०५७

वसुरुवाच ॥
देवान् ऋषीन्पितॄंश्चान्यान्सन्तर्प्याचम्य वाग्यतः ॥
हस्तमात्रं चतुष्कोणं चतुर्द्वारं सुशोभनम् ॥ ५७-१ ॥

पुरं विलिख्य विधिजेतीरे तस्य महोदधेः ॥
मध्ये तत्र लिखेत्पद्मष्टपत्रं सकर्णिकम् ॥ ५७-२ ॥

एवं मण्डलमालिख्य पूजयेत्तत्र मोहिनि ॥
अष्टाक्षरविधानेन नारायणमजं विभुम् ॥ ५७-३ ॥

अथ ते सम्प्रवक्ष्यामि कायशोधनमुत्तमम् ॥
क्षकारं हृदये चिन्त्यं रक्तं रेफसमन्वितम् ॥ ५७-४ ॥

ज्वलन्तं त्रिशिखं चैव दहन्तं पापसञ्चयम् ॥
चन्द्रमण्डलमध्यस्थमेकारं मूर्ध्नि चिन्तयेत् ॥ ५७-५ ॥

शुक्लवर्णं प्रवर्षन्तममृतं प्लावयन्महीम् ॥
एवं निर्द्धूतपापस्तु दिव्यदेहस्ततो भवेत् ॥ ५७-६ ॥

अष्टाक्षरं ततो मन्त्रं न्यसेद्देहात्मनेर्बुधः ॥
वामपादं समारभ्य क्रमशश्चैव विन्यसेत् ॥ ५७-७ ॥

पञ्चाङ्गं वैष्णवं चैव चतुर्व्यूहं तथैव च ॥
करशुद्धिं प्रकुर्वीत मूलमन्त्रेण साधकः ॥ ५७-८ ॥

एकैकं चैव वर्णं तु अङ्गुलीषु पृथक् पृथक् ॥
ॐकारं पृथिवी शुक्लं वामपादे तु विन्यसेत् ॥ ५७-९ ॥

नकारस्तु भावः श्यामो दक्षिणे तु व्यवस्थितः ॥
मोकारं कालमेवाहुर्वामकट्यां निधापयेत् ॥ ५७-१० ॥

नाकारं पूर्वबीजं तु दक्षिणस्यां व्यवस्थितम् ॥
राकारस्तेज इत्याहुर्नाभिदेशे व्यवस्थितः ॥ ५७-११ ॥

वायव्योऽयं यकारस्तु वामस्कन्धे समाश्रितः ॥
णाकारः सर्वदा ज्ञेयो दक्षिणांसे व्यवस्थितः ॥ ५७-१२ ॥

यकारोऽयं शिरस्थश्च यत्र लोका व्यवस्थिताः ॥
ॐकारं हृदये न्यस्य विकारं वा शिरस्यथ ॥ ५७-१३ ॥

ष्णकारं वै शिखायां तु वेकारं कवचे न्यसेत् ॥
नकारं नेत्रयोस्तु स्यान्मकारं चास्त्रमीरितम् ॥ ५७-१४ ॥

ललाटे वासुदेवस्तु शुक्लवर्णः समास्थितः ॥
रक्तः सङ्कर्षणश्चैव मुखे वह्न्यकसन्निभः ॥ ५७-१५ ॥

प्रद्युम्नो हृदये पीतोऽनिरुद्धो मेहने स्थितः ॥
सर्वाङ्गे सर्वशक्तिश्च चतुर्व्यूहार्चितो हरिः ॥ ५७-१६ ॥

ममाग्रेऽवस्थितो विष्णुः पृष्ठतश्चापि केशवः ॥
गोविन्दो दक्षिणे पार्श्वे वामे तु मधुसूदनः ॥ ५७-१७ ॥

उपरिष्टात्तु वैङ्कुठो वाराहः पृथिवीतले ॥
अवान्तरदिशो यास्तु तासु सर्वासु माधवः ॥ ५७-१८ ॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ॥
नरसिंहकृता गुप्तिर्वासुदेवमयो ह्यहम् ॥ ५७-१९ ॥

