अथ सेतुमाहात्यमारभ्यते ॥
मोहिन्युवाच ॥
साधु साधु द्विजश्रेष्ठ यन्मे रामायणं त्वया ॥
श्रावितं सर्वपापघ्नं नृणां पुण्यविवर्द्धनम् ॥ ७६-१ ॥
अधुना श्रोतुमिच्छामि सेतुमाहात्म्यमुत्तमम् ॥
वसुरुवाच ॥
श्रृणु देवि प्रवक्ष्यामि सेतुमाहात्म्यमुत्तमम् ॥ ७६-२ ॥
यं दृष्ट्वा मनुजो देवि मुच्यते भवसागरात् ॥
सेतोः सन्दर्शनं पुण्यं यत्र रामेश्वरो विभुः ॥ ७६-३ ॥
दर्शनादेव मर्त्यानाममरत्वं प्रयच्छति ॥
रामेश्वरं तु सम्पूज्य नरो नियतमानसः ॥ ७६-४ ॥
सर्वाः समश्नुते भूतीर्नात्र कार्या विचारणा ॥
चक्रतीर्थमिहान्यच्च वर्तते पापनाशनम् ॥ ७६-५ ॥
स्नानं दानं जपो होमस्तत्रानन्त्यं विगाहते ॥
तालतीर्थं तु सम्प्राप्य यः स्नायात्तत्र मानवः ॥ ७६-६ ॥
स उत्तमां जनिं लब्ध्वा मोदते देववद्भुवि ॥
ततः सम्प्राप्य सुभगे तीर्थं पापविनाशनम् ॥ ७६-७ ॥
स्नात्वा निर्धूतपापोऽसौ नरः स्वर्गे महीयते ॥
सीताकुण्डे ततः प्राप्य स्नानं सम्यग्विधाय च ॥ ७६-८ ॥
तर्पयित्वा पितॄन्देवान्सर्वान्कामानवाप्नुयात् ॥
मङ्गलं तीर्थमासाद्य स्नात्वा मुच्यते पातकात् ॥ ७६-९ ॥
स्रात्वैवामृतवाप्यां तु मानवोऽमरतां लभेत् ॥
ब्रह्मकुण्डे नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥ ७६-१० ॥
स्नात्वा लक्ष्मणतीर्थे वै नरो योगगतिं व्रजेत् ॥
जटातीर्थे नरः स्नात्वा नीरोगो जायते भुवि ॥ ७६-११ ॥
हनुमत्कुण्डके स्नात्वा दुर्जयो जायतेऽरिभिः ॥
अगस्त्यतीर्थ आप्लुत्य पुत्रवान्धनवान्भवेत् ॥ ७६-१२ ॥
रामकुण्डे प्लुतो मर्त्यो रामसालोक्यमाप्नुयात् ॥
लक्ष्मीतीर्थाभिषेकेण लक्ष्मीवान्रूपवान्भवेत् ॥ ७६-१३ ॥
अग्नितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥
स्नानेन शिवतीर्थे तु शिवलोकगतिर्भवेत् ॥ ७६-१४ ॥
शङ्खतीर्थे तु संस्नातो न नरो दुर्गतिं व्रजेत् ॥
यमुनादिषु तीर्थेषु नरः स्नात्वा दिवं व्रजेत् ॥ ७५-१५ ॥
कोटितीर्थे तु सम्प्लुत्य सर्वतीर्थफलं लभेत् ॥
साध्यामृते प्लुतो याति नरः साध्यसलोकताम् ॥ ७६-१६ ॥
सर्वतीर्थे नरः स्नात्वा लभेत्कामानभीप्सितान् ॥
धनुष्कोट्यां तु विधिवत्स्नातो मुच्यते बन्धनात् ॥ ७६-१७ ॥
क्षीरकुण्डाप्लुतो मर्त्यो भोगानुच्चावचाल्ँलभेत् ॥
कपितीर्थे नरः स्नात्वा न वियोनिं समालभेत् ॥ ७६-१८ ॥
गायत्र्यां च सरस्वत्यां स्नातो मुच्येत किल्बिषात् ॥
ऋणमोचनतीर्थादौ स्नात्वा मुक्तो भवेदृणात् ॥ ७६-१९ ॥
इत्येतत्सेतुतीर्थानां माहात्म्यं गदितं शुभे ॥
पठतां श्रृण्वक्तां चैव सर्वपातकनाशनम् ॥ ७६-२० ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभाग वसुमोहिनीसवादे सतुमाहातम्य नाम षट् सप्तीततऽध्यायः ॥ ७६ ॥