०७२

अथ गौतमाश्रममाहात्म्यं प्रारभ्यते ॥

मोहिन्युवाच ॥
श्रुतं पुष्करमाहात्म्यं वसो पापप्रणाशनम् ॥
गौतमाश्रममाहात्म्यमधुना कीर्तय प्रभो ॥ ७२-१ ॥

वसुरुवाच ॥
श्रणु देवि प्रवक्ष्यामि गौतमाश्रममुत्तमम् ॥
यत्र गत्वा नरो भक्त्या न भूयोऽर्हति यातनाः ॥ ७२-२ ॥

गौतमस्याश्रमं पुण्यं देवर्षिगणसेवितम् ॥
सर्वपापप्रशमनं सर्वोपद्रवशान्तिदम् ॥ ७२-३ ॥

सेवते द्वादशाब्दं यो भक्तिभावसमन्वितः ॥
स शैवं लभते धाम यत्र गत्वा न शोचति ॥ ७२-४ ॥

मायादेवीसुतो यत्र तपस्युग्रे समास्थितः ॥
तत्र गोदावरी गङ्गा सर्वपातकनाशिनी ॥ ७२-५ ॥

तपस्यतो मुनेस्तस्य द्वादशाब्दमवर्षणम् ॥
बभूव घोरं विधिजे सर्वसत्त्वक्षयङ्करम् ॥ ७२-६ ॥

तस्मिन्नुग्रे तु दुर्भिक्षे क्षुत्क्षामामुनयोऽखिलाः ॥
नानादेशेभ्य आयाता गौतमस्याश्रमं शुभे ॥ ७२-७ ॥

चक्रुर्विज्ञापनं तस्य गौतमस्य तपस्यतः ॥
देहि नो भोजनं येन प्राणास्तिष्ठन्ति वर्मसु ॥ ७२-८ ॥

एवं विज्ञापितस्तैस्तु मुनिभिर्गौतमो मुनिः ॥
जातानुकम्पस्तानाह विश्वस्तांस्तपसो बलात् ॥ ७२-९ ॥

गौतम उवाच ॥
तिष्ठध्वं मुनयः सर्वे ममाश्रमसमीपतः ॥
भोजनं वः प्रदास्यामि यावद्दुर्भिक्षमादृतः ॥ ७२-१० ॥

विश्वास्यैवमृषीन्सर्वान्गौतमस्तपसो बलात् ॥
दध्यौ प्रसन्नमनसा गङ्गां सर्वार्थसाधिनीम् ॥ ७२-११ ॥

स्मृतमात्रा तु सा देवी तत्रोद्भूता धरातलात् ॥
तां तु दृष्ट्वा मुनिर्गङ्गां सम्प्लावितधरातलाम् ॥ ७२-१२ ॥

प्रातरुप्त्वा क्षितौ शालीन्पक्वान्मध्याह्नकेऽलुनात् ॥
शाल्यन्नेनन ततस्तेन तानृषीन्समभोजयत् ॥ ७२-१३ ॥

ततस्ते मुनयः प्रीता भुक्त्वान्नं तृप्तिमागताः ॥
निवासं चक्रिरे तत्र गौतमाश्रमके मुदा ॥ ७२-१४ ॥

एवं प्रतिदिनं भद्रे शालिभिः पक्वतां गतैः ॥
आतिथ्यं विदधे तेषां भक्तिभावसमन्वितः ॥ ७२-१५ ॥

ततस्तस्य मुनीन्द्रस्य द्विजान्भोजयतोऽन्वहम् ॥
व्यतीयाय च दुर्भिक्षं द्वादशाब्दान्तकालतः ॥ ७२-१६ ॥

ततस्ते मुनयः सर्वे सुभिक्षे काल आगते ॥
विज्ञाप्य तं मुनिश्रेष्ठं जग्मुदेंशान्स्वकान्पुनः ॥ ७२-१७ ॥

एवम्प्रभावः स मुनिर्गौतमस्तत्र मोहिनि ॥
तपस्तेपे बहुतीथं कालं नियमितेन्द्रियः ॥ ७२-१८ ॥

