०५५

मोहिन्युवाच ॥
कस्मिन्कालें द्विजश्रेष्ठ गन्तव्यं पुरुषोत्तमे ॥
विधिना केन कर्तव्या पञ्चतीर्थ्यपि मानद ॥ ५५-१ ॥

एकैकस्य च तीर्थस्य स्नाने दाने च यत्फलम् ॥
देवताप्रेक्षणे चैव ब्रूहि सर्वं पृथक् पृथक् ॥ ५५-२ ॥

वसुरुवाच ॥
निराहारः कुरुक्षेत्रे पादेनैकेन यस्तपेत् ॥
जितेन्द्रियो जितक्रोधः सप्तसंवत्सरायुतम् ॥ ५५-३ ॥

दृष्ट्वा सकृज्ज्येष्ठशुक्लद्वादश्यां पुरुषोत्तमम् ॥
कृतोपवासः प्राप्नोति ततोऽधिकतरं फलम् ॥ ५५-४ ॥

तस्माज्ज्येष्ठे तु सुभगे प्रयत्नेन सुसंयतैः ॥
स्वर्गलोकेप्सुभिर्मर्त्यैर्द्रष्टव्यः पुरुषोत्तमः ॥ ५५-५ ॥

पञ्चतीर्थीं च विधिवत्कृत्वा ज्येष्ठे नरोत्तमः ॥
द्वादश्यां शुक्लपक्षस्य पश्येत्तं पुरुषोत्तमम् ॥ ५५-६ ॥

ये पश्यन्त्यव्ययं देवं द्वादश्यां पुरुषोत्तमम् ॥
ते विष्णुलोकमासाद्य न च्यवन्ते कदाचन ॥ ५५-७ ॥

तस्माज्ज्येष्ठे प्रयत्नेन गन्तव्यं विधिनन्दिनि ॥
कृत्वा सम्यक्पञ्चतीर्थीं द्रष्टव्यः पुरुषोत्तमः ॥ ५५-८ ॥

सुदूरस्थोऽपि प्रीतात्मा कीर्तयेत्पुरुषोत्तमम् ॥
अहन्यहनि शुद्धात्मा सोऽपि विष्णुपुरं व्रजेत् ॥ ५५-९ ॥

यात्रां करोति कृष्णस्य श्रद्धया यः समाहितः ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं व्रजेन्नरः ॥ ५५-१० ॥

चक्रं दृष्ट्वा हरेर्दूरात्प्रासादोपरि संस्थितम् ॥
सहसा मुच्यते पापान्नरो भक्त्या प्रणम्य तम् ॥ ५५-११ ॥

पञ्चतीर्थीविधिं वक्ष्ये श्रृणु मोहिनि साम्प्रतम् ॥
यस्यां कृतायां मनुजो माधवस्य प्रियो भवेत् ॥ ५५-१२ ॥

मार्गण्डेयह्रदं गत्वा स्नात्वा चोदङ्मुखः शुचिः ॥
निमज्जेत्तत्र त्रीन्वारानिमं मन्त्रमुदीरयेत् ॥ ५५-१३ ॥

“संसारसागरे मग्नि पापग्रस्तमचेतनम् ॥
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥ ५५-१४ ॥

नमः शिवाय शान्ताय सर्वपापहराय च ॥
स्नानं करोमि देवेश मम नश्यतु पातकम्” ॥ ५५-१५ ॥

नाभिमात्रे जले स्थित्वा विधिवद्देवता ऋषीन् ॥
तिलोदकेन मतिमान्पितॄनन्यांश्च तर्पयेत् ॥ ५५-१६ ॥

स्नात्वैवं च तथाचम्य ततो गच्छेच्छिवालयम् ॥
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ५५-१७ ॥

मूलमन्त्रेण सम्पूज्य मार्कण्डेयेशमादरात् ॥
अघोरेण तु मन्त्रेण प्रणिपत्य क्षमापयेत् ॥ ५५-१८ ॥

“त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण ॥
त्राहि मां पुण्डरीकाक्ष महादेव नमोऽस्तुते” ॥ ५५-१९ ॥

मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शङ्करम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥ ५५-२० ॥

पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति ॥
तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ५५-२१ ॥

