००४

भीष्म उवाच

विश्वास-प्रस्तुतिः

क्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुता
ख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान्॥ १ ॥

मूलम्

क्षीराब्धौ तु तथा लक्ष्मीः किलोत्पन्ना मया श्रुता
ख्यात्यां भृगोः समुत्पन्ना एतदाह कथं भवान्॥ १ ॥

विश्वास-प्रस्तुतिः

कथं च दक्षदुहिता देहं त्यक्तवती शुभा
मेनायां गर्भसम्भूतिमुमाया जन्म एव च॥ २ ॥

मूलम्

कथं च दक्षदुहिता देहं त्यक्तवती शुभा
मेनायां गर्भसम्भूतिमुमाया जन्म एव च॥ २ ॥

विश्वास-प्रस्तुतिः

किमर्थं देवदेवेन पत्नी हैमवती कृता
विरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे॥ ३ ॥

मूलम्

किमर्थं देवदेवेन पत्नी हैमवती कृता
विरोधं चाथ दक्षेण भगवांस्तु ब्रवीतु मे॥ ३ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
इदं च शृणु भूपाल यत्पृष्टोहमिह त्वया
श्रीसम्बन्धो मयाप्येष श्रुत आसीत्पितामहात्॥ ४ ॥

मूलम्

पुलस्त्य उवाच
इदं च शृणु भूपाल यत्पृष्टोहमिह त्वया
श्रीसम्बन्धो मयाप्येष श्रुत आसीत्पितामहात्॥ ४ ॥

विश्वास-प्रस्तुतिः

अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्
विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम्॥ ५ ॥

मूलम्

अत्रिपुत्रस्तु दुर्वासाः परिभ्राम्यन्महीमिमाम्
विद्याधरीकरेमालां दृष्ट्वा सौगन्धिकीं शुभाम्॥ ५ ॥

विश्वास-प्रस्तुतिः

याचयामास मे देहि जटाजूटे करोम्यहम्
इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा॥ ६ ॥

मूलम्

याचयामास मे देहि जटाजूटे करोम्यहम्
इति विद्याधरी तेन पृष्टा सा ऋषिणा तथा॥ ६ ॥

विश्वास-प्रस्तुतिः

ददौ तस्मै मुदायुक्ता तां मालां स तदा नृप
गृहीत्वा सुचिरं कालं शिरोमालां बबन्ध ह॥ ७ ॥

मूलम्

ददौ तस्मै मुदायुक्ता तां मालां स तदा नृप
गृहीत्वा सुचिरं कालं शिरोमालां बबन्ध ह॥ ७ ॥

विश्वास-प्रस्तुतिः

उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्
इयं विद्याधरी कन्या पीनोन्नत पयोधरा॥ ८ ॥

मूलम्

उन्मत्त प्रेतवद्विप्रः शोभमानोब्रवीदिदम्
इयं विद्याधरी कन्या पीनोन्नत पयोधरा॥ ८ ॥

विश्वास-प्रस्तुतिः

शोभालङ्कारसौभाग्यैर्युक्ता दृष्टा ततो मनः
क्षोभमायाति मे चाद्य नाहं कामे विचक्षणः॥ ९ ॥

मूलम्

शोभालङ्कारसौभाग्यैर्युक्ता दृष्टा ततो मनः
क्षोभमायाति मे चाद्य नाहं कामे विचक्षणः॥ ९ ॥

विश्वास-प्रस्तुतिः

व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्
एवमुक्त्वा स राजेन्द्र परिबभ्राम मेदिनीम्॥ १० ॥

मूलम्

व्रजामि तावदन्यत्र सौभाग्यं स्वं प्रदर्शयन्
एवमुक्त्वा स राजेन्द्र परिबभ्राम मेदिनीम्॥ १० ॥

विश्वास-प्रस्तुतिः

ऐरावतं समारूढं राजानं त्रिदिवौकसाम्
त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम्॥ ११ ॥

मूलम्

ऐरावतं समारूढं राजानं त्रिदिवौकसाम्
त्रैलोक्याधिपतिं शक्रं भ्राजमानं शचीपतिम्॥ ११ ॥

विश्वास-प्रस्तुतिः

तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः॥ १२ ॥

मूलम्

तामात्मशिरसो मालां भ्रमदुन्मत्तषट्पदाम्
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः॥ १२ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा देवराजेन माला सा गजमूर्द्धनि
मुक्ता रराज सा माला कैलासे जाह्नवी यथा॥ १३ ॥

मूलम्

गृहीत्वा देवराजेन माला सा गजमूर्द्धनि
मुक्ता रराज सा माला कैलासे जाह्नवी यथा॥ १३ ॥