ततस्तत्तपसा तुष्टो भगवानम्बिकापतिः ॥
सगणो दर्शनं यातो वरं ब्रूहीत्युवाच ह ॥ ७२-१९ ॥

ततो मुनिवरो दृष्ट्वा देवदेवमुमापतिम् ॥
त्र्यम्बकं स नमश्चक्रे निपत्य भुवि तत्पुरः ॥ ७२-२० ॥

तत उत्थाय सहसा कृताञ्जलिरुपस्थितः ॥
प्रोवाच देहि मे भक्तिं पादयोस्तव नित्यदा ॥ ७२-२१ ॥

ममाश्रमसमीपेऽत्र पर्वतोपरि शङ्कर ॥
त्वामेवं संस्थितं पश्याम्येष एव वरो मम ॥ ७२-२२ ॥

इत्युक्तः पार्वतीनाथो भक्तानां वाञ्छितप्रदः ॥
तत्र दत्त्वा स्वसान्निध्यं सद्यः प्रीतं चकार तम् ॥ ७२-२३ ॥

तेन रूपेण तत्रैव न्यवसत्त्र्यम्बकः सति ॥
स गिरिरत्त्र्यम्बकाख्यस्तु ततः प्रभृति कीर्त्यते ॥ ७२-२४ ॥

ये तु गोदावरीं गङ्गां प्राप्य भक्तियुता नराः ॥
स्नानं कुर्वन्ति सुभगे ते स्युर्मुक्ता भवार्णवात् ॥ ७२-२५ ॥

स्नात्वा गोदावरीतोये त्र्यम्बकं ये गिरिस्थितम् ॥
उपचारैः पूजयन्ति ते स्युः साक्षान्महेश्वराः ॥ ७२-२६ ॥

त्र्यम्बकस्य तु माहात्म्यं सङ्क्षेपाद्वर्णितं मया ॥
ब्रह्मापि विस्तराद्वक्तुं तव तातः क्षमो नहि ॥ ७२-२७ ॥

ततो गोदावरी यावत्साक्षाद्दर्शनतां गता ॥
तावदप्याश्रमाः पुण्यास्तत्र सन्ति ह्यनेकशः ॥ ७२-२८ ॥

तेषु स्नात्वा विधानेन सन्तर्प्य पितृदेवताः ॥
नरोऽभिलषितान्कामान्प्राप्नुयान्नात्र संशयः ॥ ७२-२९ ॥

प्रकाशा तु क्वचिद्भद्रे क्वचिद्गुप्ता ततः परम् ॥
प्लावयामास धरणीं पुण्या गोदावरी नदी ॥ ७२-३० ॥

यत्र प्रकटतां याता नृणां भक्त्या महेश्वरी ॥
तत्र तीर्थं महत्पुण्यं स्नानमात्रादघापहम् ॥ ७२-३१ ॥

ततः पञ्चवटीं प्राप्य सा देवी नियतव्रता ॥
सुप्रकाशमनुप्राप्ता लोकानां गतिदायिनी ॥ ७२-३२ ॥

गोदावर्यां पञ्चवट्यां यः स्नायान्नियतव्रतः ॥
स नरः प्राप्नुयात्कामानभीष्टान्विधिनन्दिनि ॥ ७२-३३ ॥

यदा त्रेतायुगे रामः पञ्चवट्यामुपागतः ॥
सभार्यः सानुजस्तत्र वसन्पुण्यतरां व्यधात् ॥ ७२-३४ ॥

इत्येत्सर्वमाख्यातं गौतमाश्रमजं शुभे ॥
श्रृण्वतां पठतां पुण्यं पापघ्नं वाञ्छितप्रदम् ॥ ७२-३५ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे बृहदुपाख्याने वसुमोहिनीसंवादे गौतमाश्रममाहात्म्ये गौतमतपश्चर्याप्रभाववर्णनं नाम
द्वासप्ततितमोऽध्यायः ॥ ७२ ॥

इति गौतमाश्रममाहात्म्यम् ॥