इह लोकं समासाद्य भवेद्विप्रो बहुश्रुतः ॥
शाङ्करंयोगमासाद्य ततो मोक्षमवाप्नुयात् ॥ ५५-२२ ॥

कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् ॥
पूजयेत्परया भक्त्या मन्त्रेणानेन तं वटम् ॥ ५५-२३ ॥

“ॐ नमोऽव्यक्तरूपाय महते नतपालिने ॥
महोदकोपविष्टाय न्यग्रोधाय नमोऽस्तु ते ॥ ५५-२४ ॥

अवसस्त्वं सदा कल्पे हरेश्चायतने वटे ॥
न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते” ॥ ५५-२५ ॥

भक्त्या प्रदक्षिणं कृत्वा गत्वा कल्पवटं नरः ॥
सहसोज्झति पापौघं जीर्णां त्वचमिवोरगः ॥ ५५-२६ ॥

छायां तस्य समाक्रम्य कल्पवृक्षस्य मोहिनि ॥
ब्रह्मह्त्यां नरो जह्यात्पापेष्वन्येषु का कथा ॥ ५५-२७ ॥

दृष्ट्वा कृष्णाङ्गसम्भूते ब्रह्मतेजोमयं परम् ॥
न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च वैधसि ॥ ५५-२८ ॥

राजसूयाश्वमेधाभ्यां फल प्राप्नोति चाधिकम् ॥
तथा कुलं समुद्धृत्य विष्णुलोकं स गच्छति ॥ ५५-२९ ॥

वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् ॥
सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥ ५५-३० ॥

दृष्ट्वा वटं वैनतेयं यः पश्येत्पुरुषोत्तमम् ॥
सङ्कर्षणं सुभद्रां च स याति परमां गतिम् ॥ ५५-३१ ॥

प्रविश्यायतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् ॥
सङ्कर्षणं सुभद्रां च भक्त्या पूज्य प्रसादयेत् ॥ ५५-३२ ॥

नमस्ते हलधृङ्नाम्ने नमस्ते मुसलायुध ॥
नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥ ५५-३३ ॥

नमस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ॥
प्रलम्बारे नमस्तेऽस्तु त्रीहि मां कृष्णपूर्वज ॥ ५५-३४ ॥

एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् ॥
कैलासशिखराकारं चन्द्रकान्तवराननम् ॥ ५५-३५ ॥

नीलवस्त्रधरं देवं फणाविकटमस्तकम् ॥
महाबलं हलधरं कुण्डलैकविभूषितम् ॥ ५५-३६ ॥

रौहिणेयं नरो भक्त्या लभेदभिमतं फलम् ॥
सर्वपापैर्विनिर्मुक्तो विष्णुलोकं च गच्छति ॥ ५५-३७ ॥

आभूतसम्प्लवं यावद्भुक्त्वा तत्र स्वयं बुधः ॥
पुण्यक्षयादिहागत्य प्रवरो योगिनां कुले ॥ ५५-३८ ॥

ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ॥
ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥ ५५-३९ ॥

एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः ॥
द्वादशाक्षरमन्त्रेण पूजयेत्सुसमाहितः ॥ ५५-४० ॥

द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् ॥
पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥ ५५-४१ ॥

न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः ॥
यां गतिं यान्ति विधिजे द्वादशाक्षरतत्पराः ॥ ५५-४२ ॥

तस्मात्तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् ॥
सम्पूज्य गन्धपुष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥ ५५-४३ ॥

जय कृष्ण जगन्नाथ जय सर्वाघनाशन ॥
जय चाणूरकेशिघ्नजय कंसनिषूदन ॥ ५५-४४ ॥

जय पद्मपलाशाक्ष जय चक्रगदाधर ॥
जय नीलाम्बुदश्याम जय सर्वसुखप्रद ॥ ५५-४५ ॥

जय देव जगत्पूज्य जय संसारनाशन ॥
जय लोकपते नाथ जय वाञ्छाफलप्रद ॥ ५५-४६ ॥

संसारसागरे घोरे निःसारे दुःखफेनिले ॥
क्रोधग्राहाकुले रौद्रे विषयोदकसम्प्लवे ॥ ५५-४७ ॥

