०७४

अथ गोकर्णमाहात्म्यमारभ्यते ॥

मोहिन्युवाच ॥
पुण्डरीकपुराख्यानं त्वया प्रोक्तं श्रुतं गुरो ॥
गोकर्णस्याद्य तीर्थस्य माहात्म्यं मे समादिश ॥ ७४-१ ॥

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि तीर्थं पुण्यप्रदं नृणाम् ॥
गोकर्णाख्यं हरक्षेत्रं सर्वपातकनाशनम् ॥ ७४-२ ॥

पश्चिमस्थसमुद्रस्य तीरेऽस्ति वरवर्णिनि ॥
सार्द्धयोजनविस्तारं दर्शनादपि मुक्तिदम् ॥ ७४-३ ॥

सगरस्यात्मजैर्देवि खनिते भूतले क्रमात् ॥
सागरो वर्द्धितस्त्वारात्प्लावयामास मेदिनीम् ॥ ७४-४ ॥

त्रिंशद्योजन विस्तारां सतीर्थक्षेत्रकाननाम् ॥
ततस्तन्निलयाः सर्वे सदेवासुरमानवाः ॥ ७४-५ ॥

तत्स्थानं सम्परित्यज्य सह्यादिगिरिषु स्थिताः ॥
ततो गुह्यं परं तीर्थं गोकर्णाख्यं समुद्रगम् ॥ ७४-६ ॥

चिन्तयन्तो मुनिवरास्तदुद्धारे मतिं दधुः ॥
ततः सम्मन्त्र्य ते सर्वे पर्वतोपत्यकास्थिताः ॥ ७४-७ ॥

महेन्द्राचलसंस्थानं पर्शुरामं दिदृक्षवः ॥
जग्मुर्मुनिवरा देवि गोकर्णोद्धारकाङ्क्षया ॥ ७४-८ ॥

समारुह्य तु तं शैलं ददृशुस्तस्य चाश्रमम् ॥
प्रशान्तक्रूरसत्वाढ्यं सर्वर्तुषु सुखावहम् ॥ ७४-९ ॥

फलितैः पुष्पितैर्वृक्षैर्गहनं तत्तपोवनम् ॥
स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम् ॥ ७४-१० ॥

तं तदाश्रममासाद्य ब्रह्मघोषनिनादितम् ॥
विविशुर्हृष्टमनसो यथावृद्धपुरःसरम् ॥ ७४-११ ॥

ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे ॥
शिष्यैः परिवृतं शान्तं ददृशुस्तं तपोधनम् ॥ ७४-१२ ॥

कालाग्निमिव लोकांस्त्रीन्दग्ध्वा शान्तं तपःस्थितम् ॥
ते समेत्य भृगुश्रेष्ठं विनयेन ववन्दिरे ॥ ७४-१३ ॥

ततस्तानागतान्दृष्ट्वा मुनीन्भृगुकुलोद्वहः ॥
अर्घ्यपाद्यादिभिः सम्यक्पूजयामास सादरम् ॥ ७४-१४ ॥

तानासीनान्कृतातिथ्यानुवाच भृगुनन्दनः ॥
स्वागतं वो महाभागा यदर्थमिह चागताः ॥ ७४-१५ ॥

तद्वदध्वं सुविश्वस्ताः करणीयं मयास्ति यत् ॥
ततोऽब्रुवन्मुनिश्रेष्ठा यदर्थं राममागताः ॥ ७४-१६ ॥

अवेह्यस्मान् भृगुश्रेष्ठ गोकर्णनिलयान्मुनीन् ॥
खनद्भिः सागरैर्भूमिं तस्मात्तीर्थाद्विवासितान् ॥ ७४-१७ ॥

स त्वमात्मप्रभावेण क्षेत्रप्रवरमद्य नः ॥
दातुमर्हसि विप्रेन्द्र समुत्सार्यार्णवोदकम् ॥ ७४-१८ ॥

तच्छ्रुत्वा वचनं तेषां न्यस्तशस्त्रो व्यचिन्तयत् ॥
ततो विचिन्त्य भगवान्धर्म्यं साध्वभिरक्षणम् ॥ ७४-१९ ॥

प्रगृह्य स्वधनुर्बाणान्सम्प्रतस्थे स तैः समम् ॥
सोऽवरुह्य महेन्द्राद्रेर्दिशं दक्षिणपश्चिमाम् ॥ ७४-२० ॥

