अथ बदरीमाहात्म्यं प्रारभ्यते ॥
मोहिन्युवाच ॥
अहो द्विजवराख्यातं गङ्गाद्वारसमुद्भवम् ॥
माहात्म्यमधुना ब्रूहि बदर्याः पापनाशनम् ॥ ६७-१ ॥
वसुरुवाच ॥
श्रृणु भद्रे प्रवक्ष्यामि माहात्म्यं बदरीभवम् ॥
यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ६७-२ ॥
बदर्याख्यं हरेः क्षेत्रं सर्वपातकनाशनम् ॥
मुक्तिदं भवभीतानां कलिदोषहरं नृणाम् ॥ ६७-३ ॥
यत्र नारयणो देवो नरश्च भगवानृषिः ॥
धर्मान्मूर्त्यां लब्धजनी ययतुर्गन्धमादनम् ॥ ६७-४ ॥
यत्रास्ति बदरीवृक्षो बहुगन्धफलान्वितः ॥
तस्मिन्स्थाने महाभाग आकल्पादास्थितौ तपः ॥ ६७-५ ॥
नारदाद्यैर्मुनिवरैः कलापग्रामवासिभिः ॥
सिद्धसङ्घैः परिवृतौ लोकानां स्थितये स्थितौ ॥ ६७-६ ॥
यत्राग्नितीर्थं विख्यातं वर्तते सर्वसिद्धिदम् ॥
महापातकिनस्तत्र स्नात्वा शुध्यन्ति पातकात् ॥ ६७-७ ॥
दुर्वर्णं हाटकं यद्वदग्नौ ध्मातं विशुध्यति ॥
तथाग्नितीर्थ आप्लुत्य देही पापौर्विमुच्यते ॥ ६७-८ ॥
चान्द्रायणसहस्रैस्तु कृच्छ्रैः कोटिभिरेव च ॥
यत्फलं लभते मर्त्यस्तत्स्नानाद्वह्नितीर्थतः ॥ ६७-९ ॥
शिलाः पञ्चापि तत्तीर्थे सन्तियन्मध्यतः स्थितम् ॥
अग्नितीर्थं विधिसुते दर्शनात्तदघापहम् ॥ ६७-१० ॥
नारदो यत्र भगवांस्तपस्तेपे सुदारुणम् ॥
सा शिला नारदी नाम दर्शनादेव मुक्तिदा ॥ ६७-११ ॥
नित्यदा यत्र सान्निध्यं हरेरस्ति सुलोचने ॥
तत्र नारदकुण्डं च यत्र स्नातो नरः शुचिः ॥ ६७-१२ ॥
भुक्तिं मुक्तिं हरेर्भक्तिं यद्यद्वाञ्छेत्तु तल्लभेत् ॥
एतस्यां यो नरो भक्त्या स्नानं दानं सुरार्चनम् ॥ ६७-१३ ॥
होमं जपं तथान्यद्वा यत्करोति तदक्षयम् ॥
वैनतेय शिला चान्या तस्मिन् क्षेत्रे शुभावहा ॥ ६७-१४ ॥
यत्र तप्तं तपस्तीव्रं गरुडेन महात्मना ॥
त्रिंशद्वर्षसहस्राणि हरिदर्शनकाम्यया ॥ ६७-१५ ॥
ततः प्रसन्नो भगवान्ददौ तस्मै वरं शुभे ॥
अजेयो दैत्यसङ्घानां नागानां च विभीषणः ॥ ६७-१६ ॥
वाहनं भव मे वत्स प्रसन्नोऽहं तवोपरि ॥
त्वन्नाम्नेयं शिलाख्यातिं गमिष्यति महीतले ॥ ६७-१७ ॥
दर्शनाप्तुण्यदा नृणां यत्र तप्तं त्वया तपः ॥
अत्र मुख्यतमे गङ्गा तीर्थे मत्प्रीतिकाम्यया ॥ ६७-१८ ॥
आविरस्तु महाभाग पुण्यदा स्नानकारिणाम् ॥
पञ्चगङ्गे तु यः स्नात्वा देवादीन्त्तर्पयिष्यति ॥ ६७-१९ ॥
न तस्य पुनरावृत्तिर्ब्रह्मलोकात्सनातनात् ॥
एवं दत्वा वरं विष्णुर्बभूवान्तर्हितस्तदा ॥ ६७-२० ॥
गरुडोऽप्यज्ञया विष्णोर्वाहनत्वमुपागतः ॥
