स्वच्छं चन्द्रावदातं करिकरमकरक्षोभसञ्जातफेनं
विश्वास-प्रस्तुतिः
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः
कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं वः पुनातु॥ १ ॥
मूलम्

सूतमेकान्तमासीनं व्यासशिष्यं महामतिः
लोमहर्षणनामा वा उग्रश्रवसमाह तत्॥ २ ॥
मूलम्
सूतमेकान्तमासीनं व्यासशिष्यं महामतिः
लोमहर्षणनामा वा उग्रश्रवसमाह तत्॥ २ ॥
विश्वास-प्रस्तुतिः
ऋषीणामाश्रमांस्तात गत्वा धर्मान्समासतः
पृच्छतां विस्तराद्ब्रूहि यन्मत्तः श्रुतवानसि॥ ३ ॥

वेदव्यासान्मया पुत्र पुराणान्यखिलानि च
तवाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तरात्॥ ४ ॥

प्रयागे मुनिवर्यैश्च यथापृष्टः स्वयं प्रभुः
पृष्टेन चानुशिष्टास्ते मुनयो धर्मकाङ्क्षिणः॥ ५ ॥

देशं पुण्यमभीप्सन्तो विभुना च हितैषिणा
सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमं॥ ६ ॥

अनौपम्यमिदं चक्रं वर्तमानमतन्द्रिताः
पृष्टतो यातनियमात्पदं प्राप्स्यथ यद्धितम्॥ ७ ॥

गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते
पुण्यः स देशो मन्तव्य इत्युवाच स्वयं प्रभुः॥ ८ ॥

उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमगात्पुनः
गङ्गावर्तसमाहारो नेमिर्यत्र व्यशीर्यत॥ ९ ॥

ईजिरे दीर्घसत्रेण ऋषयो नैमिषे तदा
तत्र गत्वा तु तान्ब्रूहि पृच्छतो धर्मसंशयान्॥ १० ॥

उग्रश्रवास्ततो गत्वा ज्ञानविन्मुनिपुङ्गवान्
अभिगम्योपसङ्गृह्य नमस्कृत्वा कृताञ्जलिः॥ ११ ॥

तोषयामास मेधावी प्रणिपातेन तानृषीन्
ते चापि सत्रिणः प्रीताः ससदस्या महात्मने॥ १२ ॥

तस्मै समेत्य पूजां च यथावत्प्रतिपेदिरे
ऋषय ऊचुः
कुतस्त्वमागतः सूत कस्माद्देशादिहागतः॥ १३ ॥

कारणं चागमे ब्रूहि वृन्दारकसमद्युते
सूत उवाच
पित्राहं तु समादिष्टो व्यासशिष्येण धीमता॥ १४ ॥

शुश्रूषस्व मुनीन्गत्वा यत्ते पृच्छन्ति तद्वद
वदन्तु भगवन्तो मां कथयामि कथां तु यां॥ १५ ॥

पुराणं चेतिहासं वा धर्मानथ पृथग्विधान्
तां गिरं मधुरां तस्य शुश्रुवुर्ऋषिसत्तमाः॥ १६ ॥

अथ तेषां पुराणस्य शुश्रूषा समपद्यत
दृष्ट्वा तमतिविश्वस्तं विद्वांसं लौमहर्षणिं॥ १७ ॥

तस्मिन्सत्रे कुलपतिस्सर्वशास्त्राविशारदः
शौनको नाम मेधावी विज्ञानारण्यके गुरुः॥ १८ ॥

इत्थं तद्भावमालम्ब्य धर्माञ्छुश्रूषुराह तम्
त्वया सूत महाबुद्धे भगवान्ब्रह्मवित्तमः॥ १९ ॥

इतिहासपुराणार्थं व्यासः सम्यगुपासितः
दुदोहिथमतिं तस्य त्वं पुराणाश्रयां शुभां॥ २० ॥

अमीषां विप्रमुख्यानां पुराणं प्रति सम्प्रति
शुश्रूषाऽस्ते महाबुद्धे तछ्रावयितुमर्हसि॥ २१ ॥

सर्वे हीमे महात्मानो नानागोत्राः समागताः
स्वान्स्वानंशान्पुराणोक्ताञ्छृण्वन्तु ब्रह्मवादिनः॥ २२ ॥