विश्वास-प्रस्तुतिः

मदान्धकारिताक्षोसौ गन्धाघ्राणेन वारणः
करेणादाय चिक्षेप तां मालां पृथिवीतले॥ १४ ॥

मूलम्

मदान्धकारिताक्षोसौ गन्धाघ्राणेन वारणः
करेणादाय चिक्षेप तां मालां पृथिवीतले॥ १४ ॥

विश्वास-प्रस्तुतिः

ततश्चुक्रोध भगवान्दुर्वासा मुनिपुङ्गवः
राजेन्द्रदेवराजानं क्रुद्धश्चेदमुवाच ह॥ १५ ॥

मूलम्

ततश्चुक्रोध भगवान्दुर्वासा मुनिपुङ्गवः
राजेन्द्रदेवराजानं क्रुद्धश्चेदमुवाच ह॥ १५ ॥

विश्वास-प्रस्तुतिः

ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव
श्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनन्दसि॥ १६ ॥

मूलम्

ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव
श्रियोधामस्रजं यस्मान्मद्दत्तान्नाभिनन्दसि॥ १६ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति
मद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले॥ १७ ॥

मूलम्

त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति
मद्दत्ता भवता माला क्षिप्ता यस्मान्महीतले॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति
यस्य सञ्जातकोपस्य भयमेति चराचरम्॥ १८ ॥

मूलम्

तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति
यस्य सञ्जातकोपस्य भयमेति चराचरम्॥ १८ ॥

विश्वास-प्रस्तुतिः

तं मां त्वमतिगर्वेण देवराजावमन्यसे
महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः॥ १९ ॥

मूलम्

तं मां त्वमतिगर्वेण देवराजावमन्यसे
महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रसादयामास मुनिं दुर्वाससमकल्मषम्
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम्॥ २० ॥

मूलम्

प्रसादयामास मुनिं दुर्वाससमकल्मषम्
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम्॥ २० ॥

विश्वास-प्रस्तुतिः

नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो
इत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः॥ २१ ॥

मूलम्

नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो
इत्युक्त्वा प्रययौ विप्रो देवराजोपि तं पुनः॥ २१ ॥

विश्वास-प्रस्तुतिः

आरुह्यैरावतं नागं प्रययावमरावतीम्
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम्॥ २२ ॥

मूलम्

आरुह्यैरावतं नागं प्रययावमरावतीम्
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम्॥ २२ ॥

विश्वास-प्रस्तुतिः

न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः
न च दानानि दीयन्ते नष्टप्रायमभूज्जगत्॥ २३ ॥

मूलम्

न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः
न च दानानि दीयन्ते नष्टप्रायमभूज्जगत्॥ २३ ॥

विश्वास-प्रस्तुतिः

एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते
देवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः॥ २४ ॥

मूलम्

एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते
देवान्प्रतिबलोद्योगं चक्रुर्दैतेयदानवाः॥ २४ ॥

विश्वास-प्रस्तुतिः

विजितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः
पितामहं महाभागं हुताशनपुरोगमाः॥ २५ ॥

मूलम्

विजितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः
पितामहं महाभागं हुताशनपुरोगमाः॥ २५ ॥

विश्वास-प्रस्तुतिः

यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्
क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः॥ २६ ॥

मूलम्

यथावत्कथिते देवैर्ब्रह्मा प्राह तथा सुरान्
क्षीरोदस्योत्तरं कूलं जगाम सहितः सुरैः॥ २६ ॥

विश्वास-प्रस्तुतिः

गत्वा जगाद भगवान्वासुदेवं पितामहः
उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु॥ २७ ॥

मूलम्

गत्वा जगाद भगवान्वासुदेवं पितामहः
उत्तिष्ठ विष्णो शीघ्रं त्वं देवतानां हितं कुरु॥ २७ ॥

विश्वास-प्रस्तुतिः

त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः
इत्युक्तः पुण्डरीकाक्षः पुरुषः पुरुषोत्तमः॥ २८ ॥

मूलम्

त्वया विना दानवैस्तु जिताः सर्वे पुनःपुनः
इत्युक्तः पुण्डरीकाक्षः पुरुषः पुरुषोत्तमः॥ २८ ॥

विश्वास-प्रस्तुतिः

अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह
तेजसो भवतां देवाः करिष्याम्युपबृंहणम्॥ २९ ॥

मूलम्

अपूर्वरूपसंस्थानान्दृष्ट्वा देवानुवाच ह
तेजसो भवतां देवाः करिष्याम्युपबृंहणम्॥ २९ ॥

विश्वास-प्रस्तुतिः

वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः॥ ३० ॥

मूलम्

वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः
आनीय सहिता दैत्यैः क्षीराब्धौ सकलौषधीः॥ ३० ॥

विश्वास-प्रस्तुतिः

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम्
मथ्यताममृतं देवाः सहाये मय्यवस्थिते॥ ३१ ॥

मूलम्

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम्
मथ्यताममृतं देवाः सहाये मय्यवस्थिते॥ ३१ ॥

