अथ वृन्दावनमाहात्म्यम् ॥
मोहिन्युवाच ॥
मथुरायास्तु माहात्म्यं वनानां चापि मानद ॥
श्रुतं बृन्दावनस्यापि रहस्यं किञ्चिदीरय ॥ ८०-१ ॥
वृन्दारण्यं भुवो ब्रह्मन्कीर्तिरूपं रहोगतम् ॥
तच्छ्रोतुं मम वाञ्छास्ति तन्निरूपय विस्तरात् ॥ ८०-२ ॥
वसु रुवाच ॥
श्रृणु देवि रहस्यं मे वृन्दारण्यसमुद्भवम् ॥
यन्न कस्मैचिदाख्यातं मया प्राप्य गुरूत्तमात् ॥ ८०-३ ॥
गुरवे कथितं भद्रे नारदेन महात्मना ॥
वृन्दया नारदायोक्तं रहस्यं गोपिकापतेः ॥ ८०-४ ॥
तत्तेऽहं सम्प्रवक्ष्यामि जगदुद्धारकारणम् ॥
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः ॥ ८०-५ ॥
बृन्दारण्यं समासाद्य तस्थौ पुष्पसरस्तटे ॥
पश्चिमोत्तरतो देवि माथुरे मण्डले स्थितम् ॥ ८०-६ ॥
बृन्दारण्यं तुरीयांशं गोपिकेशरःस्थलम् ॥
गोवर्द्धनोयत्र गिरिः सखिस्थलसमीपतः ॥ ८०-७ ॥
बृन्दायास्तत्तपोऽरण्यं नन्दिग्रामानुयामुनम् ॥
तटे तु यामुने रम्ये रम्यं बृन्दावनं सति ॥ ८०-८ ॥
पुण्यं तत्रापि सुभगे सुपुण्यं कौसुमं सरः ॥
वृन्दायास्तु तटे रम्ये आश्रमोऽतिसुखावहः ॥ ८०-९ ॥
नित्यं विश्रमते यत्र मध्याह्ने सखिभिर्हरिः ॥
मुहूर्तं स तु विश्रम्य स्निग्धच्छायतरोस्तले ॥ ८०-१० ॥
शीतलं पुष्पसरसो वार्युपस्पृश्य नारदः ॥
कृत्वा माध्याह्निकं कर्म तस्थौ तत्र सरस्तटे ॥ ८०-११ ॥
तत्र वृन्दाश्रमे रम्ये गोप्यो गोपाश्च मोहिनि ॥
आयान्ति वर्गशो यान्ति नारदस्य विपश्यतः ॥ ८०-१२ ॥
अथैवं याममेकं तु तत्र स्थित्वा तु नारदः ॥
प्रहरार्द्धावशिष्टेऽह्नि विवेशाश्रममद्भुतम् ॥ ८०-१३ ॥
यत्र वृन्दा स्थिता देवी कृष्णभक्तिपरायणा ॥
समागतानां सत्कारं विदधाना फलादिभिः ॥ ८०-१४ ॥
तां दृष्ट्वा तापसीं भद्रे नारदः साधुसम्मतः ॥
नमस्कृत्य विनम्राङ्गो निषसाद धरातले ॥ ८०-१५ ॥
ततः सा ध्यानयोगान्ते समुन्मील्य विलोचने ॥
आसनं सन्दिदेशाथोऽतिथये नारदाय वै ॥ ८०-१६ ॥
ततः स नारदस्तत्र सत्कृतो वृन्दयावसत् ॥
रहस्यं गोपिकेशस्य तस्या जिज्ञासुरादरात् ॥ ८०-१७ ॥
तया कृतां सत्कृतिं तु स्वीकृत्य विधिनन्दनः ॥
सुप्रसन्नान्तरां वृन्दां ज्ञात्वा हार्दं व्यजिज्ञपत् ॥ ८०-१८ ॥
सा तु तद्वाञ्छितं ज्ञात्वा ध्यानयोगेन भामिनि ॥
स्वसखीं माधवीं तत्र समाहूयाब्रवीदिदम् ॥ ८०-१९ ॥
माधवि प्रियमेतस्य नारदस्य महात्मनः ॥
सम्पादय यथा मह्यमाश्रमस्य सुपुण्यता ॥ ८०-२० ॥
स्वाश्रमं ह्यागतस्चैव यो न सम्पादयेत्प्रियम् ॥
