०७९

अथ मथुरामाहात्म्यमारभ्यते ॥

मोहिन्युवाच ॥
श्रुतं ह्यवन्त्या माहात्म्यं वसो पापहरं नृणाम् ॥
अधुना श्रोतुमिच्छामि माहात्म्यं मथुराभवम् ॥ ७९-१ ॥

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि मथुरायाः शुभावहम् ॥
वैभवं यत्र भगवाञ्जातः पद्मभुवार्थितः ॥ ७९-२ ॥

आविर्भूय विभुस्तत्र सम्प्राप्तो नन्दगोकुलम् ॥
तत्र स्थित्वाखिलाः क्रीडाश्चकार सहगोपकैः ॥ ७९-३ ॥

हत्वा च कंसप्रहितान्पूतनादीन्निशाचरान् ॥
विजहार स गोपीभिर्वनेषु द्वादशस्वपि ॥ ७९-४ ॥

वनेषु यानि तीर्थानि सन्ति यानि च माथुरे ॥
तानि तेऽहं प्रवक्ष्यामि श्रृणु मोहिनि साम्प्रतम् ॥ ७९-५ ॥

आद्यं मधुवनं नाम स्नातो यत्र नरोत्तमः ॥
सन्तर्प्य देवर्षिपितॄन्विष्णुलोके महीयते ॥ ७९-६ ॥

अथ तालाह्वयं देवि द्वितीयं वनमुत्तमम् ॥
यत्र स्नातो नरो भक्त्वा कृतकृत्यः प्रजायते ॥ ७९-७ ॥

कुमुदाख्यं तृतीयं तु यत्र स्नात्वा सुलोचने ॥
लभते वाञ्छितान्कामानिहामुत्र च मोदते ॥ ७९-८ ॥

ततः काम्यवनं नाम चतुर्थं परिकीर्तितम् ॥
बहुतीर्थान्वितं यत्र गत्वा स्याद्विष्णुलोकभाक् ॥ ७९-९ ॥

यत्तत्र विमलं कुण्डं सर्वतीर्थोत्तमोत्तमम् ॥
तत्र स्नातो नरो भद्रे लभते वैष्णवं पदम् ॥ ७९-१० ॥

पञ्चमं बहुलाख्यं तु वनं पापविनाशनम् ॥
यत्र स्नातस्तु मनुजः सर्वान्कामानवाप्नुयात् ॥ ७९-११ ॥

अस्ति भद्रवनं नाम षष्ठं स्नातोऽत्र मानवः ॥
कृष्णदेवप्रसादेन सर्वभद्राणि पश्यति ॥ ७९-१२ ॥

खादिरं तु वनं देवि सप्तमं यत्र मानवः ॥
स्नानमात्रेण लभते तद्विष्णोः परमं पदम् ॥ ७९-१३ ॥

महावनं चाष्टमं तु सदैव हरिवल्लभम् ॥
तद्दृष्ट्वा मनुजो भक्त्या शक्रलोके महीयते ॥ ७९-१४ ॥

लोहजङ्घं तु नवमं वनं यत्राप्लुतो नरः ॥
महाविष्णुप्रसादेन भुक्तिं मुक्तिं च विन्दति ॥ ७९-१५ ॥

बिल्वारण्यं तु दशमं यत्र स्नातः सुमध्यमे ॥
शैवं वा वैष्णवं वापि याति लोकं निजेच्छया ॥ ७९-१६ ॥

एकादशं तु भाण्डीरं योगिनामतिवल्लभम् ॥
यत्र स्नातो नरो भक्त्या सर्वपापैर्विमुच्यते ॥ ७९-१७ ॥

वृन्दावनं द्वादशं तु सर्वपापनिकृन्तनम् ॥
यत्समं न धरापृष्टे वनमस्त्यपरं सति ॥ ७९-१८ ॥

यत्र स्नातस्तु मनुजो देवर्षिपितृतर्पणम् ॥
कृत्वा ऋणत्रयान्मुक्तो विष्णुलोके महीयते ॥ ७९-१९ ॥