विश्वास-प्रस्तुतिः

सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि
समानफलभोक्तारो यूंय चात्र भविष्यथ॥ ३२ ॥

मूलम्

सामपूर्वं च दैतेयांस्तत्र सम्भाष्य कर्मणि
समानफलभोक्तारो यूंय चात्र भविष्यथ॥ ३२ ॥

विश्वास-प्रस्तुतिः

मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्
तत्पानाद्बलिनो यूयममराः सम्भविष्यथ॥ ३३ ॥

मूलम्

मथ्यमाने च तत्राब्धौ यत्समुत्पद्यतेऽमृतम्
तत्पानाद्बलिनो यूयममराः सम्भविष्यथ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तथैवाहं करिष्यामि यथा त्रिदशविद्विषः
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः॥ ३४ ॥

मूलम्

तथैवाहं करिष्यामि यथा त्रिदशविद्विषः
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः॥ ३४ ॥

विश्वास-प्रस्तुतिः

इत्युक्ता देवदेवेन सर्व एव ततः सुराः
सन्धानमसुरैः कृत्वा यत्नवन्तोऽमृतेभवन्॥ ३५ ॥

मूलम्

इत्युक्ता देवदेवेन सर्व एव ततः सुराः
सन्धानमसुरैः कृत्वा यत्नवन्तोऽमृतेभवन्॥ ३५ ॥

विश्वास-प्रस्तुतिः

सर्वौषधीः समानीय देवदैतेयदानवाः
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि॥ ३६ ॥

मूलम्

सर्वौषधीः समानीय देवदैतेयदानवाः
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि॥ ३६ ॥

विश्वास-प्रस्तुतिः

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम्
ततो मथितुमारब्धा राजेन्द्र तरसामृतम्॥ ३७ ॥

मूलम्

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम्
ततो मथितुमारब्धा राजेन्द्र तरसामृतम्॥ ३७ ॥

विश्वास-प्रस्तुतिः

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः
विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः॥ ३८ ॥

मूलम्

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः
विष्णुना वासुकेर्द्दैत्याः पूर्वकाये निवेशिताः॥ ३८ ॥

विश्वास-प्रस्तुतिः

ते तस्य प्राणवातेन वह्निना च हतत्त्विषः
निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते॥ ३९ ॥

मूलम्

ते तस्य प्राणवातेन वह्निना च हतत्त्विषः
निस्तेजसोऽसुराः सर्वे बभूवुरमरद्युते॥ ३९ ॥

विश्वास-प्रस्तुतिः

तेनैव मुखनिःश्वासवायुनाथ बलाहकैः
पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः॥ ४० ॥

मूलम्

तेनैव मुखनिःश्वासवायुनाथ बलाहकैः
पुच्छप्रदेशे वर्षद्भिस्तदा चाप्पयिताः सुराः॥ ४० ॥

विश्वास-प्रस्तुतिः

क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः
महादेवो महातेजा विष्णुपृष्ठनिवासिनौ॥ ४१ ॥

मूलम्

क्षीरोदमध्ये भगवान्ब्रह्मा ब्रह्मविदां वरः
महादेवो महातेजा विष्णुपृष्ठनिवासिनौ॥ ४१ ॥

विश्वास-प्रस्तुतिः

बाहुभ्यां मन्दरं गृह्य पद्मवत्स परन्तपः
शृङ्खले च तदा कृत्वा गृहीत्वा मन्दराचलम्॥ ४२ ॥

मूलम्

बाहुभ्यां मन्दरं गृह्य पद्मवत्स परन्तपः
शृङ्खले च तदा कृत्वा गृहीत्वा मन्दराचलम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

देवानां दानवानां च बलमध्ये व्यवस्थितः
क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः॥ ४३ ॥

मूलम्

देवानां दानवानां च बलमध्ये व्यवस्थितः
क्षीरोदमध्ये भगवान्कूर्मरूपी स्वयं हरिः॥ ४३ ॥

विश्वास-प्रस्तुतिः

अन्येन तेजसा देवानुपबृंहितवान्हरिः
मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः॥ ४४ ॥

मूलम्

अन्येन तेजसा देवानुपबृंहितवान्हरिः
मथ्यमाने ततस्तस्मिन्क्षीराब्धौ देवदानवैः॥ ४४ ॥

विश्वास-प्रस्तुतिः

हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता
जग्मुर्मुदं तदा देवा दानवाश्च महामते॥ ४५ ॥

मूलम्

हविर्धान्यभवत्पूर्वं सुरभिः सुरपूजिता
जग्मुर्मुदं तदा देवा दानवाश्च महामते॥ ४५ ॥

विश्वास-प्रस्तुतिः

व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः
किमेतदिति सिद्धानां दिवि चिन्तयतां तदा॥ ४६ ॥

