अथ लक्ष्मणाचल माहात्म्यमारभ्यते ॥
मोहिन्युवाच ॥
श्रुतं गोकर्णमाहात्म्यं वसो पापविनाशनम् ॥
लक्ष्मणस्यापि माहात्म्यं वक्तुमर्हसि साम्प्रतम् ॥ ७५-१ ॥
वसुरुवाच ॥
श्रृणु देवि प्रवक्ष्यामि माहात्म्यं लक्षणस्य च ॥
यं दृष्ट्वा मनुजो देवं मुच्यते सर्वपातकैः ॥ ७५-२ ॥
चतुर्व्यूहावतारे यो देवः सङ्कर्षणः स्वयम् ॥
सर्वभूमण्डलं ह्येतत्स हस्रवदनः स्वराट् ॥ ७५-३ ॥
एकस्मिञ्छिरसि न्यस्तं नावैत्सिद्धार्थकोपमम् ॥
देवो नारायणः साक्षाद्रामो ब्रह्मादिवेदितः ॥ ७५-४ ॥
प्रद्युन्नो भरतो भद्रे शत्रुघ्नो ह्यनिरुद्धकः ॥
लक्ष्मणस्तु महाभागेस्वयं सङ्कर्षणः शिवः ॥ ७५-५ ॥
ब्रह्माद्यैः प्रार्थितः पूर्वं साक्षाद्देवो रमापतिः ॥
रामादिनामभिर्जज्ञे चतुर्द्धा दिग्ग्रन्थन्नृपात् ॥ ७५-६ ॥
ततः कालान्तरे देवि विश्वामित्रो मुनीश्वरः ॥
यज्ञरक्षार्थमागत्य प्रार्थयद्रामलक्ष्मणौ ॥ ७५-७ ॥
ततो राजा दशरथः प्राणेभ्योऽपि प्रियौ सुतौ ॥
मुनेः शापभयाद्भीतोददौ तौ रामलक्ष्मणौ ॥ ७५-८ ॥
गत्वा यज्ञं मुनीन्द्रस्य गाधिपस्य ररक्षतुः ॥
सताडकं सुबाहुं तु हत्वा प्रक्षिप्य दूरतः ॥ ७५-९ ॥
मारीचं मानवास्त्रेण विश्वामित्रमतोषयत् ॥
यतः प्रीतान्मुनिश्रेष्ठादस्त्रग्राममवाप्य च ॥ ७५-१० ॥
उवास स कियत्कालं सानुजस्तेन सत्कृतः ॥
वैदेहनगरं नीतो विश्वामित्रेण तत्परम् ॥ ७५-११ ॥
ततस्तु राजा जनको विश्वामित्रं सुसत्कृतम् ॥
पप्रच्छ बालकावेतौ कस्य क्षत्त्रकुलेशितुः ॥ ७५-१२ ॥
ततस्तस्मै मुनिवरो राज्ञो दशरथस्य तौ ॥
पुत्रौ निवेदयामास भ्रातरौ रामलक्ष्मणौ ॥ ७५-१३ ॥
ततो विदेहः सुप्रीतो दृष्ट्वा रामं च लक्ष्मणम् ॥
सीतोर्मिलाख्यवोः पुत्र्योश्चेतसाकल्पयत्पती ॥ ७५-१४ ॥
त्रिका लज्ञस्तु स मुनिर्ज्ञात्वा तस्य मनोगतम्ष॥
मोदमानोऽथ जनकं प्राह दर्शय तद्धनुः ॥ ७५-१५ ॥
सीतास्वयंवरे न्यस्तं न्यासभूतं महेशितुः ॥
राजा श्रुत्वा तु तद्वाक्यं विश्वामित्रस्य सत्वरम् ॥ ७५-१६ ॥
भृत्यत्रिशत्यानाय्यास्मै दर्शयामास सादरम् ॥
रामश्चण्डीशचापं तद्वामदोष्णोद्धरन् क्षणात् ॥ ७५-१७ ॥
सज्यं विकृष्य सहसा बभं जेक्षुमिवेभराट् ॥
ततोऽति मिथिलः प्रीतः स्वे कन्ये रामलक्ष्मणौ ॥ ७५-१८ ॥
समभ्यर्च्यार्पयामास ताभ्यां ते विधिपूर्वकम् ॥
ज्ञात्वा मुनिवरादन्यौ राज्ञो दशरथस्य तु ॥ ७५-१९ ॥
ताभ्यां सह तमाहूय भ्रातृकन्ये अदापयत् ॥
ततः स कृतदारैस्तु चतुर्भिस्तनयैः सह ॥ ७५-२० ॥