निष्फलो ह्याश्रमस्तस्य फेरुराजगृहोपमः ॥ ८०-२१ ॥
अथ सा माधवी देवी नीत्वा नारदमाज्ञया ॥
स्वाधिष्ठात्र्यास्तु वृन्दायाः सरसस्तटमुत्तमम् ॥ ८०-२२ ॥
पश्चिमोत्तरतस्तस्मिन्स्नातुं तं सन्दिदेश ह ॥
ततस्तदाज्ञया भद्रे नारदो देवदर्शनः ॥ ८०-२३ ॥
निममज्जं जले तस्मिन्ध्यायञ्छ्रीकृष्णसङ्गमम् ॥
निमज्जमाने सरसि नारदे मुनिसत्तमे ॥ ८०-२४ ॥
ययौ वृन्दान्तिकं भद्रे संविधाय तदीप्सितम् ॥
अथासौ नारदस्तत्र सन्निमज्योद्गतस्तदा ॥ ८०-२५ ॥
ददर्श निजमात्मानं वनितारूपमद्भुतम् ॥
ततस्तु परितो वीक्ष्य नारदी सा शुचिस्मिता ॥ ८०-२६ ॥
पूर्वोत्तरायां तिष्ठन्ती आह्वयन्ती करेङ्गितैः ॥
ददर्श वनितां रम्यां भूषितां भूषणोत्तमैः ॥ ८०-२७ ॥
ततस्तया समाहूता नारदी सा तदन्तिकम् ॥
प्राप्ता विश्वासिता स्वस्था नीता चापि स्थलान्तरम् ॥ ८०-२८ ॥
रत्नप्राकारखचिते भवने वनिताकुले ॥
प्रापय्य तां निवृत्तासौ सापि ताभिः सुसत्कृता ॥ ८०-२९ ॥
विशाखादिसखीवृन्दैराश्वास्याऽऽल्यैकया ततः ॥
प्रापिताभ्यन्तरं देवि सापश्यद्गोपिकेश्वरम् ॥ ८०-३० ॥
दूत्यां तस्यां निवृत्तायां समाहूता प्रियेण सा ॥
नारदी प्रणिपत्येशं लज्जानम्रान्तिकं ययौ ॥ ८०-३१ ॥
रसिकेन समाश्लिष्य रमयित्वा विसर्ज्जिता ॥
क्रमेणैव तु सम्प्राप्ता सा पुनः कौसुमं सरः ॥ ८०-३२ ॥
सा पुनस्तत्र माधव्या मज्जिता तक्षपश्चिमे ॥
पुम्भावमभिसम्प्राप्तो नारदो विस्मितोऽभवत् ॥ ८०-३३ ॥
ततो वृन्दाज्ञया तत्र सरसः पूर्वदक्षिणे ॥
एकान्तं तप आस्थाय तस्थौ तत्प्रेक्षणोत्सुकः ॥ ८०-३४ ॥
एवं तपस्यतस्तस्य नारदस्य महात्मनः ॥
वृन्दया प्रेषितैर्वृन्त्तिं निजां कल्पयतः फलैः ॥ ८०-३५ ॥
एकदा नारदस्तत्र विचरन्नाश्रमान्तरे ॥
शुश्राव सौभगं शब्दं कयाचित्समुदीरितम् ॥ ८०-३६ ॥
तच्छ्रुत्वा कौतुकाविष्टो नारदोऽध्यात्मदर्शनः ॥
विचिन्वन्वनमास्थाय न ददर्श च तत्पदम् ॥ ८०-३७ ॥
ततः स विस्मयाविष्टो वृन्दां पप्रच्छ सादरम् ॥
सापि तस्मै समाचख्यौ कुब्जावृत्तान्तमादितः ॥ ८०-३८ ॥
भूम्यन्तरगृहस्थाना कुब्जा नारी वरा विभोः ॥
काममेकान्तके स्वेशं समुपाचरति स्वयम् ॥ ८०-३९ ॥
न तां कोऽपि मुनिश्रेष्ठ विजानाति मया विना ॥
ततः सङ्क्षेपतो वक्ष्ये यां दिदृक्षुस्तपोऽचरः ॥ ८०-४० ॥
प्रातः प्रबोधितो मात्रा स्नात्वा भुक्त्वानुगान्वितः ॥
गोचारणाय विपिने वृन्दावन उपाविशत् ॥ ८०-४१ ॥
सखिभिर्गोपकैः क्रीडां कुर्वन्संवारयंश्च गाः ॥
