वसिष्ठ उवाच ॥
एतच्छ्रुत्वा तु भूपाल मोहिनी विधिनन्दिनी ॥
पुरुषोत्तममाहात्म्यं भुक्तिमुक्तिप्रदायकम् ॥ ६२-१ ॥
पुनः पप्रच्छ तं विप्रं वसुं स्वस्य पुरोहितम् ॥
मोहिन्युवाच ॥
श्रुतमत्यद्भुतं विप्र पुरुषोत्तमसम्भवम् ॥ ६२-२ ॥
माहात्म्यं चाधुना ब्रूहि प्रयागस्यापि सुव्रत ॥
तीर्थराजः प्रयागाख्यः श्रुतः पूर्वं मया गुरो ॥ ६२-३ ॥
तन्माहात्म्यं ममाख्याहि तीर्थयात्राविधानयुक् ॥
स मान्यानां विशेषाणां तीर्थानां गमने द्विज ॥ ६२-४ ॥
यत्कर्त्तव्यं च विधिना नृभिर्द्धर्मपरायणैः ॥
तच्छ्रुत्वा स द्विजो राजन्मोहिन्या भाषितं वचः ॥ ६२-५ ॥
सामान्यविधिपूर्वं तत्प्रयागाख्यानमब्रवीत् ॥
वसुरुवाच ॥
श्रृणु भद्रे प्रवक्ष्यामि तीर्थाभिगमने विधिम् ॥ ६२-६ ॥
यं समाश्रित्य मनुजो यथोक्तं फलमाप्नुयात् ॥
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ ६२-७ ॥
अनुपोष्य त्रिरात्राणि तीर्थान्यप्यभिगम्य च ॥
अदत्त्वा काञ्चनं गाश्च दारिद्रो जायते नरः ॥ ६२-८ ॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ॥
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ ६२-९ ॥
अज्ञानेनापि यस्येह तीर्थामिगमनं भवेत् ॥
सर्वकामसमृद्धः स स्वर्गलोके महीयते ॥ ६२-१० ॥
स्थानं च लभते नित्यं धनधान्यसमाकुलम् ॥
ऐश्वर्यज्ञानसम्पूर्णः सदा भवति भोगवान् ॥ ६२-११ ॥
तारिताः पितररतेन नरकात्प्रपितामहाः ॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ ६२-१२ ॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥
प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित् ॥ ६२-१३ ॥
अहङ्कारविमुक्तश्च स तीर्थफलमाप्नुयात ॥
अकल्पको निरारम्भो लघ्वाहारो जितेन्द्रियः ॥ ६२-१४ ॥
विनुक्तः सर्वसङ्गैस्तु स तीर्थफलभाग्भवेत् ॥
तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः ॥ ६२-१५ ॥
कृतपापो विशुध्येत्तु किं पुनः शुद्धकर्मकृत् ॥
अश्रद्दधानः पापार्तो नास्तिकोऽच्छिन्नसंशयः ॥ ६२-१६ ॥
हेतुनिष्टश्च पञ्चैते न तीर्थफलभागिनः ॥
नृणां पापकृतां तीर्थे पापस्य शमनं भवेत् ॥ ६२-१७ ॥
यथोक्तफलदं तीर्थं भवेच्छुद्धात्मनां नृणाम् ॥
कामं क्रोधं च लोभं च यो जित्वा तीर्थमाविशेत् ॥
न तेन किञ्चिदप्राप्तं तीर्थाभिगमनाद्भवेत् ॥
तीर्थानि च यथाक्तेन विधिना सञ्चरन्ति ये ॥
सर्वद्वन्द्वसहा धीरास्ते नराः स्वर्गगामिनः ॥ ६२-१८ ॥
गङ्गादितीर्थेषु वसन्ति मत्स्या देवालये पक्षिगणाश्च सन्ति ॥
