास्करो लोकपावनः॥ २१ ॥

मूलम्

आयुषश्च वनानां च दिवसानां पतिर्हि यः
सञ्ज्ञा पतिरिहायातो भास्करो लोकपावनः॥ २१ ॥

विश्वास-प्रस्तुतिः

अत्रिवंशसमुद्भूतो द्विजराजो महायशाः
नयनानन्दजननो लोकनाथो धरातले॥ २२ ॥

मूलम्

अत्रिवंशसमुद्भूतो द्विजराजो महायशाः
नयनानन्दजननो लोकनाथो धरातले॥ २२ ॥

विश्वास-प्रस्तुतिः

ओषधीनां पतिश्चापि वीरुधामपि सर्वशः
उडुनाथः सपत्नीक इहायातः शशी तव॥ २३ ॥

मूलम्

ओषधीनां पतिश्चापि वीरुधामपि सर्वशः
उडुनाथः सपत्नीक इहायातः शशी तव॥ २३ ॥

विश्वास-प्रस्तुतिः

वसवोष्टौ समायाता अश्विनौ च समागतौ
वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः॥ २४ ॥

मूलम्

वसवोष्टौ समायाता अश्विनौ च समागतौ
वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः॥ २४ ॥

विश्वास-प्रस्तुतिः

विद्याधरा भूतसङ्घा वेताला यक्षराक्षसाः
पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः॥ २५ ॥

मूलम्

विद्याधरा भूतसङ्घा वेताला यक्षराक्षसाः
पिशाचाश्चोग्रकर्माणस्तथान्ये जीवहारकाः॥ २५ ॥

विश्वास-प्रस्तुतिः

नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः
ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति॥ २६ ॥

मूलम्

नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः
ग्राम्यारण्याश्च पशवो यदिङ्गं यच्च नेङ्गति॥ २६ ॥

विश्वास-प्रस्तुतिः

कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह
पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः॥ २७ ॥

मूलम्

कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह
पुलस्त्यः पुलहश्चैव सनकाद्या महर्षयः॥ २७ ॥

विश्वास-प्रस्तुतिः

पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः
वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः॥ २८ ॥

मूलम्

पुण्या राजर्षयश्चैव पृथिव्यां ये च पार्थिवाः
वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः॥ २८ ॥

विश्वास-प्रस्तुतिः

किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता
भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे॥ २९ ॥

मूलम्

किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता
भगिन्यो भागिनेयाश्च भगिनीपतयस्त्विमे॥ २९ ॥

विश्वास-प्रस्तुतिः

स्वभार्यासहिताः सर्वे सपुत्रास्सह बान्धवाः
त्वया समर्चिताः सर्वे दानमानपरिग्रहैः॥ ३० ॥

मूलम्

स्वभार्यासहिताः सर्वे सपुत्रास्सह बान्धवाः
त्वया समर्चिताः सर्वे दानमानपरिग्रहैः॥ ३० ॥

विश्वास-प्रस्तुतिः

आमन्त्रणा मन्त्रितानां सर्वेषां मानना कृता
एक एवात्र भगवान्पतिर्मे न समागतः॥ ३१ ॥

मूलम्

आमन्त्रणा मन्त्रितानां सर्वेषां मानना कृता
एक एवात्र भगवान्पतिर्मे न समागतः॥ ३१ ॥

विश्वास-प्रस्तुतिः

विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे
मन्ये चाहं तु भवता पतिर्मे न निमन्त्रितः॥ ३२ ॥

मूलम्

विना तेन त्विदं सर्वं शून्यवत्प्रतिभाति मे
मन्ये चाहं तु भवता पतिर्मे न निमन्त्रितः॥ ३२ ॥

विश्वास-प्रस्तुतिः

विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्
पुलस्य उवाच
तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः॥ ३३ ॥

मूलम्

विस्मृतस्ते भवेन्नूनं सर्वं शंसतु मे भवान्
पुलस्य उवाच
तस्यास्तदुक्तं वचनं श्रुत्वा दक्षः प्रजापतिः॥ ३३ ॥

विश्वास-प्रस्तुतिः

पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्
अङ्कमारोप्य तां बालां साध्वीं पतिपरायणाम्॥ ३४ ॥