ततः प्रभृति तत्तीर्थं जातं पापविनाशनम् ॥ ६७-२१ ॥
पुण्यदं वै स्मरेच्चापि वैनतेयगतिप्रदम् ॥
अथान्या तु शिला तत्र वाराहीति शुभावहा ॥ ६७-२२ ॥
यत्रोद्धृत्य महीं देवो हिरण्याक्षं निपात्य च ॥
शिलारूपेण चाक्रम्य स्थितः पापविनाशनः ॥ ६७-२३ ॥
तत्र यो मनुजो गत्वा गङ्गाम्भस्यमले प्लुतः ॥
पूजयेत्तां शिलां भक्तक्या स न दुर्गतिमाप्नुयात् ॥ ६७-२४ ॥
अथान्या नारसिंहाख्या शिला तत्र सुरेश्वरी ॥
हिरण्यकशिपुं हत्वा स्थितो यत्र बभूव ह ॥ ६७-२५ ॥
ततः सुरर्षिभिः सर्वैः क्रोधस्तस्य निवारितः ॥
प्रार्थितश्च विशालायां स्थातुं तत्र सदैव हि ॥ ६७-२६ ॥
चतुर्भुजस्तथा तत्र शिलारूपमुपागतः ॥
जलक्रीडापरो नित्यं वर्तते तोयमध्यगः ॥ ६७-२७ ॥
तत्र यः स्नाति मनुजो नृहरेः पूजयेच्छिलाम् ॥
स लभेद्वैष्णवं धाम पुनरावृत्तिदुर्लभम् ॥ ६७-२८ ॥
पञ्चमीं तु शिलां देवि वह्निकुण्डतटस्थिताम् ॥
नरनारायणाख्यां च वक्ष्यामि श्रृणु साम्प्रतम् ॥ ६७-२९ ॥
कृते युगे तु सर्वेषां नरनारायणो हरिः ॥
प्रत्यक्षं वसते तत्र भुक्तिमुक्तिप्रदायकः ॥ ६७-३० ॥
त्रेतायां मुनिभिर्देवैर्योगिभिर्दृश्यते शुभे ॥
नान्यैः समास्थितो योगं लोकस्थितिविधायकः ॥ ६७-३१ ॥
द्वापरे समनुप्राप्ते ज्ञानयोगेन दृश्यते ॥
नान्योपायेन केनापि तिष्ये दर्शनतां गतः ॥ ६७-३२ ॥
ततो ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥
स्तुत्वा वाग्भिर्विचित्राभिर्देवं प्रासादयन्हरिम् ॥ ६७-३३ ॥
ततोऽशरीरिणी वाणी प्राहतान्विधिपूर्वकान् ॥
कलौ न दर्शनं यामि सर्वधर्मविवर्जिते ॥ ६७-३४ ॥
यदि वो दर्शने श्रद्धा मण्डपस्य सुरेश्वराः ॥
गृहीध्वं मामकीं मूर्तिं शैलीं नारदकुण्डगाम् ॥ ६७-३५ ॥
ततस्तां गिरमाकर्ण्य ब्रह्माद्या हृष्टमानसाः ॥
निष्कास्य शैलीं तां दिव्यां मूर्तिं नारदकुण्डगाम् ॥ ६७-३६ ॥
स्थापयामासुरभ्यर्च्य स्वं स्वं धाम ययुस्ततः ॥
वैशाखे मासि ते देवा गच्छन्ति निजमन्दिरम् ॥ ६७-३७ ॥
कार्तिके तु समागत्य पुनरर्चां चरन्ति च ॥
ततो वैशाखमारभ्य मानवा हिमसङ्क्षयात् ॥ ६७-३८ ॥
लभन्ते दर्शनं पुण्याः पापकर्मविवर्जिताः ॥
षण्मासं दैवदैः पूज्या षण्मासं मानवैस्तथा ॥ ६७-३९ ॥
एवं व्यवस्थया मूर्तिस्तत्प्रभृत्याविरास सा ॥
यः शैलीं प्रतिमां विष्णोः पूजयेद्भक्तिभावतः ॥ ६७-४० ॥
नैवेद्यं भक्षयेच्चापि स मुक्तिं लभते ध्रुवम् ॥
एताः पञ्च शिलाः पुण्या विशालायां व्यवस्थिताः ॥ ६७-४१ ॥
