०७७

मोहिन्युवाच ॥
श्रुतं मया द्विजश्रेष्ठ सेतुमाहात्म्यमुत्तमम् ॥
अधुना श्रोतुमिच्छामि नर्मदातीर्थसङ्ग्रहम् ॥ ७७-१ ॥

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि नर्मदोभयतीरगम् ॥
चतुःशतं मुख्यतमं प्रोक्तं तीर्थकदम्बकम् ॥ ७७-२ ॥

एकादशोत्तरे तीरे दक्षिणे च त्रिविंशतिः ॥
पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसङ्गमः ॥ ७७-३ ॥

ॐकारतीर्थं परितोनगादमरकण्टकात् ॥
क्रोशद्वये सर्वदिक्षु सार्द्धकोटित्रयी स्थिता ॥ ७७-४ ॥

कोटिरेका तु तीर्थानां कपिलासङ्गमे स्थिता ॥
अशोकवनिकायां च तीर्थलक्षं प्रतिष्ठितम् ॥ ७७-५ ॥

शतमङ्गारगर्तायाः कुब्जांया अयुतं तथा ॥
सहस्रं वायुसङ्गे तु सरस्वत्याः शतं स्थितम् ॥ ७७-६ ॥

शतद्वयं शुक्लतीर्थे सहस्रं विष्णुतीर्थके ॥
माहिष्मत्यां च साहस्रं शूलभेदेऽयुतं विदुः ॥ ७७-७ ॥

देवग्रामे सहस्रं चोलूके सप्तशती स्थिता ॥
तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे ॥ ७७-८ ॥

वैद्यनाथे च तावन्ति तावन्त्येव घटेश्वरे ॥
सार्द्धलक्षं च तीर्थानां स्थितं रेवाब्धिसङ्गमे ॥ ७७-९ ॥

अष्टाशीतिसहस्राणि व्यासे द्वीपशतानि च ॥
सङ्गमे तु करञ्जायाः स्थितमष्टोत्तरायुतम् ॥ ७७-१० ॥

एरण्डीसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतम् ॥
धूतपापेऽष्टषष्टिश्च सार्द्धकोटिश्च कोकिले ॥ ७७-११ ॥

सहस्रं रोमकेशे च द्वादशार्के सहस्रकम् ॥
लक्षाष्टके सहस्रे द्वे शुक्लतीर्थे नरेश्वरि ॥ ७७-१२ ॥

सङ्गमेषु तु सर्वेषु शतमष्टाधिकं विदुः ॥
कावेर्याः सङ्गमे नन्दे तीर्थपञ्चशतीस्थिता ॥ ७७-१३ ॥

भृगोः क्षेत्रे च तीर्थानां कोटिरेका व्यवस्थिता ॥
भारभूत्यां च तीर्थानां शतमष्टोत्तरं स्थितम् ॥ ७७-१४ ॥

अक्रूरेशे सार्द्धशतं विमलेशे दशायुतम् ॥
सा सार्द्धकोटिरित्येषा तीर्थसञ्ज्ञा च नार्मदे ॥ ७७-१५ ॥

दशादित्यस्य नव च कपिलस्याष्ट वै विधोः ॥
नन्दिनः कोटिसञ्ज्ञानि तथैवाष्ट शुभानने ॥ ७७-१६ ॥

नागाग्निसिद्धावर्तानि सप्तसङ्ख्यानि मोहिनि ॥
केदारेन्द्रियवारीशनन्दिदैवानि पञ्च वै ॥ ७७-१७ ॥

यमेशा वैद्यनाथाश्च वामनाङ्गारकेश्वराः ॥
सारस्वता मुनीशाश्च दारुकेशाश्च गौतमाः ॥ ७७-१८ ॥

चत्वार एव गदितास्त्रयो वै विमलेश्वराः ॥
सहस्रयज्ञभीष्मेशास्स्वर्णतीर्थानि चापि हि ॥ ७७-१९ ॥

धौतपापकरञ्जेशऋणमुक्तिगुहाह्वयम् ॥
दशाश्वमेधनन्दाख्यं मन्मथेशाख्यभार्गवम् ॥ ७७-२० ॥

पराशरायोनिसञ्ज्ञं व्यासाख्यपितृनन्दिकम् ॥
गोपेशमारुतेशाख्यं जङ्गलेशाख्यशुक्लकम् ॥ ७७-२१ ॥

अक्षरेशं पिप्पलेशं माण्डव्यदीपकेश्वरम् ॥
उत्तरेशमशोकेशं योधनेशं च रौहिणम् ॥ ७७-२२ ॥

लुकेशं च द्विसङ्ख्याकं प्रत्येकं गदितं शुभे ॥
सैकोनविंशतिशतं तीर्थान्येकैकशः शुभे ॥ ७७-२३ ॥

स्तबकेषु च नीर्थानि द्विशतं च चतुर्द्दशम् ॥
शैवान्येतानि तीर्थानि वैष्णवानि द्विविँशतिः ॥ ७७-२४ ॥

ब्राह्माणि सर्वतीर्थानि शाक्तान्यष्टौ च विंशतिः ॥
तेषु सप्त च मातॄणां त्रीणि ब्राह्याः शुभानने ॥ ७७-२५ ॥

वैष्णव्या द्वे तथा भद्रे रौद्री शेवेषु संस्थिता ॥
तथैकं क्षेत्रपालस्य तीर्थमुक्तं शुभानने ॥ ७७-२६ ॥

अवान्तराणि गुह्यानि प्रकटानि च मोहिनि ॥
सार्द्धत्रिकोटितीर्थानि गदितानीह वायुना ॥ ७७-२७ ॥

दिवि भुव्यन्तरिक्षे च रेवायां तानि सन्ति च ॥
यस्त्वेतेषु महाभागे यत्र कुत्रापि मानवः ॥ ७७-२८ ॥

स्नानं करोति शुद्धात्मा स लभेदुत्तमां गतिम् ॥
स्नानं दानं जपो होंवो वेदाध्ययनमर्चनम् ॥ ७७-२९ ॥

सर्वमक्षयतां याति नर्मदायास्तटे कृतम् ॥
त्र्यहात्सारस्वतं तोयं सप्ताहाद्यामुनं सति ॥ ७७-३० ॥

गाङ्गं सकृत्प्लवात्पुण्यं दर्शनादेव नार्मदम् ॥
इत्येष कथितो देवि नर्मदातीर्थसङ्ग्रहः ॥ ७७-३१ ॥

स्मरतामपि मर्त्यानां महापातकशान्तिदः ॥
य इमं श्रृणुयान्मर्त्यो नर्मदातीर्थसङ्ग्रहम् ॥ ७७-३२ ॥

श्रावयेद्वा पठेद्भद्रे सोऽपि पापैः प्रमुच्यते ॥
यद्गृहे लिखितं चैतन्माहात्म्यं नर्मदाभवम् ॥ ७७-३३ ॥

विद्यतेऽभ्यर्चितं तत्र न मारीनाग्निजं भयम् ॥
न राजचौरशत्रुभ्यो भयं रोगभयं न च ॥ ७७-३४ ॥

तदूगृहं पूर्य्यते लक्ष्म्या धनैर्द्धान्यैर्निरन्तरम् ॥
पुत्रपौत्रादिकानां च विवाहाद्यैः सुमङ्गलम् ॥ ७७-३५ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे नर्मदातीर्थमाहात्म्यं नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

इति नर्मदातीर्थमाहात्म्यम् ॥