मूलम्

पतिस्नेह समायुक्तां प्राणेभ्योपि गरीयसीम्
अङ्कमारोप्य तां बालां साध्वीं पतिपरायणाम्॥ ३४ ॥

विश्वास-प्रस्तुतिः

पतिव्रतां महाभागां पतिप्रियहितैषिणीम्
प्राह गम्भीरभावेन शृणु वत्से यथातथम्॥ ३५ ॥

मूलम्

पतिव्रतां महाभागां पतिप्रियहितैषिणीम्
प्राह गम्भीरभावेन शृणु वत्से यथातथम्॥ ३५ ॥

विश्वास-प्रस्तुतिः

येनाद्य कारणेनेह पतिस्ते न निमन्त्रितः
कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा॥ ३६ ॥

मूलम्

येनाद्य कारणेनेह पतिस्ते न निमन्त्रितः
कपालपात्रधृक्चर्मी भस्मावृत तनुस्तथा॥ ३६ ॥

विश्वास-प्रस्तुतिः

शूली मुण्डी च नग्नश्च श्मशाने रमते सदा
विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः॥ ३७ ॥

मूलम्

शूली मुण्डी च नग्नश्च श्मशाने रमते सदा
विभूत्याङ्गानि सर्वाणि परिमार्ष्टि च नित्यशः॥ ३७ ॥

विश्वास-प्रस्तुतिः

व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः
कपालमालं शिरसि खट्वागं च करे स्थितं॥ ३८ ॥

मूलम्

व्याघ्रचर्मपरीधानो हस्तिचर्मपरिच्छदः
कपालमालं शिरसि खट्वागं च करे स्थितं॥ ३८ ॥

विश्वास-प्रस्तुतिः

कट्यां वै गोनसं बध्वा लिङ्गेऽस्थ्नां वलयं तथा
पन्नगानां तु राजानमुपवीतं च वासुकिम्॥ ३९ ॥

मूलम्

कट्यां वै गोनसं बध्वा लिङ्गेऽस्थ्नां वलयं तथा
पन्नगानां तु राजानमुपवीतं च वासुकिम्॥ ३९ ॥

विश्वास-प्रस्तुतिः

कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ
नग्ना गणाः पिशाचाश्च भूतसङ्घा ह्यनेकशः॥ ४० ॥

मूलम्

कृत्वा भ्रमति चानेन रूपेण सततं क्षितौ
नग्ना गणाः पिशाचाश्च भूतसङ्घा ह्यनेकशः॥ ४० ॥

विश्वास-प्रस्तुतिः

त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा
कुत्सितानि तथान्यानि सदा ते कुरुते पतिः॥ ४१ ॥

मूलम्

त्रिनेत्रश्च त्रिशूली च गीतनृत्यरतस्सदा
कुत्सितानि तथान्यानि सदा ते कुरुते पतिः॥ ४१ ॥

विश्वास-प्रस्तुतिः

त्रपाकरो भवेन्मह्यं देवानां सन्निधिः कथं
कीदृक्च वसनं तस्य केतनं प्रति नार्हति॥ ४२ ॥

मूलम्

त्रपाकरो भवेन्मह्यं देवानां सन्निधिः कथं
कीदृक्च वसनं तस्य केतनं प्रति नार्हति॥ ४२ ॥

विश्वास-प्रस्तुतिः

एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया
नाह्वानं तु कृतं तस्य कारणेन मया सुते॥ ४३ ॥

मूलम्

एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया
नाह्वानं तु कृतं तस्य कारणेन मया सुते॥ ४३ ॥

विश्वास-प्रस्तुतिः

यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह
आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्॥ ४४ ॥

मूलम्

यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह
आनीय तव भर्त्तारं त्वया सह त्रिलोचनम्॥ ४४ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः
एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्॥ ४५ ॥

मूलम्

त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः
एतत्ते सर्वमाख्यातं त्रपायाः कारणं महत्॥ ४५ ॥

विश्वास-प्रस्तुतिः

नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति
अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्॥ ४६ ॥

मूलम्

नात्र मन्युस्त्वया कार्यः सर्वः स्वं भागमर्हति
अन्यजन्मनि यैर्यादृक्कृतं कर्म शुभाशुभम्॥ ४६ ॥