समर्चितो विदेहेनायोध्यां मुन्याज्ञया ययौ ॥
मार्गे भृगुपतेदर्पं शमयित्वा स राघवः ॥ ७५-२१ ॥
पितृभ्रातृयुतः श्रीमान्मुमुदे बहुवत्सरान् ॥
पण्डितैस्तु वसिष्ठाद्यैर्बोधितोऽसौ निजं महः ॥ ७५-२२ ॥
ब्रह्माख्यं बुबुधे रामो मानुषत्वं विडम्बयन् ॥
ततो दशरथो राजा ज्ञातज्ञेयं निजं सुतम् ॥ ७५-२३ ॥
रामं समुद्यतो इष्टो यौवरा राज्येऽभिषेचितुम् ॥
यज्ज्ञात्वा कैकयी देवी राज्ञः प्रेष्ठा कनीयसी ॥ ७५-२४ ॥
सन्निवार्य हठात्तस्य पुत्रस्य तदरोचत ॥
ततो रामो मुदे तस्याः पित्राननुमतो ययो ॥ ७५-२५ ॥
सभार्यः स ससौमित्रिश्चित्रकूटं गिरिं शुभे ॥
कियत्कालमुवासासौ तत्रैव मुनिवेषधृक् ॥ ७५-२६ ॥
मातामहगृहात्तच्च श्रुत्वाऽऽयतः पितुर्वधम् ॥
स विज्ञाय मृतं तातं हा रामेति विराविणम् ॥ ७५-२७ ॥
धिक्कृत्य कैकयीं यातो रामं स विनिवर्तितुम् ॥
ततः स्वपादुके दत्वा भरतं विनिवर्त्य च ॥ ७५-२८ ॥
रामोऽत्रेश्चाप्यगस्त्यस्य सुतीक्ष्णस्याश्रमेष्वगात् ॥
तेषु द्वादश वर्षाणि गमयित्वा रघूद्वहः ॥ ७५-२९ ॥
भार्यानुजान्वितः श्रीमांस्ततः पञ्चवटीमगात् ॥
तत्रावसज्जनस्थाने त्रिशिरःखरदूषणान् ॥ ७५-३० ॥
शूर्पणख्या विकृतया प्रेरितान्स व्यनाशयत् ॥
ततो रक्षःसहस्रैश्च चतुर्दशभिरागतान् ॥ ७५-३१ ॥
विचित्रवाजैर्नाराचैर्यमक्षयमनीनयत् ॥
यच्छ्रुत्वा रक्षसां राजा मारीचं काञ्चनं मृगम् ॥ ७५-३२ ॥
दर्शयित्वापवाह्यैतौ सीतां हृत्वा जटायुषम् ॥
रुन्धानं मार्गमाहत्य लङ्कायां समुपानयत् ॥ ७५-३३ ॥
आगत्य तौ हृतां सीतां मार्गमाणौ समन्ततः ॥
दृष्ट्वा जटायुषं शान्तं दग्ध्वा हत्वा कबन्धकम् ॥ ७५-३४ ॥
शबरीमनुकम्प्याथ ऋष्यमूकमुपागतौ ॥
ततस्तु हनुमद्वाक्यात्स्वसख्युः प्लवगेशितुः ॥ ७५-३५ ॥
विद्विषं वालिनं हत्वा सुग्रीवमकरोन्नृपम् ॥
तदाज्ञप्तास्तु ते कीशाः सर्वतः समुपागताः ॥ ७५-३६ ॥
हनुमत्प्रमुखाः सीतां मार्गन्तो दक्षिणोदधिम् ॥
प्राप्य सम्पातिवचनाल्लङ्कायां निश्चयं गताः ॥ ७५-३७ ॥
ततस्तु हनुमानेकः प्राप्य लङ्कां पुरीं कपिः ॥
समुद्रस्य परे पारेऽपश्यद्रामप्रियां सतीम् ॥ ७५-३८ ॥
दत्त्वा रामाङ्गुलीरत्नं विश्वासमुपपाद्य ताम् ॥
तयोः कुशलमाश्राव्य लब्ध्वा चूडामणिं ततः ॥ ७५-३९ ॥
भङ्क्त्वा चाशोकवनिकां हत्वा चाक्षं ससैन्यकम् ॥
इन्द्रजिद्बन्धनात्प्राप्य सम्भाष्यापि च रावणम् ॥ ७५-४० ॥
दग्ध्वा लङ्कां पुरीं कृत्स्नां पुनर्दृष्ट्वा तु मैथिलीम् ॥
