०६९

अथ सिद्धनाथचरित्रसहितं कामाक्षा माहात्म्यं प्रारभ्यते ॥

मोहिन्युवाच ॥
श्रुतं कामोदकाख्यानं पापघ्नं पुण्यदं नृणाम् ॥
साम्प्रतं श्रोतुमिच्छामि कामाक्षायाः फलं द्विज ॥ ६९-१ ॥

वसुरुवाच ॥
कामाक्षा परमा देवी पूर्वस्यां दिशि संस्थिता ॥
सागरानूपतटगा कलौ सिद्धिप्रदा नृणाम् ॥ ६९-२ ॥

यस्तत्र गत्वा कामाक्षां सम्पूज्य नियताशनः ॥
तिष्ठेदेकां निशां भद्रे स पश्येत्तां दृढासनः ॥ ६९-३ ॥

सा देवी भीमरूपेण याति सन्दर्शनं नृणाम् ॥
तां दृष्ट्वा न चलेद्यो वै स सिद्धिं वाञ्छितां लभेत् ॥ ६९-४ ॥

यस्तु दृष्ट्वा सुरेशानीं कामाक्षां भीमरूपिणीम् ॥
आसनाच्चलितः सद्यः स विक्षिप्तो भवेद्ध्रुवम् ॥ ६९-५ ॥

तत्रास्ते पार्वतीपुत्रः सिद्धनाथो वरानने ॥
उग्रे तपसि लोकैः स प्रेक्ष्यते न कदाचन ॥ ६९-६ ॥

कृतत्रेताद्वापरेषु प्रत्यक्षं दृश्यतेऽखिलैः ॥
कलावन्तर्हितस्तिष्ठेद्यावत्पादः कलेर्व्रजेत् ॥ ६९-७ ॥

कलेः पादे गते चैकस्मिन्घोरे च धरातले ॥
स वै प्रत्यक्षतां प्राप्य साधयेदखिलं जनम् ॥ ६९-८ ॥

मोहिनाद्यैरुपायैस्तु म्लेच्छप्रायाञ्जनांस्तदा ॥
कृत्वा वशे महाभागे गमयेत्त्रिपदं कलेः ॥ ६९-९ ॥

यस्तत्र गत्वा सिद्धेशं भक्तिभावसमन्वितः ॥
चिन्तयेद्वर्षमात्रं तु कामाक्षां नित्यदार्चयन् ॥ ६९-१० ॥

स लभेद्दर्शनं स्वप्ने दर्शनान्ते समाहितः ॥
सूचितां तेन सिद्धिं स लब्ध्वा सिद्धो भवेद्भुवि ॥ ६९-११ ॥

विचरेत्सर्वलोकानां कामनाः पूरयञ्शुभे ॥
त्रिलोक्यां यानि वस्तूनि तानि सङ्कर्षयेद्वरात् ॥ ६९-१२ ॥

स मत्स्यनाथः किल तत्र संस्थो विज्ञानपारङ्गम एव भद्रे ॥
चचार लोकाभिमतं वितन्वंस्तपोऽतिघोरं न च याति दृष्टिम् ॥ ६९-१३ ॥

युगान्यनेकानि पुरा भ्रमित्वा लोकान्समग्रानहतेष्टगत्या ॥
तपस्थितोऽद्यास्ति महानुभावो न कालवेगेन शुभेऽभिभूतः ॥ ६९-१४ ॥

गण्डान्तजातस्तु पुराभवेऽभूद्द्विजस्य कस्यापि सुतः सुभद्रे ॥
स जातमात्रः किल पुष्कराख्ये द्वीपेऽस्य पित्रा ह्युदधौ विसृष्टः ॥ ६९-१५ ॥

प्रक्षिप्तमात्रं किल तत्र बालं मत्स्योऽग्रसीत्कोऽपि विधेर्नियोगात् ॥
तत्र स्थितोऽनेकयुगानि सोऽभूत्कालस्य गत्या ह्यजरामराङ्गः ॥ ६९-१६ ॥

ततः कदाचित्प्रियया प्रदिष्टो महेश्वरः सार्द्धमगप्रसूत्या ॥
तत्त्वोपदेशाय जगाम भद्रे स लोकलोकाच लमप्रमेयः ॥ ६९-१७ ॥

तत्सौम्यश्रृङ्गे मणिभिः प्रदीप्ते स्थित्वा क्षणार्द्धं हरिमग्नचेताः ॥
देवीमुमां सम्प्रतिबोध्य शक्त्या तालत्रयेणाप्यभिभूय सत्त्वान् ॥ ६९-१८ ॥

उवाच तत्त्वं सुरहस्यभूतं यद्द्वादशार्णार्थनिजस्वरूपम् ॥
ततस्तु सा शैलसुता महेशं मारान्तक यावदभिप्रणम्य ॥ ६९-१९ ॥

अज्ञाय तत्त्वं समवस्थिताऽभूत्तावत्स मत्स्यस्तु महार्णवस्थः ॥
द्रुतं समुत्प्लुत्य जगाम श्रृङ्गं यो विप्रबालो ह्युदरे स्थितोऽस्य स तत्त्वसिद्धोऽखिलबन्धमुक्तः ॥ ६९-२० ॥

निर्गम्य मत्स्योदरतः शुभास्ये नमः प्रचक्रे भवयोः पुरस्तात् ॥
विज्ञाततत्त्वोऽपि महेश्वरस्तं पप्रच्छ तद्गर्भगतेर्निदानम् ॥ ६९-२१ ॥

स वर्णयामास यथार्थमेव तयोः पुरः सर्वमपि प्रवृत्तम् ॥
आकर्ण्य तद्वृत्तमनुप्रसन्ना सोमा महेशानुमतिं च कृत्वा ॥ ६९-२२ ॥

तं कल्पयामास सुतं शुभाङ्गे सोत्सङ्ग आस्थाप्य चुचुम्ब वक्त्रम् ॥
सुतो ममायं किल मत्स्यनाथो विज्ञाततत्त्वोऽखिलसिद्धनाथः ॥ ६९-२३ ॥

निजेच्छया सम्प्रति यातु लोकान्कीर्तिं वितन्वन्सुखमावयोश्च ॥
ततः प्रभृत्येष सुतोंऽबिकाया लोकान्समग्रान्प्रविहृत्य कामम् ॥ ६९-२४ ॥

तत्सिद्धपीठं समवाप्य तत्र तपस्युपादिष्ट इवास्थितोऽस्ति ॥
तं सिद्धनाथं मनसा विचिन्त्य नरो भवेत्सिद्धसमस्तकामः ॥ ६९-२५ ॥

सम्प्राप्य विद्यां निजवाक्यवाहे निमज्जयेत्पण्डितवर्गजातम् ॥
एतां कथां तस्य जगत्पवित्रां श्रृणोति यः कर्णपथप्रयाताम् ॥ ६९-२६ ॥

स चाभिकामं समवाप्य भूमौ स्वर्गं प्रयात्येव सुरार्चिताङ्घ्रिः ॥
एतन्मया ते कथितं सुनेत्रे श्रीसिद्धनाथस्य चरित्रयुक्तम् ॥
कामाक्षमाहात्म्यमघघ्नमाद्यं भूयोऽपि किं ते प्रवदामि भद्रे ॥ ६९-२७ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे सिद्धनाथचरित्रयुक्तं कामाक्षामाहात्म्यं
नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥

इति सिद्धनाथचरित्रसहितं कामाक्षामाहात्म्यं समाप्तम् ॥