०८१

वसुरुवाच ॥
यदेतत्कीर्तितं देवि तीर्थमाहात्म्यमुत्तमम् ॥
तल्लभस्व महाभागे चरित्वा तीर्थमण्डलम् ॥ ८१-१ ॥

अहं ब्रह्माणमामन्त्र्य पितरं ते नरेश्वरि ॥
वृन्दावनमुपागम्य चरिष्यामि मृगैः सह ॥ ८१-२ ॥

सूत उवाच ॥
इत्युक्त्वा मोहिनीं विप्रा वसुस्तस्याः पुरोहितः ॥
सत्कृत्य पूजितोऽभीक्ष्णं ब्रह्मलोकं ययौ तथा ॥ ८१-३ ॥

स गत्वा तत्र धातारं ब्रह्मणं जगतां विधिम् ॥
प्रणम्य मोहिनीवृत्तं तं कार्त्स्न्येन न्यवेदयत् ॥ ८१-४ ॥

तच्छ्रुत्वा वचनं ब्रह्मा ब्राह्मणस्य वसोर्द्विजाः ॥
प्रसन्नः प्राह तं वत्स सुकृतं हि त्वया कृतम् ॥ ८१-५ ॥

या मया मोहिनी विप्र देवकार्यार्थमात्मजा ॥
नियुक्ताऽकृतकार्या सा त्वया शप्ता क्षयं गता ॥ ८१-६ ॥

भूयो ममाज्ञया वत्सत्वया सजीविताधुना ॥
नीता कृतार्थतां तस्मात्कोऽन्यस्त्वत्तोऽधिकः कृती ॥ ८१-७ ॥

यत्त्वया मह्ममाख्यातं मोहिनीवृत्तमुत्तमम् ॥
प्रसन्नस्तेन दास्यामि ब्रूहि तुभ्यं वरं द्विज ॥ ८१-८ ॥

इत्युक्तः स द्विजस्तेन ब्रह्मणा लोकभाविना ॥
प्रणम्य वव्रे स वरं वृन्दारण्यनिवासनम् ॥ ८१-९ ॥

तच्छ्रुत्वा जगतां धाता स्मयमानचतुर्मुखः ॥
प्राह प्रप्रन्नार्तिहरस्तथास्त्विति मुनीश्वराः ॥ ८१-१० ॥

स प्रणम्य विधातारं वसुर्हृष्टमनास्ततः ॥
वृन्दावनमुपाव्रज्य तपश्चक्रे समाहितः ॥ ८१-११ ॥

तपतस्तस्य तु वसोः संवत्सरगणा द्विजाः ॥
व्यतीयुः पञ्चसाहस्रास्ततस्तुष्टो हरिः स्वयम् ॥ ८१-१२ ॥

गोपैः प्रियसखैर्द्वित्रैर्युतोऽभ्याह द्विजोत्तमम् ॥
ब्रूहि किं वृणुषे विप्र तुष्टोऽहं तपसा तव ॥ ८१-१३ ॥

ततः स वसुरुत्थाय अष्टाङ्गालिङ्गितावनिः ॥
प्राह वृन्दावने देव वासमिच्छामि सर्वदा ॥ ८१-१४ ॥

अथ विष्णुर्द्विजश्रेष्ठा वरं तद्वाञ्छितं ददौ ॥
तेनाभिवन्दितो भूयो ह्यन्तर्धानमुपागतः ॥ ८१-१५ ॥

स द्विजस्तत्प्रभृत्येवं स्वेच्छारूपधरः स्थितः ॥
चिन्तयन्सततं देवं वृन्दारण्यकुतूहलम् ॥ ८१-१६ ॥

कदाचिद्यमुनातीरे निविष्टस्तं विचिन्तयन् ॥
ददर्श नारदं प्राप्तं वृन्दारण्यं विधेः सुतम् ॥ ८१-१७ ॥

स तं दृष्ट्वा नमस्कृत्य परमं गुरुमात्मनः ॥
प्रपच्छ विविधान्धर्मान् भगवद्भक्तिवर्द्धनान् ॥ ८१-१८ ॥

स तेनैवं सुसम्पृष्टो नारदोऽध्यात्मदर्शनः ॥
तस्मै प्रोवाच निखिलं भविष्यच्चरितं हरेः ॥ ८१-१९ ॥

एकदाहं गतो विप्र देवं कैसासवासिनम् ॥
द्रष्टुं प्रष्टुं भविष्यच्च वृन्दावन रहस्यकम् ॥ ८१-२० ॥

ततः प्रण्यम्य देवेशं ततः सिद्धैः समावृतम् ॥
महेशं स्वमहिव्याप्तसर्वब्रह्माण्डगोलकम् ॥ ८१-२१ ॥

अपृच्छमीप्सितं भद्रं स मां प्राह स्मयन्हरः ॥
वैधात्र यत्त्वया पृष्टं हरेर्वृत्तमनागतम् ॥ ८१-२२ ॥

तत्ते ब्रवीमि यत्पूर्वं श्रुतं सुरभिवक्त्रतः ॥
एकदा सुरभिर्दृष्टा मया गोलोकमध्यगा ॥ ८१-२३ ॥

स्वसन्तानसमायुक्ता सुप्रीना स्निग्धमानसा ॥
ततः पृष्टा भविष्यार्थे गवां माता पयस्विनी ॥ ८१-२४ ॥

मह्यं प्रोवाच देवर्षे भविष्यच्चरितं हरेः ॥
सुखमास्तेऽधुना देवः कृष्णो गधासमन्वितः ॥ ८१-२५ ॥