द्वित्रैः प्रियसखैरत्र ममाश्रम उपाव्रजत् ॥ ८०-४२ ॥
मया प्रकल्पितैर्वत्सभवने सार्वकामिके ॥
फलमूलादिभिर्भक्ष्यैस्तर्पितः प्रिययाऽस्वपगत् ॥ ८०-४३ ॥
सुसख्या राधया तत्र सेव्यमानो व्रजप्रियः ॥
सार्द्धयामं विहरति निकुञ्जेषु पृथक् पृथक् ॥ ८०-४४ ॥
राधादिभिस्तत्र सुप्तो वीजितः शयनं गतः ॥
सार्द्धयामे स्वयं बुद्धो निजाः सम्मान्य ताः प्रियाः ॥ ८०-४५ ॥
गोपैर्गोभिर्वृतः सायं व्रजं याति प्रहर्षितः ॥
सख्यः सखिस्थलं प्राप्य प्रियां सञ्चय राधिकाम् ॥ ८०-४६ ॥
तया सह विशालाक्ष्यः स्वगेहान्यान्ति चान्वहम् ॥
एवं गतागतं कुर्वल्लीँलां नित्यमुपागतः ॥ ८०-४७ ॥
मयैव दृश्यते वत्स नापि ब्रह्मभवादिभिः ॥
मयाप्यलक्षितं वत्स कुब्जासङ्केतवैभवम् ॥ ८०-४८ ॥
प्रीतप्रियोक्त्या जानामि सुगोप्यं प्रवदामि ते ॥
अङ्गरागार्पणात्पुण्यात्प्राप्ता सङ्केतमुत्तमम् ॥ ८०-४९ ॥
सदा सा सेवनव्यग्रा सैकैकेनाप्यनेकधा ॥
शतकोटिमितान्येवं मिथुनानि वसन्ति हि ॥ ८०-५० ॥
कुब्जाकृष्णानुरूपाणि नानाक्रीडापराणि च ॥
सम्भूतान्याद्यमिथुनात्स्थावरं भावयन्त्यपि ॥ ८०-५१ ॥
गतागतविहीनानि नित्यं नवनवानि च ॥
तदगम्यं तृतीयस्य द्वितीयस्यैकतां गतम् ॥ ८०-५२ ॥
रूपं विलक्षणं विप्र सृष्टिस्थितिलयैकलम् ॥
एकैवाहं विजानामि श्रुत्वा त्वमप्यथा ॥ ८०-५३ ॥
दग्धः षट्कर्णगो मन्त्र इत्युक्तं समुपाचर ॥
श्रुत्वैतद्दुर्लभं सोऽपि वृन्दोक्त्या नारदो मुनिः ॥ ८०-५४ ॥
उभयं चिन्तयन्प्राप्तो मुनिस्तत्रैव तत्परम् ॥
एतद्रहस्यं विधिजे विषयं गुरुशिष्ययोः ॥ ८०-५५ ॥
नैव कोऽप्यपरो वेत्ति धर्मः सैवावयोरपि ॥
एक एव विजानाति वक्तुः श्रोतैकतः शुभे ॥ ८०-५६ ॥
तदेकं तत्त्वमेवास्ति नेह नानास्ति किञ्चन ॥
गदितं ते महाभागे रहस्यं गोपिकेशितुः ॥ ८०-५७ ॥
प्रकाशच्चरितं चापि वक्ष्ये सम्यङ्निशामय ॥
यत्र सन्दर्शितं तत्त्वं त्वत्पित्रे विधिनन्दिनि ॥ ८०-५८ ॥
तद्ब्रह्मकुण्डमेतद्धि पुण्यं वृन्दावने वने ॥
तत्र यः स्नाति मनुजो मूलवेषं विभावयन् ॥ ८०-५९ ॥
वैभवं पश्यते किञ्चिदेवं नित्यविहारिणः ॥
शक्रेण ज्ञाततत्त्वेन गोविन्दो यत्र चिन्तितः ॥ ८०-६० ॥
गोविन्दकुण्डं तद्भदे स्नात्वा तत्रापि तल्लभेत् ॥
एकानेकस्वरूपेण यत्र कुञ्जविहारिणा ॥ ८०-६१ ॥
बल्लवीभिः समारब्धो रासस्तदपि तद्विधम् ॥
यत्र नन्दादयो गोपा ददृशुर्वैभवं विभोः ॥ ८०-६२ ॥
तच्च तत्त्वप्रकाशाख्यं तीर्थँ श्रीयमुनाजले ॥
