अथ प्रभासमाहात्म्यं प्रारभ्यते ॥
मोहिन्युवाच ॥
प्रभासस्य तु माहात्म्यं वद मे द्विजसत्तम ॥
यच्छ्रुत्वाहं प्रसन्नात्मा धन्या स्यां त्वत्प्रसादतः ॥ ७०-१ ॥
वसुरुवाच ॥
श्रृणु देवि प्रवक्ष्यामि प्रभासाख्यं सुपुण्यदम् ॥
तीर्थं पापहरं नॄणां भुक्तिमुक्तिप्रदायकम् ॥ ७०-२ ॥
यस्मिन्नसङ्ख्यतीर्थानि विद्यन्ते विधिनन्दिनि ॥
सोमेशो यत्र विश्वेशो भगवान् गिरिजापतिः ॥ ७०-३ ॥
स्नात्वा प्रभासके तीर्थे सोमनाथं प्रपूज्य च ॥
नरो मुक्तिमवाप्नोति सत्यमेतन्मयोदितम् ॥ ७०-४ ॥
योजनानां दश द्वे च प्रभासपरिमण्डलम् ॥
मध्येऽस्य पीठिका प्रोक्ता पञ्चयोजनविस्तृता ॥ ७०-५ ॥
गोचर्ममात्रं तन्मध्ये तीर्थं कैलासतोऽधिकम् ॥
अर्कस्थलं तत्र पुण्यं तीर्थमन्यत्सुशोभनम् ॥ ७०-६ ॥
सिद्धेश्वरादिलिङ्गानि यत्र सन्ति सहस्रशः ॥
तत्र स्नात्वा नरो भक्त्या सन्तर्प्य पितृदेवताः ॥ ७०-७ ॥
लिङ्गानि पूजयित्वा च याति रुद्रसलोकताम् ॥
अग्नितीर्थं तथान्यच्च सागरस्य तटे स्थितम् ॥ ७०-८ ॥
तत्र स्नात्वा नरो देवि वह्निलोकमवाप्नुयात् ॥
तत्र देवं कपर्द्दीशं सोपवासः प्रपूज्य च ॥ ७०-९ ॥
शिवलोकमवाप्नोति भुक्त्वा भोगानिहेप्सितान् ॥
केदारेशं ततो गत्वा समभ्यर्च्य विधानतः ॥ ७०-१० ॥
स्वर्गतिं समवाप्नोति विमानेन सुरार्चितः ॥
भीमेशं भैरवेशं च चण्डीशं भास्करेश्वरम् ॥ ७०-११ ॥
अङ्गारेशं गुर्वीशं सोमेशं भृगुजेश्वरम् ॥
शनिराहुशिखीशांश्च क्रमाद्गच्छेच्चतुर्दश ॥ ७०-१२ ॥
भक्त्या पृथक् पृथक् तेषां पूजां कृत्वा विधानवित् ॥
शिवसालोक्यमाप्नोति निग्रहानुग्रहे क्षमः ॥ ७०-१३ ॥
सिद्धेश्वरादिपञ्चान्यलिङ्गानि विधिनन्दिनि ॥
समर्च्य लभते सिद्धिमैहिकामुष्मिकीं नरः ॥ ७०-१४ ॥
वरारोहामजापालां मङ्गलां ललितेश्वरीम् ॥
सम्पूज्य क्रमतेश्चैता विपापो जायते नरः ॥ ७०-१५ ॥
लक्ष्मीश्वरं बाडवेशमर्ध्येशं कामकेश्वरम् ॥
समभ्यर्च्य नरो भक्त्या साक्षाल्लोकेशतां व्रजेत् ॥ ७०-१६ ॥
गौरीतपोवनं प्राप्य गौरीशवरुणेश्वरौ ॥
उषेश्वरं च सम्पूज्य नरः स्वर्गतिमाप्नुयात् ॥ ७०-१७ ॥
गणेशं च कुमारेशं स्वाककेशकुलेश्वरौ ॥
उत्तङ्केशं च वह्नीशं गौतमं दैत्यसूदनम् ॥ ७०-१८ ॥
समभ्यर्च्य विधानेन न नरो दुर्गतिं व्रजेत् ॥
चक्रतीर्थं ततः प्राप्य तत्र स्नात्वा विधानतः ॥ ७०-१९ ॥
गौरीदेवीं समभ्यर्च्य नरोऽभिलषितं लभेत् ॥