भावोज्झितास्ते न फलं लभन्ते तीर्थाच्च देवायतनाच्च मुख्यात् ॥ ६२-१९ ॥
भावं ततो हृत्कमले निधाय तीर्थानि सेवेत समाहितात्मा ॥
या तीर्थयात्रा कथिता मुनीन्द्रैः कृता प्रयुक्ता ह्यनुमोदिता च ॥ ६२-२० ॥
तां ब्रह्मचारी विधिवत्करोति सुसंयतो गुरुणा सन्नियुक्तः ॥
सर्वस्वनाशेऽप्यथवाल्पपक्षे स ब्राह्मणानग्रत एव कृत्वा ॥ ६२-२१ ॥
यज्ञाधिकारेऽप्यथवा निवृत्ते विप्रस्तु तीर्थानि परिभ्रमेच्च ॥
तीर्थेष्वलं यज्ञफलं हि यस्मात्प्रोक्तं मुनीन्द्रैरमलस्वभावैः ॥ ६२-२२ ॥
यस्येष्टियज्ञेष्वधिकारितास्ति वरं गृहं गृहधर्माश्च सर्वे ॥
एवं गृहस्ताश्रमसंस्थितस्य तीर्थे गतिः पूर्वतरैर्निषिद्धा ॥
सर्वाणि तीर्थान्यपि चाग्निहोत्रतुल्यानि नैवेति वदन्ति केचित् ॥ ६२-२३ ॥
यो यः कश्चित्तीर्थयात्रां तु गच्छेत्सुसंयतः स च पूर्वं गृहेषु ॥
कृतावासः शुचिरप्रमत्तः सम्पूजयेद्भक्तिनम्रो गणेशम् ॥ ६२-२४ ॥
देवान्पितॄन्ब्राह्मणांश्चैव साधून्धीमान्विप्रो वित्तशक्त्या प्रयत्नात् ॥
प्रत्यागतश्चापि पुनस्तथैव देवान्पितृन्ब्राह्मणान्पूजयेच्च ॥ ६२-२५ ॥
एवं कुर्वतस्तस्य तीर्थाद्यदुक्तं फलं तत्स्यान्नात्र सन्देहलेशः ॥ ६२-२६ ॥
गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा ॥
यात्रार्थमिति तत्प्रोक्तं प्रवेशे च संशयः ॥ ६२-२७ ॥
प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ॥
कचानां वपनं कुर्याद् वृथा न विकचो भवेत् ॥ ६२-२८ ॥
उद्यतश्चेद्गयां गन्तुं श्राद्धं कृत्वा विधानतः ॥
विधाय कार्पटीवेषं कृत्वा ग्रामप्रदक्षिणाम् ॥ ६२-२९ ॥
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ॥
ततः प्रतिदिनं गच्छैत्प्रतिग्रहविवर्जितः ॥ ६२-३० ॥
पदेपदेऽश्वमेधस्य स्यात्फलं गच्छतो गयाम् ॥
बलीवर्दसमारूढस्तीर्थं यो याति सुव्रते ॥ ६२-३१ ॥
नरके वसते घोरे गवां क्रोधो हि दारुणः ॥
सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ॥ ६२-३२ ॥
ऐश्वर्याल्लोभमोहाद्वा गच्छेद्यानेन यो नरः ॥
निष्फलं तस्य तत्तीर्थं तस्माद्यान विवर्जयेत् ॥ ६२-३३ ॥
गोयाने गोवधः प्रोक्तो हययाने तु निष्फलम् ॥
नरयाने तदर्द्धं स्यात्पद्भ्यां तच्च चतुर्गुणम् ॥ ६२-३४ ॥
वर्षातपादिके छत्री दण्डी शर्करकण्टके ॥
शरीरत्राणकामोऽसौ सोपानत्कः सदा व्रजेत् ॥ ६२-३५ ॥
तीर्थं प्राप्यानुषङ्गेण स्नानं तीर्थे समाचरन् ॥
स्रानजं फलमाप्नोति तीर्थयात्राफलं न तु ॥ ६२-३६ ॥