मूलम्

व्याक्षिप्तचेतसः सर्वे बभूवुस्तिमितेक्षणाः
किमेतदिति सिद्धानां दिवि चिन्तयतां तदा॥ ४६ ॥

विश्वास-प्रस्तुतिः

बभूव वारुणी देवी मदाघूर्णितलोचना
कृतावर्त्ता ततस्तस्मात्प्रस्खलन्ती पदे पदे॥ ४७ ॥

मूलम्

बभूव वारुणी देवी मदाघूर्णितलोचना
कृतावर्त्ता ततस्तस्मात्प्रस्खलन्ती पदे पदे॥ ४७ ॥

विश्वास-प्रस्तुतिः

एकवस्त्रा मुक्तकेशी रक्तान्तस्तब्धलोचना
अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः॥ ४८ ॥

मूलम्

एकवस्त्रा मुक्तकेशी रक्तान्तस्तब्धलोचना
अहं बलप्रदा देवी मां वा गृह्णन्तु दानवाः॥ ४८ ॥

विश्वास-प्रस्तुतिः

अशुचिं वारुणीं मत्वा त्यक्तवन्तस्तदा सुराः
जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत्॥ ४९ ॥

मूलम्

अशुचिं वारुणीं मत्वा त्यक्तवन्तस्तदा सुराः
जगृहुस्तां तदा दैत्या ग्रहणान्तेसुराभवत्॥ ४९ ॥

विश्वास-प्रस्तुतिः

मन्थने पारिजातोभूद्देव श्रीनन्दनो द्रुमः
रूपौदार्य्यगुणोपेतास्ततश्चाप्सरसां गणाः५० 1.4.50
षष्टिकोट्यस्तदा जातास्सामान्या देव दानवैः
सर्वास्ताः कृतपूर्वास्तु सामान्याः पुण्यकर्मणा॥ ५१ ॥

ततः शीतांशुरभवद्देवानां प्रीतिदायकः
ययाचे शङ्करो देवो जटाभूषणकृन्मम॥ ५२ ॥

मूलम्

ततः शीतांशुरभवद्देवानां प्रीतिदायकः
ययाचे शङ्करो देवो जटाभूषणकृन्मम॥ ५२ ॥

विश्वास-प्रस्तुतिः

भविष्यति न सन्देहो गृहीतोयं मया शशी
अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु॥ ५३ ॥

मूलम्

भविष्यति न सन्देहो गृहीतोयं मया शशी
अनुमेने च तं ब्रह्मा भूषणाय हरस्य तु॥ ५३ ॥

विश्वास-प्रस्तुतिः

ततो विषं समुत्पन्नं कालकूटं भयावहं
तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः॥ ५४ ॥

मूलम्

ततो विषं समुत्पन्नं कालकूटं भयावहं
तेन चैवार्दितास्सर्वे दानवाः सह दैवतैः॥ ५४ ॥

विश्वास-प्रस्तुतिः

महादेवेन तत्पीतं विषं गृह्य यदृच्छया
तस्य पानान्नीलकण्ठस्तदा जातो महेश्वरः॥ ५५ ॥

मूलम्

महादेवेन तत्पीतं विषं गृह्य यदृच्छया
तस्य पानान्नीलकण्ठस्तदा जातो महेश्वरः॥ ५५ ॥

विश्वास-प्रस्तुतिः

पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्
ततो धन्वन्तरिर्जातः श्वेताम्बरधरः स्वयम्॥ ५६ ॥

मूलम्

पीतावशेषं नागास्तु क्षीराब्धेस्तु समुत्थितम्
ततो धन्वन्तरिर्जातः श्वेताम्बरधरः स्वयम्॥ ५६ ॥

विश्वास-प्रस्तुतिः

बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः
ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात्॥ ५७ ॥

मूलम्

बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः
ततः स्वस्थमनस्कास्ते वैद्यराजस्य दर्शनात्॥ ५७ ॥

विश्वास-प्रस्तुतिः

ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा
तत स्फुरत्कान्तीमतिविकासि कमलेस्थिता॥ ५८ ॥

मूलम्

ततश्चाश्वः समुत्पन्नो नागश्चैरावतस्तथा
तत स्फुरत्कान्तीमतिविकासि कमलेस्थिता॥ ५८ ॥

विश्वास-प्रस्तुतिः

श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपङ्कजा
तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः॥ ५९ ॥

मूलम्

श्रीर्द्देवी पयसस्तस्मादुत्थिता धृतपङ्कजा
तां तुष्टवुर्मुदायुक्ताः श्रीसूक्तेन महर्षयः॥ ५९ ॥

विश्वास-प्रस्तुतिः

विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः॥ ६० ॥

मूलम्

विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः॥ ६० ॥

विश्वास-प्रस्तुतिः

गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे
दिग्गजा हेमपात्रस्थमादाय विमलं जलम्॥ ६१ ॥