सन्निहत्याह्वयं तीर्थं प्राप्य तत्र वरानने ॥ ७०-२० ॥
स्नात्वा सन्तर्प्य देवादीन्सन्निहत्याफलं लभेत् ॥
अथैकादश लिङ्गानि भूतेशादीनि योऽर्चयेत् ॥ ७०-२१ ॥
स लब्ध्वेह वरान्भोगानन्ते रुद्रपदं व्रजेत् ॥
आदिनारायणं देवं समभ्यर्च्य नरोत्तमः ॥ ७०-२२ ॥
मोक्षभागी भवेद्देवि नात्र कार्या विचारणा ॥
ततश्चक्रधरं प्राप्य पूजयेद्यो विधानतः ॥ ७०-२३ ॥
स तु शत्रुं विनिर्जित्य भोगानुच्चाव चाँल्लभेत् ॥
साम्बादित्यं ततः प्राप्य स्नात्वा नियमपूर्वकम् ॥ ७०-२४ ॥
नीरोगो धनधान्याढ्यो जायते मानवो भुवि ॥
ततस्तु मनुजः प्राप्य देवीं कण्टकशोधिनीम् ॥ ७०-२५ ॥
महिषघ्नीं च सम्पूज्य निर्भयो जायते नरः ॥
कपालीशं च कोटीशं समभ्यर्च्य नरोत्तमः ॥ ७०-२६ ॥
सुसौभाग्यो भवेदेवं मध्य यात्रां समापयेत् ॥
बालब्रह्माभिधं पश्चात्प्राप्य मर्त्यो नरेश्वरि ॥ ७०-२७ ॥
जायते भुक्तिमुक्तीशः सर्वदेवप्रपूजितः ॥
नरकेशं ततः प्राप्य संवतेंशं निधीश्वरम् ॥ ७०-२८ ॥
बलभद्रेश्वरं प्रार्च्य जायते भुक्तिमुक्तिमान् ॥
गङ्गागणपतिं प्राप्य समभ्यर्च्य विधानतः ॥ ७०-२९ ॥
लभते वाञ्छितान्कामानिह लोके परत्र च ॥
ततो जाम्बवतीं प्राप्य नदीं भक्त्या समाहितः ॥ ७०-३० ॥
स्नात्वा सुरादीनभ्यर्च्य कृतकृत्यो भवेन्नरः ॥
पाण्डुकूपे ततः स्नात्वा पाण्डवेश्वरमर्चयेत् ॥ ७०-३१ ॥
स नरः स्वर्गमायाति क्रीडते नन्दनादिषु ॥
शतमेधं लक्षमेधं कोटिमेधमनुक्रमात् ॥ ७०-३२ ॥
लिङ्गत्रयं समभ्यर्च्य मोदते दिवि देववत् ॥
दुर्वासादित्यकं दृष्ट्वा सम्पूज्य च विधानतः ॥ ७०-३३ ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम् ॥
यादवस्थलमासाद्य वर्षेशं प्रार्च्य मानवः ॥ ७०-३४ ॥
लभते वाञ्छितां सिद्धिं देवराजेन सत्कृतः ॥
हिरण्यासङ्गमे स्नात्वा दद्याद्धेमरथं द्विजे ॥ ७०-३५ ॥
शिवमुद्दिश्य यो भक्त्या स लोकानक्षयाँल्लभेत् ॥
नगरार्कं ततः प्रार्च्य सूर्यलोकमवाप्नुयात् ॥ ७०-३६ ॥
नगरादित्यपार्श्वे तु बलकृष्णौ सुभद्रिकाम् ॥
दृष्ट्वा सम्पूज्य विधिना कृष्णसायुज्यमाप्नुयात् ॥ ७०-३७ ॥
कुमारिकां ततः प्राप्य समभ्यर्च्य विधानतः ॥
लभते वाञ्छितान्कामाञ्जयेच्छक्रं न संशयः ॥ ७०-३८ ॥
क्षेत्रपालं ततोऽभ्यर्च्य सर्वान्कामानवाप्नुयात् ॥
ब्रह्मेश्वरं च सम्पूज्य सरस्वत्यास्तटे स्थितम् ॥ ७०-३९ ॥