एवं विष्णुमयो भूत्वा ततः कर्म समारभेत् ॥
यथा देहे तथा देवे सर्वतत्वानि योजयेत् ॥ ५७-२० ॥

फकारान्तं समुद्दिष्टं सर्वविघ्नहरं शुभम् ॥
तत्रार्कचन्द्रवह्नीयनां मण्डलानि विचिन्तयेत् ॥ ५७-२१ ॥

पद्ममध्ये न्यसेद्विष्णुं भुवनस्यान्तरस्य तु ॥
ततो विचिन्त्य हृदये प्रणवं ज्योतिरुत्तमम् ॥ ५७-२२ ॥

कर्णिकायां समासीनं ज्योतीरूपं सनातनम् ॥
अष्टाक्षरं ततो मन्त्रं न्यसेच्चैव यथाक्रमम् ॥ ५७-२३ ॥

तेन व्यस्तसमस्तेन पूजनं परमं स्मृतम् ॥
द्वादशाक्षरमन्त्रेण यजेद्देवं सनातनम् ॥ ५७-२४ ॥

ततोऽवधार्य हृदये कर्णिकायां बहिर्न्यसेत् ॥
चतुर्भुजं महासत्वं सूर्यकोटिसमप्रभम् ॥ ५७-२५ ॥

चिन्तयित्वा महायोगं ततश्चावाहयेत्क्रमात् ॥
मीनरूपावहश्चैव नरसिंहश्च वामनः ॥ ५७-२६ ॥

आयान्तु देवा वरदा मम नारायणाग्रतः ॥
सुमेरुः पादपीठं ते पद्मकल्पितमासनम् ॥ ५७-२७ ॥

सर्वतत्वहितार्थाय तिष्ठ त्वं मधुसूदन ॥
पाद्यं ते पादयोर्देव पद्मनाभ सनातन ॥ ५७-२८ ॥

विष्णो कमलपत्राक्ष गृहाण मधुसूदन ॥
मधुपर्कं महादेव ब्रह्माद्यैः कल्पितं मया ॥ ५७-२९ ॥

निवेदितं च भक्त्यार्घं गृहाण पुरुषोत्तम ॥
मन्दाकिन्यास्ततो वारि सर्वपापहरं शिवम् ॥ ५७-३० ॥

गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ॥
त्वमापः पृथिवी चैव ज्योतिस्त्वं वायुरेव च ॥ ५७-३१ ॥

लोकसन्धृतिमात्रेण वारिणा स्नापयाम्यहम् ॥
देवतन्तुसमायुक्ते यज्ञवर्णसमन्विते ॥ ५७-३२ ॥

स्वर्णवर्णप्रभे देव वाससी प्रतिगृह्यताम् ॥
शरीरं च न जानामि चेष्टां च तव केशव ॥ ५७-३३ ॥

मया निवेदितं गन्धं प्रतिगृह्य विलिप्यताम् ॥
ऋग्यजुःसाममन्त्रेण त्रिवृतं पद्मयोनिना ॥ ५७-३४ ॥

सावित्रीग्रन्थिसंयुक्तमुपवीतं तवार्प्यते ॥
दिव्यरत्नसमायुक्ता वह्निभानुसमप्रभाः ॥ ५७-३५ ॥

गात्राणि शोभयिष्यन्ति अलङ्कारास्तु माधव ॥
सूर्याचन्द्रसोमर्ज्योतिर्विद्युदग्न्योस्तथैव च ॥ ५७-३६ ॥

त्वमेव ज्योतिषां देव दीपोऽयं प्रतिगृह्यताम् ॥
वनस्पतिरसो दिव्यो गन्धाढ्यः सुरभिश्च ते ॥ ५७-३७ ॥

मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यताम् ॥
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समान्विताम् ॥ ५७-३८ ॥

मया निवेदितं भक्त्या नैवेद्यं तव केशव ॥
पूर्वे दले वासुदेवं याम्ये सङ्कीर्षणं न्यसेत् ॥ ५७-३९ ॥