मूलम्

गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे
दिग्गजा हेमपात्रस्थमादाय विमलं जलम्॥ ६१ ॥

विश्वास-प्रस्तुतिः

स्नापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम्
क्षीरोदस्तु स्वयं तस्यै मालामम्लानपङ्कजाम्॥ ६२ ॥

मूलम्

स्नापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम्
क्षीरोदस्तु स्वयं तस्यै मालामम्लानपङ्कजाम्॥ ६२ ॥

विश्वास-प्रस्तुतिः

ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह
दिव्यमाल्याम्बरधरां स्नातां भूषणभूषिताम्॥ ६३ ॥

मूलम्

ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह
दिव्यमाल्याम्बरधरां स्नातां भूषणभूषिताम्॥ ६३ ॥

विश्वास-प्रस्तुतिः

इन्द्राद्याश्चामरगणा विद्याधरमहोरगाः
दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः॥ ६४ ॥

मूलम्

इन्द्राद्याश्चामरगणा विद्याधरमहोरगाः
दानवाश्च महादैत्या राक्षसाः सह गुह्यकैः॥ ६४ ॥

विश्वास-प्रस्तुतिः

कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह
वासुदेव त्वमेवैनां मया दत्तां गृहाण वै॥ ६५ ॥

मूलम्

कन्यामभिलषन्ति स्म ततो ब्रह्मा उवाच ह
वासुदेव त्वमेवैनां मया दत्तां गृहाण वै॥ ६५ ॥

विश्वास-प्रस्तुतिः

देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह
तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा॥ ६६ ॥

मूलम्

देवाश्च दानवाश्चैव प्रतिषिद्धा मया त्विह
तुष्टोहं भवतस्तावदलौल्येनेह कर्मणा॥ ६६ ॥

विश्वास-प्रस्तुतिः

सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं
मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः॥ ६७ ॥

मूलम्

सा तु श्रीर्ब्रह्मणा प्रोक्ता देवि गछस्व केशवं
मया दत्तं पतिं प्राप्य मोदस्व शाश्वतीः समाः॥ ६७ ॥

विश्वास-प्रस्तुतिः

पश्यतां सर्वदेवानां गता वक्षस्थलं हरेः
ततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत्॥ ६८ ॥

मूलम्

पश्यतां सर्वदेवानां गता वक्षस्थलं हरेः
ततो वक्षस्थलं प्राप्य देवं वचनमब्रवीत्॥ ६८ ॥

विश्वास-प्रस्तुतिः

नाहं त्याज्या सदा देव सदैवादेशकारिणी
वक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय॥ ६९ ॥

मूलम्

नाहं त्याज्या सदा देव सदैवादेशकारिणी
वक्षस्थले निवत्स्यामि सर्वस्य जगतः प्रिय॥ ६९ ॥

विश्वास-प्रस्तुतिः

ततोवलोकिता देवा विष्णुवक्षस्थलस्थया
लक्ष्म्या राजेन्द्र सहसा परां निर्वृतिमागताः॥ ७० ॥

मूलम्

ततोवलोकिता देवा विष्णुवक्षस्थलस्थया
लक्ष्म्या राजेन्द्र सहसा परां निर्वृतिमागताः॥ ७० ॥

विश्वास-प्रस्तुतिः

उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाः
त्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः॥ ७१ ॥

मूलम्

उद्वेगं च परं जग्मुर्द्दैत्या विष्णुपराङ्मुखाः
त्यक्तास्तु दानवा लक्ष्म्या विप्रचित्तिपुरोगमाः॥ ७१ ॥

विश्वास-प्रस्तुतिः

ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम्
अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः॥ ७२ ॥

मूलम्

ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम्
अमृतं तन्महावीर्य्या दैत्याः पापसमन्विताः॥ ७२ ॥

विश्वास-प्रस्तुतिः

मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयः
आगत्य दानवान्प्राह दीयतां मे कमण्डलुः॥ ७३ ॥

मूलम्

मायया लोभयित्वा तु विष्णुः स्त्रीरूपसंश्रयः
आगत्य दानवान्प्राह दीयतां मे कमण्डलुः॥ ७३ ॥

विश्वास-प्रस्तुतिः

युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहे
तां दृष्ट्वा रूपसम्पन्नां नारीं त्रैलोक्यसुन्दरीम्॥ ७४ ॥

मूलम्

युष्माकं वशगा भूत्वा स्थास्यामि भवतां गृहे
तां दृष्ट्वा रूपसम्पन्नां नारीं त्रैलोक्यसुन्दरीम्॥ ७४ ॥

विश्वास-प्रस्तुतिः

प्रार्थयानास्सुवपुषं लोभोपहतचेतसः
दत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः॥ ७५ ॥