विश्वास-प्रस्तुतिः

इह जन्मनि ते तादृक्पुत्रिके भुञ्जते फलम्
परितापं मा कृथास्त्वं फलं भुङ्क्ष्व पुराकृतम्॥ ४७ ॥

मूलम्

इह जन्मनि ते तादृक्पुत्रिके भुञ्जते फलम्
परितापं मा कृथास्त्वं फलं भुङ्क्ष्व पुराकृतम्॥ ४७ ॥

विश्वास-प्रस्तुतिः

श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्
रूपं च कान्तिसौभाग्यं रम्याण्याभरणानि च॥ ४८ ॥

मूलम्

श्रियं परगतां दृष्ट्वा रूपसौभाग्यशोभनाम्
रूपं च कान्तिसौभाग्यं रम्याण्याभरणानि च॥ ४८ ॥

विश्वास-प्रस्तुतिः

कुलेमहतिवैजन्मवपुश्चातीवसुन्दरम्
पूर्वभाग्यैस्तु लभ्यन्ते नरैरेतानि सुव्रते॥ ४९ ॥

मूलम्

कुलेमहतिवैजन्मवपुश्चातीवसुन्दरम्
पूर्वभाग्यैस्तु लभ्यन्ते नरैरेतानि सुव्रते॥ ४९ ॥

विश्वास-प्रस्तुतिः

मात्मानं परिनिन्देथामाच भाग्यानि सुव्रते
फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.50
नास्ति वै बलवान्कश्चिन्नमूढो न च पण्डितः
पाण्डित्यं च बलं चैव जायते पूर्वकर्मणः॥ ५१ ॥

मूलम्

मात्मानं परिनिन्देथामाच भाग्यानि सुव्रते
फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः५० 1.5.50
नास्ति वै बलवान्कश्चिन्नमूढो न च पण्डितः
पाण्डित्यं च बलं चैव जायते पूर्वकर्मणः॥ ५१ ॥

विश्वास-प्रस्तुतिः

एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्
पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच॥ ५२ ॥

मूलम्

एते देवा दिवं प्राप्ताः शोभमानाः स्थिताश्चिरम्
पुण्येन तपसा चैव क्षेत्रेषुविविधेषुच॥ ५२ ॥

विश्वास-प्रस्तुतिः

यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः
एवमुक्ता ततः सा तु सती भीष्मरुषान्विता॥ ५३ ॥

मूलम्

यदेभिरार्जितं पुण्यं तस्यैते फलभागिनः
एवमुक्ता ततः सा तु सती भीष्मरुषान्विता॥ ५३ ॥

विश्वास-प्रस्तुतिः

विनिन्दमाना पितरं क्रोधेनारुणितेक्षणा
एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः॥ ५४ ॥

मूलम्

विनिन्दमाना पितरं क्रोधेनारुणितेक्षणा
एवमेतद्यथा तात त्वया चोक्तं ममाग्रतः॥ ५४ ॥

विश्वास-प्रस्तुतिः

सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं
पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः॥ ५५ ॥

मूलम्

सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं
पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः॥ ५५ ॥

विश्वास-प्रस्तुतिः

तदयं जगतामीशः सर्वेषामुत्तमोत्तमः
स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता॥ ५६ ॥

मूलम्

तदयं जगतामीशः सर्वेषामुत्तमोत्तमः
स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता॥ ५६ ॥

विश्वास-प्रस्तुतिः

ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः
न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः॥ ५७ ॥

मूलम्

ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः
न शक्ता ख्यापने तस्य देवस्य परमेष्ठिनः॥ ५७ ॥

विश्वास-प्रस्तुतिः

भस्मास्थि च कपालानि श्मशाने वसतिस्तथा
गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः॥ ५८ ॥

मूलम्

भस्मास्थि च कपालानि श्मशाने वसतिस्तथा
गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः॥ ५८ ॥

विश्वास-प्रस्तुतिः

भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा
एष धाता विधाता च एष पालयिता दिशः॥ ५९ ॥

मूलम्

भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा
एष धाता विधाता च एष पालयिता दिशः॥ ५९ ॥

