सूत उवाच
विश्वास-प्रस्तुतिः
नमस्ये सर्वलोकानां विश्वस्य जगतः पतिम्
य इमं कुरुते भावं सृष्टिरूपं प्रधानवित्॥ १ ॥
मूलम्
नमस्ये सर्वलोकानां विश्वस्य जगतः पतिम्
य इमं कुरुते भावं सृष्टिरूपं प्रधानवित्॥ १ ॥
विश्वास-प्रस्तुतिः
लोककृल्लोकतत्वज्ञो योगमास्थाय योगवित्
असृजत्सर्वभूतानि स्थावराणि चराणि च॥ २ ॥
मूलम्
लोककृल्लोकतत्वज्ञो योगमास्थाय योगवित्
असृजत्सर्वभूतानि स्थावराणि चराणि च॥ २ ॥
विश्वास-प्रस्तुतिः
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्
पुराणाख्यानजिज्ञासुर्व्रजामि शरणं विभुम्॥ ३ ॥
मूलम्
तमजं विश्वकर्माणं चित्पतिं लोकसाक्षिणम्
पुराणाख्यानजिज्ञासुर्व्रजामि शरणं विभुम्॥ ३ ॥
विश्वास-प्रस्तुतिः
ब्रह्मविष्णुगिरीशेभ्यो नमस्कृत्वा समाहितः
इन्द्राय लोकपालेभ्यः सवित्रे च समाधिना॥ ४ ॥
मूलम्
ब्रह्मविष्णुगिरीशेभ्यो नमस्कृत्वा समाहितः
इन्द्राय लोकपालेभ्यः सवित्रे च समाधिना॥ ४ ॥
विश्वास-प्रस्तुतिः
मुनीनां च वरिष्ठाय वसिष्ठाय महात्मने
तद्वक्त्रेभाततपसे जातूकर्ण्याय चाक्षुषे॥ ५ ॥
मूलम्
मुनीनां च वरिष्ठाय वसिष्ठाय महात्मने
तद्वक्त्रेभाततपसे जातूकर्ण्याय चाक्षुषे॥ ५ ॥
विश्वास-प्रस्तुतिः
तस्मै भगवते नत्वा वेदव्यासाय वेधसे
पुरुषाय पुराणाय भृगुवाक्यानुवर्तिने॥ ६ ॥
मूलम्
तस्मै भगवते नत्वा वेदव्यासाय वेधसे
पुरुषाय पुराणाय भृगुवाक्यानुवर्तिने॥ ६ ॥
विश्वास-प्रस्तुतिः
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः॥ ७ ॥
मूलम्
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः
सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः॥ ७ ॥
विश्वास-प्रस्तुतिः
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्
महदादिविशेषान्तं सृजतीति विनिश्चयः॥ ८ ॥
मूलम्
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्
महदादिविशेषान्तं सृजतीति विनिश्चयः॥ ८ ॥
विश्वास-प्रस्तुतिः
अण्डे हिरण्मये पूर्वं ब्रह्मणः सूतिरुत्तमा
अण्डस्यावरणं चाद्भिरपामपि च तेजसा॥ ९ ॥
मूलम्
अण्डे हिरण्मये पूर्वं ब्रह्मणः सूतिरुत्तमा
अण्डस्यावरणं चाद्भिरपामपि च तेजसा॥ ९ ॥
विश्वास-प्रस्तुतिः
वायुना तस्य वायोः खात्तद्भूतादित आवृतम्
भूतादिर्महता चापि अव्यक्तेनावृतो महान्॥ १० ॥
मूलम्
वायुना तस्य वायोः खात्तद्भूतादित आवृतम्
भूतादिर्महता चापि अव्यक्तेनावृतो महान्॥ १० ॥
विश्वास-प्रस्तुतिः
प्रादुर्भावश्च लोकानामण्ड एवोपवर्णितः
नदीनां पर्वतानां च प्रादुर्भावोनुवर्ण्यते॥ ११ ॥
मूलम्
प्रादुर्भावश्च लोकानामण्ड एवोपवर्णितः
नदीनां पर्वतानां च प्रादुर्भावोनुवर्ण्यते॥ ११ ॥
विश्वास-प्रस्तुतिः
मन्वन्तराणां सङ्क्षेपात्कल्पानां चोपवर्णनम्
ब्रह्मवृक्षलय ब्रह्मप्रजासर्गोपवर्णनम्॥ १२ ॥
मूलम्
मन्वन्तराणां सङ्क्षेपात्कल्पानां चोपवर्णनम्
ब्रह्मवृक्षलय ब्रह्मप्रजासर्गोपवर्णनम्॥ १२ ॥
विश्वास-प्रस्तुतिः
कल्पानां सञ्चरश्चैव जगतः स्थापनं तथा
शयनं च हरेरप्सु पृथिव्युद्धरणं पुनः॥ १३ ॥
मूलम्
कल्पानां सञ्चरश्चैव जगतः स्थापनं तथा
शयनं च हरेरप्सु पृथिव्युद्धरणं पुनः॥ १३ ॥
विश्वास-प्रस्तुतिः
दशधा जन्मसञ्चारो भृगुशापेन केशवे
सन्निवेशो युगादीनां सर्वाश्रमविभाजनम्॥ १४ ॥
मूलम्
दशधा जन्मसञ्चारो भृगुशापेन केशवे
सन्निवेशो युगादीनां सर्वाश्रमविभाजनम्॥ १४ ॥
विश्वास-प्रस्तुतिः
स्वर्गस्थानविभागश्च मर्त्यानां स्वर्गचारिणां