सर्वपापविनिमुक्तो ब्रह्मलोके महीयते ॥
पिङ्गलाख्यां नदीं प्राप्य स्नात्वा तत्र सुरादिकान् ॥ ७०-४० ॥
सन्तर्प्य श्राद्धकृन्मर्त्यो नेह भूयोऽभिजायते ॥
सङ्गमेशं समभ्यर्च्य न नरो दुर्गतिं व्रजेत् ॥ ७०-४१ ॥
सम्प्रार्च्य शङ्करादित्यं घटेशं च महेश्वरम् ॥
मानवः सकलान्कामान्प्राप्नुयान्नात्र संशयः ॥ ७०-४२ ॥
ऋषितीर्थं ततः प्राप्य स्नात्वा नियतमानसः ॥
ऋषींस्तत्र समभ्यर्च्य सर्वतीर्थफलं लभेत् ॥ ७०-४३ ॥
नन्दादित्यं ततः प्रार्च्य मुच्यते सर्वरोगतः ॥
त्रितकूपं ततः प्राप्य स्नात्वा याति दिवं नरः ॥ ७०-४४ ॥
शशोपाने नरः स्नात्वा देवान्पश्यति मोहिनि ॥
वाञ्छितांश्च लभेत्कामान्सत्यं सत्यं मयोदितम् ॥ ७०-४५ ॥
पर्णादित्यं नरो दृष्ट्वा नीरोगो भोगवान्भवेत् ॥
ततो न्यङ्कुमतीं प्राप्य स्नात्वा तत्र विधानतः ॥ ७०-४६ ॥
सिद्धेश्वरं समर्च्यात्र अणिमादिकसिद्धिभाक् ॥
वाराहस्वामिनं दृष्ट्वा मुच्यते भवसागरात् ॥ ७०-४७ ॥
छायालिङ्गं समभ्यर्च्य मुच्यते सर्वपातकैः ॥
गुल्फं दृष्ट्वा नरोऽभ्यर्च्य चान्द्रायणफलं लभेत् ॥ ७०-४८ ॥
देवीं कनकनन्दां च समभ्यर्च्य नरः सति ॥
सर्वान्कामानवाप्नोति देहान्ते स्वर्गतिं लभेत् ॥ ७०-४९ ॥
कुन्तीश्वरं समभ्यर्च्य मुच्यते सर्वपातकैः ॥
गङ्गेश्वरं समभ्यर्च्य गङ्गायां मनुजः प्लुतः ॥ ७०-५० ॥
त्रिविधेभ्योऽपि पापेभ्यो मुच्यते नात्र संशयः ॥
चमसोद्भेदके स्नात्वा पिण्डदानं करोति यः ॥ ७०-५१ ॥
गयाकोटि गुणं पुण्यं स लभेन्नात्र संशयः ॥
ततस्तु विधइजे गत्वा विदुराश्रममुत्तमम् ॥ ७०-५२ ॥
त्रिगं त्रिभुवनेशं च सम्पूज्यात्र सुखी भवेत् ॥
मङ्कणेश्वरमभ्यर्च्य लभते सद्गतिं नरः ॥ ७०-५३ ॥
त्रैपुरं च त्रिलिङ्गं तु प्रार्च्य पापैः प्रमुच्यते ॥
षण्डतीर्थं ततः प्राप्य स्नात्वा स्वर्णप्रदो नरः ॥ ७०-५४ ॥
सर्वपापविशुद्धात्मा शैवं पदमवाप्नुयात् ॥
सूर्यप्राच्यां नरः स्नात्वा विपाप्मा भोगवान्भवेत् ॥ ७०-५५ ॥
त्रिलोचने नरः स्नात्वा रुद्रलोकमवाप्नुयात् ॥
देविकायानुमानाथं समर्च्य मनुजोत्तमः ॥ ७०-५६ ॥
लभते वाञ्छितान्कामान्देहान्ते स्वर्गमाप्नुयात् ॥
भूद्वारं तु समभ्यर्च्य लभते वाञ्छितं फलम् ॥ ७०-५७ ॥
शूलस्थाने तु वाल्मीकं नमस्कृत्य कविर्भवेत् ॥
च्यवनार्कं ततः प्रार्च्य सर्वकामसमृद्धिमान् ॥ ७०-५८ ॥