लब्धाज्ञोऽर्णवमुलन्ध्य रामायैनां न्यवेदयत् ॥ ७५-४१ ॥
श्रुत्वा रामोऽपि तां सीतां राक्षसस्य निवासगाम् ॥
सार्द्धं स कपिसैन्येन सम्प्राप्तो मकरालयम् ॥ ७५-४२ ॥
सागरानुमतेनासौ सेतुं बद्ध्वा महोदधौ ॥
अद्रिकूटैः परं तीरं प्राप्य सेनां न्यवेशयत् ॥ ७५-४३ ॥
ततोऽसौ रावणो भ्रात्राबोधितोऽपि कनीयसा ॥
प्रदानं तत्रमैथिल्यास्तद्भर्त्रे न त्वरोचयत् ॥ ७५-४४ ॥
पदा हतस्ततस्तेन रावणेनविभीषणः ॥
सम्प्राप्तः शरणं रामं रामो लङ्कामुपारुणत् ॥ ७५-४५ ॥
ततस्तु मन्त्रिणोऽमात्याः पुत्रा भृत्याः प्रचोदिताः ॥
युद्धाय ते क्षयं नीतास्ताभ्यां सङ्ख्ये कपीश्वरैः ॥ ७५-४६ ॥
लक्ष्मणः शक्रजेतारं जघ्निवान्निशितैः शरैः ॥
रामोऽपि कुभश्रवणं रावणं चाप्यजीघनत् ॥ ७५-४७ ॥
विभीषणेन तत्कृत्यं कारयित्वा निजां प्रियाम् ॥
वह्नौ संशोध्य दत्वास्मै रामो रक्षोगणेशताम् ॥ ७५-४८ ॥
लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् ॥
पुष्पकेण विमानेन ससुग्रीवविभीषणः ॥ ७५-४९ ॥
नन्दिग्रामस्थभरतं नीत्वायोध्यां समाविशत् ॥
मातॄः प्रणम्य ताः सर्वा भ्रातरस्ते पुरोधसा ॥ ७५-५० ॥
बसिप्रेनानुविज्ञाप्य रामं राज्येऽभ्यषेचयन् ॥
ततो रामोऽपि भगवान्प्रजाः शासन्निवौरसान् ॥ ७५-५१ ॥
लोकापवादात्सन्त्रस्तः सीतां तत्याज धर्मंवित् ॥
सा तु सम्प्राप्य वाल्मीकेराश्रमं न्यवसत्सुखम् ॥ ७५-५२ ॥
पुत्रौ च सुषुवे तत्र नाम्ना ख्यातौ कुशीलवौ ॥
वल्मीकिस्तु तयोः कृत्वा यथा समुदिताः क्रियाः ॥ ७५-५३ ॥
रामायणं विरच्यैतावध्यापयदुदारधीः ॥
तौ गायमानौ सत्रेषु मुनीनां ख्यातिमागतौ ॥ ७५-५४ ॥
यज्ञे रामस्य सम्प्राप्तौ वाजिमेधे प्रवर्तिते ॥
तत्र ताभ्यां तु तद्गीतं स्वचरित्रं प्रसन्नधीः ॥ ७५-५५ ॥
मुनिमाकारयामास ससीतं तत्र संसदि ॥
सा तु रामाय तौ पुत्रौ निवेद्य जगतीजनिः ॥ ७५-५६ ॥
जगत्या विवरं भूयो विवेशासीत्तदद्भुतम् ॥
ततः परं ब्रह्मचर्यं यज्ञमेव त्रयोदश ॥ ७५-५७ ॥
सहस्राब्दान्प्रकुवार्णस्तस्थौ भुवि रधूत्तमः ॥
ततस्तु काले दुर्वासाः सम्प्राप्तो राघवं प्रति ॥ ७५-५८ ॥
ब्रह्मणा प्रेषितो भद्रे वैकुण्ठगमनाय च ॥
स एकान्तगतो रामं प्राह कोऽपीहनाऽऽव्रजेत् ॥ ७५-५९ ॥
आगतो वध्ग्रतां यातु रामस्तत्प्रतिजज्ञिवान् ॥
स लक्ष्मणं समाहूय प्रोवाच रघुनन्दनः ॥ ७५-६० ॥
द्वारि तिष्ठात्र निर्विष्टो वव्यतां मे प्रयास्यति ॥
स तथेति प्रतिज्ञाय रामस्याज्ञां समाचरन् ॥ ७५-६१ ॥