पशूनां पक्षिणां चैव सम्भवः परिकीर्त्तितः॥ १५ ॥
मूलम्
स्वर्गस्थानविभागश्च मर्त्यानां स्वर्गचारिणां
पशूनां पक्षिणां चैव सम्भवः परिकीर्त्तितः॥ १५ ॥
विश्वास-प्रस्तुतिः
तथा निर्वचनं कल्पं स्वाध्यायस्य परिग्रहः
प्रतिसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः॥ १६ ॥
मूलम्
तथा निर्वचनं कल्पं स्वाध्यायस्य परिग्रहः
प्रतिसर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः॥ १६ ॥
विश्वास-प्रस्तुतिः
त्रयोन्येऽबुद्धिपूर्वास्ते तथा लोकानकल्पयत्
ब्रह्मणो वदनेभ्यश्च भृग्वादीनां समुद्भवः॥ १७ ॥
मूलम्
त्रयोन्येऽबुद्धिपूर्वास्ते तथा लोकानकल्पयत्
ब्रह्मणो वदनेभ्यश्च भृग्वादीनां समुद्भवः॥ १७ ॥
विश्वास-प्रस्तुतिः
कल्पयोरन्तरं प्रोक्तं प्रतिसन्धिश्च सर्गयोः
भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम्॥ १८ ॥
मूलम्
कल्पयोरन्तरं प्रोक्तं प्रतिसन्धिश्च सर्गयोः
भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम्॥ १८ ॥
विश्वास-प्रस्तुतिः
वसिष्ठस्य च ब्रह्मर्षेर्ब्रह्मत्त्वं परिकीर्त्तितम्
स्वायम्भुवस्य च मनोस्ततश्चाप्यनुकीर्तनम्॥ १९ ॥
मूलम्
वसिष्ठस्य च ब्रह्मर्षेर्ब्रह्मत्त्वं परिकीर्त्तितम्
स्वायम्भुवस्य च मनोस्ततश्चाप्यनुकीर्तनम्॥ १९ ॥
विश्वास-प्रस्तुतिः
उक्तो नाभेर्विसर्गश्च रजसश्च महात्मनः
द्वीपानां च समुद्राणां पर्वतानां च कीर्तनम्॥ २० ॥
मूलम्
उक्तो नाभेर्विसर्गश्च रजसश्च महात्मनः
द्वीपानां च समुद्राणां पर्वतानां च कीर्तनम्॥ २० ॥
विश्वास-प्रस्तुतिः
द्वीपभेदसमुद्राणामन्तर्भावश्च सप्तसु
कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः॥ २१ ॥
मूलम्
द्वीपभेदसमुद्राणामन्तर्भावश्च सप्तसु
कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः॥ २१ ॥
विश्वास-प्रस्तुतिः
तदीयानि च वर्षाणि नदीभिः पर्वतैः सह
जम्बूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः॥ २२ ॥
मूलम्
तदीयानि च वर्षाणि नदीभिः पर्वतैः सह
जम्बूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः॥ २२ ॥
विश्वास-प्रस्तुतिः
अण्डस्यान्तस्त्विमेलोकाः सप्तद्वीपा च मेदिनी
सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा॥ २३ ॥
मूलम्
अण्डस्यान्तस्त्विमेलोकाः सप्तद्वीपा च मेदिनी
सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा॥ २३ ॥
विश्वास-प्रस्तुतिः
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम्
ब्रह्मणा निर्मितः सौरः स्यन्दनोर्थवशात्स्वयम्॥ २४ ॥
मूलम्
कीर्त्यते ध्रुवसामर्थ्यात्प्रजानां च शुभाशुभम्
ब्रह्मणा निर्मितः सौरः स्यन्दनोर्थवशात्स्वयम्॥ २४ ॥
विश्वास-प्रस्तुतिः
कल्पितो भगवांस्तेन प्रसर्पति दिवाकरः
सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रवर्त्तनं॥ २५ ॥
मूलम्
कल्पितो भगवांस्तेन प्रसर्पति दिवाकरः
सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रवर्त्तनं॥ २५ ॥
विश्वास-प्रस्तुतिः
कल्पितः शिंशुमारश्च यस्य पुच्छे ध्रुवः स्थितः
सम्भवान्ते च संहारः संहारान्ते च सम्भवः॥ २६ ॥
मूलम्
कल्पितः शिंशुमारश्च यस्य पुच्छे ध्रुवः स्थितः
सम्भवान्ते च संहारः संहारान्ते च सम्भवः॥ २६ ॥
विश्वास-प्रस्तुतिः
देवतानामृषीणां च मनोः पितृगणस्य च
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः॥ २७ ॥
मूलम्
देवतानामृषीणां च मनोः पितृगणस्य च