विश्वास-प्रस्तुतिः

प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरन्दरः
यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः॥ ६० ॥

मूलम्

प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरन्दरः
यदि रुद्रेस्ति देवत्वं यदि सर्वगतः शिवः॥ ६० ॥

विश्वास-प्रस्तुतिः

सत्येन तेन ते यज्ञं विध्वंसयतु शङ्करः
यद्यस्ति मे तपः किञ्चित्कश्चिद्धर्मोथवा कृतः॥ ६१ ॥

मूलम्

सत्येन तेन ते यज्ञं विध्वंसयतु शङ्करः
यद्यस्ति मे तपः किञ्चित्कश्चिद्धर्मोथवा कृतः॥ ६१ ॥

विश्वास-प्रस्तुतिः

फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति
प्रियाहं यदि देवस्य यदि मां तारयिष्यति॥ ६२ ॥

मूलम्

फलेन तस्य धर्मस्य यज्ञस्ते नाशमर्हति
प्रियाहं यदि देवस्य यदि मां तारयिष्यति॥ ६२ ॥

विश्वास-प्रस्तुतिः

तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु
इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा॥ ६३ ॥

मूलम्

तेन सत्येन ते गर्वः समाप्तिमभिगच्छतु
इत्युक्त्वा योगमास्थाय स्वदेहस्थेन तेजसा॥ ६३ ॥

विश्वास-प्रस्तुतिः

निर्ददाह तदात्मानं सदेवासुरपन्नगैः
किङ्किमेतदिति प्रोक्ते गन्धर्वगणगुह्यकैः॥ ६४ ॥

मूलम्

निर्ददाह तदात्मानं सदेवासुरपन्नगैः
किङ्किमेतदिति प्रोक्ते गन्धर्वगणगुह्यकैः॥ ६४ ॥

विश्वास-प्रस्तुतिः

गङ्गाकूले तदा मुक्तो देहो वै क्रुद्धया तया
सौनकं नाम तत्तीर्थं गङ्गायाः पश्चिमे तटे॥ ६५ ॥

मूलम्

गङ्गाकूले तदा मुक्तो देहो वै क्रुद्धया तया
सौनकं नाम तत्तीर्थं गङ्गायाः पश्चिमे तटे॥ ६५ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः
हन्तुं यज्ञं धीरभवत्देवानामिह पश्यताम्॥ ६६ ॥

मूलम्

श्रुत्वा रुद्रस्तु तद्वार्त्तां पत्न्यानाश सुदुःखितः
हन्तुं यज्ञं धीरभवत्देवानामिह पश्यताम्॥ ६६ ॥

विश्वास-प्रस्तुतिः

गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा
भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने॥ ६७ ॥

मूलम्

गणकोटिः समादिष्टा ग्रहा वैनायकास्तथा
भूतप्रेतपिशाचाश्च दक्षयज्ञ विनाशने॥ ६७ ॥

विश्वास-प्रस्तुतिः

तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः
हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः॥ ६८ ॥

मूलम्

तैर्गत्वा विबुधास्सर्वे यज्ञे निर्जित्य नाशिताः
हते यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः॥ ६८ ॥

विश्वास-प्रस्तुतिः

उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्
न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः॥ ६९ ॥

मूलम्

उपगम्याब्रवीत्त्रस्तो देवदेवं पिनाकिनम्
न ज्ञातोसि मया देव देवानां प्रभुरीश्वरः॥ ६९ ॥

विश्वास-प्रस्तुतिः

त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः
कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय॥ ७० ॥

मूलम्

त्वमस्य जगतोधीशः सुरास्सर्वे त्वया जिताः
कृपां कुरु महेशान गणान्सर्वान्निवर्त्तय॥ ७० ॥

विश्वास-प्रस्तुतिः

गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः
नानावदनदन्तौष्ठैर्नाना प्रहरणोद्यतैः॥ ७१ ॥

मूलम्

गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः
नानावदनदन्तौष्ठैर्नाना प्रहरणोद्यतैः॥ ७१ ॥

विश्वास-प्रस्तुतिः

नाना नागेन्द्रसन्दष्ट जटाभारोपशोभितैः
सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः॥ ७२ ॥