गोलोकेऽस्मिन्महेशान गोपगोपीसुखावहः ॥
स कदाचिद्धरालोके माथुरे मण्डले शिव ॥ ८१-२६ ॥

आविर्भूयाद्भुतां क्रीडां वृन्दाग्ण्ये करिष्यति ॥
वृपभानुसुता राधा श्रीदामानं हरेः प्रियम् ॥ ८१-२७ ॥

सखायं विरजागेहद्वाःस्थं क्रुद्धा शपिष्यति ॥
ततः सोऽपि महाभाग राधां प्रतिशपिष्यति ॥ ८१-२८ ॥

याहि त्वं मानुषं लोकं मिथः शापाद्धरां ततः ॥
प्राप्स्यत्यथ हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ ॥ ८१-२९ ॥

भूभारहरणायैव वासुदेवो भविष्यति ॥
वसुदेवगृहे जन्म प्राप्य यादवनन्दनः ॥ ८१-३० ॥

कंसासुरभिया पश्चाद्व्रजं नन्दस्य यास्यति ॥
तत्र यातो हरिः प्राप्तां पूतनां बालघातिनीम् ॥ ८१-३१ ॥

वियोजयिष्यति प्राणैश्चक्रवातं च दानवम् ॥
वत्सासुरं महाकायं हनिष्यति सुरार्द्दनम् ॥ ८१-३२ ॥

दमित्वा कालियं नागं यम्या उच्चाटयिष्यति ॥
दुःसहं धेनुकं हत्वा वकं नद्वदघासुरम् ॥ ८१-३३ ॥

दावं प्रदावं च तेथा प्रलम्बं च हनिष्यति ॥
ब्रह्मणमिन्द्रं वरुणं प्रमत्तौ धनदात्मजो ॥ ८१-३४ ॥

विमदान्स विधायेषो हनिष्यति वृपासुरम् ॥
शङ्खचू डङ्केशिनं च व्योमं हत्वा व्रजे वसन् ॥ ८१-३५ ॥

एकादश समास्तत्र गोपीभिः क्रीडायिष्यति ॥
ततश्च मथुरां प्राप्य रजकं सन्निहत्य च ॥ ८१-३६ ॥

कुब्जामृज्वीं ततः कृत्वा धनुर्भङ्क्त्वा गजोत्तमम् ॥
हत्वा कुवलयापीडं मल्लांश्चाणूरकादिकान् ॥ ८१-३७ ॥

कंसं स्वमातुलं कृष्णो हनिष्यति ततः परम् ॥
विमुच्य पितरौ बद्धौ यवनेशं निहत्य च ॥ ८१-३८ ॥

जरासन्ध भयात्कृष्णो द्वारकायां समुष्यति ॥
रुक्मिणीं सत्यभामां च सत्यां जाम्बवतीं तथा ॥ ८१-३९ ॥

कैकेयीं लक्ष्मणां मित्रविन्दां कालिन्दिकां विभुः ॥
दारान्षोडशसाहस्रान्भौमं हत्वोद्वहिष्यति ॥ ८१-४० ॥

पौण्ड्रकं शिशुपालं च दन्तवक्त्रं विदूरथम् ॥
शाल्वं च हत्वा द्विविदं बल्वलं घातयिष्यति ॥ ८१-४१ ॥

वज्रनाभं सुनाभं च सार्द्धं वै षट्पुरालयैः ॥
त्रिशरीरं ततो दैत्यं हनिष्यति वरोर्ज्जितम् ॥ ८१-४२ ॥

कौखान्पाण्डवांश्चापि निमित्तमितरेतरम् ॥
कृत्वा हनिष्यति शिव भूभारहरमोत्सुकः ॥ ८१-४३ ॥

यदून्यदुभिग्न्योन्यं संहबृत्य स्वकुलं हरिः ॥
पुनरेतन्निजं धाम समेष्यति च सानुगः ॥ ८१-४४ ॥

एतत्तेऽभिहितं शम्भो भविष्यच्चरितं हरेः ॥
गच्छ द्रक्ष्यसि तत्सर्वं जगतीतलगे हरौ ॥ ८१-४५ ॥

तच्छ्रुत्वां सुरभेर्वाक्यं भृशं प्रीतो विधातृज ॥
स्वस्थानं पुनरायातस्तुभ्यं चापि मयोदितम् ॥ ८१-४६ ॥

त्वं च द्रक्ष्यसि कालेन चरितं गोकुलेशितुः ॥
तच्छ्रुत्वा शूलिनो वाक्यं वसुर्दृष्टतनूरुहः ॥ ८१-४७ ॥

गायन्माद्यन् विभुं तन्त्र्या रमयाम्यातुरं जगत् ॥
एतद्भविष्यत्कथितं मया तुभ्यं द्विजोत्तम ॥ ८१-४८ ॥

यथा तु गौतमस्तद्वदहं चापि हिते रतः ॥

सूत उवाच ॥
इत्युक्त्वा नारदस्तस्मै वसवे स द्विजन्मने ॥ ८१-४९ ॥

जगाम वीणा रणयंश्चिन्तयन्यदनन्दनम् ॥
स वसुस्तद्वचः श्रुत्वा व्रजे सुप्रीतमानसः ॥ ८१-५० ॥

उवास सर्वदा विप्राः कृष्णक्रीडेक्षणोत्सुकः ॥ ८१-५१ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे वसुचरित्रनिरूपणं नामैकाशीतितमोऽध्यायः ॥ ८१ ॥