आसां मध्ये तु नैवेद्यं देवानां दुर्लभं हरेः ॥
किं पुनर्मान्नुषादीनां भक्षितं मोक्षसाधनम् ॥ ६७-४२ ॥
बदर्यां विष्णुनैवेद्यं सिक्थमात्रं च भक्षितम् ॥
शोधयेद्देहगं पापं दीप्ताग्निरिव काञ्चनम् ॥ ६७-४३ ॥
कपालमोचनं ह्येतत्तीर्थँ पापविशोधनम् ॥
यन्मध्ये तु शिलाः पञ्च सन्ति पापविमोचिकाः ॥ ६७-४४ ॥
अथापरं महत्तीर्थमत्रैव श्रृणु मोहिनि ॥
यत्र स्नातो नरो भक्त्या वेदानां पारगो भवेत् ॥ ६७-४५ ॥
सुप्तस्य ब्रह्मणो वक्त्रान्निर्गतानसुरोऽहरत् ॥
वेदान्हयशिरा नाम देवादीनां भयावहः ॥ ६७-४६ ॥
ततस्तु ब्रह्मणा विष्णुः प्रार्थितः प्रकटोऽभवेत् ॥
मत्स्यरूपेण तं हत्वा वेदान्प्रत्यर्पयद्विधेः ॥ ६७-४७ ॥
तच्च तीर्थं महत्पुण्यं सर्वविद्याप्रकाशकम् ॥
तैमिङ्गिलं महाभागे दर्शनात्पापनाशनम् ॥ ६७-४८ ॥
हयग्रीव स्वरूपेण भगवान्विष्णुरव्ययः ॥
पुनश्च हत्वा मत्तौ द्वावसुरौ मधुकैटभौ ॥ ६७-४९ ॥
वेदापहारिणौ भूयो वेदान्वै ब्रह्मणे ह्यदात् ॥
तत्तीर्थं सर्वपापघ्नं स्नानमात्रेण वैधसि ॥ ६७-५० ॥
मात्स्ये चापि हयग्रीवे वेदास्ते द्रवरूपिणः ॥
वर्तन्ते सर्वदा भद्रे तज्जलं पापनाशनम् ॥ ६७-५१ ॥
तीर्थमिन्द्रपदं तत्र विख्यातं वह्निकोणगम् ॥
तत्र स्नात्वा नरो देवि पदमैन्द्रमवाप्नुयात् ॥ ६७-५२ ॥
मानसोद्भदकं चान्यत्तत्र तीर्थं मनोरमम् ॥
भिनत्ति हदयग्रन्थिं छिनत्त्यखिलसंशयम् ॥ ६७-५३ ॥
हरत्यंहश्च सकलं मानसोद्भेदकं ततः ॥
कामाकामाभिधं चान्यत्तीर्थं तत्र वरानने ॥ ६७-५४ ॥
कामप्रदं कामवतामकामानां तु मोक्षदम् ॥
ततः पश्चिमतो भद्रे वसुधारेति तीर्थकम् ॥ ६७-५५ ॥
तत्र स्नात्वा नरो भक्त्या लभते वाञ्छितं फलम् ॥
अत्र पुण्यवतो यान्ति दृश्यते जलमध्यगम् ॥ ६७-५६ ॥
यदृष्ट्वा न पुनर्जन्तुर्गर्भवासं प्रपद्यते ॥
ततो नैर्ऋतिदिग्भागे पञ्च धाराः पतन्त्यधः ॥ ६७-५७ ॥
प्रभासपुष्करगयानैमिषारण्यसञ्ज्ञकाः ॥
तासु स्नात्वा पृथङ्मर्त्यस्तत्तीत्तीर्थफलं लभेत् ॥ ६७-५८ ॥
ततोऽन्यद्विमलं तीर्थँ सोमकुण्डापराह्वयम् ॥
यत्र तप्त्वा तपस्तीव्रं सोमः खोटाद्यधीश्वरः ॥ ६७-५९ ॥
तत्र स्नात्वा नरो भद्रे गतदोषः प्रजायते ॥
तत्रान्यद्द्वादशादित्यं तीर्थँ पापहरं परम् ॥ ६७-६० ॥
स्नात्वा यत्र नरो भूत्वा तेजसा भास्करोपमः ॥
चतुःस्रोतोऽपरं तत्र तीर्थं तत्राप्लुतो नरः ॥ ६७-६१ ॥
धर्मार्थकाममोक्षांश्च लभते यं यमिच्छति ॥
अथ सप्तपदं नाम तीर्थँ तत्र मनोहरम् ॥ ६७-६२ ॥
दर्शनाद्यस्य तीर्थस्य पातकानि महान्त्यपि ॥