नानारोगोर्मिकलिले मोहावर्तसुदुस्तरे ॥
निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥ ५५-४८ ॥

एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् ॥
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥ ५५-४९ ॥

पीनांसं द्विभुजं कृष्णं पद्मपत्रायतेक्षणम् ॥
महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥ ५५-५० ॥

शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् ॥
सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥ ५५-५१ ॥

दृष्ट्वा नरोंऽजलिं कृत्वा दण्डवत्प्रणिपत्‌य च ॥
अश्वमेधसहस्राणां फलं प्राप्नोति मोहिनि ॥ ५५-५२ ॥

यत्फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५५-५३ ॥

यत्फलं सर्ववेदेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥ ५५-५४ ॥

यत्फलं सर्वदानेषु व्रतेषु नियमेषु च ॥
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५५-५५ ॥

यत्फलं ब्रह्मचर्येण सम्यक् चीर्णेन कीर्तितम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥ ५५-५६ ॥

गार्हस्थ्येन यथोक्तेन यत्फलं समुदाहृतम् ॥
नरस्त्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितम् ॥ ५५-५७ ॥

यत्फलं वनवासेन वानप्रस्थस्य कीर्तितम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितम् ॥ ५५-५७ ॥

सन्यासेन यथोक्तेन यत्फलं समुदाहृतम् ॥
नरस्तत्फलमाप्नोति दृष्ट्वा चीर्णेन कीर्तितम् ॥ ५५-५९ ॥

किं चात्र बहुनोक्तेन माहात्म्यं तस्य भामिनि ॥
दृष्ट्वा कृष्णं नरोभक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥ ५५-६० ॥

पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः ॥
श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥ ५५-६१ ॥

सर्वकामसमृद्धेन विमानेन सुवर्चसा ॥
त्रिःसप्तकुलमृद्धृत्य नरो विष्णुपुरं व्रजेत् ॥ ५५-६२ ॥

ततः कल्पशतं यावद्बुक्त्वा भोगान्मनोरमान् ॥
गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥ ५५-६३ ॥

च्युतस्तस्मादिहायातो विप्राणां प्रवरे कुले ॥
सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥ ५५-६४ ॥

स्वधर्मनिरतः शान्तो दाता भूतहिते रतः ॥
आसाद्य वैष्णवं ज्ञानं ततो मुक्तिमवाप्नुयात् ॥ ५५-६५ ॥

ततः सम्पूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् ॥
प्रसादयेच्च विधिजेप्रणिपत्य कृताञ्जलिः ॥ ५५-६६ ॥

“नमस्ते सर्वगे देवि नमस्ते शुभसौख्यदे ॥
त्राहि मां पद्मपत्राक्षि कात्यायनि नमोऽस्तु ते” ॥ ५५-६७ ॥

एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् ॥
बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥ ५५-६८ ॥

कामगेन विमानेन नरो विष्णुपुरं व्रजेत् ॥
आभूतसम्प्लवं यावत्क्रीडित्वा तत्र देववत् ॥ ५५-६९ ॥

इह मानुषतां प्राप्तो ब्राह्मणो वेदविद्भवेत् ॥
प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥ ५५-७० ॥

निष्क्रम्य देवतागारात्कृतकृत्यो भवेन्नरः ॥
प्रणम्यायतने पश्चाद्व्रजेत्तत्र समाहितः ॥ ५५-७१ ॥

इन्द्रनीलमयो विष्णुर्यत्रास्ते वालुकावृतः ॥
अन्तर्धानेऽपि तं नत्वा ततो विष्णुपुरं व्रजेत् ॥ ५५-७२ ॥

सर्वदेवमयो देवो हिरण्यकशिपूद्धरः ॥
यत्रास्ते नित्यदा देवि सिंहार्द्धकृतविग्रहः ॥ ५५-७३ ॥

भक्त्या दृष्ट्वा तु तं देवं प्रणम्य नृहरिं शुभे ॥
मुच्यते पातकैर्मर्त्यः समस्तैर्नात्र संशयः ॥ ५५-७४ ॥

नरसिंहस्य ये भक्त्या भवन्ति भुवि मानवाः ॥
न तेषां दुष्कृतं किञ्चित्फलं च स्याद्यदीप्सितम् ॥ ५५-७५ ॥