प्रवेशनं न कस्यापि प्रददौ रामसन्निधौ ॥
एवमेकां तगे रामं कालसंविदमास्थितम् ॥ ७५-६२ ॥
ज्ञात्वाथ द्वारि दुर्वासा लक्ष्मणं समुपागमत् ॥
तमागतं तु सम्प्रेक्ष्य सौमित्रिः प्रणिपत्य च ॥ ७५-६३ ॥
मुहूर्तं पालयेत्याह मन्त्रव्यग्रोऽस्ति राघवः ॥
दुर्वासास्तद्वचः श्रुत्वा कालस्यार्थविधायकः ॥ ७५-६४ ॥
क्रुद्धः प्रोवाच सौमित्रिं देहि मेऽन्तः प्रवेशनम् ॥
नो चेत्त्वां भस्मसात्सद्यः करिष्यामि विचारय ॥ ७५-६५ ॥
वचो दुर्वाससः श्रुत्वा लक्ष्मणो जातसम्भ्रमः ॥
मुने र्भीतो विवेशान्तर्विज्ञापयितुमग्रजम् ॥ ७५-६६ ॥
दृष्ट्वा तु लक्ष्मणं काल उत्थाय कृतमन्त्रकः ॥
प्रतिज्ञां पालयेत्युक्त्वा ययौ रामविसर्ज्जितः ॥ ७५-६७ ॥
ततो निष्कम्य भगवान्रामो धर्मभृतां वरः ॥
प्रतोष्य तं मुनिं प्रीतो दुर्वाससमभोजयत् ॥ ७५-६८ ॥
भोजयित्वा प्रणम्यैनं विसृज्य प्राह लक्ष्मणम् ॥
भ्रातर्लक्ष्मण सम्प्राप्तं सङ्कटं धर्मकारणात् ॥ ७५-६९ ॥
यत्त्वं मे वध्यतां प्राप्तो दैवं हि बलवत्तरम् ॥
मया त्यक्तस्ततो वीर यथेच्छं गच्छ साम्प्रतम् ॥ ७५-७० ॥
ततः प्रणम्य तं रामं सत्यधर्मे व्यवस्थितम् ॥
दक्षिणां दिशमाश्रित्य तपश्चक्रे नगोपरि ॥ ७५-७१ ॥
ततो रामोऽपि भगवान्ब्रह्मप्रार्थनया पुनः ॥
स्वधा माविशदव्यग्रः ससाकेतः सकोशलः ॥ ७५-७२ ॥
गोपग्रतारे सरय्वां ये रामं सञ्चिन्त्य सम्प्लुताः ॥
ते रामधाम विविशुर्दिव्याङ्गा योगिदुर्लभम् ॥ ७५-७३ ॥
लक्ष्मणस्तु कियत्कालं तपोयोगश्चलान्वितः ॥
रामानुगमनेनैव स्वधामाविशदव्ययम् ॥ ७५-७४ ॥
सान्निध्यं पर्वतं तस्मिन्दत्त्वा सौमित्रिरन्वहम् ॥
चक्रे निजाधिकारं स ततस्तत्क्षेत्रमुत्तमम् ॥ ७५-७५ ॥
ये पश्यन्ति नरा भक्त्या लक्ष्मणं लक्ष्मणाचले ॥
ते कृतार्था न सन्देहो गच्छन्ति हरि मन्दिरम् ॥ ७५-७६ ॥
तत्र दानं प्रशंसन्ति स्वर्णगोभूमिवाजिनाम् ॥
दत्तं तत्राक्षयं सर्वं हुतं जप्तं कृतं तथा ॥ ७५-७७ ॥
बहुना किमिहोक्तेन दर्शनं तस्य दुर्लभम् ॥
अगस्त्याज्ञान्तरा देवि दृष्टे मुक्तिर्न संशयः ॥ ७५-७८ ॥
एतद्रामत्तरित्रं तु लक्ष्मणाख्यानसंयुतम् ॥
श्रावयेद्योऽपि श्रृणुयात्स्यातां तौ रामवल्लभौ ॥ ७५-७९ ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे रामलक्ष्मणचरित्रसहितलक्ष्मणाचलमाहात्म्यं नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
इति लक्ष्मणाचलमाहात्म्यम् ॥