च्यवनेशार्चनान्मर्त्यः शिवस्यानुचरो भवेत् ॥
प्रजापालेशमभ्यर्च्य धनधान्यान्वितो भवेत् ॥ ७०-५९ ॥
बालार्कम्पूजको मर्त्यो विद्यावान्धनवान् भवेत् ॥
कुबेरस्थानके स्नात्वा निधिं प्राप्नोति निश्चितम् ॥ ७०-६० ॥
ऋषितोयनदीं प्राप्य स्नात्वा तत्र नरः शुचिः ॥
दत्वा सुवर्णं विप्राय मुच्यते सर्वपातकैः ॥ ७०-६१ ॥
सङ्गालेश्वरमभ्यर्च्य रुद्रलोके महीयते ॥
नारदादित्यमभ्यर्च्य त्रिकालज्ञानवान्भवेत् ॥ ७०-६२ ॥
ततो नारायणं प्रार्च्य मुक्तिभागी नरो भवेत् ॥
तप्तकुण्डोदके स्नात्वा मूलचण्डीशमर्चयेत् ॥ ७०-६३ ॥
सर्वपावविनिर्मुक्तो वाञ्छितार्थं लभेन्नरः ॥
विनायकं चतुर्वक्त्रमभ्यर्च्याप्नोति कामितम् ॥ ७-६४ ॥
कलम्बेश्वरमभ्यर्च्य धनधान्यसमृद्धिमान् ॥
गोपालस्वामिपूजातो गोमान्वै धनवान्कविः ॥ ७०-६५ ॥
बकुलस्वामिनोऽभ्यर्चा नृणां स्वर्गतिदायिनी ॥
सम्पूज्य मारुतां देवीं सर्वकामफलं लभेत् ॥ ७०-६६ ॥
क्षेमादित्यार्चनान्मर्त्यः क्षेमीसिद्धार्थसत्यभाक् ॥
उन्नताख्यं विघ्नराजं प्रार्च्य विघ्नैर्न हन्यते ॥ ७०-६७ ॥
जलस्वामी कालमेघः पूजितौ सर्वसिद्धिदौ ॥
रुक्मिणी पूजिता देवी वाञ्छितार्थप्रदा नृणाम् ॥ ७०-६८ ॥
दुर्वासेशं च पिङ्गेशं प्रार्च्य पापैर्विमुच्यते ॥
भद्रायाः सङ्गमे स्नात्वा नरो भद्राणि पश्यति ॥ ७०-६९ ॥
शङ्खावर्ते नरः स्नात्वा सर्वसिद्धीश्वरो भवेत् ॥
मोक्षतीर्थे नरः स्नात्वा भवेन्मुक्तो भवार्णवात् ॥ ७०-७० ॥
गोष्पदस्नानमात्रेण सर्वसौख्यमवाप्नुयात् ॥
नारायण गृहे गत्वा नरो भूयो न शोचति ॥ ७०-७१ ॥
जालेश्वरार्चनात्पुंसां सिद्धयः स्युरभीप्सिताः ॥
स्रातो हुङ्कारकूपे तु गर्भवासं न चाप्नुयात् ॥ ७०-७२ ॥
तथा चण्डीशमभ्यर्च्य सर्वतीर्थफलं लभेत् ॥
विघ्नेशमाशापुरगं प्रार्च्य विघ्नं न चाप्नुयात् ॥ ७०-७३ ॥
कलाकुण्डाप्लुतो मर्त्यो मुक्तिभागी न संशयः ॥
कपिलेशं समभ्यर्च्य कपिलायूथमाप्नुयात् ॥ ७०-७४ ॥
जरद्गवेश्वरं प्रार्च्य जरसा नाभिभूयते ॥
नलेश्वरार्चको भोगी कर्क्कोटेशार्चको धनी ॥ ७०-७५ ॥
हाटकेश्वरपूजातः पूर्यन्ते सर्वकामनाः ॥
नारदेशार्चको भक्तिं लभेद्विष्णौ च शङ्करे ॥ ७०-७६ ॥
स्वर्गार्हो जायतेऽभ्यर्च्य देवीं मन्त्रविभूषणाम् ॥
दुर्गकूटं गणपतिं पूजयित्वा सुखी भवेत् ॥ ७०-७७ ॥
धनधान्ययुतो भूयात्पूजयन्कौरवेश्वरीम् ॥