दर्शितं यत्र गोपानां कालियस्य विमर्दनम् ॥ ८०-६३ ॥
तच्च पुण्यं समाख्यातं तीर्थं पापापहं नृणाम् ॥
दावाग्नेर्मोचिता यत्र सस्त्रीबालधनार्भकाः ॥ ८०-६४ ॥
गोपाः कृष्णेन तत्पुण्यं तीर्थं स्नानादघापहम् ॥
यत्र केशी हतस्तेन लीलयैव हयाकृतिः ॥ ८०-६५ ॥
तत्र स्नातस्तु मनुजो लभते धाम वैष्णवम् ॥
यत्र दुष्टो वृषस्तेन हतस्तत्राभवच्छुचिः ॥ ८०-६६ ॥
अरिष्टकुण्डं विख्यातं स्नानमात्रेण मुक्तिदम् ॥
धेनुकोऽघो बको वत्सो व्योमो लम्बासुरोऽपि च ॥ ८०-६७ ॥
हताः कृष्णेन लीलासु तत्र तीर्थानि यान्यपि ॥
तेषु स्नात्वा नरो भक्तः सन्तर्प्य पितृदेवताः ॥ ८०-६८ ॥
लभते वाञ्छितान्कामान् गोपालस्य प्रसादतः ॥
सुप्तं भुक्तं विचरितं श्रुतं दृष्टं विलक्षणम् ॥ ८०-६९ ॥
कृतं यत्र च तत्क्षेत्रं स्नानात्स्वर्गगतिप्रदम् ॥
श्रुतः सञ्चिन्तितो दृष्टो नतः श्लिष्टः स्तुतोऽर्थितः ॥ ८०-७० ॥
यत्र पुण्यनरैर्भद्रे तच्च तीर्थं गतिप्रदम् ॥
यत्र श्रीराधया भद्रे तपस्तप्तं सुदारुणम् ॥ ८०-७१ ॥
तच्छ्रीकुण्डं महत्पुण्यं स्नाने दाने जपादिके ॥
वत्सतीर्थं चन्द्रसरस्तथैवाप्सरसां सरः ॥ ८०-७२ ॥
रुद्रकुण्डं कामकुण्डं परमं मन्दिरं हरेः ॥
विशालालकनन्दाढ्या नीपखण्डं मनोहरम् ॥ ८०-७३ ॥
विमलं धर्मकुण्डं च भोजनस्थलमेव च ॥
बलस्थानं बृहत्सानुः सङ्केतस्थानकं हरेः ॥ ८०-७४ ॥
नन्दिग्रामः किशोर्याश्च कुण्डं कोकिलकाननम् ॥
शेषशायिपयोऽब्धिश्च क्रीडादेशोऽक्षयो वटः ॥ ८०-७५ ॥
रामकुण्डं चीरचैर्यं भद्रभाण्डीरबिल्वकम् ॥
मानाह्वं च सरः पुण्यं पुलिनं भक्तभोजनम् ॥ ८०-७६ ॥
अक्रूरं तार्क्ष्यगोविन्दं बहुलारण्यकं शुभे ॥
एतद्बृन्दावनं नाम समन्तात्पञ्चयोजनम् ॥ ८०-७७ ॥
सुपुण्यं पुण्यकृज्जुष्ठं दर्शनादेव मुक्तिदम् ॥
यस्य सन्दर्शनं देवा वाञ्छन्ति च सुदुर्लभम् ॥ ८०-७८ ॥
लीलामाभ्यन्तरीं द्रष्टुं तपसापि न च क्षमाः ॥
सर्वत्र सङ्गमुत्सृज्य यस्तु वृन्दावनं श्रयेत् ॥ ८०-७९ ॥
न तस्य दुर्लभं किञ्चित्त्रिषु भामिनि ॥
वृन्दावनेति नामापि यः समुच्चरति प्रिये ॥ ८०-८० ॥
तस्यापि भक्तिर्भवति सततं नन्दनन्दने ॥
यत्र वृन्दावने पुण्ये नरनारीप्लवङ्गमाः ॥ ८०-८१ ॥
कृमिकीटपतङ्गाद्याः खगा वृक्षा नगा मृगाः ॥
समुच्चरन्ति सततं राधाकृष्णेति मोहिनि ॥ ८०-८२ ॥
कृष्णमायाभिभूतानां कामकश्मलचेतसाम् ॥
स्वप्नेऽपि दुर्लभं पुंसां मन्ये वृन्दावनेक्षणम् ॥ ८०-८३ ॥