समुद्दिश्य ययौ शीघ्रं स स्वमुल्लङ्घ्य पर्वतम् ॥
सम्प्राप्तः सागरतटं सार्द्धं गोकर्णवासिभिः ॥ ७४-२१ ॥

मुहूर्त्तं तत्र विश्रम्य वरुणं यादसाम्पतिम् ॥
मेघगम्भीरया वाचा प्रोवाच वदतां वरः ॥ ७४-२२ ॥

रामोऽहं भार्गवः प्राप्तो मुनिभिः सह कार्यवान् ॥
प्रचेतो दर्शनं देहि कार्यमात्यायिकं त्वया ॥ ७४-२३ ॥

एवं रामसमाहूतो यादः पतिरहन्तया ॥
श्रुत्वापि तस्य तद्वाक्यं नायातो रामसन्निधौ ॥ ७४-२४ ॥

एवं पुनः पुनस्तेन समाहूतोऽपि नागतः ॥
यदा तदाभिसङ्क्रुद्धो धनुर्जग्राह भार्गवः ॥ ७४-२५ ॥

तस्मिन्सन्धाय विशिखं वह्निदैवं तु भार्गवम् ॥
अस्त्रं संयोजयामास शोषणाय सरित्पतेः ॥ ७४-२६ ॥

तस्मिन्संयोजितेऽस्त्रे तु भार्गवेण महात्मना ॥
सङ्क्षुब्धः सागरो भद्रे यादोगणसमाकुलः ॥ ७४-२७ ॥

वरुणोऽस्त्राभिसन्तप्तो रामस्य भयसम्प्लुतः ॥
स्वरूपेण समागत्य रामपादौ समग्रहीत् ॥ ७४-२८ ॥

ततोऽस्त्रं स विनिर्वर्त्य वरुणं प्राह सत्वरम् ॥
गोकर्णो दृश्यतां देव उत्सर्पय जलं किल ॥ ७४-२९ ॥

ततो रामाज्ञया सोऽपि गोकर्णोदकमाहरत् ॥
रामोऽपि तं समभ्यर्च्य गोकर्णं नाम शङ्करम् ॥ ७४-३० ॥

प्राप्तः पुनर्महेन्द्राद्रौ तस्थुस्तत्रैव ते द्विजाः ॥
यत्र सर्वे तपस्तप्त्वा मुनयः शंसितव्रताः ॥ ७४-३१ ॥

निर्वाणं परम प्राप्ताः पुनरावृत्तिवर्जितम् ॥
तत्क्षेत्रस्य प्रभावेण प्रीत्या भूतगणैः सह ॥ ७४-३२ ॥

देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः ॥
एनांसि दर्शनात्तस्य गोकर्णस्य महेशितुः ॥ ७४-३३ ॥

सद्यो वियुज्य गच्छन्ति प्रवाते शुष्क पर्णवत् ॥
तत्क्षेत्रसेवनरतिर्नृणां जातु न जायते ॥ ७४-३४ ॥

निर्बन्धेन तु ये तत्र प्राणिनः स्थिरजङ्गमाः ॥
म्रियन्ते देवि सद्यस्ते स्वर्गं यान्ति सनातनम् ॥ ७४-३५ ॥

स्मृत्यापि सकलैः पापैर्यस्य मुच्येत मानवः ॥
तद्गोकर्णाभिधं क्षेत्रं सर्वतीर्थनिकेतनम् ॥ ७४-३६ ॥

स्नात्वा क्षेत्रेषु सर्वेषु यजन्तश्च सदाशिवम् ॥
लभन्ते यत्फलं मर्त्यास्तत्सर्वं तत्र दर्शनात् ॥ ७४-३७ ॥

कामक्रोधादिभिर्हीना ये तत्र निवसन्ति वै ॥
अचिरेणैव कालेन ते सिद्धिं प्राप्नुवन्ति हि ॥ ७४-३८ ॥

जपहोमरताः शान्ता नियता ब्रह्मचारिणः ॥
वसन्ति तस्मिन्ये ते हि सिद्धिं प्राप्स्यन्त्यभीप्सिताम् ॥ ७४-३९ ॥

दानहोमजपाद्यं च पितृदेवद्विजार्चनम् ॥
अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं सति ॥ ७४-४० ॥

इत्येतत्कथितं भद्रे गोकर्णक्षेत्रसम्भवम् ॥
माहात्म्यं सर्वपापघ्नं पठतां श्रृण्वतामपि ॥ ७४-४१ ॥

इति श्रीबृहन्नारदीयपुराणेबृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे गोकर्णमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥

इति गोकर्णमाहात्म्यम् ॥