वसुरुवाच ॥
अन्यच्छणु महाभागे तस्मिञ्छ्रीपुरुषोत्तमे ॥
तीर्थव्रजं महत्पुण्यं दर्शनात्पापनाशनम् ॥ ५६-१ ॥
अनन्ताख्यं वासुदेवं दृष्ट्वा भक्त्या प्रणम्य च ॥
सर्वपापविनिर्मुक्तो नरो याति परं पदम् ॥ ५६-२ ॥
श्वेतगङ्गां नरः स्नात्वा यः पश्येच्छ्वतमाधवम् ॥
मत्स्याख्यं माधवं चैव श्वेतद्वीपं स गच्छति ॥ ५६-३ ॥
तुषारप्रतिमं शुद्धं शङ्खचक्रगदाधरम् ॥
सर्वलक्षणसंयुक्तं पुण्डरीकायतेक्षणम् ॥ ५६-४ ॥
श्रीवत्सवक्षसा युक्तं सुप्रसन्नं चतुर्भुजम् ॥
वनमालावृतोरस्कं मुकुटाङ्गदधारिणम् ॥ ५६-५ ॥
पीतवस्त्रं सुपीनांसं कुण्डलाभ्यामलं कृतम् ॥
कुशाग्रेणापि राजेन्द्र श्वेतगाङ्गेयमेव च ॥ ५६-६ ॥
स्पृष्ट्वा स्वर्गं गमिष्यन्ति विष्णुभक्ताः समाहिताः ॥
यस्त्विमां प्रतिमां पश्येन्माधवाख्यां शशिप्रभाम् ॥ ५६-७ ॥
शङ्खगोक्षीरसङ्काशामशेषाघविनाशिनीम् ॥
तां प्रणम्य सकृद्भक्त्या पुण्डरीकनिभेक्षणाम् ॥ ५६-८ ॥
विहाय सर्वकामान्वै विष्णुलोके महीयते ॥
मन्वन्तराणि तत्रैव देवकन्याभिरावृतः ॥ ५६-९ ॥
गीयमानश्च गन्धर्वैः सिद्धविद्याधरार्चितः ॥
भुनक्ति विपुलान्भोगान्यथेष्टं दैवतैः सह ॥ ५६-१० ॥
च्युतस्तस्मादिहागत्य मानुष्ये ब्राह्मणो भवेत् ॥
वेदवेदाङ्गविद्धीमान् भोगवांश्चिरजीवितः ॥ ५६-११ ॥
गजाश्वरथयानाढ्यो धनधान्यवृतः शुचिः ॥
रूपवान्बहुभाग्यश्च पुत्रपौत्रसमन्वितः ॥ ५६-१२ ॥
पुरुषोत्तमं पुनः प्राप्य वटमूलेऽथ सागरे ॥
त्यक्त्वा देहं हरिं स्मृत्वा ततः शान्तं पदं व्रजेत् ॥ ५६-१३ ॥
श्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ॥
एकार्णवे जले पूर्वं रूपं रोहितमास्थितः ॥ ५६-१४ ॥
वेदानां हरणार्थाय रसातलतले स्थितः ॥
चिन्तयित्वा क्षितिं मत्स्यं तस्मिन्स्थाने व्यवस्थितम् ॥ ५६-१५ ॥
आधाय तरुणं रूपं माधवं मत्स्यमाधवम् ॥
प्रणम्य प्रयतो भूत्वा सर्वान्कष्टान्विमुञ्चति ॥ ५६-१६ ॥
प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ॥
काले पुनरिहायातो राजा स्यात्पृथिवीतले ॥ ५६-१७ ॥
मत्स्यमाधवमासाद्य दुराधर्षो भवेन्नरः ॥
दाता भोक्ता भवेद्योद्धा वैष्णवः सत्यसङ्गरः ॥ ५६-१८ ॥
योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात् ॥
मत्स्यमाधवमाहात्म्यं मया ते परिकीर्तितम् ॥ ५६-१९ ॥
यं दृष्ट्वा ब्रह्मतनये सर्वान्कामानवाप्नुयात् ॥
मार्जनं तत्र वक्ष्यामि मार्कण्डेयह्रदे शुभे ॥ ५६-२० ॥
भक्त्या तु तन्मना भूत्वा पुराणं पुण्यमुक्तिदम् ॥
मार्कण्डेयह्रदे स्नानं सर्वकालं प्रशस्यते ॥ ५६-२१ ॥
चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥
तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते ॥ ५६-२२ ॥
पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥
पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ॥ ५६-२३ ॥