नश्यन्ति नियतं तस्य किं पुनः स्नानतः सति ॥ ६७-६३ ॥
त्रिषु लोकेषु कुण्डस्य ब्रह्मविष्णुमहेश्वराः ॥
आस्थितास्तत्र मरणान्नरः सत्यपदं लभेत् ॥ ६७-६४ ॥
नरनारायणावासे तीर्थमस्त्यपरं शुभे ॥
उर्वशीकुण्ड नामात्र स्नातो रूपमनोहरः ॥ ६७-६५ ॥
नारायणप्रियोऽत्यर्थं भवेद्विश्ववंशकरः ॥
ततो दक्षिणदिग्भागे तीर्थमस्त्राभिधं परम् ॥ ६७-६६ ॥
नरनारायणौ यत्र शस्त्रं न्यस्य तपः स्थितौ ॥
आयुधानि तु दिव्यानि शङ्खचक्रादिकानि च ॥ ६७-६७ ॥
मूर्तिमन्ति महाभागे दृश्यन्ते कृतिभिर्यतः ॥
तत्र स्नात्वा नरो भक्त्या न शत्रोर्भयमाप्नुयात् ॥ ६७-६८ ॥
मेरुतीर्थँ च तत्रास्ति यत्र दृष्ट्वा धनुर्द्धरम् ॥
स्नात्वा च लभते सोऽपि शुभे सर्वान्मनोरथान् ॥ ६७-६९ ॥
लोकपालाह्वयं नाम तत्रान्यत्तीर्थमुत्तमम् ॥
लोकपालैस्तपस्तप्तं यत्र तत्राप्लुतो नरः ॥ ६७-७० ॥
सर्वतीर्थाप्लुतिफलं लभते देवि मानवः ॥
दण्डेनाहत्य हरिणा यतस्तीर्थं विनिर्मितम् ॥ ६७-७१ ॥
दण्डेपुष्करिणीत्येतत्ततो लोकपसौख्यदम् ॥
भागीरथी यत्र योगं प्राप्ता ह्यलकनन्दया ॥ ६७-७२ ॥
तत्तीर्थं सर्वत श्रेष्ठः पुण्ये बदरिकाश्रमे ॥
तत्र स्नात्वा पितॄन्देवान्सन्तर्प्याभ्यर्च्य भक्तितः ॥ ६७-७३ ॥
लभते वैष्णवं धाम सर्वदेवनमस्कृतः ॥
सङ्गमाद्दक्षिणे भागे धर्मक्षेत्रं शुभानने ॥ ६७-७४ ॥
तत्क्षेत्रं पावनं मन्ये सर्वतीर्थोत्तमोत्तमम् ॥
तत्र स्नात्वा नरो भद्रे साध्यसन्निधिभाग्भवेत् ॥ ६७-७५ ॥
उर्वशीसङ्गमं तीर्थं सर्वपापहरं नृणाम् ॥
कर्मोद्धराह्वय चान्यद्धरि भक्त्येकसाधनम् ॥ ६७-७६ ॥
ब्रह्मावर्ताह्वयं तीर्थं ब्रह्मलोकैककारणम् ॥
गङ्गाश्रितानि चैतानि तीर्थानि कथितानि ते ॥ ६७-७७ ॥
ब्रह्मापि कात्स्नर्यतो वक्तुं तत्रस्थानि न वै प्रभुः ॥
य इदं श्रृणुयान्नित्यं श्रावयेद्वा समाहितः ॥ ६७-७८ ॥
सर्वपापविनिमुक्तः सोऽपि विष्णुपदं लभेत् ॥
मासमात्रं नरो भक्त्या योऽत्र तिष्ठेद्धृतव्रतः ॥ ६७-७९ ॥
स साक्षादेव पश्येत्तु नरनारायणं हरिम् ॥
यत्रैतल्लिखितं देवि माहात्म्यं बदरीभवम् ॥ ६७-८० ॥
नाल्पमृत्युर्भवेत्तत्र ह्याधिव्याध्य हिभीस्तथा ॥
कल्याणानि सदा तत्र प्रसादात्सन्ति वै हरेः ॥ ६७-८१ ॥
वर्द्धन्ते सम्पदस्सर्वास्तथा विष्णुप्रसादतः ॥ ६७-८२ ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे बदरिकाश्रममाहात्म्यं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥
इति बदरिकाश्रममाहात्म्यम् ॥