मूलम्

नाना नागेन्द्रसन्दष्ट जटाभारोपशोभितैः
सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिघातिभिः॥ ७२ ॥

विश्वास-प्रस्तुतिः

कामरूपैरकान्तैश्च सर्वकामसमन्वितैः
अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः॥ ७३ ॥

मूलम्

कामरूपैरकान्तैश्च सर्वकामसमन्वितैः
अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः॥ ७३ ॥

विश्वास-प्रस्तुतिः

व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः
करीन्द्रकरटाटोप पाटवैः सिंहदेहिभिः॥ ७४ ॥

मूलम्

व्यालोलकेसरजटैर्दंष्ट्रोत्कटहसन्मुखैः
करीन्द्रकरटाटोप पाटवैः सिंहदेहिभिः॥ ७४ ॥

विश्वास-प्रस्तुतिः

केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः
विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः॥ ७५ ॥

मूलम्

केचित्परमदाघ्राण घूर्णद्दीपसमप्रभैः
विचित्रचित्रवसनैर्द्धीरधीरवारदिभिः॥ ७५ ॥

विश्वास-प्रस्तुतिः

मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः
भुजङ्गहारवलयकृतयज्ञोपवीतकैः॥ ७६ ॥

मूलम्

मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः
भुजङ्गहारवलयकृतयज्ञोपवीतकैः॥ ७६ ॥

विश्वास-प्रस्तुतिः

शूलासिपट्टिशधरैः परशुप्रासहस्तकैः
वज्रक्रकचकोदण्डकालदण्डास्त्रपाणिभिः॥ ७७ ॥

मूलम्

शूलासिपट्टिशधरैः परशुप्रासहस्तकैः
वज्रक्रकचकोदण्डकालदण्डास्त्रपाणिभिः॥ ७७ ॥

विश्वास-प्रस्तुतिः

गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव
देवदेवमहादेव नष्टो यज्ञो दिवं गतः॥ ७८ ॥

मूलम्

गणेश्वरैः सुदुर्द्धर्षैर्वृतः सूर्यो ग्रहैरिव
देवदेवमहादेव नष्टो यज्ञो दिवं गतः॥ ७८ ॥

विश्वास-प्रस्तुतिः

मृगरूपधरो भूत्वा भयभीतस्तु शङ्कर
नमः शङ्खाभदेवाय सगणाय सनन्दिने॥ ७९ ॥

मूलम्

मृगरूपधरो भूत्वा भयभीतस्तु शङ्कर
नमः शङ्खाभदेवाय सगणाय सनन्दिने॥ ७९ ॥

विश्वास-प्रस्तुतिः

वृषासनाय सोमाय क्रतुकालान्तकाय च
नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे॥ ८० ॥

मूलम्

वृषासनाय सोमाय क्रतुकालान्तकाय च
नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे॥ ८० ॥

विश्वास-प्रस्तुतिः

ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च
गिरीशाय सुरेशाय ईशानाय नमोनमः॥ ८१ ॥

मूलम्

ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायामिताय च
गिरीशाय सुरेशाय ईशानाय नमोनमः॥ ८१ ॥

विश्वास-प्रस्तुतिः

रुद्राय प्रतिवज्राय शिवाय क्रथनाय च
सुरासुराधिपतये यतीनां पतये नमः॥ ८२ ॥

मूलम्

रुद्राय प्रतिवज्राय शिवाय क्रथनाय च
सुरासुराधिपतये यतीनां पतये नमः॥ ८२ ॥

विश्वास-प्रस्तुतिः

धूम्रोग्राय विरूपाय यज्वने घोररूपिणे
विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः॥ ८३ ॥

मूलम्

धूम्रोग्राय विरूपाय यज्वने घोररूपिणे
विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः॥ ८३ ॥

