अथ कामोदामाहात्म्यम् ॥
मोहिन्युवाच ॥
कामोदायास्तु माहात्म्यं ब्रूहि मे द्विजसत्तम ॥
यच्छ्रुत्वाहं तव मुखात्प्रसन्ना स्यां कृतार्थवत् ॥ ६८-१ ॥
वसुरुवाच ॥
श्रृणु देवि प्रवक्ष्यामि कामोदाख्यानकं शुभम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ६८-२ ॥
कामोदाख्यं पुरं देवि गङ्गातीरे व्यवस्थितम् ॥
कामोदा यत्र वर्तन्ते सार्द्धं देवैर्हरिप्रियाः ॥ ६८-३ ॥
यदा सुरासुरैर्देवि मथितः क्षीरसागरः ॥
कामोदा सा तदोत्पन्ना कन्यारत्नचतुष्टये ॥ ६८-४ ॥
कन्या रमाख्या प्रथमा द्वितीया वारुणी स्मृता ॥
कामोदाख्या तृतीया तु चतुर्थी तु वराभिधा ॥ ६८-५ ॥
तत्र कन्यात्रयं प्राप्तुं विष्णुना प्रभविष्णुना ॥
वारुणी त्वसुरैर्नीता विष्णुदेवाज्ञया सति ॥ ६८-६ ॥
ततः प्रभृति लक्ष्मीस्तु विष्णोर्वक्षस्थले स्थिता ॥
बभूव विष्णुपत्नी सा सपत्नीरहिता शुभे ॥ ६८-७ ॥
भविष्यकार्यं विज्ञाय देवा विष्णुसमाज्ञया ॥
कामोदाख्ये पुरे देवीं कामोदां पूजयन्ति हि ॥ ६८-८ ॥
सा तत्र वर्तते नित्यं विष्णुसंयोगकाम्यया ॥
भार्यात्वं भावतः प्राप्ता विष्णुध्यानपरायणा ॥ ६८-९ ॥
स तत्र भावगम्यो वै विष्णुः सर्वगतो महान् ॥
अनयापि तया नित्यं वर्तते तत्समीपतः ॥ ६८-१० ॥
स देवैर्वासुरैर्देवि मुनिभिर्मानवैस्तथा ॥
अलक्ष्यदेहो विश्वात्मा वर्तते ध्यानगोचरः ॥ ६८-११ ॥
ध्यानेनैव प्रपश्यन्ति देवाश्च मुनयो विभुम् ॥
कामोदा सा महाभागा यदा हसति मोहिनि ॥ ६८-१२ ॥
हर्षेण तु समाविष्टा तदाश्रूणि पतन्ति च ॥
आनन्दाश्रूणि गङ्गायां पतितानि सुरेश्वरि ॥ ६८-१३ ॥
कामोदाख्यानि पद्मानि तानि तत्र भवन्ति च ॥
पीतानि च सुगन्धीनि महामोदप्रदानि च ॥ ६८-१४ ॥
यस्तु भाग्यवशाल्लब्ध्वा तानि तैः पूजयेच्छिवम् ॥
स लभेद्वाञ्छितान्कामानित्याज्ञा पारमेश्वरी ॥ ६८-१५ ॥
दुःखजानि तथाश्रूणि कदाचित्प्रपतन्ति हि ॥
तेभ्यश्च तानि पद्मानि विगन्धीन्युद्भवन्ति च ॥ ६८-१६ ॥
तैस्तु यः पूजयेद्देवं शङ्करं लोकशङ्करम् ॥
स युज्येताखिलैर्दुःखैः पूर्वपापैर्विमोहितः ॥ ६८-१७ ॥
गङ्गाद्वारादुपरि च दशयोजनके स्थितम् ॥
कामोदं तत्र वर्षैकं यो जपेद्द्वादशाक्षरम् ॥ ६८-१८ ॥
वर्षान्ते चैत्रमासस्य द्वादश्यां विधिनन्दिनि ॥
वासतौ च श्रियं दृष्ट्वा सा हसेद्धर्षतः सदा ॥ ६८-१९ ॥
तानि पद्मानि स लभेन्नान्यदा कोऽपि कर्हिचित् ॥
तत्र यः स्नाति मनुजां विष्णुभक्तिपरायणः ॥ ६८-२० ॥
ध्यात्वा पुरं च कामोदं स भवेद्विष्णुवल्लभः ॥
देवतानां पितॄणां च वल्लभो नात्र संशयः ॥ ६८-२१ ॥
यो द्वादश समास्तत्र तिष्ठेज्जपपरायणः ॥
स लभेद्दर्शनं साक्षात्कामोदायाः शुभानने ॥ ६८-२२ ॥
यं यं चिन्तयते कामं तत्र तीर्थे नरः शुचिः ॥
स्नानमात्रेण लभते तं तमैहिकमङ्गने ॥ ६८-२३ ॥
एतद्धि परमं तीर्थं लभ्यं भाग्यवशाद्भवेत् ॥
हिमात्ययादगे भद्रे दुर्गभं विकटस्थलम् ॥ ६८-२४ ॥
एतत्ते सर्वमाख्यातं कामोदाख्यानकं शुभम् ॥
यः श्रृणोति नरो भक्त्या सोऽपि पापैः प्रमुच्यते ॥ ६८-२५ ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनी संवादे कामोदाख्यानं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥
इति कामोदामाहात्म्यं समाप्तम् ॥