तस्मात्सर्वप्रयत्नेन नरसिंहं समाश्रयेत् ॥
धर्मार्थकाममोक्षाणां फलं यस्मात्प्रयच्छति ॥ ५५-७६ ॥

तस्मात्तं ब्रह्मतनये भक्त्या सम्पूजयेत्सदा ॥
मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥ ५५-७७ ॥

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजादयः ॥
सम्पूज्य तु सुरश्रेष्ठं भक्ताः सिंहवपुर्द्धरम् ॥ ५५-७८ ॥

मुच्यन्ते चाशुभाहुःखाज्जन्मकोटिसमुद्भवात् ॥
सम्पूज्य तं सुरश्रेष्ठं प्राप्नुवन्त्यभिवाञ्छितम् ॥ ५५-७९ ॥

देवत्वममरेशत्वं धनेशत्वं च भामिनि ॥
यक्षविद्याधरत्वं च तथान्यच्च प्रयच्छति ॥ ५५-८० ॥

श्रृणुष्व नरसिंहस्य प्रभावं विधिनन्दिनि ॥
अजितस्याप्रमेयस्य भुक्तिमुक्तिप्रदस्य च ॥ ५५-८१ ॥

कः शक्नोति गुणान्वक्तुं समस्तांस्तस्य सुव्रते ॥
सिंहार्द्धकृतदेहस्य प्रवक्ष्यामि समासतः ॥ ५५-८२ ॥

याः काश्चित्सिद्धयश्चात्र श्रूयन्ते दैवमानुषाः ॥
प्रसादात्तस्य ताः सर्वाः सिद्ध्यन्ते नात्र संशयः ॥ ५५-८३ ॥

स्वर्गे मर्त्ये च पाताले दिवितोये सुरे नगे ॥
प्रसादात्तस्य देवस्य भवत्यव्याहता गतिः ॥ ५५-८४ ॥

असाध्यं तस्य देवस्य नास्त्यत्र सचराचरे ॥
नरसिंहस्य सुभगे सदा भक्तानुकम्पिन ॥ ५५-८५ ॥

विधानं तस्य वक्ष्यामि भक्तानामुपकारकम् ॥
येन प्रसीदते चासौ सिंहार्द्धकृतविग्रहः ॥ ५५-८६ ॥

यत्तत्वं तस्य देवस्य तदज्ञातं सुरासुरैः ॥
शाकयावकमूलैस्तु फलपिण्याकसक्तुभिः ॥ ५५-८७ ॥

पयोभक्ष्येण वा भद्रे वर्तते साधकेश्वरः ॥
कासकौपीनवासाश्च ध्यानयुक्तो जितेन्द्रियः ॥ ५५-८८ ॥

अरण्ये विजने देशे नदीसङ्गमपर्वते ॥
सिद्धक्षेत्रे चोषरे च नरसिंहाश्रमे तथा ॥ ५५-८९ ॥

प्रतिष्ठाप्य स्वयं चापि पूजाङ्कृत्वा विधानतः ॥
उपपातकवान्देवि महापातकवानपि ॥ ५५-९० ॥

मुक्तो भवेत्पातकेभ्यः साधको नात्र संशयः ॥
कृत्वा प्रदक्षिणं तत्र नरसिंहं प्रपूजयेत् ॥ ५५-९१ ॥

गन्धपुष्पादिभिर्धूपैः प्रणम्य शिरसा प्रभुम् ॥
कर्पूरचन्दनाक्तानि जातीपुष्पाणि मस्तके ॥ ५५-९२ ॥

प्रदद्यान्नरसिंहस्य ततः सिद्धिः प्रजायते ॥
भगवान्सर्वकार्येषु न क्वचित्प्रतिदूयते ॥ ५५-९३ ॥

न शक्तास्तं समाक्रान्तुं ब्रह्मरुद्रादयः सुराः ॥
किं पुनर्दानवा लोके सिद्धगन्धर्वमानुषाः ॥ ५५-९४ ॥

विद्याधरां यक्षगणाः सकिन्नरमहोरगाः ॥
ते सर्वे प्रलयं यान्ति दिव्या दिव्याग्नितेजसा ॥ ५५-९५ ॥