विंशतिर्योजनानां तु माथुरं परिमण्डलम् ॥
यत्र कुत्राप्लुतस्तत्र विष्णुभक्तिमवाप्नुयात् ॥ ७९-२० ॥

तन्मध्ये मथुरा नाम पुरी सर्वोत्तमोत्तमा ॥
यस्या दर्शनमात्रेण भक्तिं विन्दति माधवे ॥ ७९-२१ ॥

विश्रान्तिसञ्ज्ञकं यत्र तीर्थरत्नं नरेश्वरि ॥
तत्र स्नातो नरो भक्त्या वैष्णवं लभते पदम् ॥ ७९-२२ ॥

विश्रान्तिर्निकटे दक्षे विमुक्तं तीर्थमुत्तम् ॥
तत्र स्नातो नरो भक्त्या मुक्तिमाप्नोति निश्चितम् ॥ ७९-२३ ॥

ततोऽपि दक्षिणे भागे रामतीर्थं जनेश्वरि ॥
यत्र स्नातो नरोऽज्ञानबन्धान्मुक्तो भवेद्ध्रुवम् ॥ ७९-२४ ॥

संसारमोक्षणं तस्माद्दक्षिणे तीर्थमुत्तमम् ॥
तत्र स्नात्वा तु मनुजो विष्णुलोके महीयते ॥ ७९-२५ ॥

प्रयागाख्यं ततो दक्षे तीर्थं त्रिदशदुर्लभम् ॥
स्नातस्तत्र नरो देवि अग्निष्टोमफलं लभेत् ॥ ७९-२६ ॥

ततः कनखलं तीर्थँ यत्र स्नातो नरः सति ॥
स्वर्गमासाद्य देहान्ते मोदते नन्दनादिषु ॥ ७९-२७ ॥

तद्दक्षे तिन्दुकं तीर्थं यस्मिन्स्नातो नरोत्तमः ॥
राजसूयफलं प्राप्य मोदते दिवि देववत् ॥ ७९-२८ ॥

ततः परं पटुस्वामितीर्थं भास्करवल्लभम् ॥
स्नात्वा यत्र रविं दृष्ट्वा भुक्तभोगो दिवं व्रजेत् ॥ ७९-२९ ॥

तस्माद्दक्षिणतो भद्रे ध्रुवतीर्थमनुत्तमम् ॥
यत्र स्नातो ध्रुवं दृष्ट्वा लभते वैष्णवं पदम् ॥ ७९-३० ॥

ध्रुवतीर्थात्ततो दक्षे तीर्थं सप्तर्षिसेवितम् ॥
तत्र स्नात्वा मुनीन्दृष्ट्वा ऋषिलोके प्रमोदते ॥ ७९-३१ ॥

दक्षिणे ऋषितीर्थस्य मोक्षतीर्थमनुत्तमम् ॥
यत्र वै स्नानमात्रेण मुच्यते सर्वपापतः ॥ ७९-३२ ॥

तद्दक्षे बोधिनीतीर्थं स्नात्वा यत्र तु मानवः ॥
दत्वा पिण्डं पितृभ्यश्च नयेत्तांस्त्रिदशालयम् ॥ ७९-३३ ॥

तद्दक्षे कोटितीर्थँ वै यत्र स्नानेन मानवः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ७९-३४ ॥

विश्रान्तेरुत्तरे भागे तीर्थमस्त्यसिकुण्डकम् ॥
यत्र स्नातो नरो देवि वैष्णवं लभते पदम् ॥ ७९-३५ ॥

असिकुण्डस्य सौम्ये तु नवतीर्थं सुलोचने ॥
यत्र वै स्नानतो मर्त्यः स्वर्गलोके महीयते ॥ ७९-३६ ॥

तीर्थं संयमनं नाम तत उत्तरतः स्थितम् ॥
तत्र स्नानेन दानेन यमलोकं न पश्यति ॥ ७९-३७ ॥

तदुत्तरे परं तीर्थं धारायतनसञ्ज्ञिकम् ॥
तत्र स्नात्वा तु मनुजः पितृभिः सह मोदते ॥ ७९-३८ ॥