षोडशांशं स लभते यः परार्थेन गच्छति ॥
अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥ ६२-३७ ॥
तीर्थेषु ब्राह्मणं नैव परीक्षेत कदाचन ॥
अत्रार्थिनमनुप्राप्तं भोज्यं तं मनुरब्रवीत् ॥ ६२-३८ ॥
सक्तुभिः पिण्डदानं च संयावैः पायसेन वा ॥
बदरामलकैर्वापि पिण्याकैर्वा सुलोचने ॥ ६२-३९ ॥
श्राद्धं तु तत्र कर्तव्यमर्च्चावाहनवर्जितम् ॥
श्वध्वाङ्क्षगृध्रपापानां नैव दृष्टिहतं च यत् ॥ ६२-४० ॥
श्राद्धं तु तैर्थिकं प्रोक्तं पितॄणां तृप्तिकारकम् ॥
अकालेऽप्यथवा काले तीर्थश्राद्धं तथा नरैः ॥ ६२-४१ ॥
प्राप्तैरेव सदा तत्र कर्तव्यं पितृतर्पणम् ॥
विलम्बो नैव कर्तव्यो नैव विघ्नं समाचरेत् ॥ ६२-४२ ॥
प्रतिकृतिं कुशमयीं तीर्थवारिणि मज्जयेत् ॥
यमुद्दिश्य विशालाक्षि सोऽष्टमांशं फलं लभेत् ॥ ६२-४३ ॥
कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा ॥
त्वयि स्नाते तु स स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ ६२-४४ ॥
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ॥ ६२-४५ ॥
भौमानामथ तीर्थानां पुण्यत्वे कारणं श्रृणु ॥
यथा शरीरस्योद्देशाः केचिन्मुख्यतमाः स्मृताः ॥ ६२-४६ ॥
प्रभावादद्भूमेः सलिलस्य च तेजसः ॥
परिग्रहान्मुनीनां च तीर्थानां पुण्यता स्मृता ॥ ६२-४७ ॥
गङ्गां सम्प्राप्य यो देवि मुण्डनं नैव कारयेत् ॥
क्रिया तस्याक्रिया सर्वा तीर्थद्रोही भवेत्तथा ॥ ६२-४८ ॥
गङ्गायां भास्करक्षेत्रे मुण्डनं यो न कारयेत् ॥
स कोटिकुलसंयुक्त आकल्पं रौरवं व्रजेत् ॥ ६२-४९ ॥
गङ्गां प्राप्य सरिच्छ्रेष्ठां कल्पान्तपापसञ्चयाः ॥
केशानाश्रित्य तिष्ठन्ति तस्मात्तान्परिवर्जयेत् ॥ ६२-५० ॥
यावन्ति नखलोमानि गङ्गातोये पतन्ति वै ॥
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ६२-५१ ॥
प्रयागव्यतिरेके तु गङ्गायां मुण्डनं न हि ॥
योऽन्यथा कुरुते मोहात्स महारौरवं विशेत् ॥ ६२-५२ ॥
स जीवत्पितृको यस्तु तीर्थं प्राप्य विधानवित् ॥
क्षौरं समाचरेन्नैव श्मश्रूणां वपनं सति ॥ ६२-५३ ॥
गयादावपि देवेशि श्मश्रूणां वपनं विना ॥
न क्षौरं मुनिभिः सर्वैर्निषिद्धं चेति कीर्तितम् ॥ ६२-५४ ॥
सश्मश्रुकेशवपनं मुण्डनं तद्विदुर्बुधाः ॥
न क्षौरं मुण्डनं सुभ्रु कीर्तितं वेदवेदिभिः ॥ ६२-५५ ॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे प्रयागराजमाहगात्म्ये तीर्थविधिर्नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