मूलम्

प्रार्थयानास्सुवपुषं लोभोपहतचेतसः
दत्त्वामृतं तदा तस्यै ततोपश्यन्त तेग्रतः॥ ७५ ॥

विश्वास-प्रस्तुतिः

दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतं
ततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम्॥ ७६ ॥

मूलम्

दानवेभ्यस्तदादाय देवेभ्यः प्रददेमृतं
ततः पपुः सुरगणाः शक्राद्यास्तत्तदामृतम्॥ ७६ ॥

विश्वास-प्रस्तुतिः

उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः
पीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः॥ ७७ ॥

मूलम्

उद्यतायुधनिस्त्रिंशा दैत्यास्तांस्ते समभ्ययुः
पीतेमृते च बलिभिर्जिता दैत्यचमूस्ततः॥ ७७ ॥

विश्वास-प्रस्तुतिः

वध्यमाना दिशो भेजुः पातालं विविशुश्च ते
ततो देवा मुदायुक्ताः शङ्खचक्रगदाधरम्॥ ७८ ॥

मूलम्

वध्यमाना दिशो भेजुः पातालं विविशुश्च ते
ततो देवा मुदायुक्ताः शङ्खचक्रगदाधरम्॥ ७८ ॥

विश्वास-प्रस्तुतिः

प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्
ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन्॥ ७९ ॥

मूलम्

प्रणिपत्य यथापूर्वं प्रययुस्ते त्रिविष्टपम्
ततःप्रभृति ते भीष्म स्त्रीलोला दानवाभवन्॥ ७९ ॥

विश्वास-प्रस्तुतिः

अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्
ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना॥ ८० ॥

मूलम्

अपध्यातास्तु कृष्णेन गतास्ते तु रसातलम्
ततः सूर्यः प्रसन्नाभः प्रययौ स्वेन वर्त्मना॥ ८० ॥

विश्वास-प्रस्तुतिः

जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः
धर्मे च सर्वभूतानां तदा मतिरजायत॥ ८१ ॥

मूलम्

जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्हुताशनः
धर्मे च सर्वभूतानां तदा मतिरजायत॥ ८१ ॥

विश्वास-प्रस्तुतिः

श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं
देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा॥ ८२ ॥

मूलम्

श्रियायुक्तं च त्रैलोक्यं विष्णुना प्रतिपालितं
देवास्तु ते तदा प्रोक्ता ब्रह्मणा लोकधारिणा॥ ८२ ॥

विश्वास-प्रस्तुतिः

भवतां रक्षणार्थाय मया विष्णुर्नियोजितः
उमापतिश्च देवेशो योगक्षेमं करिष्यतः॥ ८३ ॥

मूलम्

भवतां रक्षणार्थाय मया विष्णुर्नियोजितः
उमापतिश्च देवेशो योगक्षेमं करिष्यतः॥ ८३ ॥

विश्वास-प्रस्तुतिः

उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः
ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ॥ ८४ ॥

मूलम्

उपास्यमानौ सततं युष्मत्क्षेमकरौ यतः
ततः क्षेम्यौ सदा चैतौ भविष्येते वरप्रदौ॥ ८४ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः
अदर्शनं गते देवे सर्वलोकपितामहे॥ ८५ ॥

मूलम्

एवमुक्त्वा तु भगवान्जगाम गतिमात्मनः
अदर्शनं गते देवे सर्वलोकपितामहे॥ ८५ ॥

विश्वास-प्रस्तुतिः

देवलोकं गते शक्रे स्वं लोकं हरिशङ्करौ
प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च॥ ८६ ॥

मूलम्

देवलोकं गते शक्रे स्वं लोकं हरिशङ्करौ
प्राप्तौ तु तत्क्षणाद्देवौ स्थानं कैलासमेव च॥ ८६ ॥

विश्वास-प्रस्तुतिः

ततस्तु देवराजेन पालितं भुवनत्रयम्
एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात्॥ ८७ ॥

मूलम्

ततस्तु देवराजेन पालितं भुवनत्रयम्
एवं लक्ष्मीर्महाभागा उत्पन्ना क्षीरसागरात्॥ ८७ ॥

विश्वास-प्रस्तुतिः

पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी
श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा॥ ८८ ॥

मूलम्

पुनः ख्यात्यां समुत्पन्ना भृगोरेषा सनातनी
श्रिया सह समुत्पन्ना भृगुणा च महर्षिणा॥ ८८ ॥

विश्वास-प्रस्तुतिः

स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे
नर्मदायां महाराज ब्रह्मणा चानुमोदिता॥ ८९ ॥

मूलम्

स्वनाम्ना नगरी चैव कृता पूर्वं सरित्तटे
नर्मदायां महाराज ब्रह्मणा चानुमोदिता॥ ८९ ॥

विश्वास-प्रस्तुतिः

लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च
आगता देवलोकं साऽयाचतागत्य वै पुनः॥ ९० ॥

