०६४

अथ कुरुक्षेत्रमाहात्म्यं प्रारभ्यते ॥
मोहिन्युवाच ॥
वसो कृपालो धर्मज्ञ त्वया बहुविदा मम ॥
तीर्थराजस्य माहात्म्यं प्रयागस्य निरूपितम् ॥ ६४-१ ॥

यत्सर्वतीर्थमुख्येषु कुरुक्षेत्रं शुभावहम् ॥
पावनं सर्वलोकानां तन्ममाचक्ष्व साम्प्रतम् ॥ ६४-२ ॥

वसुरुवाच ॥
श्रृणु मोहिनि वक्ष्यामि कुरुक्षेत्रं सुपुण्यदम् ॥
यत्र गत्वा नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ ६४-३ ॥

तत्र तीर्थान्यनेकानि सेवितानि मुनीश्वरैः ॥
तान्यहं तेऽभिधास्यामि श्रृण्वतां मुक्तिदानि च ॥ ६४-४ ॥

ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा ॥
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥ ६४-५ ॥

सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ॥
तं देवसेवितं देशं ब्रह्मावर्तं प्रचक्षते ॥ ६४-६ ॥

दूरस्थोऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम् ॥
एवं यः सतत ब्रूयात्सोऽपि पापैः प्रमुच्यते ॥ ६४-७ ॥

तत्र वै यो वसेद्धीरः सरस्वत्यास्तटे स्थितः ॥
तस्य ज्ञानं ब्रह्ममयं भविष्यति न संशयः ॥ ६४-८ ॥

देवता ऋषयः सिद्धाः सेवन्ते कुरुजाङ्गलम् ॥
तस्य संसेवनाद्देवि ब्रह्म चात्मनि पश्यति ॥ ६४-९ ॥

मोहिन्युवाच ॥
कुरुक्षेत्रं द्विजश्रेष्ट सर्वतीर्थाधिकं कथम् ॥
तन्मे विस्तरतो ब्रूहि त्वामहं शरणं गता ॥ ६४-१० ॥

वसुरुवाच ॥
श्रृणु भद्रे प्रवक्ष्यामि कुरुक्षेत्रं महाफलम् ॥
यथा जातं नृणां पापदहनं ब्रह्मणः प्रियम् ॥ ६४-११ ॥

आद्यं ब्रह्मसरः पुण्यं तत्र स्थाने समुद्गतम् ॥
ततो रामह्रदो जातः कुरुक्षेत्रं ततः परम् ॥ ६४-१२ ॥

सरः सन्निहितं तच्च ब्रह्मणा निर्मितं पुरा ॥
अथैषा ब्रह्मणो वेदी दिशमन्तरतः स्थिता ॥ ६४-१३ ॥

ब्रह्मणात्र तपस्तप्तं सृष्टिकामेन मोहिनि ॥
स्थितिकामेन हरिणा तपस्तप्तं च चक्रिणा ॥ ६४-१४ ॥

सरः प्रवेशात्सम्प्राप्तं स्थाणुत्वं शम्भुनापि च ॥
पितुर्वधाच्च तप्तेन पशुरामेण भामिनि ॥ ६४-१५ ॥

अब्रह्मण्यक्षत्रवधाद्ये च रक्तह्रदाः कृताः ॥
तद्रक्तेन तु सन्तर्प्य कृतवांस्तत्र वै तपः ॥ ६४-१६ ॥

रामतीर्थं ततः ख्यातं सञ्जातं पापनाशनम् ॥
मार्कण्डेयेन मुनिना सन्तप्तं परमं तपः ॥ ६४-१७ ॥

यत्र तत्र समायाता प्लक्षजाता सरस्वती ॥
सा सभाज्य स्तुता तेन मुनिना धार्मिकेण ह ॥ ६४-१८ ॥

सरः सन्निहितं प्लाव्यं पश्चिमां प्रस्थिता दिशम् ॥
कुरुणा तु ततः कृष्टं यावत्क्षेत्रं समन्ततः ॥ ६४-१९ ॥

पञ्चयोजनविस्तारं दयासत्यक्षमोद्गमम् ॥
स्यमन्तपञ्चकं तावत्कुरुक्षेत्रमुदाहृतम् ॥ ६४-२० ॥

अत्र स्नाता नरा देवि लभन्ते पुण्यमक्षयम् ॥
मृता विमानमारुह्य ब्रह्मलोकं व्रजन्ति च ॥ ६४-२१ ॥

उपवासश्च दानं च होमो जप्यं सुरार्चनम् ॥
अक्षयत्वं प्रयान्त्येव नात्र कार्या विचारणा ॥ ६४-२२ ॥

ब्रह्मवेद्यां कुरुक्षेत्रे ये मृतास्तेऽपुनर्भवाः ॥
ग्रहनक्षत्रताराणां कालेन पतनाद्भयम् ॥ ६४-२३ ॥

कुरुक्षेत्रे मृतानां तु न भूयः पतनं भवेत् ॥
देवर्षिसिद्धगन्धर्वास्तत्सरः सेवनोत्सुकाः ॥ ६४-२४ ॥

यत्र नित्यं स्थिता देवि रन्तुकं नामतस्ततः ॥
तस्य क्षेत्रस्य रक्षार्थं विष्णुना स्थापिताः पुरा ॥ ६४-२५ ॥

यक्षः सुचन्द्रः सूर्यश्च वासुकिः शम्बुकर्णकः ॥
विद्याधरः सुकेशी च राक्षसाः स्थापिताः शुभे ॥ ६४-२६ ॥

सभृत्यैस्तेऽष्टसाहस्रैर्द्धनुर्बाणधरैः सदा ॥
रक्षन्ति च कुरुक्षेत्रं वारयन्ति च पापिनः ॥ ६४-२७ ॥

रन्तुकं तु समासाद्य क्षामयित्वा पुनः पुनः ॥
ततः स्नात्वा सरस्वत्यां यक्षं दृष्ट्वा प्रणम्य च ॥ ६४-२८ ॥

पुष्पं धूपं च नैवेद्यं कृत्वैतद्वाक्यमुच्चरेत् ॥
तव प्रसादाद्यक्षेन्द्र वनानि सरितस्तथा ॥ ६४-२९ ॥

भ्रमतो मम तीर्थानि मा विघ्नं जायतां नमः ॥
इति प्रसाद्ययक्षेशं यात्रां सम्यक् समाचरेत् ॥ ६४-३० ॥

वनानां चापि तीर्थानां सरितामपि मोहिनि ॥
यो नरः कुरुते यात्रां कुरुक्षेत्रस्य पुण्यदाम् ॥ ६४-३१ ॥

न तस्य न्यूनता काचिदिह लोके परत्र च ॥ ६४-३२ ॥

इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्ये क्षेत्रप्रमाणादिनिरूपणं नाम
चतुष्षष्टितमोऽध्यायः ॥ ६४ ॥