न शक्यं विस्तराद्वक्तुमित्युक्तं च समासतः॥ २७ ॥
विश्वास-प्रस्तुतिः
अतीतानागतानां वै समं स्वायम्भुवेन तु
मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनम्॥ २८ ॥
मूलम्
अतीतानागतानां वै समं स्वायम्भुवेन तु
मन्वन्तरेषु देवानां प्रजेशानां च कीर्तनम्॥ २८ ॥
विश्वास-प्रस्तुतिः
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः
त्रिविधः सर्वभूतानां कल्पितः प्रतिसञ्चरः॥ २९ ॥
मूलम्
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिकः स्मृतः
त्रिविधः सर्वभूतानां कल्पितः प्रतिसञ्चरः॥ २९ ॥
विश्वास-प्रस्तुतिः
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकानलः
मेघाश्चैकार्णवा ये तु तथा रात्रिर्महात्मनः॥ ३० ॥
मूलम्
अनावृष्टिर्भास्कराच्च घोरः संवर्त्तकानलः
मेघाश्चैकार्णवा ये तु तथा रात्रिर्महात्मनः॥ ३० ॥
विश्वास-प्रस्तुतिः
सन्ध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः
भूतानां चापि लोकानां सप्तानामनुवर्णनम्॥ ३१ ॥
मूलम्
सन्ध्यालक्षणमुद्दिष्टं तथा ब्राह्मं विशेषतः
भूतानां चापि लोकानां सप्तानामनुवर्णनम्॥ ३१ ॥
विश्वास-प्रस्तुतिः
सङ्कीर्त्यं ते मया चात्र पापानां रौरवादयः
सर्वेषामेव सत्वानां परिणामविनिर्णयः॥ ३२ ॥
मूलम्
सङ्कीर्त्यं ते मया चात्र पापानां रौरवादयः
सर्वेषामेव सत्वानां परिणामविनिर्णयः॥ ३२ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणः प्रतिसर्गश्च सर्वसंहारवर्णनम्
कल्पेकल्पे च भूतानां महतामपि सङ्क्षयः॥ ३३ ॥
मूलम्
ब्रह्मणः प्रतिसर्गश्च सर्वसंहारवर्णनम्
कल्पेकल्पे च भूतानां महतामपि सङ्क्षयः॥ ३३ ॥
विश्वास-प्रस्तुतिः
सुसङ्ख्याय च बुद्ध्वा वै ब्रह्मणश्चाप्यनित्यताम्
दौरात्म्यं चैव भोगानां संसारस्य च कष्टताम्॥ ३४ ॥
मूलम्
सुसङ्ख्याय च बुद्ध्वा वै ब्रह्मणश्चाप्यनित्यताम्
दौरात्म्यं चैव भोगानां संसारस्य च कष्टताम्॥ ३४ ॥
विश्वास-प्रस्तुतिः
दुर्ल्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्
व्यक्ताव्यक्तं परित्यज्य सत्वं ब्रह्मणि संस्थितम्॥ ३५ ॥
मूलम्
दुर्ल्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनम्
व्यक्ताव्यक्तं परित्यज्य सत्वं ब्रह्मणि संस्थितम्॥ ३५ ॥
विश्वास-प्रस्तुतिः
नानात्व दर्शनात्सुस्थस्ततस्तदभिवर्त्तते
ततस्तापत्रयातीतो विरूपाख्यो निरञ्जनः॥ ३६ ॥
मूलम्
नानात्व दर्शनात्सुस्थस्ततस्तदभिवर्त्तते
ततस्तापत्रयातीतो विरूपाख्यो निरञ्जनः॥ ३६ ॥
विश्वास-प्रस्तुतिः
आनन्दं ब्रह्मणः प्राप्तो न बिभेति कुतश्चन
इति कृत्य समुद्देशः प्रमाणस्योपवर्णितः॥ ३७ ॥
मूलम्
आनन्दं ब्रह्मणः प्राप्तो न बिभेति कुतश्चन
इति कृत्य समुद्देशः प्रमाणस्योपवर्णितः॥ ३७ ॥
विश्वास-प्रस्तुतिः
कीर्त्यन्ते जगतो यत्र सर्गप्रलयविक्रियाः
प्रवृत्तिश्चापि भूतानां निवृत्तीनां फलानि च॥ ३८ ॥
मूलम्
कीर्त्यन्ते जगतो यत्र सर्गप्रलयविक्रियाः
प्रवृत्तिश्चापि भूतानां निवृत्तीनां फलानि च॥ ३८ ॥
विश्वास-प्रस्तुतिः
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च
सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च॥ ३९ ॥
मूलम्
प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च
सौदासान्निग्रहस्तस्य विश्वामित्रकृतेन च॥ ३९ ॥
विश्वास-प्रस्तुतिः
पराशरस्य चोत्पत्तिरदृश्यन्त्यां यथा विभोः
जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः॥ ४० ॥