मूलम्

लक्ष्मीः पुरं स्वपित्रे स्वं सह कुञ्चिकयाऽप्य च
आगता देवलोकं साऽयाचतागत्य वै पुनः॥ ९० ॥

विश्वास-प्रस्तुतिः

लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः
भृगोः सकाशान्नावाप तदा चैवाह केशवम्॥ ९१ ॥

मूलम्

लोभान्न दत्तं तु पुरं प्रार्थयाना यदा पुनः
भृगोः सकाशान्नावाप तदा चैवाह केशवम्॥ ९१ ॥

विश्वास-प्रस्तुतिः

परिभूता तु पित्राहं गृहीतं नगरं मम
तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम्॥ ९२ ॥

मूलम्

परिभूता तु पित्राहं गृहीतं नगरं मम
तस्य हस्तात्त्वमाक्षिप्य पुरं तच्चानय स्वयम्॥ ९२ ॥

विश्वास-प्रस्तुतिः

तं गत्वा पुण्डरीकाक्षो देवश्चक्रगदाधरः
भृगुं सानुनयं प्राह कन्यायै पुरमर्पय॥ ९३ ॥

मूलम्

तं गत्वा पुण्डरीकाक्षो देवश्चक्रगदाधरः
भृगुं सानुनयं प्राह कन्यायै पुरमर्पय॥ ९३ ॥

विश्वास-प्रस्तुतिः

कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः
भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम्॥ ९४ ॥

मूलम्

कुञ्चिकातालिके चोभे दीयेतां च प्रसादतः
भृगुस्तं कुपितः प्राह नार्पयिष्याम्यहं पुरम्॥ ९४ ॥

विश्वास-प्रस्तुतिः

न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्
भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव॥ ९५ ॥

मूलम्

न लक्ष्म्यास्तत्पुरं देव मया चेदं स्वयं कृतम्
भगवन्नैव दास्यामि त्यजाक्षेपं तु केशव॥ ९५ ॥

विश्वास-प्रस्तुतिः

तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय
सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने॥ ९६ ॥

मूलम्

तं प्राह देवो भूयोपि लक्ष्म्यास्तत्पुरमर्पय
सर्वथा तु त्वया त्याज्यं वचनान्मे महामुने॥ ९६ ॥

विश्वास-प्रस्तुतिः

ततः कोपसमाविष्टो भृगुरप्याह केशवम्
पक्षपातेन मां साधो भार्याया बाधसेधुना॥ ९७ ॥

मूलम्

ततः कोपसमाविष्टो भृगुरप्याह केशवम्
पक्षपातेन मां साधो भार्याया बाधसेधुना॥ ९७ ॥

विश्वास-प्रस्तुतिः

नृलोके दशजन्मानि लप्स्यसे मधुसूदन
भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि॥ ९८ ॥