वृन्दारण्यं तु यैर्दृष्टं नरैः सुकृतिभिः शुभे ॥
तैः कृतं सफलं जन्म कृपापात्राणि ते हरेः ॥ ८०-८४ ॥
किं पुनर्बहुनोक्तेन श्रुतेन विधिनन्दिनि ॥
सेव्यं वृन्दावनं पुण्यं भव्यं मुक्तिमभीप्सुभिः ॥ ८०-८५ ॥
दृश्यं गम्यं च संसेव्यं ध्येयं वृन्दावनं सदां ॥
नास्ति लोके समं तस्य भुवि कीर्तिविवर्द्धनम् ॥ ८०-८६ ॥
यत्र गोवर्द्धनो नाम द्विजः कल्पे पुरातने ॥
विरक्तः सर्वसंसारात्तप्तवान्परमं तपः ॥ ८०-८७ ॥
तद्गत्वा देवि देवेशो भगवान्विष्णुरव्ययः ॥
क्रीडास्थानं निजं प्राप्तो वरं दातुं द्विजन्मने ॥ ८०-८८ ॥
तं दृष्ट्वा देवदेवेशं शङ्खचक्रगदाधरम् ॥
विलसत्कौस्तुभोरस्कं मकराकृतिकुण्डलम् ॥ ८०-८९ ॥
सुकिरीटं सुकटकं कलनूपुरभूषितम् ॥
वनमालानिवीताङ्गं श्रीवत्साङ्कितवक्षसम् ॥ ८०-९० ॥
पीतकौशेयवसनं नवाम्बुदसमप्रभम् ॥
सुनाभिं सुन्दरग्रीवं सुकपोलं सुनासिकम् ॥ ८०-९१ ॥
सुद्विजं सुस्मितं सुष्ठुजानूरुभुजमध्यकम् ॥
कृपार्णवं प्रमुदितं सुप्रसन्नमुखाम्बुजम् ॥ ८०-९२ ॥
दृष्ट्वा स सहसोत्थाय ननाम भुवि दण्डवत् ॥
वरं ब्रूहिति निर्द्दिष्टो प्राह गोवर्द्धनो हरिम् ॥ ८०-९३ ॥
पद्भ्यामाक्रम्य मत्पृष्ठे तिष्ठ चैष वरो मम ॥
तच्छ्रुत्वा भक्तवश्यो वै विचिन्त्य च पुनः पुनः ॥ ८०-९४ ॥
तस्थौ तत्पृष्ठमाक्रम्य तदा भूयो द्विजोऽब्रवीत् ॥
नाहं त्वामुत्सहे देव निजपृष्ठे जगत्पते ॥ ८०-९५ ॥
अवतारयितुं तस्मादेवमेव स्थिरो भव ॥
ततः प्रभृति विश्वात्मा त्यक्त्वा गोवर्द्धनं द्विजम् ॥ ८०-९६ ॥
गिरिरूपधरं याति नित्यं योगिवनं क्वचित् ॥
कृष्णावतारे भगवान् ज्ञात्वा गोवर्द्धनं द्विजम् ॥ ८०-९७ ॥
सम्प्राप्तं निजसारूप्यं नन्दाद्यैः समभोजयत् ॥
अन्नकूटेन दोहेन तर्पयित्वाचलं द्विजम् ॥ ८०-९८ ॥
तृट्परीतं समाज्ञाय नवमेघानपाययत् ॥
मित्रं स वासुदेवस्य सञ्जातं तेन कर्मणा ॥ ८०-९९ ॥
तं यो भक्त्या नरो देवि पूजयेदुपचारकैः ॥
प्रदक्षिणं परिक्रामेन्न तस्य पुनरुद्भवः ॥ ८०-१०० ॥
गोवर्द्धनो गिरिः पुण्यो जातो हरिनिवासतः ॥
तं दृष्ट्वा दर्शनेनालमन्यपुण्याचलस्य च ॥ ८०-१०१ ॥
यामुनं पुलिनं रम्यं कृष्णविक्रीडनाञ्चितम् ॥
त्वमेव ब्रूहि सुभगे क्वान्यत्र जगतीतले ॥ ८०-१०२ ॥
तस्मात्सर्वप्रयत्नेन त्यक्त्वा वननदीगिरीन् ॥
सु पुण्यान्पुण्यदान्नॄणां सेव्यं वृन्दावनं सदा ॥ ८०-१०३ ॥
यमी पुण्या नदी यत्र पुण्यो गोवर्द्धनो गिरिः ॥
तत्किं वृन्दावनात्पुण्यमरण्यं भुवि विद्यते ॥ ८०-१०४ ॥