मूलम्
पराशरस्य चोत्पत्तिरदृश्यन्त्यां यथा विभोः
जज्ञे पितॄणां कन्यायां व्यासश्चापि यथा मुनिः॥ ४० ॥
विश्वास-प्रस्तुतिः
शुकस्य च यथा जन्म पुत्रस्य सह धीमतः
पराशरस्य विद्वेषो विश्वामित्रकृतो यथा॥ ४१ ॥
मूलम्
शुकस्य च यथा जन्म पुत्रस्य सह धीमतः
पराशरस्य विद्वेषो विश्वामित्रकृतो यथा॥ ४१ ॥
विश्वास-प्रस्तुतिः
वसिष्ठसम्भृतश्चाग्निर्विश्वामित्रजिघांसया
सन्धानहेतोर्विभुना जीर्णः कण्वेन धीमता॥ ४२ ॥
मूलम्
वसिष्ठसम्भृतश्चाग्निर्विश्वामित्रजिघांसया
सन्धानहेतोर्विभुना जीर्णः कण्वेन धीमता॥ ४२ ॥
विश्वास-प्रस्तुतिः
देवेन विप्रा विप्राणां विश्वामित्रहितैषिणा
एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः॥ ४३ ॥
मूलम्
देवेन विप्रा विप्राणां विश्वामित्रहितैषिणा
एकं वेदं चतुःपादं चतुर्धा पुनरीश्वरः॥ ४३ ॥
विश्वास-प्रस्तुतिः
यथा बिभेद भगवान् व्यासः सर्वेष्वनुग्रहात्
तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः॥ ४४ ॥
मूलम्
यथा बिभेद भगवान् व्यासः सर्वेष्वनुग्रहात्
तस्य शिष्यप्रशिष्यैश्च शाखाभेदाः पुनः कृताः॥ ४४ ॥
विश्वास-प्रस्तुतिः
प्रयागे मुनिवर्यैश्च यथा पृष्टः स्वयं प्रभुः
कृष्णेन चानुशिष्टास्ते मुनयो धर्मकाङ्क्षिणः॥ ४५ ॥
मूलम्
प्रयागे मुनिवर्यैश्च यथा पृष्टः स्वयं प्रभुः
कृष्णेन चानुशिष्टास्ते मुनयो धर्मकाङ्क्षिणः॥ ४५ ॥
विश्वास-प्रस्तुतिः
एतत्सर्वं यथातत्वमाख्यातं द्विजसत्तमाः
मुनीनां धर्मनित्यानां लोकतन्त्रमनुत्तमम्॥ ४६ ॥
मूलम्
एतत्सर्वं यथातत्वमाख्यातं द्विजसत्तमाः
मुनीनां धर्मनित्यानां लोकतन्त्रमनुत्तमम्॥ ४६ ॥
विश्वास-प्रस्तुतिः
ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने
पुलस्त्येनाथ भीष्माय गङ्गाद्वारे प्रभाषितम्॥ ४७ ॥
मूलम्
ब्रह्मणा यत्पुरा प्रोक्तं पुलस्त्याय महात्मने
पुलस्त्येनाथ भीष्माय गङ्गाद्वारे प्रभाषितम्॥ ४७ ॥
विश्वास-प्रस्तुतिः
धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्
कीर्तनं श्रवणं चास्य धारणं च विशेषतः॥ ४८ ॥
मूलम्
धन्यं यशस्यमायुष्यं सर्वपापप्रणाशनम्
कीर्तनं श्रवणं चास्य धारणं च विशेषतः॥ ४८ ॥
विश्वास-प्रस्तुतिः
सूतेनानुक्रमेणेदं पुराणं सम्प्रकाशितम्
ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम्॥ ४९ ॥
मूलम्
सूतेनानुक्रमेणेदं पुराणं सम्प्रकाशितम्
ब्राह्मणेषु पुरा यच्च ब्रह्मणोक्तं सविस्तरम्॥ ४९ ॥
विश्वास-प्रस्तुतिः
पादमस्य विदन्सम्यग्योधीयीत जितेन्द्रियः
तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्र संशयः५० 1.2.50
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः
पुराणं च विजानाति यः स तस्माद्विचक्षणः॥ ५१ ॥

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति॥ ५२ ॥
मूलम्
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति॥ ५२ ॥
विश्वास-प्रस्तुतिः
अधीत्य चैकमध्यायं स्वयं प्रोक्तं स्वयम्भुवा
आपदः प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम्॥ ५३ ॥
मूलम्
अधीत्य चैकमध्यायं स्वयं प्रोक्तं स्वयम्भुवा
आपदः प्राप्य मुच्येत यथेष्टां प्राप्नुयाद्गतिम्॥ ५३ ॥
विश्वास-प्रस्तुतिः
पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम्
निरुक्तिमस्य यो वेद सर्वपापैः प्रमुच्यते॥ ५४ ॥
मूलम्
पुरा परम्परां वक्ति पुराणं तेन वै स्मृतम्