सकृज्जप्त्वाग्निशिखया हन्यात्सर्वानुपद्रवान् ॥
त्रिर्जप्त्वा कवचं दिव्यं संरक्षेद्दैत्यदानवात् ॥ ५५-९६ ॥

भूतात्पिशाचाद्रक्षोभ्यो ये चान्ये परिपन्थिनः ॥
त्रिर्जप्तं कवचं दिव्यमभेद्यं च सुरासुरैः ॥ ५५-९७ ॥

योजनद्वादशान्तस्तु देवो रक्षति सर्वदा ॥
नरसिंहो महाभागे महाबलपराक्रमः ॥ ५५-९८ ॥

ततो गत्वा बिलद्वारमुपोष्य रजनत्रयम् ॥
पलाशकाष्ठैः प्रज्वाल्य भगवज्जातवेदसम् ॥ ५५-९९ ॥

पालाशसमिधं तत्र जुहुयात्त्रिमधुप्लुताम् ॥
द्वेऽयुते कञ्जनयने शकटश्चैव साधकः ॥ ५५-१०० ॥

ततः कवल्लीविवरं प्रकटं जायते क्षणात् ॥
ततो विशेत्तु निःशङ्कः कवल्लीविवरं बुधः ॥ ५५-१०१ ॥

गच्छतः शकटस्याथ तमो मोहश्च नश्यति ॥
राजमार्गस्तु विस्तीर्णो दृश्यते तत्र मोहिनि ॥ ५५-१०२ ॥

नरसिंहं स्मरंस्तत्र पातालं विशते तदा ॥
गत्वा तत्र जपेच्छुद्धो नरसिंहं तमव्ययम् ॥ ५५-१०३ ॥

ततः स्त्रीणां सहस्राणि वीणाचामरकर्मणाम् ॥
निर्गच्छँति पुराच्चैव स्वागतं ता वदन्ति च ॥ ५५-१०४ ॥

प्रवेशयन्ति तं हस्ते गृहीत्वा साधकेश्वरम् ॥
ततो रसायनं दिव्यं पाययन्ति सुलोचने ॥ ५५-१०५ ॥

पीतमात्रे दिव्यदेहो जायते सुमहाबलः ॥
क्रीडते दिव्यकन्याभिर्यावदाभूतसम्प्लवम् ॥ ५५-१०६ ॥

भिन्नदेहो वासुदेवं नीयते नात्र संशयः ॥
यदा न रोचयन्त्येतास्ततो निर्गच्छते पुनः ॥ ५५-१०७ ॥

पट्टं शूलं च खङ्गं च रोचनां च मणिं तथा ॥
रसं रसायनं चैव पादुकाञ्जनमेव च ॥ ५५-१०८ ॥

कृष्णाञ्जलिं च सुभगे गुटिकां च मनःशिलाम् ॥
मुण्डलां चाक्षसूत्रं च षष्ठीं सञ्जीवनीं तथा ॥ ५५-१०९ ॥

सिद्धां विद्यां च शास्त्राणि गृहीत्वा साधकोत्तमः ॥
ज्वलद्वह्निस्फुलिङ्गोर्मिवेष्टितं त्रिदशं हृदि ॥ ५५-११० ॥

सकृन्न्यस्तं दहेत्सर्वं वृजिनं जन्मकोटिकम् ॥
विषेन्यस्तं विषं हन्यात्कुष्ठं हन्यात्तनौ स्थितम् ॥ ५५-१११ ॥

सुदेहभ्रूणहत्यादि कृत्वा दिव्येन शुध्यति ॥
महाग्रहगृहीतेषु ज्वलमानं विचिन्तयेत् ॥ ५५-११२ ॥

रुदन्तिं वै ततः शीघ्रं नश्येयुर्दारुणा ग्रहाः ॥
बालानां कण्ठके बद्ध्वा रक्षा भवति नित्यशः ॥ ५५-११३ ॥

गण्डपिण्डककृत्यानां नाशनं कुरुते ध्रुवम् ॥
व्याधिघाते समिद्भिश्च घृतं क्षीरेण होभयेत् ॥ ५५-११४ ॥