कलिकल्मषभीतानां विषयासक्तचेतसाम् ॥
नान्यं बृन्दावनात्सेव्यमस्ति लोकेष्वपि त्रिषु ॥ ८०-१०५ ॥
यस्मिन्नित्यं विचरन्ति हरिर्गोपगोगोपिकाभिर्बर्हापीडी नटवरवपुः कर्णिकारावतंसी ॥
वंशीहंसीस्वनजितरवो वैजयन्तीवृताङ्गो नन्दस्याङ्गाद्धृतमणिगणीयश्च हंसोऽहमाख्यः ॥ ८०-१०६ ॥
यस्य ध्यानं नगजनियुतोऽहर्निशं वै गिरीशो भक्तिक्लिन्नो रहसि कुरुते ह्यर्द्धनारीश्वराख्यः ॥
गायत्रीं स्त्रीं हृदयकुडरे पद्मयोनिर्विधत्ते नेत्रैरिन्द्रो दशशतमितैर्वीक्षते वै शचीं ताम् ॥ ८०-१०७ ॥
अश्रोत्रेशो रहसि वनितां रक्षति स्वां रसज्ञो वंशीनादश्रवणजभिया कान्यवार्ता जनानाम् ॥
छेदं शोषं तदनु दहनं भेदनं प्राप्य यासीच्छ्रीगोपीशाधरजनिसुधां सादरं शीलयन्ती ॥ ८०-१०८ ॥
याभिर्वृन्दावनमनुगतो नन्दसूनुः क्षपासु रेमे चन्द्रांशुकलितसमुद्योतभद्रे निकुञ्जे ॥
तासां दिष्टं किमहमधुना वर्णये बल्लवीनां यासां साक्षाच्चरणजरजः श्रीशविध्याद्यलभ्यम् ॥ ८०-१०९ ॥
यत्र प्राप्तास्तृणमृगखगा ये कृमिप्राणि वृन्दा वृन्दारण्ये विधिहररमाभ्यर्हणीया भवन्ति ॥
तत्सम्प्राप्याद्वयपदरतो ब्रह्मभूयं गतः कौ प्रेमस्निग्धो विहरति सुखाम्भोधिकल्लोलमग्नः ॥ ८०-११० ॥
यत्र क्रूराः सहजमसुभृद्रातजाता विसृज्य वैरं स्वैरं सुहृद् इव तत्सौख्यमेवाश्रयन्ते ॥
तत्किं प्राप्य प्रभुमिव जनः सम्परित्यज्य गच्छन्क्वाप्यन्यत्र प्रभवति सुखी कृष्णमायाकरण्डे ॥ ८-१११ ॥
वृन्दारण्यं तदखिलधरापुण्यरूपं श्रयन्मे स्वान्तं ध्वान्तं जगदिदमधः कृत्य वर्वर्ति शश्वत् ॥
गोपीनाथः प्रतिपदमपि प्रेमसङ्क्लिन्नचेता नीचं वोच्चं न च गणयति प्रोद्धरत्येव भक्तान् ॥ ८०-११२ ॥
गोपान् गोपीः खगमृगागोपगोभूरजांसि स्मृत्वा प्रणमति जने प्रेमरज्ज्वा निबद्धः ॥
दास्यं भक्ते कलयतितरां तत्किमन्यं व्रजेशात्सेव्यं देवं गणय विधिजेऽहं तु जानामि नैव ॥ ८०-११३ ॥
एतत्सङ्क्षेपतः प्रोक्तं वृन्दारण्यसमुद्भवम् ॥
माहात्म्यं विधिजे तुभ्यं वक्तव्यं नावशेषितम् ॥ ८०-११४ ॥
संसारभीतैर्मनुजैरेतदेव सदानद्यैः ॥
श्रोतव्यं कीर्तनीयं च स्मर्तव्यं ध्येयमेव च ॥ ८०-११५ ॥
वृन्दा रण्यस्य माहात्म्यं यः श्रृणोति नरः शुचिः ॥
कीर्तयेद्वापि विधिजे सोऽपि विष्णुर्न संशयः ॥ ८०-११६ ॥
इति श्रीबृन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे श्रीवृन्दावनमाहात्म्यं नामाशीतितमोऽध्यायः ॥ ८० ॥