तदुत्तरे नागतीर्थं यत्र स्नानेन मोहिनि ॥
सर्पेभ्यो ह्यभयं लब्ध्वा स्वर्गे लोके महीयते ॥ ७९-३९ ॥

तदुत्तरं ब्रह्मलोकं घण्टाभरणकाह्वयम् ॥
स्नानात्पापापहं तीर्थं ब्रह्मलोकगतिप्रदम् ॥ ७९-४० ॥

अस्मात्सौम्ये परं तीर्थं सोमाख्यं यत्र सम्प्लुतः ॥
सोमलोकमवाप्नोति विपापो मनुजोत्तमः ॥ ७९-४१ ॥

स्नात्वा प्राचीसरस्वत्यां तस्मादुत्तरतः शुभे ॥
यत्र वै स्नानमात्रेण नरो वागीश्वरो भवेत् ॥ ७९-४२ ॥

तदुत्तरे चक्रतीर्थं यत्र स्नातस्तु मानवः ॥
जित्वा शत्रुगणं स्वर्गे मोदते युगसप्तकम् ॥ ७९-४३ ॥

दशाश्वमेधिकं तीर्थं तस्मादुत्तरतः स्थितम् ॥
यत्र स्नानेन सुभगे वाजिमेधफलं लभेत् ॥ ७९-४४ ॥

गोकर्णाख्यं शिवं तत्र सम्पूज्य विधिवन्नरः ॥
सर्वान्कामानवाप्यान्ते शिवलोके महीयते ॥ ७९-४५ ॥

विघ्नराजाह्वयं तीर्थँ तस्मादुत्तरतः स्थितम् ॥
यत्र स्नात्वा ह्यविघ्नेन सर्वकर्मफलं लभेत् ॥ ७९-४६ ॥

तदुत्तरे ह्यनन्ताख्यं तीर्थं तत्राप्लुतोः नरः ॥
चतुर्विंशतितीर्थानां माथुराणां फलं लभेत् ॥ ७९-४७ ॥

मथुरायां महाभागे साक्षाद्देवो हरिः स्थितः ॥
चतुर्व्यूहस्वरूपेण माथुराणां विमुक्तिदः ॥ ७९-४८ ॥

एका वाराहमूर्तिश्च परा नारायणाह्वया ॥
वामनाख्या तृतीया च चतुर्थी हलधारिणी ॥ ७९-४९ ॥

चतुर्व्ग्रहधरं दृष्ट्वा समभ्यर्च्य विधानतः ॥
नरो मुक्तिमवाप्नोति नात्र कार्या विचारणा ॥ ७९-५० ॥

रङ्गेशं चापि भूतेशं महाविद्यां च भैरवम् ॥
दृष्ट्वा सम्पूज्य विधिवत्तीर्यात्राफलं लभेत् ॥ ७९-५१ ॥

चतुःसामुद्रिके कूपे कुब्जायाश्च गणेशितुः ॥
तथा कृष्णाख्यगङ्गायां स्नात्वा मुच्येत पातकात् ॥ ७९-५२ ॥

सर्वस्य माथुराख्यस्य मण्डलस्य शुभानने ॥
आधिपत्ये स्थितो देवः केशवः क्लेशनाशनः ॥ ७९-५३ ॥

अदृष्ट्वा केशवं भद्रे माथुरे पुण्यमण्डले ॥
जनुर्निरर्थकं तस्य संसरेद्भवसागरे ॥ ७९-५४ ॥

अन्यान्यसङ्ख्यतीर्थानि तत्र सन्ति शुभानने ॥
स्नात्वा तेष्वपि दत्त्वा च किञ्चित्तत्र स्थिताय च ॥ ७९-५५ ॥

नगे न दुर्गतिं याति सत्यं तुभ्यं मयोदितम् ॥
मथुरायाश्च माहात्म्यं श्रावयेद्यः श्रृणोति च ॥
सोऽपि भक्तिं हरौ लब्ध्वा सर्वान्कामानवाप्नुयात् ॥ ७९-५६ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे मथुरामाहात्म्यवर्णनं नामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥

इति मथुरामाहात्म्यम् ॥