तदा गच्छेद्विशेषण तीर्थराजं परं शुभम् ॥
कायवाङ्मानसैः शुद्धसद्भावोऽनन्यमानसः ॥ ५६-२४ ॥
सर्वद्वन्द्वविनिर्मुक्तो वीतरागो विमत्सरः ॥
कल्पवृक्षं वटं रम्यं यत्र साक्षाज्जनार्दनः ॥ ५६-२५ ॥
प्रदक्षिणं प्रकुर्वीतं त्रीन्वारान्सुसमाहितः ॥
दृष्ट्वा नश्यति यत्पापं सप्तजन्मसमुद्भवम् ॥ ५६-२६ ॥
पुण्यं प्राप्नोति विपुलं गतिमिष्टां च मोहिनि ॥
तस्य नामानि वक्ष्यामि सप्रमाणं युगे युगे ॥ ५६-२७ ॥
वटं वटेश्वरं शान्तं पुराणपुरुषं विदुः ॥
वटस्यैतानि नामानि कीर्तितानि कृतादिषु ॥ ५६-२८ ॥
योजनं पादहीनं च योजनार्द्धतदर्द्धकम् ॥
प्रमाणं कल्पवृक्षस्य कृतादिषु यथाक्रमम् ॥ ५६-२९ ॥
पूर्वोक्तेन तु मन्त्रेण नमस्कृत्त्वा च तं वटम् ॥
दक्षिणाभिमुखो गच्छेद्धन्वन्तरशतत्रयम् ॥ ५६-३० ॥
यत्रासौ दृश्यते चिह्नं स्वर्गद्वारं मनोरमम् ॥
सागरान्तः समाकृष्टं काष्ठं सर्वगुणान्वितम् ॥ ५६-३१ ॥
प्रणिपत्य ततस्तिष्ठेत्परिपूज्य ततः पुनः ॥
मुच्यते सर्वपापौघैस्तथा पापग्रहादिभिः ॥ ५६-३२ ॥
उग्रसेनः पुरा दृष्ट्वा स्वर्गद्वारेण सागरम् ॥
गत्वाऽऽचम्य शुचिस्तत्रध्यात्वा नारायणं परम् ॥ ५६-३३ ॥
न्यसेदष्टाक्षरं मन्त्रं पश्चाद्धस्तशरीरयोः ॥
ॐ नमो नारायणायेति यं वदन्ति मनीषिणः ॥ ५६-३४ ॥
किं कार्यं बहुभिर्मन्त्रैर्मनोविभवकारकैः ॥
नमोनारायणायेति मन्त्रः सर्वार्थसाधकः ॥ ५६-३५ ॥
आपो नरस्य सूनुत्वान्नारा इति ह कीर्तिताः ॥
विष्णोस्तस्त्वालयं पूर्वं तेन नारायणः स्मृतः ॥ ५६-३६ ॥
नारायणपरा वेदा नारायणपरा द्विजाः ॥
नारायणपरं ज्ञानं नारायणपरा क्रिया ॥ ५६-३७ ॥
नारायणपरो धर्मो नारायणपरं तपः ॥
नारायणपरं दानं नारायणपरं व्रतम् ॥ ५६-३८ ॥
नारायणपरा लोका नारायणपराः सुराः ॥
नारायणपरं नित्यं नारायणपरं पदम् ॥ ५६-३९ ॥
नारायणपरा पृथ्वी नारायणपरं जलम् ॥
नारायणपरो वह्निर्नारायणपरं नभः ॥ ५६-४० ॥
नारायणपरो वायुर्नारायणपरं मनः ॥
अहङ्कारश्च बुद्धिश्च उभे नारायणात्मके ॥ ५६-४१ ॥
भूतं भव्यं भविष्यच्च यत्किञ्चिज्जीवसञ्ज्ञितम् ॥
स्थूलं सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥ ५६-४२ ॥
नारायणात्परं किञ्चिन्नेह पश्यामि मोहिनि ॥
तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥ ५६-४३ ॥
आपो ह्यायतनं विष्णोः स चा सावम्भसाम्पतिः ॥
तस्मादप्सु स इत्येवं नारायणमघापहम् ॥ ५६-४४ ॥
स्नानकाले विशेषेण चोपस्थाय जले शुचिः ॥
स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ॥ ५६-४५ ॥
ॐकारं वामकट्यां तु नाकारं दक्षिणे तथा ॥
राकारं नाभिदेशे तु यकारं वामबाहुके ॥ ५६-४६ ॥
णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥
अधश्चोर्द्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः ॥ ५६-४७ ॥
ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः ॥
पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः ॥ ५६-४८ ॥
पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥
पातु विष्णुस्तथाग्नेये नैर्ऋते माधवोऽव्ययः ॥ ५६-४९ ॥
वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥
भूतले पातु वाराहस्तथोर्द्ध्वे च त्रिविक्रमः ॥ ५६-५० ॥
कृत्वैवं कवचं पश्चादात्मानं चिन्तयेत्ततः ॥
अहं नारायणो देवः शङ्खचक्रगदाधरः ॥ ५६-५१ ॥
एवं ध्यात्वा तदात्मानमिमं मन्त्रमुदीरयेत् ॥
“त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः ॥ ५६-५२ ॥
प्रधानः सर्वभूतानां जीवानां प्रभुख्ययः ॥
अमृतस्यारणिस्त्वं हि देवयोनिरपाम्पते ॥ ५६-५३ ॥
वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते” ॥
एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् ॥ ५६-५४ ॥
अन्यथा ब्रह्मतनये स्नानं तत्र न शस्यते ॥
कृत्वा चाब्दैवतैमत्रैरभिषेकं च मार्जनम् ॥ ५६-५५ ॥
अन्तर्जले जपन्पश्चात्त्रिरावृत्याघमर्षणम् ॥
हयमेधो यथा देवि सर्वपापहरः क्रतुः ॥ ५६-५६ ॥
तथाघमर्षणं चात्र सूक्तं सर्वाघपर्षणम् ॥
उत्तीर्य वाससी धौते निर्मले परिधाय च ॥ ५६-५७ ॥
प्राणानायम्य चाचम्य सन्ध्यां चोपास्य भास्करम् ॥
उपातिष्ठेत्ततश्चोर्द्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ॥ ५६-५८ ॥
उपस्थायोर्द्धबाहुश्च तल्लिङ्गैभांस्करं ततः ॥
गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् ॥ ५६-५९ ॥
अन्यांश्च सोरमन्त्रान्हि जप्त्वा तिष्ठन्समाहितः ॥
कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ॥ ५६-६० ॥
स्वाध्यायं प्राङ्मुखः कृत्वा तर्पयेद्देवमानवान् ॥
ऋषीन्पितॄन्हि स्वीयांश्च विधिवन्नामगोत्रवित् ॥ ५६-६१ ॥
तोयेन तिलमिश्रेण विधिवत्सुसमाहितः ॥
श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ॥ ५६-६२ ॥
तर्पणे तूभयं कुर्यादेष एव विधिः सदा ॥
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ॥ ५६-६३ ॥
तृप्यतामिति सुव्यक्तं नामगोत्रेण वाग्यतः ॥
कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् ॥ ५६-६४ ॥
तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥
जले स्थित्वा स्थले दत्तं स्थले स्थित्वा जलेऽर्पितम् ॥ ५६-६५ ॥
नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रतदीयते ॥
पितॄणामक्षयं स्थानं मही दत्ता विरञ्चिना ॥ ५६-६६ ॥
तस्मात्तत्रैव दातव्यं पितॄणां प्रीतिमिच्छता ॥
भूमिस्तेन समुत्पन्ना भूम्यां चैव तु संस्थितम् ॥ ५६-६७ ॥
भूम्यां चैव लयं यान्ति भूमौ दद्यात्ततो जलम् ॥
आस्तीर्य च कुशान्साग्रानावाह्य स्वस्वमन्त्रतः ॥
प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ॥ ५६-६८ ॥
इति श्रीबगृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