सम्पूर्णे दीर्घसत्रेस्मिंस्तांस्त्वं श्रावय वै मुनीन्
पाद्मं पुराणं सर्वेषां कथयस्व महामते॥ २३ ॥

कथं पद्मं समुद्भूतं ब्रह्म तत्र कथं न्वभूत्
प्रोद्भूतेन कथं सृष्टिः कृता तां तु तथा वद॥ २४ ॥

एवं पृष्टस्ततस्तांस्तु प्रत्युवाच शुभां गिरम्
सूक्ष्मं च न्यायसंयुक्तं प्राब्रवीद्रौमहर्षणिः॥ २५ ॥

प्रीतोस्म्यनुगृहीतोस्मि भवद्भिरिह चोदनात्
पुराणार्थं पुराणज्ञैः सर्वधर्मपरायणैः॥ २६ ॥

यथाश्रुतं सुविख्यातं तत्सर्वं कथयामि वः
धर्म एष तु सूतस्य सद्भिर्दृष्टः सनातनः॥ २७ ॥

देवतानामृषीणां च राज्ञां चामिततेजसाम्
वंशानां धारणं कार्यं स्तुतीनां च महात्मनाम्॥ २८ ॥

इतिहासपुराणेषु दृष्टा ये ब्रह्मवादिनः
न हि वेदेष्वधीकारः कश्चित्सूतस्य दृश्यते॥ २९ ॥

वैन्यस्य हि पृथोर्यज्ञे वर्त्तमाने महात्मनः
मागधश्चैव सूतश्च तमस्तौतां नरेश्वरम्॥ ३० ॥

तुष्टेनाथ तयोर्द्दत्तो वरो राज्ञा महात्मना
सूताय सूतविषयो मगधो मागधाय च॥ ३१ ॥

तत्र सूत्यां समुत्पन्नः सूतो नामेह जायते
ऐन्द्रे सत्रे प्रवृत्ते तु ग्रहयुक्ते बृहस्पतौ॥ ३२ ॥

तमेवेन्द्रं बार्हस्पत्ये तत्र सूतो व्यजायत
शिष्यहस्तेन यत्पृक्तमभिभूतं गुरोर्हविः॥ ३३ ॥

अधरोत्तरधारेण जज्ञे तद्वर्णसङ्करम्
येत्र क्षत्रात्समभवन्ब्राह्मण्याश्चैव योनितः॥ ३४ ॥

पूर्वेणैव तु साधर्म्याद्वैधर्मास्ते प्रकीर्तिताः
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीविनः॥ ३५ ॥

पुराणेष्वधिकारो मे विहितो ब्राह्मणैरिह
दृष्ट्वा धर्ममहं पृष्टो भवद्भिर्ब्रह्मवादिभिः॥ ३६ ॥

तस्मात्सम्यग्भुवि ब्रूयां पुराणमृषिपूजितम्
पितॄणां मानसी कन्या वासवं समपद्यत॥ ३७ ॥

अपध्याता च पितृभिर्मत्स्यगर्भे बभूव सा
अरणीव हुताशस्य निमित्तं पुण्यजन्मनः॥ ३८ ॥

तस्यां बभूव पूतात्मा महर्षिस्तु पराशरात्
तस्मै भगवते कृत्वा नमः सत्याय वेधसे॥ ३९ ॥

पुरुषाय पुराणाय ब्रह्मवाक्यानुवर्तिने
मानवच्छद्मरूपाय विष्णवे शंसितात्मने॥ ४० ॥

जातमात्रं च यं वेद उपतस्थे ससङ्ग्रहः
मतिमन्थानमाविध्य येनासौ श्रुतिसागरात्॥ ४१ ॥

प्रकाशो जनितो लोके महाभारत चन्द्रमाः
भारतं भानुमान्विष्णुर्यदि न स्युरमी त्रयः॥ ४२ ॥

ततोऽज्ञानतमोन्धस्य कावस्था जगतो भवेत्
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्॥ ४३ ॥

को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्
तस्मादहमुपाश्रौषं पुराणं ब्रह्मवादिनः॥ ४४ ॥

सर्वज्ञात्सर्वलोकेषु पूजिताद्दीप्ततेजसः
पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम्॥ ४५ ॥