प्रद्युम्नं पश्चिमे कुर्यादनिरुद्धं तथोत्तरे ॥
वाराहं च तथाग्रेये नरसिंहं च नैर्ऋते ॥ ५७-४० ॥

वायव्यां माधवं चैव तथैशाने त्रिविक्रमम् ॥
तथाष्टाक्षरदेवस्य गरुडं परितो न्यसेत् ॥ ५७-४१ ॥

वामपार्श्वे तथा चक्रं शङ्खं दक्षिणतो न्यसेत् ॥
तथा महागदां चैव न्यसेद्देवस्य दक्षिणे ॥ ५७-४२ ॥

ततः शार्ङ्गधनुर्विद्वान्न्यसेद्देवस्य वामतः ॥
दक्षिणे चेषुधी दिव्ये खङ्गं वामे च विन्यसत् ॥ ५७-४३ ॥

श्रियं दक्षिणतः स्थाप्य पुष्टिमुत्तरतो न्यसेत् ॥
वनमालां च पुरतस्ततः श्रीवत्सकौस्तुभौ ॥ ५७-४४ ॥

विन्यसेद्धृदयादीनि पूर्वादिषु चतुर्ष्वपि ॥
ततोऽस्त्रं देवदेवस्य कोणे चैव तु विन्यसेत् ॥ ५७-४५ ॥

इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा ॥
वायुं धनदमीशानमनन्तं ब्रह्मणा सह ॥ ५७-४६ ॥

पूजयेत्तान्स्वकैर्मन्त्रैरधश्चोर्ध्वं तथैव च ॥
एवं सम्पूज्य देवेशं मण्डलस्थं जनार्दनम् ॥ ५७-४७ ॥

लभेदभिमतान्कामान्नरो नास्त्यत्र संशयः ॥
अनेनैव विधानेन मण्डलस्थं जनार्दनम् ॥ ५७-४८ ॥

पूजितं यस्तु पश्येत्स प्रविशेद्विष्णुमव्ययम् ॥
सकृदप्यर्चितो येन विधिनानेन केशवः ॥ ५७-४९ ॥

जन्ममृत्युजरास्तीर्त्वा विष्णोः पदमवाप्नुयात् ॥
यः स्मरेत्सततं भक्त्या नारायणमतन्द्रितः ॥ ५७-५० ॥

अन्वहं तस्य वासाय श्वेतद्वीपः प्रकीर्तितः ॥
ॐकारादिसमायुक्तं नमस्कारं तदीयकम् ॥ ५७-५१ ॥

सनाम सर्वतत्त्वानां मन्त्र इत्यभिधीयते ॥
अनेनैव विधानेन गन्धपुष्पं निवेदयेत् ॥ ५७-५२ ॥

एकैकस्य प्रकुर्वीत यथोद्दिष्टं क्रमेण तु ॥
मुद्रास्ततो निबध्नीयाद्यथोक्तिक्रमवेदितम् ॥ ५७-५३ ॥

जपं चैव प्रकुवर्ति मूलमन्त्रेण तत्ववित् ॥
अष्टाविंशतिमष्टौ वा शतमष्टोत्तरं तथा ॥ ५७-५४ ॥

काम्येषु च यथोक्तं स्याद्यथाशक्ति समाहितः ॥
पद्मं शङ्खं च श्रीवत्सं गदां गरुडमेव च ॥ ५७-५५ ॥

चक्रं खङ्गं च शार्ङ्गं च अष्टौ मुद्राः प्रकीर्तिताः ॥
गच्छ गच्छ परं स्थानं पुराणपुरुषोत्तम ॥ ५७-५६ ॥

यन्न ब्रह्मादयो देवा विन्दन्ति परमं पदम् ॥
अर्चनं ये न जानन्ति हरेर्मन्त्रैर्यथोदितम् ॥ ५७-५७ ॥

ते त्वत्र मूलमन्त्रेण पूजयन्त्यच्युतं शुभे ॥ ५७-५८ ॥

इति श्रीबृहन्नारदीयपुराणे उत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