निरुक्तिमस्य यो वेद सर्वपापैः प्रमुच्यते॥ ५४ ॥
विश्वास-प्रस्तुतिः
ऋषयोह्यब्रुवन्सूतं कथं भीष्मेण सङ्गतः
ब्रह्मणो मानसः पुत्रः पुलस्त्यो भगवानृषिः॥ ५५ ॥
मूलम्
ऋषयोह्यब्रुवन्सूतं कथं भीष्मेण सङ्गतः
ब्रह्मणो मानसः पुत्रः पुलस्त्यो भगवानृषिः॥ ५५ ॥
विश्वास-प्रस्तुतिः
दुर्लभं दर्शनं यस्य नरैः पापसमन्वितैः
अत्याश्चर्यमिदं सूत क्षत्रियेण कथं मुनिः॥ ५६ ॥
मूलम्
दुर्लभं दर्शनं यस्य नरैः पापसमन्वितैः
अत्याश्चर्यमिदं सूत क्षत्रियेण कथं मुनिः॥ ५६ ॥
विश्वास-प्रस्तुतिः
आराधितो बृहद्भूतस्तन्नो वद महामते
कीदृशं वा तपस्तेन को वान्यो नियमः कृतः॥ ५७ ॥
मूलम्
आराधितो बृहद्भूतस्तन्नो वद महामते
कीदृशं वा तपस्तेन को वान्यो नियमः कृतः॥ ५७ ॥
विश्वास-प्रस्तुतिः
येन तुष्टो मुनिर्ब्राह्मस्तथा तेन प्रभाषितः
पर्वं वाप्यथ पर्वार्धं समग्रं वा प्रभाषितम्॥ ५८ ॥
मूलम्
येन तुष्टो मुनिर्ब्राह्मस्तथा तेन प्रभाषितः
पर्वं वाप्यथ पर्वार्धं समग्रं वा प्रभाषितम्॥ ५८ ॥
विश्वास-प्रस्तुतिः
यस्मिन्स्थाने यथादृष्टः पुलस्त्यो भगवानृषिः
तन्नो वद महाभाग कल्याः स्म श्रवणे वयम्॥ ५९ ॥
मूलम्
यस्मिन्स्थाने यथादृष्टः पुलस्त्यो भगवानृषिः
तन्नो वद महाभाग कल्याः स्म श्रवणे वयम्॥ ५९ ॥
विश्वास-प्रस्तुतिः
सूत उवाच
यत्र गङ्गा महाभागा साधूनां हितकारिणी
विभिद्य पर्वतं वेगान्निःसृता लोकपावनी॥ ६० ॥
मूलम्
सूत उवाच
यत्र गङ्गा महाभागा साधूनां हितकारिणी
विभिद्य पर्वतं वेगान्निःसृता लोकपावनी॥ ६० ॥
विश्वास-प्रस्तुतिः
गङ्गाद्वारे महातीर्थे भीष्मः पितृपरायणः
शुश्रूषुः सुचिरं कालं महतां नियमे स्थितः॥ ६१ ॥
मूलम्
गङ्गाद्वारे महातीर्थे भीष्मः पितृपरायणः
शुश्रूषुः सुचिरं कालं महतां नियमे स्थितः॥ ६१ ॥
विश्वास-प्रस्तुतिः
यावद्वर्षशतं साग्रं परमेण समाधिना
ध्यायमानः परं ब्रह्म त्रिकालं स्नानमाचरत्॥ ६२ ॥
मूलम्
यावद्वर्षशतं साग्रं परमेण समाधिना
ध्यायमानः परं ब्रह्म त्रिकालं स्नानमाचरत्॥ ६२ ॥
विश्वास-प्रस्तुतिः
पितॄन्देवांस्तर्पयतः स्वाध्यायेन महात्मनः
आत्मानं कर्षतश्चास्य तुष्टो देवः पितामहः॥ ६३ ॥
मूलम्
पितॄन्देवांस्तर्पयतः स्वाध्यायेन महात्मनः
आत्मानं कर्षतश्चास्य तुष्टो देवः पितामहः॥ ६३ ॥
विश्वास-प्रस्तुतिः
उवाच तनयं ब्रह्मा पुलस्त्यमृषिसत्तमम्
स त्वं देवव्रतं भीष्मं वीरं कुरुकुलोद्भवम्॥ ६४ ॥
मूलम्
उवाच तनयं ब्रह्मा पुलस्त्यमृषिसत्तमम्
स त्वं देवव्रतं भीष्मं वीरं कुरुकुलोद्भवम्॥ ६४ ॥
विश्वास-प्रस्तुतिः
तपसः सन्निवर्त्तस्व कारणं चास्य कीर्त्तय
पितॄन्भक्त्या महाभागो ध्यायमानस्समास्थितः॥ ६५ ॥
मूलम्
तपसः सन्निवर्त्तस्व कारणं चास्य कीर्त्तय
पितॄन्भक्त्या महाभागो ध्यायमानस्समास्थितः॥ ६५ ॥
विश्वास-प्रस्तुतिः
यो ह्यस्य मनसः कामस्तं सम्पादयमाचिरम्
पितामहवचः श्रुत्वा पुलस्त्यो मुनिसत्तमः॥ ६६ ॥
मूलम्
यो ह्यस्य मनसः कामस्तं सम्पादयमाचिरम्
पितामहवचः श्रुत्वा पुलस्त्यो मुनिसत्तमः॥ ६६ ॥
विश्वास-प्रस्तुतिः
गङ्गाद्वारमथागत्य भीष्मं वचनमब्रवीत्
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते॥ ६७ ॥
मूलम्
गङ्गाद्वारमथागत्य भीष्मं वचनमब्रवीत्
वरं वरय भद्रं ते यत्ते मनसि वर्त्तते॥ ६७ ॥
विश्वास-प्रस्तुतिः
तुष्टस्ते तपसा वीर साक्षाद्देवः पितामहः
ब्रह्मणा प्रेषितस्तेहं वरान्दास्यामि काङ्क्षितान्॥ ६८ ॥
मूलम्
तुष्टस्ते तपसा वीर साक्षाद्देवः पितामहः