विश्वास-प्रस्तुतिः

मुण्डाय चण्डमुण्डाय वरखट्वाङ्गधारिणे
कव्यरूपाय हव्याय सर्वसंहारिणे नमः॥ ८४ ॥

मूलम्

मुण्डाय चण्डमुण्डाय वरखट्वाङ्गधारिणे
कव्यरूपाय हव्याय सर्वसंहारिणे नमः॥ ८४ ॥

विश्वास-प्रस्तुतिः

भक्तानुकम्पिनेत्यर्थं रुद्रजाप्यस्तुताय च
विरूपाय सुरूपाय रूपाणां शतकारिणे॥ ८५ ॥

मूलम्

भक्तानुकम्पिनेत्यर्थं रुद्रजाप्यस्तुताय च
विरूपाय सुरूपाय रूपाणां शतकारिणे॥ ८५ ॥

विश्वास-प्रस्तुतिः

पञ्चास्याय शुभास्याय चन्द्रास्याय नमो नमः
वरदाय वरार्हाय कूर्माय च मृगाय च॥ ८६ ॥

मूलम्

पञ्चास्याय शुभास्याय चन्द्रास्याय नमो नमः
वरदाय वरार्हाय कूर्माय च मृगाय च॥ ८६ ॥

विश्वास-प्रस्तुतिः

लीलालकशिखण्डाय कमण्डलुधराय च
विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः॥ ८७ ॥

मूलम्

लीलालकशिखण्डाय कमण्डलुधराय च
विश्वनाम्नेथ विश्वाय विश्वेशाय नमोनमः॥ ८७ ॥

विश्वास-प्रस्तुतिः

त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां
वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर॥ ८८ ॥

मूलम्

त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां
वाङ्मनः कायभावैस्तु प्रपन्नस्य महेश्वर॥ ८८ ॥

विश्वास-प्रस्तुतिः

एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना
दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा॥ ८९ ॥

मूलम्

एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना
दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा॥ ८९ ॥

विश्वास-प्रस्तुतिः

समग्रं ते यज्ञफलं मया दत्तं प्रजापते
सर्वकामप्रसिर्द्ध्य्थम्फलम्प्राप्स्यस्यनुत्तमम्॥ ९० ॥

मूलम्

समग्रं ते यज्ञफलं मया दत्तं प्रजापते
सर्वकामप्रसिर्द्ध्य्थम्फलम्प्राप्स्यस्यनुत्तमम्॥ ९० ॥

विश्वास-प्रस्तुतिः

एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्
जगाम स्वनिकेतं तु गणानामेव पश्यताम्॥ ९१ ॥

मूलम्

एवमुक्तो भगवता प्रणम्याथ सुरेश्वरम्
जगाम स्वनिकेतं तु गणानामेव पश्यताम्॥ ९१ ॥

विश्वास-प्रस्तुतिः

पत्न्याः शोकेन वै देवो गङ्गाद्वारे तदास्थितः
तां सतीं चिन्तयानस्तु क्व नु सामेप्रियागता॥ ९२ ॥

मूलम्

पत्न्याः शोकेन वै देवो गङ्गाद्वारे तदास्थितः
तां सतीं चिन्तयानस्तु क्व नु सामेप्रियागता॥ ९२ ॥

विश्वास-प्रस्तुतिः

तस्य शोकाभिभूतस्य नारदो भवसन्न्निधौ
सा ते सती या देवेश भार्या प्राणसमामृता॥ ९३ ॥

मूलम्

तस्य शोकाभिभूतस्य नारदो भवसन्न्निधौ
सा ते सती या देवेश भार्या प्राणसमामृता॥ ९३ ॥

विश्वास-प्रस्तुतिः

हिमवद्दुहिता सा च मेनागर्भसमुद्भवा
जग्राह देहमन्यं सा वेदवेदार्थवेदिनी॥ ९४ ॥

मूलम्

हिमवद्दुहिता सा च मेनागर्भसमुद्भवा
जग्राह देहमन्यं सा वेदवेदार्थवेदिनी॥ ९४ ॥

विश्वास-प्रस्तुतिः

श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत
कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः॥ ९५ ॥

मूलम्

श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत
कृतकृत्यमथात्मानं कृत्वा देवस्तदास्थितः॥ ९५ ॥

विश्वास-प्रस्तुतिः

सम्प्राप्तयौवना देवी पुनरेव विवाहिता
एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा॥ ९६ ॥

मूलम्

सम्प्राप्तयौवना देवी पुनरेव विवाहिता
एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा॥ ९६ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे दक्षयज्ञविध्वंसोनाम पञ्चमोऽध्यायः५