त्रिसन्ध्यं मासमेकं तु सर्वरोगान्विनाशयेत् ॥
असाध्यं नास्य पश्यामि तत्वस्य सचराचरे ॥ ५५-११५ ॥

यां यां कामयते सिद्धिं तां तां प्राप्नोत्यपि ध्रुवम् ॥
अष्टोत्तरशतं त्वेकं पूजयित्वा मृगाधिपम् ॥ ५५-११६ ॥

मृत्तिकां सप्त वल्मीके श्मशाने च चतुष्पथे ॥
रक्तचन्दनसम्मिश्रां गवां क्षीरेण लेपयेत् ॥ ५५-११७ ॥

सिंहस्य प्रतिमां कृत्वा प्रमाणेन षडङ्गुलाम् ॥
भूर्जपत्रे विशेषेण लिखेद्रोचनया तथा ॥ ५५-११८ ॥

नरसिंहस्य कण्ठे तु बद्ध्वा चैव समन्त्रवत् ॥
जपेत्सङ्ख्याविहीनं तु पूजयित्वा जलाशये ॥ ५५-११९ ॥

यावन्मन्त्रं तु जपति सप्ताहं संयतेन्द्रियः ॥
जलाकीर्णा मुहूर्तेन जायते सर्वमेदिनी ॥ ५५-१२० ॥

अथवा शुद्धवृक्षाग्रे नरसिंहं तु पूजयेत् ॥
जप्त्वा चाष्टशतं तत्त्वं वर्षं तद्विनिवारयेत् ॥ ५५-१२१ ॥

तमेव पिञ्जके बद्ध्वा भ्रामयेत्साधकोत्तमः ॥
महावातो मुहूर्तेन आगच्छेन्नात्र संशयः ॥ ५५-१२२ ॥

पुनश्च वारयन्सिक्तां सप्तजप्तेन वारिणा ॥
अथ तां प्रतिमां द्वारे निखनेद्यस्य साधकः ॥ ५५-१२३ ॥

गोत्रोत्सादो भवेत्तस्य उद्धृते चैव शान्तिदः ॥
तस्माद्वै ब्रह्मतनये पूजयेद्भक्तितः सदा ॥ ५५-१२४ ॥

मृगराजं महावीर्यं सर्वकामफलप्रदम् ॥
दृष्ट्वा स्तुत्वा नमस्कृत्य सम्पूज्य नृहरिं शुभे ॥ ५५-१२५ ॥

प्राप्नुवन्ति नरा राज्यं स्वर्गं मोक्षं च दुर्लभम् ॥
नरसिंहं नरो दृष्ट्वा लभेदभिमतं फलम् ॥ ५५-१२६ ॥

विमुक्तः सर्वपापेभ्यो विष्णु लोकं च गच्छति ॥
सकृद्दृष्‌टवा तु तं देवं भक्त्या सिंहवपुर्द्धरम् ॥ ५५-१२७ ॥

मुच्यते पातकैः सर्वैः कायवाक्चित्तसम्भवैः ॥
सङ्ग्रामे सङ्कटे दुर्गे चौख्याघ्रादिपीडिते ॥ ५५-१२८ ॥

कान्तारे प्राणसन्देहे विषवह्निजलेषु च ॥
राजादिभीषु सङ्ग्रामे ग्रहरोगादिपीडिते ॥ ५५-१२९ ॥

स्मृत्वा तं यो हि पुरुषः सङ्कटैर्विप्रमुच्यते ॥
सूर्योदये यथा नाशं तमोऽभ्येति महत्तरम् ॥ ५५-१३० ॥

तथा सन्दर्शने तस्य विनाशं यान्त्युपद्रवाः ॥
गुटिकां जनपाताले पादलेपरसायनम् ॥ ५५-१३१ ॥

नरसिंहे प्रसन्ने तु प्राप्नोत्यन्यांश्च वाञ्छितान् ॥
यान्यान्कामानभिध्यायन्भजेत नृहरिं नरः ॥ ५५-१३२ ॥

तांस्तान्कामानवाप्नोति नरो नास्त्यत्र संशयः ॥ ५५-१३३ ॥

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे पुरुषोत्तममाहात्म्ये पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