ब्रह्मणा प्रेषितस्तेहं वरान्दास्यामि काङ्क्षितान्॥ ६८ ॥
विश्वास-प्रस्तुतिः
भीष्मोपि तद्वचः श्रुत्वा मनःश्रोत्रसुखावहम्
उन्मील्य नयने दृष्ट्वा पुलस्त्यं पुरतः स्थितम्॥ ६९ ॥
मूलम्
भीष्मोपि तद्वचः श्रुत्वा मनःश्रोत्रसुखावहम्
उन्मील्य नयने दृष्ट्वा पुलस्त्यं पुरतः स्थितम्॥ ६९ ॥
विश्वास-प्रस्तुतिः
अष्टाङ्गप्रणिपातेन नत्वा तं मुनिसत्तमम्
उवाच प्रणतो भूत्वा सर्वाङ्गालिङ्गितावनिः॥ ७० ॥
मूलम्
अष्टाङ्गप्रणिपातेन नत्वा तं मुनिसत्तमम्
उवाच प्रणतो भूत्वा सर्वाङ्गालिङ्गितावनिः॥ ७० ॥
विश्वास-प्रस्तुतिः
अद्य मे सफलं जन्म दिनं चेदं सुशोभनम्
भवतश्चरणौ दृष्टौ जगद्वन्द्यौ मया त्विह॥ ७१ ॥
मूलम्
अद्य मे सफलं जन्म दिनं चेदं सुशोभनम्
भवतश्चरणौ दृष्टौ जगद्वन्द्यौ मया त्विह॥ ७१ ॥
विश्वास-प्रस्तुतिः
तपसश्च फलं प्राप्तं यद्दृष्टोभगवान्मया
वरप्रदो विशेषेण सम्प्राप्तश्च नदीतटे॥ ७२ ॥
मूलम्
तपसश्च फलं प्राप्तं यद्दृष्टोभगवान्मया
वरप्रदो विशेषेण सम्प्राप्तश्च नदीतटे॥ ७२ ॥
विश्वास-प्रस्तुतिः
इयं ब्रसी मया क्लप्ता आस्यतां सुखदा कृता
अर्घ्यपात्रे तु पालाशे दूर्वाक्षतसुमैः कुशैः॥ ७३ ॥
मूलम्
इयं ब्रसी मया क्लप्ता आस्यतां सुखदा कृता
अर्घ्यपात्रे तु पालाशे दूर्वाक्षतसुमैः कुशैः॥ ७३ ॥
विश्वास-प्रस्तुतिः
सर्षपैश्च दधिक्षौद्रैर्यवैश्च पयसा सह
अष्टाङ्गो ह्येष निर्द्दिष्टो ह्यर्घो हि मुनिभिः पुरा॥ ७४ ॥
मूलम्
सर्षपैश्च दधिक्षौद्रैर्यवैश्च पयसा सह
अष्टाङ्गो ह्येष निर्द्दिष्टो ह्यर्घो हि मुनिभिः पुरा॥ ७४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वैतद्वचनं तस्य भीष्मस्यामिततेजसः
उपविष्टो ब्रह्मसुतः पुलस्त्यो भगवानृषिः॥ ७५ ॥
मूलम्
श्रुत्वैतद्वचनं तस्य भीष्मस्यामिततेजसः
उपविष्टो ब्रह्मसुतः पुलस्त्यो भगवानृषिः॥ ७५ ॥
विश्वास-प्रस्तुतिः
विष्टरं सहपाद्येन अर्घपात्रं मुदान्वितः
जुजोष भगवान्प्रीतः सदाचारेण तेन तु॥ ७६ ॥
मूलम्
विष्टरं सहपाद्येन अर्घपात्रं मुदान्वितः
जुजोष भगवान्प्रीतः सदाचारेण तेन तु॥ ७६ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
सत्यवान्दानशीलोसि सत्यसन्धिर्नरेश्वरः
ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तः शत्रुशासने॥ ७७ ॥
मूलम्
पुलस्त्य उवाच
सत्यवान्दानशीलोसि सत्यसन्धिर्नरेश्वरः
ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तः शत्रुशासने॥ ७७ ॥
विश्वास-प्रस्तुतिः
धर्मज्ञस्त्वं कृतज्ञस्त्वं दयावान्प्रियभाषिता
मान्यमानयिता विज्ञो ब्रह्मण्यः साधुवत्सलः॥ ७८ ॥
मूलम्
धर्मज्ञस्त्वं कृतज्ञस्त्वं दयावान्प्रियभाषिता
मान्यमानयिता विज्ञो ब्रह्मण्यः साधुवत्सलः॥ ७८ ॥
विश्वास-प्रस्तुतिः
तुष्टस्तेहं सदा वत्स प्रणिपातपरस्य वै
प्रब्रूहि त्वं महाभाग कथनं ते वदाम्यहम्॥ ७९ ॥
मूलम्
तुष्टस्तेहं सदा वत्स प्रणिपातपरस्य वै
प्रब्रूहि त्वं महाभाग कथनं ते वदाम्यहम्॥ ७९ ॥
विश्वास-प्रस्तुतिः
भीष्म उवाच
भगवन्भगवान्ब्रह्मा कस्मिन्काले स्थितो विभुः
सृष्टिं चकार वै पूर्वं देवादीनां वदस्व मे॥ ८० ॥
मूलम्
भीष्म उवाच
भगवन्भगवान्ब्रह्मा कस्मिन्काले स्थितो विभुः
सृष्टिं चकार वै पूर्वं देवादीनां वदस्व मे॥ ८० ॥
विश्वास-प्रस्तुतिः
स्थितिं वा भगवान्विष्णुः कथं रुद्रस्तु निर्मितः
कथं वा ऋषयो देवास्सृष्टास्तेन महात्मना॥ ८१ ॥
मूलम्
स्थितिं वा भगवान्विष्णुः कथं रुद्रस्तु निर्मितः