उत्तमं सर्वलोकानां सर्वज्ञानोपपादकम्
त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम्॥ ४६ ॥

निःशेषेषु च लोकेषु वाजिरूपेण केशवः
ब्रह्मणस्तु समादेशाद्वेदानाहृतवानसौ॥ ४७ ॥

अङ्गानि चतुरो वेदान्पुराणन्यायविस्तरम्
असुरेणाखिलं शास्त्रमपहृत्यात्मसात्कृतम्॥ ४८ ॥

मत्स्यरूपेणाजहार कल्पादावुदकार्णवे
अशेषमेतदवददुदकान्तर्गतो विभुः॥ ४९ ॥
मूलम्
मत्स्यरूपेणाजहार कल्पादावुदकार्णवे
अशेषमेतदवददुदकान्तर्गतो विभुः॥ ४९ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा जगाद च मुनीन्प्रतिवेदांश्चतुर्मुखः
प्रवृत्तिस्सर्वशास्त्राणां पुराणस्याभवत्तदा५० 1.1.50
कालेनाग्रहणं दृष्ट्वा पुराणस्य तदा विभुः
व्यासरूपस्तदा ब्रह्मा सङ्ग्रहार्थं युगे युगे॥ ५१ ॥

चतुर्लक्षप्रमाणेन द्वापरे द्वापरे जगौ
तदाष्टादशधा कृत्वा भूलोकेस्मिन्प्रकाशितं॥ ५२ ॥

अद्यापि देवलोकेषु शतकोटिप्रविस्तरम्
तदेवात्र चतुर्लक्षं सङ्क्षेपेण निवेशितम्॥ ५३ ॥

प्रवक्ष्यामि महापुण्यं पुराणं पाद्मसञ्ज्ञितम्
सहस्रं पञ्चपञ्चाशत्पञ्चखण्डैस्समन्वितम्॥ ५४ ॥

तत्रादौ सृष्टिखण्डं स्याद्भूमिखण्डं ततः परम्
स्वर्गखण्डं ततः पश्चात्ततः पातालखण्डकम्॥ ५५ ॥

पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम्
एतदेव महापद्ममुद्भूतं यन्मयं जगत्॥ ५६ ॥
मूलम्
पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम्
एतदेव महापद्ममुद्भूतं यन्मयं जगत्॥ ५६ ॥
विश्वास-प्रस्तुतिः
तद्वृत्तान्ताश्रयं यस्मात्पाद्ममित्युच्यते ततः
एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम्॥ ५७ ॥

देवदेवो हरिर्यद्वै ब्रह्मणे प्रोक्तवान्पुरा
ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये॥ ५८ ॥

एतदेव च वै ब्रह्मा पाद्मं लोके जगाद वै
सर्वभूताश्रयं तच्च पाद्ममित्युच्यते बुधैः॥ ५९ ॥

पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते
पञ्चभिः पर्वभिः प्रोक्तं सङ्क्षेपाद्व्यासकारितात्॥ ६० ॥

पौष्करं प्रथमं पर्व यत्रोत्पन्नः स्वयं विराट्
द्वितीयं तीर्थपर्व स्यात्सर्वग्रहगणाश्रयम्॥ ६१ ॥

तृतीयपर्वग्रहणा राजानो भूरिदक्षिणाः
वंशानुचरितं चैव चतुर्थे परिकीर्तितम्॥ ६२ ॥

पञ्चमे मोक्षतत्वं च सर्वतत्वं निगद्यते
पौष्करे नवधा सृष्टिः सर्वेषां ब्रह्मकारिता॥ ६३ ॥

देवतानां मुनीनां च पितृसर्गस्तथापरः
द्वितीये पर्वताश्चैव द्वीपाः सप्त ससागराः॥ ६४ ॥

तृतीये रुद्रसर्गस्तु दक्षशापस्तथैव च
चतुर्थे सम्भवो राज्ञां सर्ववंशानुकीर्त्तनम्॥ ६५ ॥

अन्त्येपवर्गसंस्थानं मोक्षशास्त्रानुकीर्त्तनम्
सर्वमेतत्पुराणेऽस्मित्कथयिष्यामि वो द्विजाः॥ ६६ ॥

इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात् इदं च देवस्य सुखाय नित्यमिदं महापातकभिच्च पुंसाम्६७