सुपर्णेलां भैरवीं च पूजयित्वा सुखी भवेत् ॥ ७०-७८ ॥
भल्लतीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः ॥
कर्दमाले नरः स्नात्वा पातकैर्विप्रयुज्यते ॥ ७०-७९ ॥
गुप्तसोमेश्वरं दृष्ट्वा न भूयोऽर्हति शोचितुम् ॥
बहुस्वर्णेश्वरं दृष्ट्वा स्वर्गतिं समवाप्नुयात् ॥ ७०-८० ॥
श्रृङ्गेश्वरार्चको मर्त्यो न दुःखैरभिभूयते ॥
तीर्थे नारायणे स्नात्वा मुक्तिमाप्नोति मानवः ॥ ७०-८१ ॥
मार्कण्डेश्वरमभ्यर्च्य दीर्घायुर्जायते नरः ॥
तथा कोटीह्रदे स्नात्वाभ्यर्च्य कोटीश्वरं सुखीं ॥ ७०-८२ ॥
सिद्धस्थाने पुनः स्नात्वा तत्र लिङ्गानि पूजयेत् ॥
असङ्ख्यातानि यो मर्त्यः स सिद्धो जायते भुवि ॥ ७०-८३ ॥
दामोदरगृहं दृष्ट्वा सुखमाप्रोत्यमनुत्तमम् ॥
वस्त्रापथं प्रभासस्य नाभिस्थाने स्थितं शुभे ॥ ७०-८४ ॥
तत्राभ्यर्च्यं भवं साक्षाद्भवेद्भवसमः स्वयम् ॥
दामोदरं स्वर्णरेखा ब्रह्मकुण्डं च रैवते ॥ ७०-८५ ॥
कुन्तीश उज्जयन्ते तु भीमेशश्च महाप्रभः ॥
मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ॥ ७०-८६ ॥
एतेषु क्रमशः स्नात्वा देवानभ्यर्च्य यत्नतः ॥
पितॄन्सन्तर्प्य तोयेन सर्वतीर्थफलं लभेत् ॥ ७०-८७ ॥
दुन्नाबिले नरः स्नात्वा भुक्तिभोगो दिवं व्रजेत् ॥
गङ्गेश्वरं ततोऽभ्यर्च्य गङ्गास्नानफलं लभेत् ॥ ७०-८८ ॥
गिरौ रैवतके देवि सन्ति तीर्थान्यनेकशः ॥
तेषु स्नात्वा नरो भक्त्या ब्रह्मविष्णुमहेश्वरान् ॥ ७०-८९ ॥
इन्द्रादिलोकपान्प्रार्च्य भुक्तिं मुक्तिं च विन्दति ॥
एतान्युद्देशतस्तीर्थान्युक्तानि तव सुन्दरी ॥ ७०-९० ॥
अवान्तराण्यनन्तानि तानि वक्तुं न शक्यते ॥
एकैकस्यापि तीर्थस्य सन्ति विस्तरतः कथाः ॥ ७०-९१ ॥
अतः सङ्क्षिप्य गदितं मया पुण्यं प्रभासजम् ॥
न प्रभाससमं तीर्थं त्रिषु लोकेषु मोहिनि ॥ ७०-९२ ॥
यत्र स्नातोऽपि मनुजः स्वर्गिण्णा स्पर्द्धते शुभे ॥
माहात्म्यं च प्रभासस्य लिखितं वर्तते गृहे ॥ ७०-९३ ॥
यत्र तत्र न भीतिः स्याद्भूतचौराहिशत्रुजा ॥
यः श्रृणोति नरो भक्त्या श्रावयेद्वा समाहितः ॥ ७०-९४३ ॥
प्रभासतीर्थमाहात्म्यं सोऽपि सद्गतिमाप्नुयात् ॥ ७०-९५ ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रभासतीर्थमाहात्म्यं नाम सप्ततितमोऽध्यायः ॥ ७० ॥
इति प्रभासक्षेत्रमाहात्म्यं समाप्तम् ॥