कथं वा ऋषयो देवास्सृष्टास्तेन महात्मना॥ ८१ ॥
विश्वास-प्रस्तुतिः
कथं पृथ्वी कथं व्योम कथं चेमे तु सागराः
कथं द्वीपाः पर्वताश्च ग्रामारण्यपुराणि च॥ ८२ ॥
मूलम्
कथं पृथ्वी कथं व्योम कथं चेमे तु सागराः
कथं द्वीपाः पर्वताश्च ग्रामारण्यपुराणि च॥ ८२ ॥
विश्वास-प्रस्तुतिः
मुनीन्प्रजापतींश्चैव सप्तर्षीन्प्रवरानपि
वर्णान्वायुं पुरास्थानं गन्धर्वान्यक्षराक्षसान्॥ ८३ ॥
मूलम्
मुनीन्प्रजापतींश्चैव सप्तर्षीन्प्रवरानपि
वर्णान्वायुं पुरास्थानं गन्धर्वान्यक्षराक्षसान्॥ ८३ ॥
विश्वास-प्रस्तुतिः
तीर्थानि सरितो वाथ सूर्यादीन्ग्रहतारकान्
यथा ससर्ज भगवांस्तथा मे त्वं वदस्व ह॥ ८४ ॥
मूलम्
तीर्थानि सरितो वाथ सूर्यादीन्ग्रहतारकान्
यथा ससर्ज भगवांस्तथा मे त्वं वदस्व ह॥ ८४ ॥
विश्वास-प्रस्तुतिः
पुलस्त्य उवाच
परः पराणां परमः परमात्मा पितामहः
रूपवर्णादिरहितो विशेषण विवर्जितः॥ ८५ ॥
मूलम्
पुलस्त्य उवाच
परः पराणां परमः परमात्मा पितामहः
रूपवर्णादिरहितो विशेषण विवर्जितः॥ ८५ ॥
विश्वास-प्रस्तुतिः
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः
गुणैर्विवर्जितः सर्वैः स भातीति हि केवलम्॥ ८६ ॥
मूलम्
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः
गुणैर्विवर्जितः सर्वैः स भातीति हि केवलम्॥ ८६ ॥
विश्वास-प्रस्तुतिः
सर्वत्रासौ समश्चापि वसन्ननुपमो मतः
भावयन्ब्रह्मरूपेण विद्वद्भिः परिपठ्यते॥ ८७ ॥
मूलम्
सर्वत्रासौ समश्चापि वसन्ननुपमो मतः
भावयन्ब्रह्मरूपेण विद्वद्भिः परिपठ्यते॥ ८७ ॥
विश्वास-प्रस्तुतिः
तं गुह्यं परमं नित्यमजमक्षयमव्ययम्
तथा पुरुषरूपेण कालरूपेण संस्थितम्॥ ८८ ॥
मूलम्
तं गुह्यं परमं नित्यमजमक्षयमव्ययम्
तथा पुरुषरूपेण कालरूपेण संस्थितम्॥ ८८ ॥
विश्वास-प्रस्तुतिः
तं नत्वाहं प्रवक्ष्यामि यथा सृष्टिं चकार ह
पूर्वं तु पद्मशयनादुत्थाय जगतःप्रभुः॥ ८९ ॥
मूलम्
तं नत्वाहं प्रवक्ष्यामि यथा सृष्टिं चकार ह
पूर्वं तु पद्मशयनादुत्थाय जगतःप्रभुः॥ ८९ ॥
विश्वास-प्रस्तुतिः
गुणव्यञ्जनसम्भूतः सर्गकाले नराधिप
सात्विको राजसश्चैव तामसश्च त्रिधा महान्॥ ९० ॥
मूलम्
गुणव्यञ्जनसम्भूतः सर्गकाले नराधिप
सात्विको राजसश्चैव तामसश्च त्रिधा महान्॥ ९० ॥
विश्वास-प्रस्तुतिः
प्रधानतत्वेन समं तथा बीजादिभिर्वृतः
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः॥ ९१ ॥
मूलम्
प्रधानतत्वेन समं तथा बीजादिभिर्वृतः
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः॥ ९१ ॥
विश्वास-प्रस्तुतिः
त्रिविधोयमहङ्कारो महत्तत्त्वादजायत
भूतेन्द्रियाणां पञ्चानां तथा कर्मेन्द्रियैः सह॥ ९२ ॥
मूलम्
त्रिविधोयमहङ्कारो महत्तत्त्वादजायत
भूतेन्द्रियाणां पञ्चानां तथा कर्मेन्द्रियैः सह॥ ९२ ॥
विश्वास-प्रस्तुतिः
पृथिव्यापस्तथातेजो वायुराकाशमेव च
एकैकशः स्वरूपेण कथयामि यथोत्तरम्॥ ९३ ॥
मूलम्
पृथिव्यापस्तथातेजो वायुराकाशमेव च
एकैकशः स्वरूपेण कथयामि यथोत्तरम्॥ ९३ ॥
विश्वास-प्रस्तुतिः
शब्दमात्रमथाकाशं भूतादिः खं समावृणोत्
अथाकाशं विकुर्वाणं स्पर्शमात्रं ससर्ज ह॥ ९४ ॥
मूलम्
शब्दमात्रमथाकाशं भूतादिः खं समावृणोत्
अथाकाशं विकुर्वाणं स्पर्शमात्रं ससर्ज ह॥ ९४ ॥
विश्वास-प्रस्तुतिः
बलवानेष वै वायुस्तस्य स्पर्शो गुणो मतः
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्॥ ९५ ॥
मूलम्
बलवानेष वै वायुस्तस्य स्पर्शो गुणो मतः
आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोत्॥ ९५ ॥
विश्वास-प्रस्तुतिः
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह
ज्योतीरूपन्तु तद्वायुस्तद्रूपगुणमुच्यते॥ ९६ ॥
मूलम्
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह
ज्योतीरूपन्तु तद्वायुस्तद्रूपगुणमुच्यते॥ ९६ ॥
विश्वास-प्रस्तुतिः
स्पर्शरूपस्तु वै वायू रूपमात्रं समावृणोत्
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह॥ ९७ ॥
मूलम्
स्पर्शरूपस्तु वै वायू रूपमात्रं समावृणोत्
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह॥ ९७ ॥
विश्वास-प्रस्तुतिः
सम्भवन्ति ततोम्भांसि रूपमात्रं समावृणोत्
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे॥ ९८ ॥
मूलम्
सम्भवन्ति ततोम्भांसि रूपमात्रं समावृणोत्
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे॥ ९८ ॥
विश्वास-प्रस्तुतिः
सङ्घातो जायते तस्मात्तस्य गन्धो मतो गुणः
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश॥ ९९ ॥
मूलम्
सङ्घातो जायते तस्मात्तस्य गन्धो मतो गुणः
तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश॥ ९९ ॥
एकादशम्मनश्चात्र देवा वैकारिकाः स्मृताः
त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्चमम्१०० 1.2.100
एतेषां तु मतं कृत्यं शब्दादि ग्रहणं पुनः
वाक्पाणिपादपायूनि चोपस्थं तत्र पञ्चमम्१०१
विसर्गशिल्पगत्युक्तिर्गुणा एषां विपर्ययात्
आकाश वायु तेजांसि सलिलं पृथिवी तथा१०२
शब्दादिभिर्गुणैर्वीर युक्तानीत्युत्तरोत्तरैः
शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः१०३
नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः१०४
समेत्यान्योन्यसंयोगात्परस्परसमाश्रयात्
एकसङ्घातलक्षाश्च सम्प्राप्यैक्यमशेषतः१०५
पुरुषाधिष्ठितत्वाच्च व्यक्तानुग्रहणे तथा
महदादयो विशेषान्ता ह्यण्डमुत्पादयन्ति वै१०६
तत्क्रमेण विवृत्तं तु जलबुद्बुदवत्समम्
तत्राव्यक्तस्वरूपोसौ व्यक्तरूपी जनार्दनः१०७
ब्रह्माब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः१०८
गर्भोदकं समुद्राश्च तस्यासंश्च महात्मनः
तत्र द्वीपास्समुद्राश्च सज्योतिर्लोकसङ्ग्रहः१०९
तस्मिन्नण्डेऽभवन्वीर सदेवासुरमानुषाः
वारि वह्न्यनिलाकाशैर्वृतैर्भूतादिना बहिः११०
वृतं दशगुणैरण्डं भूतादिर्महता तथा
अव्यक्तेनावृतो राजंस्तैः सर्वैः सहितो महान्१११
एभिरावरणैः सर्वैः सर्वभूतैश्च संयुतम्
नारिकेलफलं यद्वद्बीजं बाह्यदलैरिव११२
ब्रह्मा स्वयं च जगतो विसृष्टौ सम्प्रवर्त्तते
सृष्टिं च पात्यनुयुगं यावत्कल्पविकल्पना११३
स सञ्ज्ञां याति भगवानेक एव जनार्दनः
सत्वभुग्गुणवान्देवो ह्यप्रमेय पराक्रमः११४
तमोद्रेकं च कल्पान्ते रूपं रौद्रं करोति च
राजेन्द्राखिलभूतानि भक्षयत्यतिभीषणः११५
भक्षयित्वा च भूतानि जगत्येकार्णवीकृते
नागपर्यङ्कशयने शेते सर्वस्वरूपधृक्११६
प्रबुद्धश्च पुनः सृष्टिं प्रकरोति च रूपधृक्
सृष्टिस्थित्यन्तकरणाद्ब्रह्मविष्णुशिवात्मकः११७
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च
उपसंह्रियते चापि संहर्त्ता च स्वयं प्रभुः११८
पृथिव्यापस्तथा तेजो वायुराकाशमेव च
स एव सर्वभूतेशो विश्वरूपो यतोव्ययः११९
सर्गादिकं ततोस्यैव भूतस्थमुपकारकम्
स एव सृज्यः स च सर्गकर्त्ता स एव पाल्यं प्रतिपाल्यते यतः
ब्रह्माद्यवस्थाभिरशेषमूर्त्तिर्ब्रह्मा वरिष्ठो वरदो वरेण्यः१२०