मूलम्

नृलोके दशजन्मानि लप्स्यसे मधुसूदन
भार्यायास्ते वियोगेन दुःखान्यनुभविष्यसि॥ ९८ ॥

विश्वास-प्रस्तुतिः

एवं शापं ददौ तस्मै भृगुः परमकोपनः
विष्णुना च पुनस्तस्य दत्तः शापो महात्मना॥ ९९ ॥

मूलम्

एवं शापं ददौ तस्मै भृगुः परमकोपनः
विष्णुना च पुनस्तस्य दत्तः शापो महात्मना॥ ९९ ॥

न चापत्यकृतां प्रीतिं प्राप्स्यसे मुनिपुङ्गव
शापं दत्त्वा ऋषेस्तस्य ब्रह्मलोकं जगाम ह१०० 1.4.100
पद्मजन्मानमाहेदं दृष्ट्वा देवस्तु केशवः
भगवंस्तव पुत्रोसौ भृगुः परमकोपनः१०१
निष्कारणं च तेनाहं शप्तो जन्मानि मानुषे
लप्स्यसे दशधा त्वं हि ततो दुःखान्यनेकशः१०२
भार्यावियोगजा पीडा बलपौरुषनाशिनी
त्यत्क्वा चाहमिमं लोकं शयिष्ये च महोदधौ१०३
देवकार्येषु सर्वेषु पुनश्चावाहनं क्रियाः
तथा ब्रुवन्तं तं देवं ब्रह्मा लोकगुरुस्तदा१०४
प्रसादनार्थं विष्णोस्तु स्तुतिमेतां चकार ह
त्वया सृष्टं जगदिदं पद्मं नाभौ विनिःसृतम्
तत्र चाहं समुत्पन्नस्तव वश्यश्च केशव१०५
त्वं त्राता सर्वलोकानां स्रष्टा त्वं जगतः प्रभो
त्रैलोक्यं न त्वया त्याज्यमेष एव वरो मम१०६
दशजन्ममनुष्येषु लोकानां हितकाम्यया
स्वयं कर्त्ता न ते शक्तः शापदानाय कोपि वा१०७
कोयं भृगुः कथं तेन शक्यं शप्तुं जनार्दन
मानयस्व सदा विप्रान्ब्राह्मणास्ते तनुस्स्वयम्१०८
योगनिद्रामुपास्व त्वं क्षीराब्धौ स्वपि हीश्वर
कार्यकाले पुनस्त्वां तु बोधयिष्यामि माधव१०९
भगवन्नेष तावत्तु त्वच्छक्त्या चोपबृंहितः
सर्वकार्यकरः शक्रस्तवैवांशेन शत्रुहा११०
त्रैलोक्यं पालयन्नेव त्वदाज्ञां स करिष्यति
एवं स्तुतस्तदा विष्णुर्ब्रह्माणमिदमुक्तवान्१११
सर्वमेतत्करिष्यामि यन्मां ज्ञापयसे प्रभो
अदर्शनं गतो देवो ब्रह्मा तं नाभिजज्ञिवान्११२
गते देवे तदा विष्णौ ब्रह्मा लोकपितामहः
भूयश्चकार वै सृष्टिं लोकानां प्रभवः प्रभुः११३
तं दृष्ट्वा नारदः प्राह वाक्यं वाक्यविदां वरः
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
सर्वव्यापी भुवः स्पर्शादध्यतिष्ठद्दशाङ्गुलम्११४
यद्भूतं यच्च वै भाव्यं सर्वमेव भवान्यतः
ततो विश्वमिदं तात त्वत्तो भूतं भविष्यति११५
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा
ऋचस्त्वत्तोथ सामानि त्वत्त एवाभिजज्ञिरे११६
त्वत्तो यज्ञास्त्वजायन्त त्वत्तो श्वाश्चैव दन्तिनः
गावस्त्वत्तः समुद्भूताः त्वत्तो जातावयोमृगाः११७
त्वन्मुखाद्ब्राह्मणा जातास्त्वत्तः क्षत्रमजायत
वैश्यास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः११८
अक्ष्णोः सूर्योनिलः श्रोत्राच्चन्द्रमा मनसस्तव
प्राणोन्तः सुषिराज्जातो मुखादग्निरजायत११९
नाभितो गगनं द्यौश्च शिरसः समवर्त्तत
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदम्१२०
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः
ससर्ज्ज विश्वमखिलं बीजभूते तथा त्वयि१२१
बीजाङ्कुरसमुद्भूतो न्यग्रोधः समुपस्थितः
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्१२२
यथा हि कदली नान्या त्वक्पत्रेभ्योऽभिदृश्यते
एवं विश्वमिदं नान्यत्त्वत्स्थमीश्वर दृश्यते१२३
ह्लादिनी त्वयि शक्तिस्सा त्वय्येका सहभाविनी
ह्लादतापकरीमिश्रा त्वयि नो गुणवर्जिते१२४
पृथग्भूतैकभूताय सर्वभूताय ते नमः
व्यक्तं प्रधानं पुरुषो विराट्सम्राट्तथा भवान्१२५
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक्
सर्वं त्वत्तः समुद्भूतं नमः सर्वात्मने ततः१२६
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः
कथयामि ततः किं ते सर्वं वेत्सि हृदिस्थितं१२७
यो मे मनोरथो देव सफलः स त्वया कृतः
तप्तं सुतप्तं सफलं यद्दृष्टोसि जगत्पते१२८
ब्रह्मोवाच
तपसस्तत्फलं पुत्र यद्दृष्टोहं त्वयाधुना
मद्दर्शनं हि विफलं नारदेह न जायते१२९
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः
सर्वं सम्पद्यते तात मयि दृष्टिपथं गते१३०
नारद उवाच
भगवन्सर्वभूतेश सर्वस्यास्ते भवान्हृदि
किमज्ञातं तव स्वामिन्मनसा यन्मयेप्सितम्१३१
कृता त्वया यथा सृष्टिर्मया दृष्टा तथा विभो
तेन मे कौतुकं जातं दृष्ट्वा देवर्षिदानवान्१३२
पुलस्त्य उवाच
नारदस्य पिता तुष्टो ब्रह्मा देवो दिवस्पतिः
नारदाय वरं प्रादादृषीणामुत्तमो भवान्१३३
भविता मत्प्रसादेन कलिकेलिकथाप्रियः
गतिश्च तेऽप्रतिहता दिवि भूमौ रसातले१३४
यज्ञोपवीतसूत्रेण योगपट्टावलम्बिका
छत्रिका च तथा वीणा अलङ्काराय तेनघ१३५
विष्णोः समीपे रुद्रस्य तथा शक्रस्य नारद
द्वीपेषु पार्थिवानां तु सदा प्रीतिं च लप्स्यसे१३६
वर्णानां तु भवान्शास्तावरोदत्तोमयातव
तिष्ठ पुत्र यथाकामं सेव्यमानः सुरैर्द्दिवि१३७